#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00338 Uniform title: yogavāsiṣṭha part 4 with commentary tātparyaprakāśa Main title: yogavāsiṣṭha part 4 with commentary tātparyaprakāśa Author : valmiki Commentator : ānandabodhendra sarasvatī Editor : Vasudeva Laxmana Sharma Pansikar Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Dec. 15, 2015 Publisher : Publication year : 1918 Publication city : Delhi Publication country : India #################################################### योगवासिष्ठ ओf वाल्मीकि श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशाख्यव्याख्यासहितः Wइथ् थे चोम्मेन्तर्य वासिष्ठमहारामायणतात्पर्यप्रकाश पणशीकरोपह्वलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा सम्पादितः Eदितेद् ब्य Vअसुदेव ḻअxमन ष्हर्म Pअन्सिकर् १९१८ स्थितिप्रकरणं चतुर्थम् | प्रथमः सर्गः १ अथोत्पत्तिप्रकरणादनन्तरमिदं शृणु | स्थितिप्रकरणं राम ज्ञातं निर्वाणकारि यत् || १ || सदभयनिजपूर्णानन्दसंवित्प्रतिष्ठं यदिह निजमहिम्ना विश्वरूपाणि बिभ्रत् | विहरति च विमोहात्तेषु नानात्मबुद्ध्या श्रुतिविदितसतत्त्वं तत्परं ब्रह्म वन्दे || १ || प्रसिद्धचित्रवैधर्म्यं जगच्चित्रस्य वर्ण्यते | सांख्यादिमतमुन्मृज्य साध्यते ब्रह्ममात्रता || १ || उत्पत्तिप्रकरणे यतो वा इमानि भूतानि जायन्ते इत्यादीनां सर्वेषां सृष्टिप्रतिपादकवाक्यानामद्वये ब्रह्मणि जगदध्यारोपप्रदर्शनद्वारा तटस्थलक्षणतया तात्पर्यविश्रान्तिप्रदर्शनमुखेन जगज्जीवादिभेदं निरस्य प्रत्यग्ब्रह्मैकरस्यं व्युत्पादितम् | इदानीं येन जातानि जीवन्ति येन द्यौः पृथिवी दृढा एतस्यैवाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः को ह्येवान्यात्कः भीषास्माद्वातः पवते एको दाधार भुवनानि विश्वा य एको जालवानीशत ईशनीभिः परमशक्तिभिः अनुज्ञाता ह्ययमात्मास्य सर्वस्य स्वात्मानं दधाति इत्यादि सांप्रतिकजगत्स्थितिनिर्वाहकताप्रतिपादकश्रुतीनाम् सदेव सोम्येदमग्न आसीत् आत्मा वा इदमेक एवाग्र आसीत् इत्यादिप्रलयकालिकजगत्सत्तानिर्वाहकत्वप्रतिपादकश्रुतीनां च पुरुषमतिवैचित्र्यप्रभवनानातात्पर्योत्प्रेक्षणयुक्तभ्रान्तिवैचित्र्यनिरासेन सच्चिदानन्दैकरसे ब्रह्मणि सच्चिद्रूपतोपपादनेन तटस्थलक्षणतात्पर्यपर्यवसानप्रदर्शनमुखेनापि विस्तरोपपादितं ब्रह्मैक्यज्ञानं स्थिरीकर्तुं स्थितिप्रकरणमारभमाणो भगवान्वसिष्ठः संगतिं प्रदर्श्यन्प्रतिजानीते - अथेति | उत्पत्तेः स्थितिहेतुत्वाद्धेतुतासंगतिरिति भावः | एवमेककार्यत्वसंगतिरप्यस्तीत्याशयेनाह - ज्ञातमिति | आनन्तर्याधिकारपरोऽप्यथशब्दः शङ्खवीणामृदङ्गध्वनिवत्स्वरूपतो मङ्गलमेवेति प्रकरणादौ मङ्गलमप्याचरितं बोध्यम् || १ || एवं तावदिदं विद्धि दृश्यं जगदिति स्थितम् | अहं चेत्याद्यनाकारं भ्रान्तिमात्रमसन्मयम् || २ || जगदुत्पत्तौ मिथ्यात्वप्रदर्शनाय व्युत्पादिता न्यायाः स्थितावपि तुल्या इत्यतिदेशेन दर्शयति - एवं तावदित्यादिना || २ || अकर्तृकमरङ्गं च गगने चित्रमुत्थितम् | अद्रष्टृकं चानुभवमनिद्रं स्वप्नदर्शनम् || ३ || अकर्तृकं हेतुकरणोपकरणसंपन्नलेखकशून्यम् | अरङ्गमुपादानरञ्जकद्रव्यशून्यम् | गगने इत्यनेनाधारभित्त्यादिशून्यतापि चित्रस्य दर्शिता | द्रष्टुरपि दृश्यान्तःपातादद्रष्टृकम् | मोहनिद्रया प्रमातुरभिभवेऽपि साक्षिणोऽनभिभवादनिद्रम् || ३ || भविष्यत्पुरनिर्माणं चित्तसंस्थमिवोदितम् | मर्कटानलतापान्तमसदेवार्थसाधकम् || ४ || मर्कटैः कल्पितोऽनलो गुञ्जागैरिकादिसंचयरूपस्तत्तापोऽन्तो दृष्टान्तो यस्य | तेनापि तेषां शीतनिवृत्तिरैतिह्यप्रसिद्धेत्याशयेनोक्तमसदेवार्थसाधकमिति || ४ || ब्रह्मण्यनन्यदन्याभमम्ब्वावर्तवदास्थितम् | सद्रूपमपि [तद्रूपम् इति पाठः] निःशून्यं तेजः सौरमिवाम्बरे || ५ || सौरं तेज आलोको नत्वातपः || ५ || रत्नाभापुञ्जमिव खे दृश्यमानमभित्तिमत् | गन्धर्वाणां पुरमिव दृश्यं [दृश्यमानं इति पाठः] नित्यमभित्तिमत् || ६ || अभित्तिमदनाधारम् || ६ || मृगतृष्णाम्ब्विवासत्यं सत्यवत्प्रत्ययप्रदम् | संकल्पपुरवत्प्रौढमनुभूतमसन्मयम् || ७ || प्रौढं विस्तृतम् | स्फुटमनुभूतमिति वा || ७ || कथार्थप्रतिभानात्म न क्वचित्स्थितमस्थितम् | निःसारमप्यतीवान्तःसारं स्वप्नाचलोपमम् || ८ || कविकल्पितकथार्थनगरपर्वतादिसंस्थानप्रतिभानमिवात्मा स्वरूपं यस्य | क्वचिदपि देशे काले वा न स्थितमिति हेतोरस्थितमसत् | अन्तःसारमतिदृढम् || ८ || भूताकाशमिवाकरभासुरं शून्यमात्रकम् | शरदभ्रमिवाग्रस्थमलमक्षयमक्षतम् || ९ || अवाङ्मुखीकृतेन्द्रनीलमहाकटाहाकारभासुरम् | यावदग्रस्थं तावदलमातपनिरोधादिसमर्थम् | क्षेतुमशक्यमक्षतमविच्छिन्नं च || ९ || वर्णो व्योममलस्येव दृश्यमानमवस्तुकम् | स्वप्नाङ्गनारताकारमर्थनिष्ठमनर्थकम् || १० || व्योममलस्य कालिम्नो वर्णः स्निग्धता | राहोः शिर इतिवद्वा | व्योमतलस्य इति पाठे स्पष्टम् | अर्थनिष्ठं भोगलक्षणार्थक्रियाकारि || १० || चित्रोद्यानमिवोत्फुल्लमरसं सरसाकृति | प्रकाशमपि निस्तेजश्चित्रार्कानलवत्स्थितम् || ११ || अरसं शुष्कं निर्मकरन्दं च || ११ || अनुभूतं मनोराज्यमिवासत्यमवास्तवम् | चित्रपद्माकर इव सारसौगन्ध्यवर्जितम् || १२ || असत्यं स्वतः | अवास्तवं फलतोऽपि | सारो मकरन्दपरागादिः || १२ || शून्ये प्रकचितं नानावर्णमाकारितात्मकम् | अपिण्डग्रहमाशुन्यमिन्द्रचापमिवोत्थितम् || १३ || पिण्डग्रहो मूर्तता तच्छून्यम् || १३ || परामर्शेन शुष्यद्भिर्भूतपेलवपल्लवैः | कृतं जडमसारात्म कदलीस्तम्भभासुरम् || १४ || परस्य परमात्मन आमर्शेनेषद्विचारेणापि | परस्यान्यस्य वायवातपजनादेरामर्शेनेषदभिघातेनापि च | कदलीस्तम्भः कदलीतरुः || १४ || स्फुरितेक्षणदृष्टान्धकारचक्रकवर्तनम् | अत्यन्तमभवद्रूपमपि प्रत्यक्षवत्स्थितम् || १५ || स्फुरितेक्षणेनाक्षिरोगविशेषेण | अभवद्रूपमसंभवद्रूपम् || १५ || वार्बुद्बुदमिवाभोगि शून्यमन्तःस्फुरद्वपुः | रसात्मकं चाप्यरसमविच्छिन्नक्षयोदयम् || १६ || आभोगि कल्पिताकारम् | रस आपातरमणीयता तदात्मकमप्यरसं परिणामकटुकम् | तदेव प्रपञ्चयति - अविच्छिन्नेति | क्षयोदया जन्ममरणानि || १६ || नीहार इव विस्तारि गृहीतं सन्न किंचन | जडशून्यास्पदं शून्यं केषांचित्परमाणुवत् || १७ || सांख्यानां केवलजडात्मकम् | जडशून्यमविद्या तदास्पदं वेदान्तिनाम् | शून्यं माध्यमिकानाम् | क्षणिकत्वात्कालतः परमाणुवद्योगाचार्याणाम् | कालतो देशतश्च परमाणुवत्सौत्रान्तिकवैभाषिकयोः | देशत एव परमाणुवत्कणादगौतमीययोः | अनियतस्वभावपरमाणुवदार्हतानामिति वादिभिर्बहुधा विकल्पितमित्यर्थः || १७ || किंचिद्भूतमयोऽस्मीति स्थितं शून्यमभूतकम् | गृह्यमाणोऽप्यसद्रूपो निशाचर इवास्थितम् || १८ || बाह्ये जगत्युक्तन्यायमाध्यात्मिकेऽपि दर्शयन्नाह - किंचिदिति || १८ || श्रीराम उवाच | महाकल्पक्षये दृश्यमास्ते बीज इवाङ्कुरः | परे भूय उदेत्येतत्तत एवेति किं वद || १९ || नन्वेवं जगत्स्वतः सत्ताशून्यं ब्रह्मसत्ता च जगन्न स्पृशति तदा सदेव सोम्येदमग्र आसीत् इत्यादीनां सत्कार्यवादिश्रुतीनां तदनुसारिव्यासकपिलाद्युपबृंहणानां कथं सामञ्जस्यं स्यादिति मन्यमानो रामः पृच्छति - महाकल्पेति | इति यद्व्यासादिभिरुक्तं तत्किं कथं समञ्जसमित्यर्थः || १९ || एवंबोधाः किमज्ञाः स्युरुत ज्ञा इति च स्फुटम् | यथावद्भगवन्ब्रूहि सर्वसंशयशान्तये || २० || एवं प्रलये स्वसत्तया कारणे जगदस्तीति प्रकारेण बोधो येषां ते कपिलादयः || २० || श्रीवसिष्ठ उवाच | इदं बीजेऽङ्कुर इव दृश्यमास्ते महाशये | ब्रूते य एवमज्ञत्वमेतत्तस्यास्ति शैशवम् || २१ || महति शये शयने प्रलये | एतद्वक्ष्यमाणप्रकारं शैशवमसङ्गात्मविवेचनेऽपि जगत्सत्यताविश्वासदार्ढ्यलक्षणं बाल्यमस्ति || २१ || शृण्वेतत्किमसंबन्धं कथमेतदवास्तवम् | विपरीतो बोध एष वक्तुः श्रोतुश्च मोहकृत् || २२ || एतद्वक्ष्यमाणयुक्तिजातं शृणु | कारणे प्रागुत्पत्तेः कार्यमस्तीति वदन्प्रष्टव्यः किं तत्सत्तासामान्येनास्ति उत बीजादिसत्तया उताङ्कुरादिसत्तया | आद्ये तदङ्कुरादि किमसंबन्धं केन असंबन्धो यस्य तथाविधम् | सामान्यसत्तायाः सर्ववस्तुसाधारण्याज्जायमानाङ्कुरादेः सर्वत्र संबन्धप्रसङ्ग इत्यर्थः | अस्त्विष्टापत्तिरिति चेत् एतदङ्कुरादिक्षेत्रे अङ्कुरितबीजे दृष्टमेव वास्तवम् | कुसूलस्थबीजे शिलाशकले वा भ्रान्तिदृष्टमवास्तवमित्येतत्कथमित्यर्थः | द्वितीयेऽपि बीजसत्ताया अङ्कुरसंबन्धस्य घटपटादिसंबन्धस्य च स्वरूपतो विशेषानिरूपणान्न विद्यते संबन्धो यस्य तदसंबन्धं किं वस्तु यद्बीजेन स्यादिति | व्रीह्यादिबीजे सर्वजगत्सत्त्वप्रसङ्गः | इष्टापत्तावङ्कुरितबीजेऽङ्कुराद्येव वास्तवं न घटपटादीत्येतत्कथमित्यर्थः | तृतीयेऽप्यङ्कुरस्वरूपसत्तया बीजसंबन्धस्य घटादिसंबन्धस्य च विशेषानिरूपणादसंबन्धं किं वस्तु | सर्वत्राङ्कुरसद्भावप्रसङ्ग इत्यर्थः | इष्टापत्तौ बीजादावेवाङ्कुरादि वास्तवं नान्यत्रेत्येतत्कथमित्यर्थः | किंच साधारणसत्तया असाधारणमङ्कुराद्यस्ति कारणसत्तया कार्यमस्ति कार्यसत्तया च कारणमस्तीति पक्षत्रयेऽप्युक्तिसंभवाघटनाद्विपरीत एवायं बोध इत्याशयेनाह - विपरीत इति || २२ || बीजे किलाङ्कुर इव जगदास्त इतीह या | बुद्धिः सा सत्प्रलापार्थं मूढा शृणु कथं किल || २३ || किंच बीजेऽङ्कुर इव प्रलये जगदस्तीति दृष्टान्तो विषमः | कूटस्थचिदेकरसस्यात्मनो बीजत्वस्यैवासंभवादित्याशयेनाह - बीजे इत्यादिना | सत्प्रलापार्थं प्रलये जगत्सत्त्वे दृष्टान्तोपन्यासार्थं या बुद्धिः सा मूढा भ्रान्तिः | दार्ष्टान्तिकवैषम्यादित्यर्थः || २३ || बीजं भवेत्स्वयं दृश्यं चित्तादीन्द्रियगोचरम् | यवधानादिधान्यानि युक्तः [युक्तस्तत्राङ्कुरोद्भव इति पाठः] पत्राङ्कुरोद्भवः || २४ || वैषम्यमेव स्फुटयति - बीजमित्यादिना | यवधानाः सतुषयवास्तदादिबीजं दृश्यं दर्शनार्हम् | तथाच तत्राङ्कुराद्यन्वयव्यतिरेकस्य प्रत्यक्षसिद्धत्वात्सावयवत्वात्परिणामिस्वभावत्वादङ्कुरवैजात्यभेदनिर्वा हकजातिसंस्थानादिभेदवत्त्वाच्च युक्तोऽङ्कुरादिबीजभाव इत्यर्थः || २४ || मनःषष्ठेन्द्रियातीतं यत्स्यादतितरामणु | बीजं तद्भवितुं शक्तं [शक्य इति पाठः] स्वयंभूर्जगतां कथम् || २५ || दार्ष्टान्तिके तु न तथेत्याह - मन इति | स्वयमेव भवति स्वयं भवत्येवेति च स्वयंभूः कूटस्थाद्वितीयचिदात्मा | तथाच यस्य बीजत्वमेव दुर्घटं दूरे तत्र जगतः स्वसत्तया स्थितिरिति भावः || २५ || आकाशादपि सूक्ष्मस्य परस्य परमात्मनः | सर्वाख्यानुपलम्भस्य कीदृशी बीजता कथम् || २६ || तत्सूक्ष्ममसदाभासमसदेव ह्यतादृशम् | कीदृशी बीजता तत्र बीजाभावे कुतोऽङ्कुरः || २७ || एवं तत्त्वज्ञदृशा बीजत्वासंभवमुक्त्वा अज्ञदृशापि तस्य तदसंभवमाह - तदिति | वस्तुतः अतादृशं सदेकरसम पिसूक्ष्मत्वादज्ञदृशा असदाभासमित्यसदेवेत्यर्थः | अङ्कुरो जगदङ्कुरः || २७ || गगनाङ्गादपि स्वच्छे शून्ये तत्र परे पदे | कथं सन्ति जगन्मेरुसमुद्रगगनादयः || २८ || न किंचिद्यत्कथं किंचित्तत्रास्ते वस्तु वस्तुनि | अस्ति चेत्तत्कथं तत्र विद्यमानं न दृश्यते || २९ || न किंचिदात्मनः किंचित्कथमेति कुतोऽथवा | शून्यरूपाद्घटाकाशाज्जातोऽद्रिः क्व कुतः कदा || ३० || न किंचिदात्मनः अथात आदेशो नेति नेति इति सर्वनिषेधात्मनः || ३० || प्रतिपक्षे कथं किंचिदास्ते च्छायातपे यथा | कथमास्ते तमो भानौ कथमास्ते हिमोऽनले || ३१ || चिदेकरससत्ताया जडानेकरससत्ताप्रतिपक्षत्वादपि तत्र न जगत्सत्ता संभावितेत्याह -प्रतिपक्षे इति || ३१ || मेरुरास्ते कथमणौ कुतः किंचिदनाकृतौ | तदतद्रूपयोरैक्यं क्व च्छायातपयोरिव || ३२ || ननु मास्तु भेदेन सत्तदैक्येन तु स्यात्तत्राप्याह - तदतद्रूपयोरिति | चिदचिद्रूपयोरित्यर्थः || ३२ || साकारवटधानादावङ्कुराः सन्ति युक्तिमत् | नाकारे तन्महाकारं जगदस्तीत्ययुक्तिकम् || ३३ || नाकारे अनाकारे | नायं नञ् किंतु नशब्दोऽन्यः प्रतिषेधार्थः समस्यते || ३३ || देशान्तरे यच्च नरान्तरे च बुद्ध्यादिसर्वेन्द्रियशक्ति दृश्यम् | नास्त्येव तत्तद्विधबुद्धिबोधे न किंचिदित्येव तदुच्यते च || ३४ || किंचायं सांख्यादिभिः कल्पितः कारणे जगत्सद्भावः स किं लौकिकप्रमाणबलादुत सदेव सोम्येदमग्र आसीत् इत्यादिश्रुतिबलात् | नाद्य इत्याह - देशान्तरे इति | यद्बुद्ध्यादिसर्वेन्द्रियशक्ति दृश्यं घटपटादि तदधिकरणदेशाद्देशान्तरे तदधिकरणकालात्कालान्तरे च साक्षात्स्वयं द्रष्टरि नरान्तरे वा द्रष्टरि सत्यसति च तत्तद्विधप्रत्यक्षानुमानादिबुद्धिवृत्तिलक्षणे बोधे नास्त्येव न भात्येव तद्दृश्यादर्शनादियोग्यानुपलब्धिवशान्न किंचिदसदेवेति सर्वैर्लौकिकप्रामाणिकैरुच्यते | अतः सर्वलौकिकानुपलम्भविरुद्धं प्रलये जगत्सद्भावकल्पनमित्यर्थः || ३४ || कार्यस्य तत्कारणतां प्रयातं वक्तीति यस्तस्य विमूढबोधः | कैर्नाम तत्कार्यमुदेति तस्मा- त्स्वैः कारणाद्यैः सहकारिरूपैः || ३५ || न द्वितीयोऽपीत्याह - कार्यस्येति | सदेव सोम्येदमग्र आसीत् इत्यादिश्रुतिषु न कार्यकारणयोर्द्धे सत्ते प्रतीयेते | एकमेवाद्वितीयम् इति वाक्यशेषविरोधात् | तत्रैतद्विमृश्यताम् - किं कार्यमेव सत् तत्कार्यसत्त्वमेव कारणतां प्रयातं कारणे आरोपितं श्रुतिर्वक्तीति वा कारणमेव सत्तत्सत्त्वमेव कार्ये आरोपितमिति श्रुतिर्वक्तीति वा | अथवा सदेव सत् सत्सत्तैव कार्यकारणयोरारोपितेति | तत्र तस्य सांख्यस्य बोधः स आद्यपक्षानुसारी चेत् स विमूढबोधो भ्रम एव | वाचारम्भणं विकारो नामधेयम् इत्यादिकार्यानृतत्वपरश्रुत्यननुगुणत्वात्कारणानृतत्वापादकत्वेन स्वसिद्धान्तबाधकत्वाच्चेत्याशयेनाह - कैर्नामेति | कारणानां गुणानामेवानृतत्वे तन्महदादिकार्यं कैः कारणैरुदेत्यौत्पद्यते नाम | कारणे असति कार्यस्योत्पत्तुमेवाशक्तेरित्यर्थः | अत एव न द्वितीयोऽपि | कार्ये असति तत्तत्कारणताया अपि तद्घटिताया निरूपयितुमशक्तेरिति परिशेषात्तृतीयकल्प एव श्रुत्यभिप्रेतो युक्तश्च परिग्राह्य इत्याह - तस्मादित्याद्युत्तरश्लोकेन || ३५ || दुर्बुद्धिभिः कारणकार्यभावं संकल्पितं दूरतरे व्युदस्य | तदेव तत्सत्यमनादिमध्यं जगत्तदेतत्स्थितमित्यवेहि || ३६ || तस्मात्कार्यकारणभेदसत्यतायाः श्रुत्यसंमतत्वाद्दुर्बुद्धिभिः सांख्यादिभिः संकल्पितं कारणकार्यभावमुपादानोपादेयभावं स्वैः स्वीयैः सहकारिरूपैः कारणाद्यैर्निमित्तप्रयोजनादिभेदैः सह दूरं व्युदस्य मिथ्येति निरस्य यदेवावशिष्टमनादिमध्यान्तं सन्मात्रं वस्तु तदेवाहिकुण्डलवज्जगदिति स्थितं नान्यदित्यवेहीत्यर्थः || ३६ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषु स्थितिप्रकरणे जन्यजनिनिराकरणं नाम प्रथमः सर्गः || १ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे जन्यजनिनिराकरणं नाम प्रथमः सर्गः || १ || द्वितीयः सर्गः २ श्रीवसिष्ठ उवाच | अथैतदभ्युपगमे वच्मि वेद्यविदां वर | समस्तकलनातीते महाचिद्व्योम्नि निर्मले || १ || तर्कैः स्वरूपभेदेन निरस्य जगतः स्थितम् | पूर्णानन्दात्म सन्मात्रस्थितिः शिष्टात्र वर्ण्यते || १ || एतस्य जगतः प्रलये पृथक्सत्त्वाभ्युपगमे वच्मि दोषानिति शेषः | ननु यदि नास्ति जगत्तर्हि सर्ग एव न सिद्ध्येत् | उत्पत्तिक्रिया हि कर्तृसाध्या नह्यसति कर्तरि सिद्ध्यति | नचोत्पद्यमानादन्यत्कर्त्रस्ति | ब्रह्मैव सत्त्वात्तत्कर्तृ चेत्तदेवोत्पद्येत न जगत् | नच कूटस्थमुत्पत्त्यादिभिर्विकारैर्युज्यते | तस्मादुत्पत्तिसिद्धये प्रलये जगतोऽपि सत्ताभ्युपेयेत्याशङ्कामनूद्य निरस्यति - समस्तेत्यादिना || १ || जगदाद्यङ्कुरस्तत्र यद्यस्ति तदसौ तदा | कैरिवोदेति कथय कारणैः सहकारिभिः || २ || भवेत्कर्तृसत्ताकल्पनं यदि कर्तृमात्रादुत्पत्तिक्रिया सिद्ध्येत् | सा हि कर्तारमिव स्वसिद्धये करणोपकरणाधिकरणादीनि कारकान्तराण्यपि सहकारीण्यपेक्षते तदभावात्सत्त्वेन कल्पितमपि जगन्नोत्पत्तुं शक्नोतीत्याशयेनाह - जगदादीति | आदिपदं वैचित्र्यप्रपञ्चार्थम् | इवकारस्त्वत्यन्तासंभावितत्वद्योतनार्थः || २ || सहकारिकारणानामभावे त्वङ्कुरोद्गतिः | वन्ध्याकन्येव दृष्टेह न कदाचन केनचित् || ३ || सहकारिकारणानामभावे यद्यवोदितम् | मूलकारणमेवाङ्ग तत्स्वभावस्थितिं गतम् || ४ || तस्माद्रज्जुसर्पादिवत्सहकारिकारणानामभावेऽपि अवोदितमाविर्भूतं यद्यभ्युपगच्छसि तर्हि मूलकारणमेव भ्रान्तिकृतजगत्स्वभावस्थितिं गतं न वस्तुतो जगत्सर्गोऽस्तीति व्यर्था तस्य प्रलये सत्त्वकल्पनेत्यर्थः || ४ || सर्गादौ सर्गरूपेण ब्रह्मैवात्मनि तिष्ठति | यथास्थितमनाकारं क्व जन्यजनकक्रमः || ५ || तदेव स्पष्टमाह - सर्गादाविति || ५ || अथ पृथ्व्यादयोऽन्ये वा केचिदत्रोपकुर्वते | सहकारिकारणत्वं तत्पूर्वं चात्र दूषणम् || ६ || ननु प्रलये सर्वजगत्सत्त्वस्विकारान्न सहकारिदौर्लभ्यं तदन्तर्गतैः पृथव्यादिभिः परस्परमुपकर्तुं शक्यत्वादित्याशङ्क्य परिहरति - अथेति | तत्पूर्वं पृथ्व्याद्युत्पत्तिपूर्वकं वाच्यम् | नहि स्वयमेवानुत्पन्नमन्यस्योत्पत्तौ सहकारि भवितुं शक्नोति | तथाचोत्पत्तिसिद्धौ सहकारित्वसिद्धिस्तत्सिद्धाबुत्पत्तिसिद्धिरित्यन्योन्याश्रयोऽत्र दूषणमित्यर्थः || ६ || तस्मात्पदे जगच्छान्तमास्ते तत्सहकारिभिः | चित्तात्प्रसरतीत्युक्तिर्बालस्य न विपश्चितः || ७ || इत्थं च सांख्यादिकल्पना बालिशकल्पनैवेत्युपसंहरति - तस्मादिति | पदे सप्रकृतौ शान्तं प्रलये तिरोहितम् || ७ || तस्माद्राम जगन्नासीन्न चास्ति न भविष्यति | चेतनाकाशमेवाशु कचतीत्थमिवात्मनि || ८ || परमते निरस्ते परिशिष्टं स्वसिद्धान्तं दर्शयति - तस्मादिति || ८ || अत्यन्ताभाव एवास्य जगतो विद्यते यदा | तदा ब्रह्मेदमखिलमिति तद्राम नान्यथा || ९ || ब्रह्मैवेदममृतं पुरस्तात् इत्यादिश्रुतीनामपि बाधायां सामानाधिकरण्यादत्रैव तात्पर्यमित्याशयेनाह - अत्यन्ताभाव इति | तत्प्रसिद्धं श्रुतितात्पर्यम् || ९ || पूर्वं प्रध्वंसनान्योन्याभावैर्यदुपशाम्यति | न शाम्यत्येव तच्चित्ते शाम्यत्येव तु दृश्यते || १० || एवंच श्रौतबाधात्पूर्वं जागतं घटपटादि मुद्गरप्रहारादिना प्रध्वंसैर्वस्त्वन्तरात्मनान्योन्याभावैश्च यदुपशाम्यति इदमिदानीं नास्ति इदं न भवतीति गृह्यमाणमभावरूप उपशमं भजते इति यत्तन्न शाम्यत्येव नासावुपशमः किंतु तिरोधानेन तस्य चक्षुरादिदृश्यताया एवोपरमः | यतश्चित्ते वासनात्मना न शाम्यत्येवेत्यर्थः | अयं न्यायः प्रागभावात्यन्ताभावयोरपि योज्यः | स्वसत्तया ब्रह्मसत्तया वा सतो घटादेर्बाधमन्तरेण क्वाप्यसत्त्वायोगान्मृत्पिण्डभूतलादावदर्शनस्य तिरोधानेनाप्युपपत्तेरिति || १० || अत्यन्ताभाव एवास्य भावैर्यदुपशाम्यति | न शाम्यत्येव सच्चित्ते क्व शाम्यत्येव दृश्यता || ११ || यत् यदि दृश्यं भावैः कामकर्मवासनादिबीजैः सह उपशाम्यति तदाऽस्य दृश्यस्यात्यन्ताभाव आत्यन्तिकोच्छेद एव भवेत् | चित्ते तु सति कामादिभावानां दुर्वारत्वान्न शाम्यत्येव | अतो दृश्यता विना ज्ञानं क्व शाम्यति | तदुपशमो दुर्लभ एवेत्यर्थः || ११ || अत्यन्ताभाव एवातो जगद्दृश्यस्य सर्वथा | वर्जयित्वेतरा युक्तिर्नास्त्येवानर्थसंक्षये || १२ || अत एव समूलमनोनाशान्तश्रौतबाधातिरिक्तः सर्वदृश्यानर्थसंक्षयरूपे मोक्षे उपायो नास्तीत्याह - अत्यन्तेति | अत्यन्ताभावोऽधिष्ठानदर्शनेन बाध एवात्र युक्तिः | इमां युक्तिं वर्जयित्वा || १२ || चिदाकाशस्य बोधोऽयं जगद्भातीति यत्स्थितम् | अयं सोऽहमिदं नाहं लोके चित्रकथा यथा || १३ || यत् यदा जगत्तत्त्वसाक्षात्कारवशाच्चिदाकाशस्य बोधः | राहोः शिर इतिवत्षष्ठी | बोधैकरसश्चिदाकाश एव नाणुमात्रमप्यचिद्रूपमस्तीति स्थितं परिनिष्ठितं ज्ञानं भवति तदा अयं देवदत्तादिनामा देहः स विशिष्टमातापितृजन्यः प्रत्यभिज्ञायमान एवाहं इदं परकीयदेहकुड्यादि नाहमिति लोके प्रसिद्धः पामरव्यवहारश्चित्रकथा यथा तथा भाति | भित्तिलिखितचित्रस्य सर्वस्य परमार्थतो भित्तिमात्रत्वेऽपि चित्रप्रासादभित्तौ इयं भित्तिरिति भवति चित्रमनुष्यगजादौ नेयं भित्तिरिति तद्वदित्यर्थः || १३ || इदमद्र्यादि पृथ्व्यादि तथेदं वत्सरादि च | अयं कल्पः क्षणश्चायमिमे मरणजन्मनी || १४ || चित्रकथा न्यायमेव पृथ्व्यादिष्वपि प्रपञ्चयति - इदमित्यादिना || १४ || अयं कल्पान्तसंरम्भो महाकल्पान्त एष सः | अयं स सर्गप्रारम्भो भाव्यभावक्रमस्त्वसौ || १५ || एष दृश्यमानः स श्रुतिपुराणप्रसिद्धो भाव्यानां सृज्यानामाकाशादीनां भावक्रमः सृष्टिक्रमः || १५ || लक्ष्माणीमानि कल्पानामिमा ब्रह्माण्डकोटयः | एते चेमे परिगता इमे भूय उपागताः || १६ || लक्ष्माणि लक्षणानि | परिगता अतीताः सर्गाः || १६ || इमानि धिष्ण्यजालानि देशकालकला इमाः | महाचित्परमाकाशमनावृतमनन्तकम् || १७ || धिष्ण्यजालानि चतुर्दशधा भिन्ना देवमनुष्यादिस्थानभैदाः | देशानां सप्तद्वीपानां कालानां कृतत्रेताद्वापरादीनां कलाः कल्पनाः || १७ || यथापूर्वं स्थितं शान्तमित्येवं कचति स्वयम् | परमाणुसहस्रांशुभास एता महाचितेः || १८ || इत्येवं वर्णितेन चित्रकथान्यायेन महाचित्परमाकाशमेव स्वयं स्वात्मनि कचति स्फुरति नान्यदित्यर्थः | तर्हि किं महाचित्प्रकाश एतावानेव नेत्याह ##- प्रभाः परिच्छिन्नास्तथा मनोनिर्गतब्र्ह्माण्डकोटिषु परिच्छिन्ना एताश्चिद्भासः | यथा च नभोविस्तृतेन सूर्यप्रकाशेन परमाणुभेदभ्रमणादि दृश्यते तथा महाचित्परमाकाशेऽपीति भावः || १८ || स्वयमन्तश्चमत्कारो यः समुद्गीर्यते चिता | तत्सर्गभानं भातिदमरूपं नतु भित्तिमत् || १९ || तथाच मनःपरिच्छेदपीडिता चित् स्वात्नर्गतं जगद्वमतीवेत्युत्प्रेक्षमाण आह - स्वयमिति || १९ || नोद्यन्ति नच नश्यन्ति नायान्ति नच यान्ति च | महाशिलासु लेखानां सन्निवेशा इवाचलाः || २० || स्फटिकशिलान्तर्नयनदोषात्प्रतीयमाना रेखा इव न पदार्थभेदाः सन्तीत्याह - नोद्यन्तीत्यादिना || २० || इमे सर्गाः प्रस्फुरन्ति स्वात्मनात्मनि निर्मले | नभसीव नभोभागा निराकारा निराकृतौ || २१ || नभसीवेत्यादयः पृथक्सत्ताशून्यत्वे दृष्टान्ताः || २१ || द्रवत्वानीव तोयस्य स्पन्दा इव सदागतौ | आवर्ता इव चाम्भोधेर्गुणिनो वा यथा गुणाः || २२ || विज्ञानघनमेवैकमिदमेवमवस्थितम् | सोदयास्तमयारम्भमनन्तं [मनारंभं इति पाठः] शान्तमाततम् || २३ || सोदयास्तमयारम्भमिदं जगदेवमुक्तदृष्टान्तानुसारेण शान्तं ब्रह्मैवाततं विस्तृतम् || २३ || सहकार्यादिहेतूनामभावे शून्यतो जगत् | स्वयंभूर्जायते चेति किलोन्मत्तकफूत्कृतम् || २४ || एवंच सहकार्यभावे सत्यपि कर्तरि उत्पत्त्याद्यसिद्धेः सांख्यानां कल्पना उन्मत्तचेष्टेवेत्युपसंहरति - सहकारीति | स्वयं भवति अस्तीति स्वयंभूः | प्रागुत्पत्तेः पृथक्सत्त्वेनाभ्युपगतोऽपि पदार्थ इत्यर्थः | शून्यतः शून्यकल्पप्रधानादित्यर्थः | जायते चेति चकारो जन्युत्तरभाविनी सत्ता प्रागेवाभ्युपगता चेज्जनिकल्पनवैयर्थ्यमपीति दोषान्तरसमुच्चयार्थः || २४ || प्रशान्तसर्वार्थकलाकलङ्को निरस्तनिःशेषविकल्पतल्पः | चिराय विद्रावितदीर्घनिद्रो भवाभयो भूषितभूः प्रबुद्धः || २५ || सर्वार्थस्वप्नदर्शनहेतुत्वाद्विकल्पास्तल्पमिव | तत्कल्पनेऽपि हेतुर्दीर्घनिन्द्रा अविद्या सैव स्वरूपजागरेण विद्राविता चेत्स्वाप्नव्याघ्रादिकल्पजन्ममृत्यवादिभयहेतुबाधादभयः | तल्पादुत्थितेन राज्ञा स्वसभाभूरिव भूषिता अलंकृता ब्रह्मवित्सभाभूर्येन तथाविधो भवेत्युपदेश आशीश्च || २५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु स्थितिप्रकरणे स्थितिबीजोपन्यासो नाम द्वितीयः सर्गः || २ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे स्थितिबीजोपन्यासो नाम द्वितीयः सर्गः || २ || तृतीयः सर्गः ३ श्रीराम उवाच | महाकल्पान्तसर्गादौ प्रथमोऽसौ प्रजापतिः | स्मृत्यात्मा जायते मन्ये स्मृत्यात्मैव ततो जगत् || १ || विवर्तत्वं प्रतिष्ठाप्याऽपवादोऽत्र प्रदर्श्यते | बोधदृष्ट्याऽज्ञदृष्ट्या तु जगदानन्त्यमुच्यते || १ || बाह्यघटाद्युत्पत्तावुत्पत्तिकर्त्रतिरिक्तसहकार्यपेक्षास्तु जगत्तु त्वया हिरण्यगर्भमनःसंकल्पजं तदीयस्मृतिमनोराज्यकल्पमुक्तं नच तत्र सहकार्यपेक्षा दृष्टा एवं च प्रलये प्रकृतौ स्वसत्तायां तिरोभूय सन्नेव मनोरूपः प्रजापतिः स्मृत्यात्मा जायते तस्मिंश्च संस्कारात्मना सदेव जगत्स्मृत्यात्मैव जायते चेत्को विरोध इति गूढाभिसंधिना रामः पृच्छति - महाकल्पान्तेति || १ || श्रीवसिष्ठ उवाच | महाप्रलयसर्गादावेवमेतद्रघूद्वह | स्मृत्यात्मैव भवत्यादौ प्रथमोऽसौ प्रजापतिः || २ || अस्त्वेवं तथापि जगतो न प्रलये सत्त्वसिद्धिः स्वप्नमनोरथस्मृत्यादिविषयस्य स्वकालेऽपि सत्त्वाप्रसिद्धेस्तद्बलेन प्रलये सत्त्वकल्पनासिद्धेरिति गूढाभिसंधिरेव गुरुरभ्युपगमेन समाधत्ते - महाप्रलयेति || २ || तत्संकल्पात्मकजगत्स्मृत्यात्मैवमिदं ततः | भाति संकल्पनगरं स्थितं पूर्वं प्रजापतेः || ३ || प्रजापतेः पूर्वं प्राथमिकं संकल्पनगरमेवैतज्जगदिति स्थितमित्यर्थः || ३ || स्मृतिर्न संभवत्येव सर्गादौ परमात्मनः | जन्माभावात्कथं कुत्र नभसीव महाद्रुमः || ४ || तर्हि बाह्यविकारमनोतिरिक्तविषयात्मना जगन्माभूत्सत्यं मनोविकारात्मना तु सत्यमेव | यथा चित्रतुरगो मांसविकारात्मना ह्यसत्योऽपि रङ्गद्रव्यविकारात्मना सत्यस्तद्वदिति रामशङ्कां लिङ्गैरुपलक्ष्याह ##- स्युः | तत्र न तावत्परपरिकल्पितं प्रधानं स्मृतिसमर्थम् | मृदादिवदचेतनत्वात् | नापि पुरुषाः | परैस्तेषामसङ्गोदासीननिर्विकारत्वाभ्युपगमात् | परस्परव्यावर्तकधर्मानभ्युपगमेन भेदासिद्ध्या परमात्माभेदे तु सुतरां स्मृतिर्न संभवत्येव | जन्माभावात् विकारान्तराणां तत्पूर्वकत्वात् अप्राणो ह्यमनाः शुभ्रः इत्यादिश्रुत्या तस्य मनोनिषेधात्तद्द्वारा स्मर्तृत्वासिद्धेस्तस्य स्मृतिर्नभोद्रुमकल्पैवेति || ४ || श्रीराम उवाच | न संभवति किं ब्रह्मन्सर्गादौ प्राक्तनी स्मृतिः | महाप्रलयसंमोहैर्नश्यति प्राक्स्मृतिः कथम् || ५ || ननु यथा प्रात्यहिकी सुषुप्तिस्तथा प्रलयोऽपि तत्र च लीनस्य मनसो जागरादाविव सर्गादावप्याविर्भावात्तदवच्छिन्नप्रजापतेरन्यस्य वा स्मर्तृत्वे को विरोध इत्याशयेन रामः शङ्कते - न संभवतीति | प्राक्स्मृतिः पूर्वकल्पीयसंस्कारः || ५ || श्रीवसिष्ठ उवाच | ये महाप्रलये प्राज्ञाः सर्वे ब्रह्मादयः पुरा | किल निर्वाणमायातास्तेऽवश्यं ब्रह्मतां गताः || ६ || अभिसंधिमुद्घाटयन् वसिष्ठः परिहरति - ये महाप्रलये इत्यादिना | अयं भावः - इयं तव शङ्का किं हिरण्यगर्भजीव एक एव स्वमनसा नानाजीवशरीरादिभेदान्परिकल्प्य संसरतीति मतेन वा नानाजीवाः स्वस्वोपभोगयोग्यप्रपञ्चभागं कल्पयन्तो हिरण्यगर्भमपि स्वस्वबुद्ध्यनुसारेण सर्वस्रष्टारं कल्पयन्तीति मतेन वा | तत्र द्वितीये महाकल्पान्तसर्गादौ प्रथमोषौ प्रजापतिः इत्यादि त्वदीयशङ्कोपक्रमविरोधात्सृष्टिश्रुत्यननुगुणत्वात् प्रथमकल्पः परिशिष्यते | तत्र च प्राक्तनकल्पीयजीवजगतां महाप्रलयकाले हिरण्यगर्भमुक्त्यैव मुक्तत्वाज्जीवान्तरापरिशेषात्स्मर्ता न कश्चिदस्तीति नैतत्सर्गसिद्धिरिति | अक्षरार्थः स्पष्टः || ६ || प्राक्तनः कः स्मृतेः कर्ता तस्मात्कथय सुव्रत | स्मृतिर्निर्मूलतां याता स्मर्तुर्मुक्ततया यतः || ७ || अतः स्मर्तुरभावेन स्मृतिर्वोदेति किं कथम् | अवश्यं हि महाकल्पे सर्वे मोक्षैकभागिनः || ८ || नानुभूतेऽनुभूते च स्वतश्चिद्व्योम्नि या स्मृतिः | सा जगद्भूरिति प्रौढा दृश्या सास्त्येव चित्प्रभा || ९ || एवं पूर्वपूर्वकल्पीयसर्गा अपि स्मृतिरूपा न सिद्ध्यन्तीति या स्मृतिरिति त्वया शङ्किता जगद्भूर्जगत्स्थितिः सा प्रौढा ब्रह्मचित्प्रभैव सास्त्येव सदेति सत्कार्यवादिनीनं श्रुतीनामाशय इत्यर्थः || ९ || भाति संवित्प्रभैवेयमनाद्यन्तावभासिनी | यत्तदेतज्जगदिति स्वयंभूरिति च स्थितम् [स्फुटं इति पाठः] || १० || उक्तार्थमेव स्पष्टमाह - भातीति || १० || अनादिकालसंसिद्धं यद्भानं ब्रह्मणो निजम् | स आतिवाहिको देहो विराजो जगदाकृतिः || ११ || विराजो ब्रह्माण्डशरीरस्योपादानभूत आतिवाहिकः सूक्ष्मो देहः स परमात्मैवेत्यर्थः | तथाच ब्रह्मैव सूक्ष्मस्थूलभावारोपक्रमेण जगदात्मना भातीति भावः || ११ || परमाणाविदं भाति त्रिजगत्सवनाभ्रखम् | देशकालक्रियाद्रव्यदिनरात्रिक्रमान्वितम् || १२ || अव्यवस्थितस्वभावत्वादपि जगतो न जगद्रूपेण सत्ता किंतु ब्रह्मरूपेणैवेत्याशयेनाव्यवस्थितस्वभावमुपपादयति - परमाणावित्यादिना || १२ || परमाणुः प्रविततस्तस्यास्ते तादृगेव च | भाति भासुरताकारि तादृग्गिरिकुलं पुनः || १३ || तस्य पूर्वपरमाणोरन्तरन्यः प्रविततः परमाणुरास्ते सच तादृक् पूर्वपरमाणुसदृश एव पुनस्तत्रापि तादृक् सवनाभ्रखं गिरिकुलं भातीत्येव प्रत्यनुसंततिमिति परेणान्वयः || १३ || तत्रापि तादृगाकारमेव प्रत्यनुसंततम् | दृश्यमाभाति भारूपमेतदङ्ग न वास्तवम् || १४ || उपपादितेन यत्फलितं तदाह - एतदिति || १४ || इत्यस्त्यन्तो न सद्दृष्टेरसद्दृष्टेश्च वा क्वचित् | अस्यास्त्वभ्युदितं बुद्धं नाबुद्धं प्रति वानघ || १५ || एवंच सन्मात्रदृष्टिस्तत्त्वज्ञं प्रति स्वतो यथा अनन्ता एवमसदनृतजगद्दृष्टिरप्यज्ञं प्रति संख्यया अनन्तैवेत्याह - इतीति | अभ्युदितं परमाभ्युदयं प्राप्तम् | बुद्धं तत्त्वज्ञं प्रति | न आबुद्धं येन स नाबुद्धोऽज्ञस्तं प्रति वा || १५ || बुद्धं प्रतीदं ब्रह्मैव केवलं शान्तमव्ययम् | अबुद्धं प्रति बुद्ध्यैतद्भासुरं भुवनान्वितम् || १६ || तदेव स्पष्टीकृत्य दर्शयति - बुद्धं प्रतीत्यादिना || १६ || यथेदं भासुरं भाति जगदण्डकजृम्भितम् | यथा कोटिसहस्राणि भान्त्यन्यान्यप्यणावणौ || १७ || यथा स्तम्भे पुत्रिकान्तस्तस्याः स्वाङ्गेषु पुत्रिका | तस्याश्च पुत्रिकास्त्यङ्गे तथा त्रैलोक्यपुत्रिका || १८ || नाभिन्ना नापि संख्येया यथाद्रौ परमाणुकाः | तथा ब्रह्म बृहन्मेरौ त्रैलोक्यपरमाणवः || १९ || सूर्याद्यंशुषु संख्यातुं शक्यन्ते लघवोऽणवः | उत्पद्यन्ते चिदादित्ये त्रैलोक्यपरमाणवः || २० || शक्यन्ते यदीति शेषः | पूर्वश्लोकान्तेति वानुषञ्जनीयम् || २० || यथाणवो वहन्त्यर्कदीप्तिष्वप्सु रजःसु च | तथा वहन्ति चिद्व्योम्नि त्रैलोक्यपरमाणवः || २१ || वहन्ति प्रवहन्ति | भ्रमन्तीति यावत् || २१ || शून्यानुभवमात्रात्म भूताकाशमिदं यथा | सर्गानुभवमात्रात्म चिदाकाशमिदं तथा || २२ || ननु निष्प्रपञ्चस्य कूटस्थस्य कथं सविकारसर्गात्मना भानमिति चेद्यथा नीरूपस्याशून्यस्य चाकाशस्य तद्विरुद्धरूपवच्छून्यतया भानं तद्वदित्याह - शून्येति | शून्यमावरणाभावः | असन्नैल्यं च तदनुभवमात्रात्म तथाऽनुभूयमानं नतु वास्तवपूर्णनीरूपानुभवात्मेत्यर्थः || २२ || सर्गस्तु सर्गशब्दार्थतया बुद्धो नयत्यधः | स ब्रह्मशब्दार्थतया बुद्धः श्रेयो भवत्यलम् || २३ || नयत्यध इति | उदरमन्तरं कुरुते अथ तस्य भयं भवति इत्यादिश्रुतेः | श्रेयो भवतीति | तरति शोकमात्मवित् इत्यादिश्रुतेरिति भावः || २३ || विज्ञानात्मा शासिता विश्वबीजं ब्रह्मैवालं स्वं चिदाकाशमात्रम् | यस्माज्जातं यत्तदेवेति विद्या- द्वेद्यं स्वान्तर्बोधसंबोधमात्रम् || २४ || किं तटस्थतयापि ज्ञातं ब्रह्म श्रेयो भवति नेत्याह - विज्ञानात्मेति | यो विज्ञानात्मा जीवाख्यः प्रत्यगात्मा यश्च विश्वस्य बीजं कारणं शासिता चेश्वरस्तौ परमार्थदृशा परिशोधने अलं पूर्णं स्वं प्रत्यगेकरसं चिदाकाशमात्रं ब्रह्मैव | यतो हि बाह्यमाभ्यन्तरं च भेदकोपाधिद्वयं ब्रह्मणः सकाशादेव जातं श्रूयते | यद्यस्माज्जातं तत्तदेवेति च तदनन्यत्वमारम्भणशब्दादिभ्यः इत्यादिनावगतं तस्मात्सर्वं वेद्यं स्वान्तर्बोधे संबोधमात्रं शुद्धं चिन्मात्रमित्यर्थः || २४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे जगदानन्त्यवर्णनं नाम तृतीयः सर्गः || ३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे जगदानन्त्यवर्णनं नाम तृतीयः सर्गः || ३ || चतुर्थः सर्गः ४ श्रीवसिष्ठ उवाच | इन्द्रियग्रामसंग्रामसेतुना भवसागरः | तीर्यते नेतरेणेह केनचिन्नाम कर्मणा || १ || इह विश्वस्थितेर्मूलं सेन्द्रियं मन ईर्यते | तस्योच्छेदे जगच्छून्यं दृश्यासंभवदर्शनात् || १ || इन्द्रियग्रामाणां संग्रामो जयस्तल्लक्षणेन सेतुना || १ || शास्त्रसत्संगमाभ्यासात्सविवेको जितेन्द्रियः | अत्यन्ताभावमेतस्य दृश्यस्याप्यवगच्छति || २ || इन्द्रियजये च विवेक उपायस्तत्र च सज्जनसच्छास्त्रैकनिष्ठतोपाय इत्याशयेनाह - शास्त्रेति || २ || एतत्ते कथितं सर्वं स्वरूपं रूपिणां वर | संसारसागरश्रेण्यो यथा यान्ति प्रयान्ति च || ३ || विहितस्येन्द्रियजयस्य प्रकृतसंबन्धं वक्तुं प्रागुक्तं स्मारयति - एतदिति | रूपिणां सौन्दर्यवतां वर श्रेष्ठ | प्रयान्ति अपगच्छन्ति | न यान्ति इति पाठेऽप्ययमेवार्थः || ३ || बहुनात्र किमुक्तेन मनःकर्मद्रुमाङ्कुरः | तस्मिंश्छिन्ने जगच्छाखी छिन्नः कर्मतनुर्भवेत् || ४ || भोक्तुर्भोग्यभोगाकारपरिणतानि विहितनिषिद्धकर्माण्येव तनुः शरीरं यस्य तथाविधो जगच्छाखी संसारवृक्षश्छिन्नो भवेत् || ४ || मनः सर्वमिदं राम तस्मिन्नन्तश्चिकित्सिते | चिकित्सितो वै सकलो जगजालामयो भवेत् || ५ || जगज्जाललक्षण आमयो रोगः || ५ || तदेतज्जायते लोके मनोमननमाकुलम् | मनसो व्यतिरेकेण देहः क्व किल दृश्यते || ६ || ननु मनसि चिकित्सितेऽपि देहाधीने सुखदुःखे स्यातां तत्राह - तदेतदिति | मनसो देहाकारमननमेव स्वप्न इव आकुलं क्रियासमर्थं देहो जायते || ६ || दृश्यात्यन्तासंभवेन ऋते नान्येन हेतुना | मनःपिशाचः प्रशमं याति कल्पशतैरपि [कल्पशतैरति इति पाठः] || ७ || तर्हि मनश्चिकित्सायां किमौषधं तदाह - दृश्येति | दृश्यस्य अत्यन्ताभावो बाधस्तस्मादृते | तृतीया छान्दसी || ७ || एतच्च संभवत्येव मनोव्याधिचिकित्सिते | दृश्यात्यन्तासंभवात्म परमौषधमुत्तमम् || ८ || ननु मनोरोग आभ्यन्तरो दृश्यं तु बाह्यं तत् कथं बाह्यार्थात्यन्तासंभवादान्तरमनश्चिकित्सासंभवस्तत्राह - एतदिति | एतद्दृश्यात्यन्तासंभवात्मकं परमौषधं मनोव्याधिचिकित्सिते संभवत्येवोपाय इति शेषः | चिकित्सिते इति भावे क्तः || ८ || मनो मोहमुपादत्ते म्रियते जायते मनः | तत्स्वचिन्ताप्रसादेन बध्यते मुच्यते पुनः || ९ || कथं संभवति तदाह - मन इति | नहि मनस आन्तरता अर्थानां बाह्यता च वास्तवी किंतु मन एव तथा द्वैविध्यादिकल्पनया मोहं भ्रान्तिमुपादत्ते | जन्ममृत्युबन्धमोक्षादि च कल्पयतीत्यर्थः || ९ || स्फुरतीदं जगत्सर्वं चित्ते मननमूर्च्छिते | शून्यमेवाम्बरे स्फारे गन्धर्वाणां पुरं यथा || १० || कथमिदं ज्ञातमिति चेदन्वयव्यतिरेकाभ्यामित्याह - स्फुरतीति | मननेन मूर्च्छिते समुच्छ्रिते || १० || मनसीदं जगत्कृत्स्नं स्फारं स्फुरति चास्ति च | पुष्पगुच्छ इवामोदस्तत्स्थं तस्मादिवेतरत् || ११ || तथा च विमर्शो जगन्मनोधर्म एवेति न धर्मिनिवृत्तौ स्थातुमर्हतीत्याशयेन दृष्टान्तानाह - मनसीत्यादिना | धर्मेषु धर्मिभेदो न वास्तव इति द्योतनायान्त्य इवकारः || ११ || यथा तिलकणे तैलं गुणो गुणिनि वा यथा | यथा धर्मिणि वा धर्मस्तथेदं चित्तके जगत् || १२ || रश्मिजालं यथा सूर्ये यथालोकस्तु तेजसि | यथौष्ण्यं चित्रभानौ च मनसीदं तथा जगत् || १३ || चित्रभानौ अग्नौ || १३ || शैत्यं यथैव तुहिने यथा नभसि शून्यता | यथा चञ्चलता वायौ मनसीदं तथा जगत् || १४ || मनो जगज्जगदखिलं तथा मनः परस्परं त्वविरहिते सदैव हि | तयोर्द्वयोर्मनसि निरन्तरं क्षिते क्षितं जगन्नतु जगति क्षिते मनः || १५ || मनोजगतोर्धर्मिधर्मभावेनाभेदेऽपि धर्मिमनोनाशादेव जगन्नाशो नतु वैपरीत्येन तथैव लोके दर्शनादित्याशयेनोपसंहरति - मन इति | अविरहिते अविनाभूते | क्षिते नष्टे सति क्षितं नष्टं भवति || १५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० स्थितिप्रकरणे स्थित्यङ्कुरकलनं नाम चतुर्थः सर्गः || ४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे स्थित्यङ्कुरकलनं नाम चतुर्थः सर्गः || ४ || पञ्चमः सर्गः ५ श्रीराम उवाच | भगवन्सर्वधर्मज्ञ पूर्वापरविदां वर | अयं मनसि संसारः स्फारः कथमिव स्थितः || १ || भृगावत्र समाधिस्थे शुक्रस्य क्रीडतो गिरौ | अप्सरोदर्शने मोहात्तन्मयीभाव ईर्यते || १ || कथं कीदृशदृष्टान्तप्रकारेणेव बहिः स्फुरन्नयं स्फारः संसारो मनसि यथा स्फुरति प्रत्यक्षं प्रतिभाति तथा दृष्टान्तदृष्ट्या दृष्टान्तप्रदर्शनेन कथयेत्यर्थः || १ || यथायं मनसि स्फारः संसारः स्फुरति स्फुरन् | दृष्टान्तदृष्ट्या स्फुटया तथा कथय मेऽनघ || २ || श्रीवसिष्ठ उवाच | यथैन्दवानां विप्राणां जगन्त्यवपुषामपि | स्थितानि जातदार्ढ्यानि मनसीदं तथा स्थितम् || ३ || उक्तान्येवात्रैन्दवादिजगन्ति दृष्टान्त इत्याह - यथेति || ३ || लवलणस्य यथा राज्ञश्चेन्द्रजालाकुलाकृतेः | चण्डालत्वमनुप्राप्तं तथेदं मनसि स्थितम् || ४ || आकुलाकृतेर्व्याकुलचित्तस्य || ४ || भार्गवस्य चिरं कालं स्वर्गभोगबुभुक्षया | यथा भोगाधिनाथत्वं संसारित्वं बभूव च || ५ || भार्गवोपाख्यानमप्यत्र दृष्टान्तत्वेनावतारयति - भार्गवस्येति | भोगाधिनाथत्वमप्सरोभोगलिप्सुत्वम् | संसारित्वं तदर्थं स्वर्गादिगन्तृत्वं जन्मान्तरवत्त्वं च | नाथतिरत्रोपयाज्जायाम् || ५ || भोगेश्वरत्वं च यथा [तथा इति पाठः] तथेदं मनसि स्थितम् | श्रीराम उवाच | भगवन्भृगुपुत्रस्य स्वर्गभोगबुभुक्षया || ६ || भोगेश्वरत्वं स्वर्गे अप्सरोभोक्तृत्वम् | प्रश्नः स्पष्टः || ६ || कथं भोगाधिनाथत्वं संसारित्वं बभूव च | श्रीवसिष्ठ उवाच | शृणु राम पुरा वृत्तं संवादं भृगुकालयोः || ७ || सानौ मन्दरशैलस्य तमालविटपाकुले | पुरा मन्दरशैलस्य सानौ कुसुमसंकुले || ८ || सानौ प्रस्थे जातं भृगुकालयोः संवादं शृण्विति पूर्वेणान्वयः | उक्तस्योपोद्घातमाह - पुरेत्यादिना || ८ || अतप्यत तपो घोरं कस्मिंश्चिद्भगवान्भृगुः | तमुपास्ते स्म तेजस्वी बालः पुत्रो महामतिः || ९ || शुक्रः सकलचन्द्राभः [तथा इति पाठः] प्रकाश इव भासुरः | भृगुर्वनवरे तस्मिन्समाधावेव संस्थितः || १० || सकलः पूर्णः | भास्कर इति पाठे प्रकाशत इति प्रकाशः स्फुरन् भास्कर इव || १० || सर्वकालं समुत्कीर्णो वनोपलतलादिव | शुक्रः कुसुमशययासु कलधौताजिरेषु च || ११ || सर्वकालं संस्थित इति पूर्वेणान्वयः | वनोपलतलात्प्रकृतेः समुत्कीर्णष्टङ्कच्छेदनिष्पादित इवेति निश्चलत्वेनोत्प्रेक्षा | कलधौताजिरेषु रूप्यहेमवेदिकासु || ११ || मन्दरोद्दामदोलासु बालो रमणलीलया | विद्याविद्यादृशोर्मध्ये शुक्रः प्राप्तमहापदः || १२ || विद्यादृक् पारमार्थिकात्मतत्त्वदर्शनं अविद्यादृक् पामरादिप्रसिद्धजगत्सत्यतादर्शनं तयोर्मध्ये || १२ || त्रिशङ्कुरिव रोदोन्तरवर्तत तदाकुलः | निर्विकल्पसमाधिस्थे स कदाचित्पितर्यथ || १३ || रोदस्योर्द्यावाभूम्योरन्तर्मध्ये विश्वामित्रनिर्मिते स्वर्गे त्रिशङ्कुराजर्षिरिव अवर्तत | अत एव रागादिना आकुलः || १३ || अव्यग्रोऽभवदेकान्ते जितारिरिव भूमिपः | ददर्शाप्सरसं तत्र गच्छन्तीं नभसः पथा || १४ || अव्यग्रो विषयान्तरे अव्याक्षिप्तचित्तः || १४ || क्षीरोदमध्यलुलितां लक्ष्मीमिव जनार्दनः | मन्दारमालावलितां मन्दानिलचलालकाम् || १५ || क्षीरोदस्य मध्याल्लुलितां मथनेनोत्पादिताम् | लक्ष्म्या इवाप्सरसामपि क्षीरोदादुत्पत्तिप्रसिद्धेरुभयविशेषणम् || १५ || हारझाङ्कारिगमनां सुगन्धितनभोनिलाम् | लावण्यपादपलतां मदघूर्णितलोचनाम् || १६ || सुगन्धितौ नभोनिलौ यया | नभोग्रहणमपगतेऽप्यनिले तत्प्रदेशस्य चिरं सुगन्धित्वद्योतनार्थम् || १६ || अमृतीकृततद्देशां देहेन्दूदयदीप्तिभिः | कान्तामालोक्य तस्याभूदुल्लसत्तरलं मनः || १७ || देहलक्षणादिन्दोरुदयो यासां ताभिर्दीप्तिभिः किरणैः || १७ || दृष्टनिर्मलपूर्णेन्दुवपुरम्बुनिधेरिव | साप्यालोक्य शुक्रमुखं तथा परवशा ह्यभूत् || १८ || अम्बुनिधेवपुः संस्थानमिव उल्लसत् तरलं च || १८ || मनसिजेषु पराहतमाशयं स परिबोध्य मनस्तदनूशना | विगलितेतरवृत्तितयात्मना स च वधूमय एव बभूव ह || १९ || स च उशना तदनु अप्सरोदर्शनानन्तरं मनसिजस्येषुभिः पराहतमाशेते विषयेषु मुह्यतीत्याशयं मनो यथाशक्ति विवेकैः परिबोध्य बहिः शारीरकान्तानुसरणादिव्यापारान्निरुध्यैकाग्रतामापाद्यापि अन्तर्विगलितेतरवृत्तितया वध्वेकाग्रचित्तत्वात्तदात्मना वधूमय एव बभूव | यच्चित्तस्तन्मयो भवतित्यादिश्रुतिस्मृत्यनुभवप्रसिद्धिद्योतनाय ह इति निपातः || १९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे भार्गवोपाख्याने भार्गवस्खलनं नाम पञ्चमः सर्गः || ५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे भार्गवस्खलनं नाम पञ्चमः सर्गः || ५ || षष्ठः सर्गः ६ श्रीवसिष्ठ उवाच | अथ तां मनसा ध्यायंस्तत्रैवामीलितेक्षणः | आरब्धवान्मनोराज्यमिदमेकः किलोशना || १ || इह शुक्रस्य मनसा स्वर्गे गमनमुच्यते | तत्र शक्रेण सन्मानात्संनिधावुपवेशनम् || १ || इदं वक्ष्यमाणप्रकारं मनोराज्यम् | एवकारः प्रकारान्तरवारणाद्देहविस्मृतिपर्यन्तताद्योतनार्थः || १ || एषा हि ललना व्योम्नि सहस्रनयनालये | संप्राप्तोऽयमहं स्वर्गमालोलसुरसुन्दरम् || २ || एषा पुरोवर्तिनी मयानुगम्यमाना सहस्रनयनस्येन्द्रस्यालये स्वर्गे गच्छतीति शेषः | अयं तामनुगच्छन्नहम् || २ || इमे ते मृदुमन्दारकुसुमोत्तंससुन्दराः | द्रवत्कनकनिष्यन्दविलासिवपुषः सुराः || ३ || कनकनिष्यन्दो द्रुतसुवर्णम् | तद्धि अत्यन्तं कान्तिमत्प्रसिद्धम् | तदिव विलासि शोभमानं वपुर्येषाम् || ३ || इमास्ता लोचनोल्लासदृष्टनीलाब्जदृष्टयः | मुग्धहासविलासिन्यः कान्ता हरिणदृष्टयः || ४ || लोचनोल्लासेन प्रत्यक्षेण दृष्टानि नीलाब्जानीव दृष्टयो यासां ता इमाः कान्ता अप्सरसः || ४ || इमे ते कौसुमोद्द्योता अन्योन्यप्रतिबिम्बिताः | विश्वरूपोपमाकारा मरुतो मत्तकाशिनः || ५ || कौसुमैः पारिजातादिकुसुमरचितैर्माल्यैरुद्द्योतन्ते प्रकाशन्ते इति कौसुभोद्द्यओताः कौस्तुभोद्द्योताः इति पाठे कौस्तुभबहुद्यतमानाः [कौस्तुभवदुद्द्योतमानाः इति पाठः साधुः] | अन्योन्यप्रतिबिम्बितात्वादेव विश्वरूपः सर्वाकारो हरिस्तदुपमाकाराः | मत्ता हृष्टाः काशन्ते दीप्यन्ते तच्छीलाः मरुतो देवाः | प्राग्वर्णितानामपि देवानां प्रकारान्तरेण वर्णनान्न पौनरुक्त्यम् || ५ || ऐरावणकटामोदविरक्तमधुपश्रुताः | इमास्ताः काकलीगीता गीर्वाणगणगीतयः || ६ || ऐरावणस्यैरावतस्य कटौ गण्डौ | ताभ्यां मदजलं लक्ष्यते | तदामोदेऽपि विरक्तैरनासक्तैर्मधुपैः श्रुता आकर्णिताः काकल्या मधुरास्फुटध्वनिना गीता आलापिताः || ६ || इयं सा कनकाम्भोजचलद्वैरिञ्चसारसा | मन्दाकिनीतटोद्यानविश्रान्तसुरनायका || ७ || कनकाम्भोजेषु चलन्तो भ्रमन्तो वैरिञ्चा विरिञ्चिसंबन्धिनो हंसाः सारसाश्च यस्याम् || ७ || एते ते यमचन्द्रेन्द्रसूर्यानलजलानिलाः | लोकपालास्तनुद्योतकीर्णदीप्तानलार्चिषः || ८ || तनुद्योतैः शरीरकान्तिभिः कीर्णाः परितः प्रसारिता दीप्तानलार्चिषो यैः || ८ || अयं स रणवृत्तान्तहेतिकण्डूयिताननः | ऐरावणो रणे दन्तप्रोतदैत्येन्द्रमण्डलः || ९ || रणवृत्तान्तेषु युद्धप्रसङ्गेषु हेतिभिरायुधैः कण्डूयितमिव आननं यस्य || ९ || इमे ते भूतलस्थानाद्व्योम्नि तारकतां गताः | वैमानिकाश्चरच्चारुचामीकरमयातपाः || १० || चरन्तः प्रसरन्तश्चारुचामीकरमया इव आतपा देहविमानादिकान्तयो येषाम् || १० || मेरूपलतलास्फालसीकराकीर्णदेवताः | एतास्ताः कीर्णमन्दारा गङ्गासलिलवीचयः || ११ || एताः प्रसृतमन्दारमञ्जरीपुञ्जपिञ्जराः | दोलालोलाप्सरःश्रेण्यः शक्रोपवनवीथयः || १२ || इमे ते कुन्दमन्दारमकरन्दसुगन्धयः | चन्द्रांशुनिकराकाराः पारिजातसमीरणाः || १३ || चन्द्रांशुनिकरा इव सुखस्पर्श आकारः शैत्यमान्द्यादियुक्तः संनिवेशो येषाम् || १३ || पुष्पकेसरनीहारपटवासरणोत्सुकैः | लताङ्गनागणैर्व्याप्तमिदं तन्नन्दनं वनम् || १४ || पुष्पैः केसरैर्नीहारैर्हिममकरन्दकणैः पटान्वासयन्ति सुगन्धयन्तीति पटवासाः परागास्तैश्च यः पवनान्दोलनक्रीडार्थं च परस्परताडनलक्षणो रणस्तत्र उत्सुकैरासक्तैर्लतागणैरङ्गनागणैश्च लतालक्षणैरङ्गनागणैर्वा लतासदृशैरङ्गनागणैर्वा व्याप्तम् || १४ || कान्तगीतरवानन्दप्रनर्तितसुराङ्गनौ | इमौ तौ वल्लकीस्निग्धस्वरौ नारदतुम्बुरू || १५ || नारदतुम्बुरू गन्धर्वविशेषौ ऋषी वा || १५ || इमे ते पुण्यकर्तारौ भूरिभूषणभूषिताः | व्योमन्युड्डीयमानेषु विमानेषु च संस्थिताः || १६ || मदमन्मथमत्ताङ्ग्य इमास्ताः सुरयोषितः | देवेश्वरं निषेवन्ते वनं वनलता इव || १७ || देवेश्वरमिन्द्रम् || १७ || इन्द्राश्मजालकुसुमाश्चिन्तामणिगुलुच्छकाः | कल्पवृक्षा इमे पक्वफलस्तबकदन्तुराः || १८ || इन्द्राश्मजालानीन्द्रनीलसमूहरूपाणि | चन्द्राश्म इति पाठे चन्द्रकान्तसमूहसदृशानि कुसुमानि येषाम् | चिन्ता मणय एव गुलुच्छकाः कलिकागुच्छानि येषाम् | पक्वैः फलस्तवकैर्दन्तुरा उन्नतदन्ता इव शोभमानाः || १८ || इह तावदिमं शक्रमहमासनसंस्थितम् | द्वितीयमिव त्रैलोक्यस्रष्टारमभिवादये || १९ || त्रैलोक्यस्रष्टारं ब्रह्माणम् || १९ || इति संचिन्त्य शुक्रेण मनसैव शचीपतिः | तेनाभिवादितस्तत्र द्वितीय इव खे भृगुः || २० || अथ सादरमुत्थाय शुक्रः शक्रेण पूजितः | गृहीतहस्त आनीय समीपमुपवेशितः || २१ || समीपमानीय उपवेशितः || २१ || धन्यस्त्वदागमे नाथ स्वर्गोऽयं शुक्र शोभते | उष्यतां चिरमेवेह शक्र इत्थमुवाच तम् || २२ || अथ तत्रोपविश्यासौ भार्गवः शोभिताननः | श्रियं जहार शशिनः सकलस्यामलस्य च || २३ || सकलस्य पूर्णस्य अमलस्य रजःकलङ्करहितस्य || २३ || सकलसुरगणाभिवन्दितोऽसौ भृगुतनयः शतमन्युपार्श्वसंस्थः | चिरतरमतुलामवाप तुष्टिं नरपतिसत्तमलालनं बभूव || २४ || नरपतिसत्तमस्य राजोत्तमस्येन्द्रस्य लालनं लालनीयः पुत्रादिरिव प्रियतम इति यावत् || २४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे भार्गवोपाख्याने भार्गवमनोराज्यं नाम षष्ठः सर्गः || ६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे भार्गवमनोराज्यं नाम षष्ठः सर्गः || ६ || सप्तमः सर्गः ७ इति शुक्रः पुरं प्राप्य वैबुधं स्वेन तेजसा | विसस्मार निजं भावं प्राक्तनं व्यसनं विना || १ || इह भूयः स्वकान्तायाः स्वर्गे शुक्रेण दर्शनम् | परस्परानुरागेण संगमश्चोपवर्ण्यते || १ || इति उक्तमनोराज्यप्रकारेण विबुधानां निवासं वैबुधं पुरं स्वर्गम् | स्वेन स्वकीयेन तेजसा पुण्यसामर्थ्येन | व्यसनं मरणदुःखं विनापि || १ || मुहूर्तमिव विश्रम्य तस्य पार्श्वे शचीपतेः | स्वर्गं विहर्तुमुत्तस्थौ स्वर्गाभिपरिमोदितः || २ || स्वर्गेण सुखातिशयेनाभितः परिमोदितो हर्षितः | स्वर्गामिपरिमोदितः इति पाठे स्वर्गसंचरणशीलैर्देवैरुत्साहित इत्यर्थः || २ || स्वःश्रियं स समालोक्य लोललोचनवाञ्छिताम् | स्त्रैणं द्रष्टुं जगामासौ नलिनीमिव सारसः || ३ || स्वःश्रियं स्वर्गशोभां स्वसौन्दर्यं च | लोललोचनस्य स्त्रीजनस्य वाञ्छितामभीष्टतामामिति समालोक्य विचार्य | स्त्रैणं स्त्रीसमूहम् || ३ || तत्र तां मृगशावाक्षीं कान्तामध्यगतामसौ | ददर्श विपिनान्तस्थां भृगुश्चूतलतामिव || ४ || तां पूर्वदृष्टामप्सरसम् | भृगुर्भार्गवः || ४ || सापि तं भार्गवं राम दृष्ट्वा परवशाभवत् | तामालोक्य लसल्लोलविलासवलिताकृतिम् || ५ || तामालोक्य स भार्गवोऽपि परवशोऽभवदित्यनुषङ्गः परेण वान्वयः || ५ || आसीद्विलीयमानाङ्गो ज्योत्स्नामिन्दुमणिर्यथा | विलीयमानसर्वाङ्गस्तामवैक्षत कामिनीम् || ६ || स्वेदाख्यं संचारिभावं दर्शयति - विलीयमानाङ्ग इति || ६ || चन्द्रकान्त इव ज्योत्स्नां शीतलां खे विलासिनीम् | तेनावलोकिता सापि तत्परायणतां गता || ७ || निशान्ते चक्रवाकेन कान्तेव परिकूजिता | रसाद्विकसिता नूनमन्योन्यमनुरक्तयोः || ८ || निशि वियोगात्परितः कूजितं रुदितं यया सा कान्ता चक्रवाकिनी निशान्ते प्रातश्चक्रवाकेनावलोकितेव | रसात्प्रेमातिशयाद्विकसिता आविष्कृतशोभा | नूनमित्यभेदोत्प्रेक्षाद्योतनाय || ८ || प्रातरर्कनलिन्योर्या शोभा सैव तयोरभूत् | संकल्पितार्थदायित्वाद्देशस्याभूच्च तेन सा || ९ || देशस्य नन्दनोद्देशस्य || ९ || सर्वाङ्गं विवशीकृत्य कामायैव समर्पिता | पेतुः स्मरशरास्तस्या मृदुष्वङ्गेषु भूरिशः || १० || पलाशेष्विव पद्मिन्या धारा इव पयोमुचः | सा बभूव स्मरोद्धूता लोलालिवलयाकुला || ११ || पलाशेषु पत्रेषु | तस्याः कम्पाख्यं संचारिभावं दर्शयति - सेति | स्मरेणोद्धूता कम्पिता || ११ || मन्दवाताभिनुन्नाया मञ्जर्याः सहधर्मिणी | नीलनीरजनेत्रान्तां हंससारसगामिनीम् || १२ || सहशब्दः सादृश्ये | सदृशधर्मिणीत्यर्थः || १२ || मदनः क्षोभयामास गजः कमलिनीमिव | अथ तां तादृशीं दृष्ट्वा शुक्रः संकल्पितार्थभाक् || १३ || तमः संकल्पयामास संहार इव भूतभुक् | त्रिविष्टपस्य देशोऽसौ बभूव तिमिराकुलः || १४ || संहारे प्रलयकाले | भूतभुक् रुद्रः | त्रिविष्टपस्य स्वर्गस्यावयवोऽसौ नन्दनोद्देशः || १४ || भूलोकस्यान्धतमसा लोकालोकतटो यथा | लज्जान्धकारतीक्ष्णांशौ तस्मिंस्तिमिरमण्डले || १५ || लज्जालक्षणस्यान्धकारस्य तीक्ष्णांशौ सूर्यवन्निवारके तिमिरमण्डले तस्मिन्मण्डले नन्दनप्रदेशे तस्य मिथुनस्य स्त्रीपुंसद्वन्द्वस्येव प्रतिष्ठां स्थैर्य आगते प्राप्ते सतीति परेण सहान्वयः || १५ || प्रतिष्ठामागते तस्य मिथुनस्येव मण्डले | तेषु सर्वेषु भूतेषु गतेष्वभिमतां दिशम् || १६ || भूतेषु तस्याः सखीजनेषु तस्मात्प्रदेशादभिमतां दिशं गतेषु सत्सु || १६ || तस्मात्प्रदेशाद्भूलोके दिनान्ते विहगेष्विव | सा दीर्घचञ्चलापाङ्गी प्रवृद्धमदनव्यथा || १७ || आजगाम भृगोः पुत्रं मयूरी वारिदं यथा | धवलागारमध्यस्थे पर्यङ्के परिकल्पिते || १८ || धवलागारं स्फाटिकगृहं तन्मध्यस्थे || १८ || विवेश भार्गवस्तत्र क्षीरोद इव माधवः | सा कराववलम्ब्यास्य विवेशावनतानना || १९ || रराज च सुरेभस्य हृदि लग्नेव पद्मिनी | उवाच चेदं मधुरं रसस्नेहाक्तया गिरा || २० || सुरेभस्यैरावणस्य || २० || वचो मधुरमानन्दविलासवलिताक्षरम् | पश्यामलेन्दुवदनमण्डलीकृतकार्मुकः || २१ || अबलामनुबध्नाति मामेष किल नाङ्गकः | पाहि मामबलां नाथ दीनां त्वच्छरणामिह || २२ || नाङ्गकोऽनङ्गकः | अबलां मामनुबध्नाति निर्बन्धयति | अत एव पाहि || २२ || कृपणाश्वासनं साधो विद्धि सच्चरितव्रतम् | स्नेहदृष्टिमजानद्भिर्मूढैरेव महामते || २३ || प्रणया अवगण्यन्ते न रसज्ञैः कदाचन | अशङ्कितोपसंपन्नः प्रणयोऽन्योन्यरक्तयोः || २४ || प्रणयाः प्रीत्यतिशयाः | अवगण्यन्ते न बहुमन्यन्ते | अशङ्कितं अन्यगोचरतासोपाधिकत्वविच्छेदापराधगणनादिशङ्कारहितं यथा स्यात्तथा उपसंपन्नः संजातः || २४ || अधःकरोति निष्यन्दं चन्द्रमाह्लादनं प्रिय | न तथा सुखयत्येषा चेतस्त्रिभुवनेशिता || २५ || निष्यन्दं देवसंजीवनामृतस्राविणम् | अधःकरोति संजीवकादाह्लादकाच्च चन्द्रसहस्रादपि प्रियतमप्रणय एवातिशेते इति यावत् | त्रिभुवनेशिता त्रैलोक्यैश्वर्यम् || २५ || यथा परस्परानन्दः स्नेहः प्रथमरक्तयोः | त्वत्पादस्पर्शनेनेयं समाश्वस्तास्मि मानद || २६ || चन्द्रपादपरामृष्टा यथा निशि कुमुद्वती | संस्पर्शामृतपानेन तव जीवामि सुन्दर || २७ || चन्द्रांशुरसपानेन चकोरी चपला यथा | मामिमां चरणालीनां भ्रमरीं करपल्लवैः || २८ || आलिङ्ग्यामृतसंपूर्णे स्वपद्महृदये कुरु | इत्युक्त्वा पुष्पमृद्वङ्गी सा तस्य पतितोरसि | व्याघूर्णितालिनयना सुतरोरिव मञ्जरी || २९ || अमृतसंपूर्णे स्नेहदयामृतभरिते हृत्पद्मान्तस्थे हृदये चित्ते | सुतरोः कल्पवृक्षस्य || २९ || तौ दम्पती तत्र विलासकान्ती विवेशतुस्तासु वनस्थलीषु | किञ्जल्कगौरानिलघूर्णितासु रक्तौ द्विरेफाविव पद्मिनीषु || ३० || विवेशतुः निर्विविशतुः | गुणश्छान्दसः | किञ्जल्कैः केसरैस्तदीयपरागैर्गौरेण पीतेनानिलेन घूर्णितासु कम्पितासु | वनस्थलीपद्मिन्योः साधारणं विशेषणम् || ३० || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे भार्गवोपाख्याने नवसंगमो नाम सप्तमः सर्गः || ७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे नवसंगमो नाम सप्तमः सर्गः || ७ || अष्टमः सर्गः ८ श्रीवसिष्थ उवाच | इति चित्तविलासेन चिरमुत्प्रेक्षितैः प्रियैः | प्रणयैर्भार्गवस्यासीत्तुष्टये सुसमागमः || १ || विविधस्वर्गभोगान्ते पतितस्यात्र भूरिशः | जन्मानि वासनायोगात्तापसत्त्वं च कीर्त्यते || १ || उत्प्रेक्षितैः कल्पितैः || १ || मन्दारमालाकलया विबुधासवमत्तया | तदा तेन तया सार्धं द्वितीयेनामलेन्दुना || २ || मन्दारमालाः आकलयति सर्वतो धारयतीति तथोक्तया | मन्दारमालालकया इति पाठः स्पष्टः | विबुधासवममृतं देवभोग्यमासवान्तरं वा || २ || विहृतं मत्तहंसासु हेमपङ्कजिनीषु च | तटीष्वमरवाहिन्याः सह चारणकिंनरैः || ३ || अमरवाहिन्या मन्दाकिन्याः || ३ || पीतमिन्दुदलस्यन्दैर्देवैः सह रसायनम् | पारिजातलताजालनिलयेषु विलासिना || ४ || इन्दुदलानां चन्द्रकलानां स्यन्दैर्निष्यन्दरूपैश्चन्द्रकलारब्धशरीरैरिति यावत् | लताजालनिलयेषु कुञ्जेषु || ४ || चारुचैत्ररथोद्यानलतालोलासुदोलया | चिरं विलसितं व्यग्रैः सह विद्याधरीगणैः || ५ || लताकल्पितया लीलार्थया सुदोलया विलसितं क्रीडितम् || ५ || नन्दनोपवनाभोगो मन्दरेणेव वारिधिः | भृशमालोड्यतां नीतः प्रथमैः सह शाम्भवैः || ६ || शाम्भवैः शिवानुचरैः प्रमथैः सह आलोड्यतां परिभ्रान्तताम् || ६ || बालहेमलताजालजटालासु नदीषु च | भ्रान्तमुन्मत्तनागेन मैरवीष्वब्जिनीष्विव || ७ || उन्मत्तनागेन मत्तगजेन | मैरवीषु मेरुसंबन्धिनीषु भूमिषु || ७ || कैलासवनकुञ्जेषु तया सह विलासिना | हरेन्दुधवला रात्र्यः क्षिपिता गणगीतिभिः || ८ || हरस्येन्दुना चूडामणिना कृष्णपक्षेऽपि धवलाः | क्षिपिताः क्षिप्ताः | अतिवाहिता इति यावत् | इट् छन्दसः || ८ || गन्धमादनशैलस्य विश्रम्योपरि सानुषु | सा तेन कनकाम्भोजैरापादमभिमण्डिता || ९ || सा वधुः || ९ || लोकालोकतटान्तेषु विचित्राश्चर्यहारिषु | क्रीडितं कृतहासेन राम तेन तया सह || १० || लोकालोको भूप्रान्तपर्वतः प्रसिद्धः || १० || मन्दरान्तरकच्छेषु सार्धं हरिणशावकैः | अवसत्स समाः षष्टिं कल्पितामरमन्दिरे || ११ || कच्छेषु जलप्रायशिशिरदेशेषु | हरिणशावकैर्मृगपोतैः | षष्टिं समाः संवत्सरान् || ११ || क्षीरार्णवतटीष्वस्य वनितासहचारिणः | क्षीणं कृतयुगादर्धं श्वेतद्वीपजनैः सह || १२ || गन्धर्वनगरोद्यानलीलाविरचनैरसौ | स्रष्टानन्तजगत्सृष्टेः कालस्यानुकृतिं गतः || १३ || मनोरथमात्रेण शुक्र एव सर्वजगत्सृष्टेः क्रमेण स्रष्टा सन् कालस्यानुकृतिं साम्यं गतः प्रापेत्यर्थः || १३ || अथावसदसौ शुक्रः पुरन्दरपुरे पुनः | सुखं चतुर्युगान्यष्टौ हरिणेक्षणया सह || १४ || पुण्यक्षयानुसंधानात्ततश्चावनिमण्डले | तयैव सह मानिन्या पपातोपहताकृतिः || १५ || उपहता पतनप्रतिसंधानभयाद्गलिता आकृतिर्दिव्यशरीरं यस्य || १५ || परालूनसमस्ताङ्गो हृतस्यन्दननन्दनः | चिन्तापरवशो ध्वस्तः समितीव हतो भटः || १६ || परालूनानि द्रवीभावेन विच्छिन्नानि समस्ताङ्गानि यस्य | हृते देवैर्बलाद्गृहीते स्यन्दनं विमानं नन्दनं वनं वासोलङ्काराद्युपभोगानन्दसाधनं च यस्य | ध्वस्तः अधःपतितः | समिति युद्धे || १६ || पतितस्यावनौ तस्य चिन्तया सह दीर्घया | शरीरं शतधा जातं शिलापातीव निर्झरः || १७ || शरीरं द्रवीभूतस्वरूपम् || १७ || संशीर्णयोर्देहकयोश्चित्तके व्यसनाविले | विचेरतुस्तयोर्व्योम्नि निर्नीडौ विहगौ यथा || १८ || चित्तके लिङ्गशरीरे द्वे | व्यसनेन दुःखेन आविले अस्वच्छे || १८ || तत्राविविशतुश्चान्द्रं ते चित्ते रश्मिजालकम् | प्रालेयतामुपेत्याशु शालितामथ जग्मतुः || १९ || तत्र व्योम्नि | आविविशतुः प्रविष्टे | प्रालेयतां हिमजलताम् || १९ || शालींस्तान्भुक्तवान्पक्वान्दशार्णेषु द्विजोत्तमः | स शुक्रः शुक्रतामेत्य तद्भार्यातनयोऽभवत् || २० || दशार्णेषु देशविशेषेषु | शुक्रतां रेतस्ताम् || २० || ततो मुनीनां संसर्गात्तपस्युग्रे व्यवस्थितः | अवसन्मेरुगहने मन्वन्तरमनिन्दितः || २१ || मेरुगहने इलावृतादिवर्षे || २१ || तत्र तस्य समुत्पन्नो मृग्याः पुत्रो नराकृतिः | तत्स्नेहेन परं मोहं पुनरप्याययौ क्षणात् || २२ || मृग्या इति अर्थात्साप्सराः शापान्मृगी संपन्नेति गम्यते || २२ || पुत्रस्यास्य धनं मेऽस्तु गुणाश्चायुश्च शाश्वतम् | इत्यनारतचिन्ताभिर्जहौ सत्यामवस्थितिम् || २३ || सत्यां श्रुत्यादिप्रमाणनियन्त्रितामवस्थितिं तपोध्यानदानादिनिष्ठां जहौ || २३ || धर्मचिन्तापरिभ्रंशात्पुत्रार्थं भोगचिन्तया | क्षीणायुषं तमहरन्मृत्युः सर्प इवानिलम् || २४ || अहरत् अग्रसत् || २४ || भोगैकचिन्तया सार्धं सममुत्क्रान्तचेतनः | प्राप्य मद्रेशपुत्रत्वमासीन्मद्रमहीपतिः || २५ || मद्रेशो मद्रराजस्तस्य पुत्रत्वं प्राक्तनब्राह्मण्यापेक्षया निकृष्टां क्षात्रयोनिमित्याशयः || २५ || मद्रदेशे चिरं कृत्वा राज्यमुत्सन्नशात्रवम् | जरामभ्याजगामात्र हिमाशनिरिवाम्बुजम् || २६ || अभ्याजगाम प्राप || २६ || मद्रराजतनुं चारुं तपोवासनया सह | तत्याज तेन जातोऽसौ तपस्वी तापसात्मजः || २७ || तपोवासनया वानप्रस्थधर्मसंचिन्तयेत्यर्थाद्गम्यते || २७ || समङ्गाया महानद्यास्तटमासाद्य तापसः | तपस्तेपे महाबुद्धिः स राम विगतज्वरः || २८ || विगतज्वरः शान्त्यादिनिरस्तरागादिसंतापः || २८ || विविधजन्मदशां विविधाशयः समनुभूय शरीरपरम्पराः | सुखमतिष्ठदसौ भृगुनन्दनो वरनदीसुतटे दृढवृक्षवत् || २९ || असौ प्रागुक्तो भृगुनन्दनः शुक्रो विविधाशयो नानाविधवासनावासितः संस्तत्तदनुसारिणीं विविधजन्मदशां प्राप्य शरीरपरम्पराः सम्यगनुभूय दैवाद्वैराग्यादिसाधनसंप्राप्या सुखं निर्विक्षेपं यथा स्यात्तथा वरनद्याः समङ्गायाः सुतटे दृढवृक्षवच्छेदनभेदनादिविक्षेपसहस्रेऽप्यचञ्चलवृत्तिरतिष्ठदित्य र्थः || २९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे भार्गवोपाख्याने शुक्रविविधजन्मानुभवो नामाष्टमः सर्गः || ८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे शुक्रविविधजन्मानुभवो नामाष्टमः सर्गः || ८ || नवमः सर्गः ९ श्रीवसिष्ठ उवाच | इति चिन्तयतस्तस्य शुक्रस्य पितुरग्रतः | जगामातितरां कालो बहुसंवत्सरात्मकः || १ || इह शुक्रशरीरस्य भृगुसंनिधिवर्तिनः | मृतप्रायस्य पतनं शुष्कता चोपवर्ण्यते || १ || इति उक्तप्रकारेण चिन्तयतो मनोराज्यैः कल्पयतः | पितुर्भृगोरग्रतः || १ || अथ कालेन महता पवनातपजर्जरः | कायस्तस्य पपातोर्व्यां छिन्नमूल इव द्रुमः || २ || पवनातपाभ्यां जर्जरः शिथिलीकृतः || २ || मनस्तु चञ्चलाभोगं तासु तासु दशासु च | बभ्रामातिविचित्रासु वनराजिष्विवैणकः || ३ || तासु तासु स्वकल्पितस्वर्गगमनादिदशासु | एणको हरिणः || ३ || भ्रान्तमुद्भ्रान्तमभितश्चक्रार्पितमिवाकुलम् | मनस्तस्य विशश्राम समङ्गासरितस्तटे || ४ || भोगकल्पनाभिर्भ्रान्तम् | जन्ममरणपरम्पराकल्पनयोद्भ्रान्तम् | विशश्राम विश्रान्तिं प्राप || ४ || अनन्तवृत्तान्तघनां पेलवां सुदृढामपि | तां संसृतिदशां शुक्रो विदेहोऽनुभवन्स्थितः || ५ || मनःकल्पनामात्रत्वात्पेलवाम् | सत्यताभ्रान्त्या प्राक्तनदेहविस्मरणात्सुदृढाम् | विदेहः शुक्रदेहनिरपेक्षः || ५ || मन्दराचलसानुस्था सा तनुस्तस्य धीमतः | तापप्रसरसंशुष्का चर्मशेषा बभूव ह || ६ || चर्मशेषा बहिः | अन्तस्त्वस्थिशेषा || ६ || शरीररन्ध्रप्रवहद्वातसीत्काररूपया | चेष्टा दुःखक्षयानन्दात्काकल्येव प्रगायति || ७ || सा तनुरभिमानदुःखक्षयप्रयुक्तादानन्दाद्धेतोः शरीररन्ध्रेषु वेणुरन्ध्रेष्विव प्रवहतः संचरतो वातस्य ये वेषुध्वनिवत्सीत्कारास्तद्रूपया [तद्भूतया इति क्वचित्] काकल्या सूक्ष्माव्यक्तमधुरध्वनिना देहस्य ईदृशी गतिरिति तच्चेष्टाः प्रगायतीवेत्युत्प्रेक्षा || ७ || मनोवराकमवटे लुठितं भवभूमिषु | हसतीवेति शुभ्राभ्रसितया दन्तमालया || ८ || तामेव देहदशामुत्प्रेक्षान्तरैरपि वर्णयति - मनोवराकमित्यादिना | सा तनुर्भवभूमिषु भोगाशालक्षने अवटे शुष्कपल्वले इति प्रागवर्णितप्रकारेण लुठितं मनोवराकं शुभ्राभ्रसितया दन्तमालया हसतीव || ८ || दर्शयन्ती जगच्छून्यं वपुरक्ष्णोरकृत्रिमम् | मुखारण्यजरत्कूपरूपया गर्तशोभया || ९ || सा तनुर्मुखमण्डलरूपे अरण्ये जरत्कूपसमूहरूपया नासानयनवक्रादिगर्तानां शोभया अकृत्रिमं स्वाभाविकं जगतः शून्यमसद्रूपतां विवेकिनां वपुरक्ष्योः प्रत्यक्षं दर्शयन्तीव स्थितेत्यर्थः | वपुर्ग्रहणं तदाश्रितप्रमाणान्तरोपलक्षणार्थम् || ९ || तापोपतप्ता संसिक्ता वर्षाजलभरेण सा | प्रागनुस्मरणोल्लासमिव वाष्पं विमुञ्चति || १० || प्राक्तापोपतप्ता पश्चात्संसिक्ता | प्रागनुस्मरणं स्वबन्धुभूतपूर्वपूर्वदेहपरम्परानुस्मरणं तत्प्रयुक्ताद्दुःखादानन्दाद्वा उल्लसतीति प्रागनुस्मरणोल्लासं बाष्पम् अश्रुधूमाभासयोः श्लेषादभेदारोपः || १० || चन्द्रानिलविलासेन लुलिता वनभूमिषु | धारानिकरपातेन विनुन्ना जलदागमे || ११ || प्रावृण्निर्झररूपेण प्लुता गिरिनदीतटे | पांशुना पवनोत्थेन दुष्कृतेनेव रूषिता || १२ || प्रावृड्निर्झरस्य रूपेण धातुरागेण प्लुता रञ्जिता || १२ || शुष्ककाष्ठवदालोला वातेषु कृतखाकृतिः | तारमारुतसीत्कारे वने तप इवास्थिता || १३ || स्वाकृतिर्विलोडनोत्थखड्शब्दकरणम् | अव्यक्तानुकरणाड्डाचि बहुलग्रहणान्न द्वित्वम् | भूतानां भाङ्कारो भयङ्करधवनिस्तत्करणशीला अरण्यलक्ष्मीः अलक्ष्मीः | बाल्या बलिकर्मणा | आहारेणेति यावत् | ब्राह्मणादेराकृतिगणत्वात्कर्मणि ष्यञ् ङीष् | चर्ममयोदरी चर्ममात्रशेषोदरी || १३ || वक्रा शुष्कान्त्रतन्त्री च भूतभाङ्कारकारिणी | अरण्यलक्ष्मीर्बाल्येव शून्या चर्ममयोदरी || १४ || रागद्वेषविहीनत्वात्तस्य पुण्याश्रमस्य तु | महातपस्त्वाच्च भृगोर्न भुक्ता मृगपक्षिभिः || १५ || तर्हि सा तनुः श्वापदगृध्रादिभिः कुतो न भक्षिता तत्राह - रागेति | सप्रमाणत्वाच्च न विशीर्णेत्यपि द्रष्टव्य || १५ || यमनियमकृशीकृताङ्गयष्टि- श्चरति तपः स्म भृगूद्वहस्य चेतः | तनुरथ पवनापनीतरक्ता चिरमलुठन्महतीषु सा शिलासु || १६ || यमनियमाभ्यां कृशीकृता अङ्गयष्टिः स्वकल्पितशरीरान्तरं येन | क्लीबेऽपि विभक्त्यलुक् छान्दसः | भृगूद्वहस्य शुक्रस्य चेतश्चित्तं तपश्चरति स्म समङ्गातटे | सा प्राक्तनी शुक्रतनुः || १६ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे भा० भार्गवकलेवरवर्णनं नाम नवमः सर्गः || ९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे भार्गवकलेवरवर्णनं नाम नवमः सर्गः || ९ || दशमः सर्गः १० श्रीवसिष्ठ उवाच | अथ वर्षसहस्रेण दिव्येन परमेश्वरः | भृगुः परमसंबोधाद्विरराम समाधितः || १ || दृष्टपुत्रतनोः कोपो भृगोरत्रोपवर्ण्यते | कालं प्रत्यथ कालेन बोधनं चात्मविद्यया || १ || परमं परमात्मानं संबोधयति स्फुटं दर्शयतीति परमसंबोधः समाधिस्ततः || १ || नापश्यदग्रे तनयं विनयावनताननम् | सामन्तं गुणसेनायाः पुण्यं मूर्तमिव स्थितम् || २ || गुणसेनाया गुणसमूहस्य सामन्तमधिष्ठातारम् || २ || अपश्यत्केवलं कायकङ्कालं पुरतो महत् | देहयुक्तमिवाभाग्यं दारिद्र्यमिव मूर्तिमत् || ३ || कायलक्षणं कङ्कालं शवम् || ३ || तापशुष्कवपुः कृत्तिरन्ध्रस्फुरिततित्तिरिं | संशुष्कान्त्रोदरगुहाछायाविश्रान्तदर्दुरम् || ४ || कङ्कालमेव वर्णयति - तापेत्यादिना | तापेनातपेन शुष्कवपुः | राहुः सर्पशिरा इतिवद्बहुव्रीहिः | कृत्तिरन्ध्रेषु चर्मच्छिद्रेषु कृतनीडत्वात् स्फुरितास्तित्तिरयः पक्षिभेदा यत्र | संशुष्कान्त्राया उदरगुहायाश्छायायां विश्रान्ता दर्दुरा भेका यस्य || ४ || नेत्रगर्तकसंसक्तप्रसूतनवकीटकम् | पर्शुकापञ्जरप्रोतकोशकारकृमिव्रजम् || ५ || नेत्रगर्तके संसक्ता प्रसूता अपत्यपरम्पराभिर्वृद्धा नवकीटका यस्य | पर्शुकानि पार्श्वास्थीनि तल्लक्षणे पञ्जरे प्रोताः कोशकारकृमयः पूर्वदेशप्रसिद्धा लूता वा || ५ || प्राक्तनीमुपभोगेहामिष्टानिष्टफलप्रदाम् | धाराधौतान्त्रया तद्वद्भृशं शुष्कास्थिमालया || ६ || उपभोगेहां भोगवासनां शुष्कास्थिमालया विडम्बयदित्युत्तरेणान्वयः | नानावैचित्र्यसंधिबन्धैर्देहारम्भकत्वेन चास्थ्रां वासनानां च साम्यात् || ६ || शिरोघटेन शुभ्रेण मसृणेनेन्दुवर्चसा | विडम्बयच्च कर्पूराप्लुतलिङ्गशिरःश्रियम् || ७ || त्वचो विशीऋनत्वेनास्थिमात्रशेषादिन्दुवर्चसा पूजाविशेषे कर्पूरैराप्लुतस्याभिषिक्तस्य शिवलिङ्गशिरसः श्रियं शोभां विडम्बयत् अनुकुर्वत् || ७ || ऋज्व्या संशुष्कशिरया स्वास्थिमात्रावशेषया | ग्रीवयात्मानुसृतया दीर्घीकुर्वदिवाकृतिम् || ८ || वासनाप्रसृतमात्मानमनुसृतयेव || ८ || मृणालिकापाण्डुरया धारावभृतमांसया | नासाग्रास्थिकया वक्त्रे कृतसीमाकृतिं दधत् || ९ || वर्षधाराभिरवभृतमांसया शीर्णमांसया नासाग्रास्थिकया वक्रे मुखमण्डले कृतः सीमामध्यावधारणशङ्कुर्यस्य तदाकृतिं तधत् | नासास्थ्यग्रस्य मुखमण्डलमध्यत्वादित्यर्थः | नासाग्रस्थितया इति पाठे अस्थिकयेति विशेष्यमध्याहार्यम् || ९ || दीर्घकन्धरया नूनमुन्नतीकृतवक्त्रया | प्रेक्षमाणमिव प्राणानुत्क्रान्तानम्बरोदरे || १० || दीर्घया कन्धरया ग्रीवया || १० || जङ्घोरुजानुदोर्दण्डैर्द्विगुणां दीर्घतां गतैः | प्रतिष्ठानमिवाशान्तं दीर्घाध्वश्रमभीतितः || ११ || दण्डशब्दस्य प्राण्यङ्गवचनत्वाभावान्न द्वन्द्वैकवद्भावः | जङ्घादिभिरष्टभिः आशान्तं अष्टदिगन्तं प्रति प्रतिष्ठानं प्रतिष्ठमानं प्रस्थानं कुर्वाणमिव विश्लिष्य पलायनकाममिवेति यावत् | मुगभावश्छान्दसः | दीर्घाध्वश्रमभीतित इति तत्र हेतूत्प्रेक्षा | नहि दीर्घे परलोकाध्वनि कायवहनश्रमः सोढुं शक्यत इति भयादिवेत्यर्थः || ११ || उदरेणातिरिक्तेन चर्मशेषेण शोषिणा | प्रदर्शयदिवाज्ञस्य हृदयस्यातिशून्यताम् || १२ || प्रेक्ष्य तच्छुष्ककङ्कालमालानं दुःखदन्तिनः | पूर्वापरपरामर्शमकुर्वन्भृगुरुत्थितः || १३ || आलानं बन्धनस्तम्भम् || १३ || आलोकसमकाले हि प्रतिभानं ततो भृगोः | चिरमुत्क्रान्तजीवः किं मत्पुत्रोऽयमिति क्षणात् || १४ || आलोकनमालोकस्तत्समकालं प्रतिभानं वक्ष्यमाणवितर्कः अभूदिति शेषः || १४ || अचिन्तयत एवास्य भविष्यं तनयं ततः | कालं प्रति बभूवाशु कोपः परमदारुणः || १५ || भविष्यमवश्यभाव्यर्थमचिन्तयतः तनयं मृतं दृष्ट्वेति शेषः || १५ || अकाल एव मत्पुत्रो नीतः किमिति कोपितः | कालाय शापमुत्स्रष्टुं भगवानुपचक्रमे || १६ || अथाकलितरूपोऽसौ कालः कवलितप्रजः | आधिभौतिकमास्थाय वपुर्मुनिमुपाययौ || १७ || अकलितरूपः अरूपोऽपीति यावत् | आकलितं कल्पितं रूपं येनेति वा || १७ || खड्गपाशधरः श्रीमान्कुण्डली कवचान्वितः | षड्भुजः षण्मुखो वह्न्या वृतः किङ्करसेनया || १८ || प्रतिपार्श्वं षड्भुजो द्वादशमासभुज इत्यर्थः षडृतुमुखः || १८ || यच्छरीरसमुत्थेन ज्वालाजालेन वल्गता | फुल्लकिंशुकवृक्षस्य बभाराद्रेः श्रियं नभः || १९ || यत्करस्थत्रिशूलाग्रनिःसृतैरग्निमण्डलैः | विरेजुरुदितैराशाः कानकैरिव कुण्डलैः || २० || आशा दिशः | कानकैः कनकमयैः || २० || यत्परश्वसनापास्तशिखरा मेदिनीभृतः | दोलामिव समारूढाश्चेलुः पेतुश्च घूर्णिताः || २१ || परेण प्रबलेन श्वसनेन श्वासवायुना अपास्तशिखराः || २१ || यत्खड्गमण्डलोद्द्योतैः श्यामं बिम्बं विवस्वतः | कल्पदग्धजगद्धूमपर्याकुलमिवाबभौ || २२ || कल्पे प्रलयकाले दग्धस्य जगतो धूमेन पर्याकुलं मुखमिव [पर्याकुलमिवेत्येतावतैव निर्वाहे मुखमिवेत्याद्यधिकमत्रेति भाति] विकृतम् || २२ || स उपेत्य महाबाहो कुपितं तं महामुनिम् | कल्पक्षुब्धाब्धिगम्भीरं सान्त्वपूर्वमुवाच ह || २३ || महाबाहो इति रामस्य राज्ञो वा संबोधनम् || २३ || विज्ञातलोकस्थितयो मुने दृष्टपरावराः | हेतुनापि न मुह्यन्ति किं नु हेतुं विनोत्तमाः || २४ || हेतुना परापराधादिनिमित्तेन सतापि || २४ || त्वमनन्ततपा विप्रो वयं नियतिपालकाः | तेन संपूज्यसे पूज्यः साधो नेतरयेच्छया || २५ || इतरया शापभयादिनिमित्तया || २५ || मा तपःक्षपयाऽबुद्धे कल्पकालमहानलैः | यो न दग्धोऽस्मि मे तस्य किं त्वं शापेन धक्ष्यसि || २६ || शापदाने प्रत्युत तवैवानिष्टं स्यान्न ममेत्याशयेनाह - मा तप इति | अबुद्धे व्यर्थबुद्धे इति क्षेपच्छलेन ज्ञानबाधितत्वादविद्यमानबुद्धे इति प्रशंसा | समानवाक्ये युष्मदस्मदादेशा वक्तव्याः इति कात्यायनवचनविरोधाद्भिन्नवाक्यस्थपदात्परस्य मे इत्यादेशश्छान्दसः || २६ || संसारावलयो ग्रस्ता निगीर्णा रुद्रकोटयः | भुक्तानि विष्णुवृन्दानि क्व न शक्ता वयं मुने || २७ || अप्रधृष्यतामुक्त्वा स्वस्याव्याहतशक्तितामाह - संसारेति | संसारावलयो ब्रह्माण्डपङ्क्तयः | क्व कस्मिन्विषये न शक्तास्तमुदाहरेत्यर्थः | क्व नु शप्ता इति पाठे तु क्व कस्मिन्नपराधे केन वा शापेनाभिभूता इत्यर्थः | स्वयं नियतिः स्वाभाविकी मर्यादा | ईहितमिच्छाद्वेषादिनिमित्तान्तरकृतमित्यर्थः || २७ || भोक्तारो हि वयं ब्रह्मन्भोजनं युष्मदादयः | स्वयं नियतिरेषा हि नावयोरेतदीहितम् || २८ || स्वयमूर्ध्वं प्रयात्यग्निः स्वयं यान्ति पयांस्यधः | भोक्तारं भोजनं याति सृष्टिं चाप्यन्तकःस्वयम् || २९ || सृज्यत इति सृष्टिस्तां जन्यभावमित्यर्थः | अन्तको विनाशकालः | स यद्यदेवासृजत तत्तदत्तुमध्रियतेति श्रुतेरिति भावः || २९ || इदमित्थं मुने रूपं ममेह परमात्मनः | स्वात्मनि स्वयमेवात्मा स्वत एव विजृम्भते || ३० || कुतस्तव सर्वभोक्तृता किं वा स्वरूपं तत्राह - इदमिति | इदं [इह इति मुद्रितपुस्तके पाठः] मूर्तामूर्तं जगत्परमात्मनो मम इत्थं भोज्यस्वभावतयैव स्वस्मिन् कल्पितं रूपम् | यतः परमात्मा स्वात्मनि स्वयमेव जगदात्मना विजृम्भते | अतः स्वयमेवोपसंहरतीत्यर्थः || ३० || नेह कर्ता न भोक्तास्ति दृष्ट्या नष्टकलङ्कया | बहवश्चेह कर्तारो दृष्ट्याऽनष्टकलङ्कया || ३१ || इदमप्यौपनिषदव्यवहारदृशोक्तं परमार्थदृशा त्वाह - नेहेति | कर्मठदृष्ट्या त्वाह - बहव इति | अनष्टकलङ्कयेति च्छेदः || ३१ || कर्तृताकर्तृते ब्रह्मन्केवलं परिकल्पिते | असम्यग्दर्शनेनैव न सम्यग्दर्शनस्य ते || ३२ || सम्यग्दर्शनं तत्त्वसाक्षात्कारो यस्य तस्य ते कर्तृताकर्तृते न स्तः || ३२ || पुष्पाणि तरुखण्डेषु भूतानि भुवनेषु च | स्वयमायान्ति यान्तीह कल्पते हेतुनामभिः || ३३ || न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः इत्यादिभगवद्दर्शितं पक्षमाश्रित्याह - पुष्पाणीति | हेतुनामभिः [इह विषये कर्त्रादिशब्देः काल एव कल्पते इति कालपदाध्याहारेण योजना कार्या] कर्त्रादिशब्दैः | हेतुना विधिः इति पाठे विधीयत इति विधिः प्राणिकर्मैव स्वाक्षिप्तेन हेतुना निमित्तवैचित्र्येण विचित्रकार्येऽपि कल्पते समर्थो भवतीत्यर्थः || ३३ || अब्बिम्बितस्य चन्द्रस्य चलने कर्त्रकर्तृते [कर्तृकर्तृते इति पाठः] | न सत्ये नानृते यद्वत्तद्वत्कालस्य सृष्टिषु || ३४ || परमार्थदृशा अभावान्न सत्ये व्यवहारसंवादान्नानृते | कालस्य कालरूपस्य परमात्मनः || ३४ || मनो मिथ्याभ्रमाभोगे कर्तृताकर्तृतामयीम् | करोति कलनां रज्ज्वां भ्रान्तेक्षण इवाहिताम् || ३५ || भ्रान्तेक्षणो दुष्टदृष्टिः || ३५ || तेन मागा मुने कोपमापदामीदृशः क्रमः | यद्यथा तत्तथैवाशु सत्यमालोकयाकुलः || ३६ || तेन वर्णितरीत्या अपराधासंभवेन | आकुलः सन् कोपं भागाः || ३६ || न वयं प्रतिभार्थेहा नाभिमानवशीकृताः | स्वतो हि तात वशगाः केवलं नियतौ स्थिताः || ३७ || रागाभिमानादिवशात्त्वत्पुत्रवधे अपराधिता स्यान्न च मे तौ स्त इत्याह - न वयमिति | प्रतिभार्थे भ्रान्तिकल्पितख्यातिपूजाद्यर्थे ईहा रागो येषाम् | अस्मदो द्वयोश्च इति बहुवचनम् | त्वत्समीपागमनमपि न त्वत्क्रोधभयात्किंतु तपस्विनो मान्या इति नियतिवशादित्याशयेनाह - स्वत इति || ३७ || प्रकृतव्यवहारेहानियतीरियतेर्वशात् | प्राज्ञाः समभिवर्तन्ते नाभिमानमहातमः || ३८ || सर्वप्राज्ञानुसारित्वान्नियतिवश्यता ममोचिता तव तु क्रोधाभिमानतमोनुवृत्तिरनुचितेत्याशयेनाह - प्रकृतेति | जगन्मर्यादापालकेश्वरेच्छालक्षणमहानियतेर्वशादवान्तरप्रकृतव्यव हारेच्छानियतीः समनुवर्तन्त इत्यर्थः || ३८ || कर्तव्यमेव नियतं केवलं कार्यकोविदैः | सुषुप्तिवृत्तिमाश्रित्य कदाचित्त्वं न नाशय || ३९ || कार्यकोविदैर्व्यवहारचतुरैः कर्तव्यमेव अवश्यं कर्तव्यं नियतं स्वस्वोचितमर्यादापालनं त्वं सुषुप्तवृत्तिं तमोवृत्तिमाश्रित्य न नाशय | कदाचिदपि नाशय इति पाठे स्पष्टम् || ३९ || क्व सा ज्ञानमयी दृष्टिः क्व महत्त्वं क्व धीरता | मार्गे सर्वप्रसिद्धेऽपि किमन्ध इव मुह्यसि || ४० || सर्वप्राज्ञप्रसिद्धे || ४० || स्वकर्मफलपाकोत्थामविचार्य दशां मुने | किं मुर्ख इव सर्वञ मुधा मां शप्तुमिच्छसि || ४१ || मुधा व्यर्थम् || ४१ || देहिनामिह सर्वेषां शरीरं द्विविधं मुने | किं न जानासि तं देहमेकमन्यन्मनोभिधम् || ४२ || इत्थं भृगोर्मोहं विनिन्द्य प्रसुप्तं ज्ञानं प्रबोधयितुमुपक्रमते - देहिनामित्यादिना | तं प्रसिद्धं स्थूलम् || ४२ || तत्र देहो जडोऽत्यर्थमाविनाशपरायणः | मनस्तुच्छं च नियतं कदर्थीक्रियते तव || ४३ || आविनाशः ईषन्निमित्तेनापि विनाशः | नियतं आमोक्षस्थायि | तुच्छं प्रातिभासिकम् | कदर्थीक्रियते क्रोधादिना पीड्यते || ४३ || चतुरेण यथा साधो रथः सारथिनोह्यते | कुर्वता किंचन स्नेहाद्देहोऽयं मनसा तथा || ४४ || स्नेहादभिमानात्किंचन ईदृशमिति विशिष्य वक्तुमशक्यमन्तर्व्यापारं कुर्वता || ४४ || असत्संकल्पः क्रियते सच्छरीरं विनाश्यते | क्षणेन मनसा पङ्कपुरुषः शिशुना यथा || ४५ || असद्देहान्तरविषयः संकल्पः क्रियते | सत् पूर्वसिद्धं विनाश्यते | पङ्कपुरुष आर्द्रमृत्पुत्रिका क्रीडार्था || ४५ || चित्तमेवेह पुरुषस्तत्कृतं कृतमुच्यते | तद्वद्धं कलनाहेतोः कलनास्तं विमुच्यते || ४६ || असत्संकल्पनमेव कलना तद्रूपाद्धेतोर्बद्धम् || ४६ || अयं देह इवात्रस्थमिदमङ्गमिदं शिरः | इदं स्फारविकारं तन्मन एवाभिधीयते || ४७ || तस्य देहकलनाप्रकारमभिनयन्नाह - अयमिति || ४७ || मनो हि जीवाज्जीवाख्यं निश्चयैकतया नु धीः | अहङ्कारोऽभिमन्तृत्वान्नानाता स्वयमेव हि || ४८ || एकमेव मनो यथा पूर्वपूर्वजीवाज्जिवान्तराख्यं भवति तथा जीवटोपाख्याने वक्ष्यते | मनःसंकल्पितेऽर्थे निश्चयैकतया मन एव तदनु धीर्भवति | अभिमन्त्र्त्वादहङ्कार इति मनः स्वयमेव नानाता नानात्वं भवतीत्यर्थः || ४८ || देहवासनया चेतस्त्वन्यानि स्वानि चेच्छया | पार्थिवानि शरीराणि ह्यसन्ति परिपश्यति || ४९ || आलोकयति चेत्सत्यं तदा सत्यमयीं मनः | शरीरभावनां त्यक्त्वा परामायाति निर्वृतिम् || ५० || इदंच मनसो देहादिकल्पकत्वमात्मसाक्षात्कारपर्यन्तपर्यन्तमेव नोत्तरत्रेत्याह - आलोकयतीति || ५० || तन्मनस्तव पुत्रस्य समाधौ त्वयि संस्थिते | स्वमनोरथमार्गेण दूराद्दूरतरं गतम् || ५१ || एवं भृगुं प्रबोध्य मनोविलासमात्रकृतां तत्पुत्रकथां प्रस्तौति - तदिति || ५१ || इममौशनसं त्यक्त्वा देहं मन्दरकन्दरे | प्रयातो वैबुधं सद्म नीडोड्डीनः खगो यथा || ५२ || इमं त्वया दृश्यमानम् || ५२ || तत्र मन्दरगुञ्जेषु पारिजाततलेषु च | नन्दनोद्यानखण्डेषु लोकपालपुरेषु च || ५३ || मुने चतुर्युगान्यष्टौ विश्वाचीं देवसुन्दरीम् | असेवत महातेजाः षट्पदः पद्मिनीमिव || ५४ || देवसुन्दरीमप्सरसम् || ५४ || तीव्रसंवेगसंपन्नस्वसंकल्पोपकल्पिते | अथ पुण्यक्षये जाते नीहार इव शार्वरे [शाम्बरे इति पाठः] || ५५ || स्वर्ग इव पुण्यक्षयात्तत्पातोऽपि मनःकल्पनयैवेत्याशयेनाह - तीव्रेति || ५५ || प्रम्लानकुसुमोत्तंसः खिन्नाङ्गावयवोल्लसः | स पपात तया सार्धं कालपक्वं फलं यथा || ५६ || स्वर्ग उत्तंसकुसुमम्लान्यादिकं स्वर्गे पुण्यक्षयचिह्नम् || ५६ || वैबुधं तत्परित्यज्य नभस्येव शरीरकम् | भूताकाशमथासाद्य वसुधायां व्यजायत || ५७ || अजायत जन्म लेभे || ५७ || आसीद्विप्रो दशार्णेषु कोसलेषु महीपतिः | धीवरोऽथ महाटव्यां हंसस्त्रिपथगातटे || ५८ || तस्य तत्तद्वासना कर्मानुसारीणि पूर्वमुक्तान्यनुक्तानि च बहूनि जन्मान्याह - आसीदित्यादिना || ५८ || सूर्यवंशे नृपः पौण्ड्रः सौरशाल्वेषु देशिकः | कल्पं विद्याधरः श्रीमान्धीमानथ मुनेः सुतः || ५९ || पौण्ड्रः पुण्ड्रदेशाधिपतिः | देशिको मन्त्रसिद्धः अन्येषामुपदेष्टा | अत एव मन्त्रोपास्तिप्रभावात्कल्पं विद्याधरः | अथ अनन्तरं मुनेः सुतो जातः || ५९ || मद्रेष्वथ महीपालस्ततस्तापसबालकः | वासुदेव इति ख्यातः समङ्गायास्तटे स्थितः || ६० || अन्यास्वपि विचित्रासु वासनावशतः स्वयम् | विषमास्वेव पुत्रस्ते चचारान्तरयोनिषु || ६१ || नैतावन्त्येवास्य जन्मानि किंत्वन्यान्यप्यासन्नित्याह - अन्यास्वपीति || ६१ || अभूद्विन्ध्यनगे भूयः किरातः कैकटेषु च | सौवीरेष्वथ सामन्तस्त्रिगर्तेषु च गर्दभः || ६२ || सामन्तो मण्डलेश्वरः | तत्र कृतैः पापैस्तिर्यक्स्थावरादिजन्मान्यपि दर्शयति - त्रिगर्तेष्वित्यादिना || ६२ || वंशगुल्मः किरातेषु हरिणश्चीनजङ्गले | सरीसृपस्तालवृक्षे तमाले वनकुक्कुटः || ६३ || अयं स पुत्रो भवतो भूत्वा मन्त्रविदां वरः | प्रजजाप पुरा विद्यां विद्याधरपुरप्रदाम् || ६४ || कल्पं विद्याधरोऽभवदिति यदुक्तं प्राक् तत्सनिमित्तं प्रपञ्चयति - अयं स इत्यादिना || ६४ || तेनासावभवद्ब्रह्मन्व्योम्नि विद्याधरो महान् | हारकुण्डलकेयूरलीलानिचयलालकः || ६५ || हारकेयूरादिभिर्लीलानिचयैश्च लालको विलासयिता स्त्रीणाम् || ६५ || नायिकानलिनीभानुः पुष्पचाप इवापरः | विद्याधरीणां दयितो गन्धर्वपुरभूषणः || ६६ || अत एव स तासां प्रियतम इत्याशयेनाह - नायिकेति || ६६ || स कल्पावधिमासाद्य द्वादशादित्यधामनि | जगाम भस्मशेषत्वं शलभः पावके यथा || ६७ || द्वादशादित्यधामनि कल्पान्ते युगपदुदितद्वादशादित्यार्चिषि भस्मताम् || ६७ || जगन्निर्माणरहिते स्फारे नभसि सा ततः | वासना तस्य बभ्राम निर्नीडा विहगी यथा || ६८ || अथ कालेन संजाते विचित्रारम्भकारिणि | संसाररचनारम्भे ब्राह्मे रात्रिविपर्यये || ६९ || सा मुने वासना तस्य वातव्याचलिता सती | कृते ब्राह्मणतामेत्य जातोऽद्य वसुधातले || ७० || कृते आद्ययुगे || ७० || वासुदेवाभिधानोऽसौ मुने विप्रकुमारकः | जातो मतिमतां मध्ये समधीताखिलश्रुतिः || ७१ || कल्पं विद्याधरो भूत्वा नद्यास्त्वथ महामुने | तपश्चरति ते पुत्रः समङ्गायास्तटे स्थितः || ७२ || विविधविषयवासनानुवृत्त्या खदिरकरञ्जकरालकोटरासु | जगति जठरयोनिषु प्रयातो गहनतरासु च काननस्थलीषु || ७३ || उपसंहरति - विविधेति | खदिरकरञ्जकण्टककरालगिरिकोटरकल्पासु जठरयोनिषु गर्भवासभेदेषु प्रयातो भ्रान्तः || ७३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे भार्गवोपाख्याने कालवचनं नाम दशमः सर्गः || १० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे कालवचनं नाम दशमः सर्गः || १० || एकादशः सर्गः ११ काल उवाच | अद्योद्दामतरङ्गौघभाङ्काररणितानिले | तीर एव तरङ्गिण्यास्तपस्तपति ते सुतः || १ || भृगोर्योगदशा सम्यक् पुत्रवृत्तान्तदर्शनात् | वर्ण्यते कालसंवादान्मनःक्रीडा जगत्स्थितिः || १ || तरङ्गौघानां भाङ्कारैर्मन्द्रध्वनिभिः रणिता ध्वनन्तोऽनिला यत्र | तरङ्गिण्याः समङ्गाया तपस्तपति करोति || १ || जटावानक्षवलयी जितसर्वेन्द्रियभ्रमः | तत्र वर्षशतान्यष्टौ संस्थितस्तपसि स्थिरे || २ || यदीच्छसि मुने द्रष्टुं तं स्वप्नाभं मनोभ्रमम् | तत्समुन्मील्य विज्ञाननेत्रमाशु विलोकय || ३ || तं पुत्रचरित्रात्मकं पुत्रमनोभ्रमम् | विज्ञायते अनेनेति विज्ञानं योगस्तन्नेत्रं सम्यगुन्मील्य उद्घाट्य || ३ || श्रीवसिष्ठ उवाच | इत्युक्ते जगदीशेन कालेन समदृष्टिना | मुनिः संचिन्तयामास ज्ञानाक्ष्णा तनयेहितम् || ४ || तनयेहितं पुत्रचरित्रम् || ४ || ददर्श च मुहूर्तेन प्रतिभानवशादसौ | पुत्रोदन्तमशेषेण बुद्धिदर्पणबिम्बितम् || ५ || पुत्रस्योदन्तं वृत्तान्तम् | योगजधर्मविशुद्धबुद्धिदर्पणे बिम्बितमिव प्रत्यक्षम् || ५ || पुनर्मन्दरसानुस्थां स्वस्थां कालाग्रसंस्थिताम् | समङ्गायास्तटादेत्य विवेश स्वतनुं भृगुः || ६ || अत्र भृगुः स्वदेहान्निर्गत्य तेषु तेषु प्रदेशेषु समङ्गातटान्तेषु पुत्रव्र्त्तान्तं क्रमेण दृष्ट्वा पुनरागत्य स्वदेहं विवेशेति न भ्रमितव्यम् | योगबलेन स्वस्थान एव सर्वदर्शनसंभवात् | निर्गत्य भ्रमणेऽप्यतीतानागतदर्शनायोगात् | तस्मात्समङ्गायास्तटादेत्य स्वतनुं विवेशेत्युक्तेस्तच्चिन्तात्यागस्वशरीरप्रतिसंधानमात्रे तात्पर्यं बोध्यम् || ६ || विस्मयस्मेरया दृष्ट्या कालमालोक्य कान्तया | वीतरागमुवाचेदं वीतरागो मुनिर्वचः || ७ || वीतरागः अपगतपुत्रस्नेहः || ७ || भगवन्भूतभव्येश बाला वयमनुज्ज्वलाः | त्वादृशामेव धीर्देव त्रिकालामलदर्शिनी || ८ || बाला अज्ञाः | यतोऽनुज्ज्वला रागादिमलिनचित्तः || ८ || नानाकारविकाराढ्या सत्येवासत्यरूपिणी | विभ्रमं जनयत्येषा धीरस्यापि जगत्स्थितिः || ९ || असत्यरूपिणी जगत्स्थितिः सत्येव परमार्थरूपेव भासमाना सती परमार्थवस्तुन्येव विभ्रमं जनयतीति वा | धीरस्य विदुषोऽपि || ९ || त्वमेव देव जानासि त्वदभ्यन्तरवर्ति यत् | रूपमस्या मनोवृत्तेरिन्द्रजालविधायकम् || १० || विषयजगत्स्थितिरिव करणीभूतं मनोरूपमपि मादृशां दुर्ज्ञेयमित्याह - त्वमेवेति | इन्द्रजालसदृशमायाव्यामोहविधायकम् || १० || मत्पुत्रस्यास्य भगवन्मृत्युः किल न विद्यते | तेनेमं मृतमालोक्य जातः संभ्रमवानहम् || ११ || स्वव्यामोहे द्वे निमित्ते आह - मत्पुत्रस्येति द्वाभ्याम् | न विद्यते | आकल्पमित्यर्थः || ११ || अक्षीणाजीवितं पुत्रं कालो मे नीतवानिति | नियतेर्वशतो देव तुच्छापीच्छा ममोदिता || १२ || न क्षीणमाजीवितमायुर्यस्य तम् || १२ || ननु विज्ञातसंसारगतयो वयमापदाम् | संपदां चैव गच्छामो हर्षामर्षवशं विभो || १३ || विस्मयस्याप्यर्थस्य च द्योतको ननुशब्दः || १३ || अयुक्तकारिणि क्रोधः प्रसादो युक्तकारि.इ | कर्तव्य इति रूढेयं संसारे भगवन् स्थितिः || १४ || नियतिरूपं द्वितीयहेतुं विवृणोति - अयुक्तेति | स्थितिर्नियतिः || १४ || इदं कार्यमिदं नेति यावत्कार्यं जगद्भ्रमः | तस्यैतत्संपरित्यागो हेय एव जगद्गुरो || १५ || कियत्कालं सा रूढा तत्राह - इदमिति | यावत्कालं इदमवश्यं कर्तव्यमिदं न कर्तव्यमितीष्टानिष्टसाधनयोः कार्यं फलं सत्यमिति जगद्भ्रमस्तावदेव | तर्हि स किमिदानीमपि तवोचितो नेत्याह - तस्येति | एतत् एतर्हि तस्य भ्रमस्य तत्त्वबोधात्परित्यागो वृत्तः | अतस्तदर्थं क्रोधप्रसादकर्तव्यतानियमोऽपि हेय एवेत्यनुचित एव क्रोध इत्यर्थः || १५ || केवलं तावकीं चिन्तामनालोक्य यदा वयम् | भगवन्भवते क्रुद्धा याताः स्मस्तेन बाध्यताम् || १६ || एवं सत्यप्यपराधे क्रोधो न युक्तः असति तु तदारोपेण क्रोधे प्रत्युत क्रोद्धुरेव दण्डो युक्त इत्याशयेनाह - केवलमिति | चिन्तां वर्णितरूपं नियतिपरिपालनमात्राभिप्रायम् | बाध्यतां त्वद्दण्ड्यतां याताः स्मः || १६ || त्वयेदानीमहं देव स्मारितस्तनयेहितम् | समङ्गायास्तटे तेन दृष्टोऽयं तनयो मया || १७ || मनो जगति भूतानां द्वे शरीरेऽत्र सर्वगम् | मन एव शरीरं हि येनेदं भाव्यते जगत् || १८ || हि यस्मान्मन एव भौतिकं शरीरं कल्पयति अतो मन एव द्वे शरीरे इत्यर्थः | येन मनसा || १८ || काल उवाच | सम्यगुक्तं त्वया ब्रह्मन् शरीरं मन एव च | करोति देहं संकल्पात्कुम्भकारो घटं यथा || १९ || इत्थं विनीतवादेन स्वोपदिष्टसूक्ष्मार्थग्रहणेन न तोषितः कालस्तदुक्तिं प्रशंसंस्तामेवोपपत्तिभिर्द्रढयति - सम्यगुक्तमित्यादिना || १९ || करोत्यकृतमाकारं कृतं नाशयति क्षणात् | संकल्पेन मनोमोहाद्बालो वेतालकं यथा || २० || तथा च संभ्रमस्वप्नमिथ्याज्ञानादिभासुराः | गन्धर्वनगराकारा दृष्टा मनसि शक्तयः || २१ || मनसः असन्निर्माणशक्तिः सर्वानुभवप्रसिद्धेत्याह - तथा चेति || २१ || स्थूलदृष्टिदशां त्वेतामवलम्ब्य महामुने | पुंसो मनः शरीरं च कायौ द्वाविति कथ्यते || २२ || मन एव शरीरं हीत्युक्तेः सम्यक्त्वमुपपाद्य येनेदं भाव्यते जगदित्युक्तेस्ततोऽपि सम्यक्त्वमित्युपपादयितुं पूर्वां निन्दति - स्थूलदृष्टिदशामिति || २२ || मनो मनननिर्माणमात्रमेतज्जगत्त्रयम् | न सन्नासदिव स्फारमुदितं नेतरन्मुने || २३ || का तर्हि सूक्ष्मदृष्टिस्तामाह - मन इत्यादिना | यतो मन इव सत्त्वासत्त्वाभ्यामनिर्वचनीयमिदमुदितमित्यर्थः || २३ || चित्तदेहाङ्गलतया भेदवासनयेद्धया | द्विचन्द्रत्वमिवाज्ञानान्नानातेयं समुत्थिता || २४ || चित्तदेहस्य अवयवभूतया लतयेव प्रतन्यमानया | नानाता जगद्भिदा || २४ || भेदवासनया पश्यत्पदार्थनिचयं मनः | भिन्नं पश्यति सर्वत्र घटावटपटादिकम् || २५ || कृशोऽतिदुःखी मूढोऽहमेताश्चान्याश्च भावनाः | भावयत्स्वविकल्पोत्थां याति संसारितां मनः || २६ || मननं कृत्रिमं रूपं ममैतन्न यतोऽस्म्यहम् | इति तत्त्यागतः शान्तं चेतो ब्रह्म सनातनम् || २७ || संसरणक्रममुपपाद्य तन्निवृत्त्युपायमाह - मननमिति | कृत्रिममननरूपत्यागे अकृत्रिमस्वरूपावस्थितेरर्थप्राप्तत्वादिति भावः || २७ || यथा प्रवितताम्भोधौ द्रुतां नैकतरङ्गिणि | शाम्यत्स्पन्दतयानेककल्लोलावलिशालिनि || २८ || उक्तेऽर्थे विस्तरेण समुद्रतरङ्गदृष्टान्तं वर्णयितुमारभते - यथेत्यादिना | अत्रत्ययथाशब्दस्य चतुर्दशश्लोकस्थेन तथैवेत्यनेनान्वयः | वारिसामान्यात्मना अम्भोधिरूपेण तत्तत्प्रदेशे स्थितजलात्मना च दृश्यमानदूरप्रस्थानरूपस्पन्दाभावाच्छाम्यत्स्पन्दतया स्थिते | कल्लोलग्रहणं महत्त्वाद्गोबलीवर्दन्यायेन || २८ || वार्यात्मनि समे स्वच्छे शुद्धे स्वादुनि शीतले | अविनाशिनि विस्तीर्णे महामहिमनि स्फुटे || २९ || ह्रस्वस्तरङ्गः स्वं रूपं भावयन्स्वस्वभावतः | ह्रस्वोऽस्मीति विकल्पेन करोति स्वेन भावनाम् || ३० || स्वं रूपं भावयन्नित्यादिः सर्वस्तार्किकोऽहंकारारोपवादः | यदि भावयति तदा वक्ष्यमाणभावनां करोतीत्यर्थः || ३० || दीर्घस्तरङ्गः स्वं रूपं भावयन्स्वस्वभावतः | दीर्घोऽस्मीति विकल्पेन करोति स्वेन भावनाम् || ३१ || ह्रस्वश्चैव परिभ्रष्टरूपोऽस्मीति तलातलम् | भावयन्भूतलं याति तादृग्भावनया स्वया || ३२ || तलातलं पातालं भावयन्पतनभयाद्भूतलं तीरभूमिमुद्दिश्य याति || ३२ || उत्पन्नश्च पलादूर्ध्वमुत्थितोऽस्मीति भावितः | सरश्मिरत्नजालस्तु शोभते दीप्तया श्रिया || ३३ || पलादल्पकालादूर्ध्वमनन्तरं उत्थितो भोगयोग्यं जन्म प्राप्तोऽस्मीति भावितोऽभिमन्यमानो दैवाद्गिरिरिव प्ररत्नरश्मिजालसहितः सन् शोभते | भूषितोऽस्मीति हृष्यतीत्यर्थः || ३३ || तुषारकरबिम्बस्थः शीतलोऽस्मीति बिम्बति | सतटाचलदावाग्निप्रतिबिम्बो ज्वलद्वपुः || ३४ || तस्यान्यान्यपि हर्षभयस्थानानि दर्शयति - तुषारकरेत्यादिना | तुषारकरस्य चन्द्रस्य बिम्बनं बिम्बस्तत्र उपाधित्वेन स्थितः सन् शीतलोऽस्मीति बिम्बत्यभिमन्यते | तटस्थाचलदावाग्निप्रतिबिम्बेन सहितस्तु ज्वलद्वपुरस्मीति बिभेति कम्पते चेति प्रेणान्वयः || ३४ || बिभेति वत दग्धोऽस्मीत्यात्तमौनश्च कम्पते | प्रतिबिम्बितवेलाद्रितटपक्षवनद्रुमः || ३५ || प्रतिबिम्बिताः वेलाद्रितटयोः पक्षप्राया वनद्रुमा यस्मिंस्तथाभूतः सन् महता राज्यप्राप्त्यादिफलारम्भाडम्बरेण संयुक्तः कृतार्थोऽस्मीति राजते इति परेणान्वयः || ३५ || महदारम्भसंरम्भसंयुक्तोऽस्मीति राजते | विशल्लोलानिलात्यन्तध्वस्तलोलशरीरकः || ३६ || खण्डशः परियातोऽस्मीत्यात्तक्रन्द इवारवी | न चोर्मयस्ते जलधेर्व्यतिरिक्ताः पयोधरात् || ३७ || आत्तक्रन्द आरब्धरोदन इव आरवी ध्वनिमान् | दृष्टान्ते आरोपमुक्त्वा अपवादं दर्शयति - न चेत्यादिना | पयोभराद्वारिसमूहरूपाज्जलधेः || ३७ || नचैकं रूपमेतेषां किंचित्सन्नाप्यसन्मयम् | नचैते ह्रस्वदैर्घ्याद्या गुणास्तेषु न तेषु ते || ३८ || तेषूर्मिषु गुणा न सन्ति तेषु गुणेषु ऊर्मयश्च नेति दृष्टान्तार्थः || ३८ || नोर्मयः संस्थिता ह्यब्धौ न तत्तत्र न संस्थिताः | केवलं स्वस्वभावस्थसंकल्पविकलीकृताः || ३९ || तत्राब्धौ न संस्थिता इति यत्तत्र | अधिष्ठानात्मना सत्त्वाद्विवर्तात्मना तु प्रतियोग्यसिद्धावभावासिद्धेरिति भावः | के तर्हि ते ऊर्मयस्तत्राह - केवलमिति | विकलीकृता अल्पीकृताः | परिच्छेदभेदविकल्पिता इति यावत् || ३९ || नष्टानष्टाः पुनर्जाता जाताजाताः पुनः पुनः | परस्परपरामर्शान्नान्यतामुपयान्त्यलम् || ४० || परस्परपरामर्शादन्योन्यमेलनात् || ४० || एकरूपाम्बुसामान्यमया एव निरामयाः | तथैवास्मिन्प्रवितते सिते शुद्धे निरामये || ४१ || दार्ष्टान्तिके योजयति - तथैवेत्यादिना | सिते भारूपे || ४१ || ब्रह्ममात्रैकवपुषि ब्रह्मणि स्फाररूपिणि | सर्वशक्तावनाद्यन्ते पृथग्वदपृथक्कृताः || ४२ || ब्रह्ममात्रैकवपुषि निरङ्कुशब्रह्मणैकस्वभावे | अत एव ब्रह्मणि | पूर्णतैवात्र बृंहणं न वृद्धिक्रियेत्याशयेन तद्व्याख्या स्फाररूपिणीति || ४२ || संस्थिताः शक्तयश्चित्रा विचित्राचारचञ्चलाः | नानाशक्तिर्हि नानात्वमेति स्वे वपुषि स्थितिम् || ४३ || शक्तयः उपचराज्जगन्ति अभेदोपचारे हेतुमाह - नानेति || ४३ || बृंहितं ब्रह्मणि ब्रह्म पयसीवोर्मिमण्डलम् | स्त्रीपुमान्व्यङ्गरूपेण ब्रह्मैव परिवर्तते || ४४ || व्यङ्गो नपुंसकः त्रिपदद्वन्द्वे विभक्त्यलुक् छान्दसः || ४४ || कल्पनान्या जगन्नाम्नी नासीदस्ति भविष्यति | ब्रह्मणो जगतो भेदो मनागपि न विद्यते || ४५ || यौक्तिकदृष्ट्योपपाद्य परमार्थदृष्ट्याप्याह - कल्पनेति || ४५ || संपूर्णं खल्विदं ब्रह्म जगद्ब्रह्मैव केवलम् | इति भावय यतेन ह्यन्यत्सर्वं परित्यज || ४६ || नानारूपिण्येकरूपा वैरूप्यशतकारिणी | नियतिर्नियताकारा पदार्थमधितिष्ठति || ४७ || अन्यपरित्यागोपायतया सर्वाधिष्ठानसन्मात्रं व्युत्पादयति - नानेति | नियताकारा सदा सर्वत्रैकरूपा | नियतिः सत्ता || ४७ || जडाजडमुपादत्ते चित्तमायाति चिन्मये | वासनारूपिणी शक्तिः स्वस्वरूपा स्थितात्मनः || ४८ || ननु जडाजडसाधारणी सत्ता कथं नियतैकरूपा स्यादित्याशङ्क्य न चित्तकृतजडाजडविकल्पाभ्यां सन्मात्रैकरूप्यक्षतिरित्याशयेनाह - जडेति | चिन्मये चिदाभासे चित्तं आयाति | प्राप्ते सति तत्तद्व्याप्तमहंकारमेवात्मतया तदन्यसन्मात्रं चानात्मतया मन्यमानमनाध्यात्मिकं जडमाध्यात्मिकं चाजडमिति भेदमुपादत्ते | सेयं चित्तस्य भेदवासनारूपिणी शक्तिरधिष्ठानसन्मात्रातिरेके मिथ्यात्वापत्तेरात्मनः स्वस्वरूपैव स्थितेति नैकरस्यहानिरित्यर्थः || ४८ || ब्रह्मैवानघ तेनेदं स्फाराकारं विजृम्भते | नानारूपैः प्रतिस्पन्दैः परिपूर्ण इवार्णवः || ४९ || एवं च वर्णितदृष्टान्तदार्ष्टान्तिकसाम्यमव्याहतमित्याह - ब्रह्मैवेत्यादिना || ४९ || नानातां स्वयमादत्ते नानाकारविहारतः | आत्मैवात्मन्यात्मनैव समुद्राम्भ इवाम्भसि || ५० || व्यतिरिक्ता न पयसो विचित्रा वीचयो यथा | व्यतिरिक्ता न विश्वेशात्समग्राः कल्पनास्तथा || ५१ || शाखापुष्पलतापत्रफलकोरकयुक्तयः | यथैकस्मिंस्तथा बीजे सर्वदा सर्वशक्तिता || ५२ || एकस्मिन्बीजे || ५२ || विचित्रवर्णता यद्वद्दृश्यते कठिनातपे | विचित्रशक्तिता तद्वद्देवेशे सदसन्मयी || ५३ || परिणामवाददृष्टान्तेनोपपाद्य विवर्तवादप्रसिद्धदृष्टान्तेनाप्युपपादयति - विचित्रेत्यादिना || ५३ || विचित्ररूपोदेतीयमविचित्रात्स्थितिः शिवात् | एकवर्णात्पयोवाहाच्छक्रचापलता यथा || ५४ || पयोवाहान्मेघात् || ५४ || अजडाज्जडतोदेति जाड्यभावनहेतुका | ऊर्णनाभाद्यथा तन्तुर्यथा पुंसः सुषुप्तता || ५५ || चेतनादचेतनोत्पत्तावपि वादद्वयानुरूपे द्वे दृष्टान्ते आह - अजडादिति | सुषुप्तता स्वाप्नरथादिः || ५५ || अचितश्चेतसः शक्तिं स्वबन्धायेच्छया शिवः | तनोति तान्तवं कोशं कोशकारकृमिर्यथा || ५६ || ननु चित ऐकरूप्यात्तत्कार्ये अचिति कथं वैचित्र्यसिद्धिरित्यत उक्तं - चेतसः शक्तिमिति | वासनावैचित्र्यमित्यर्थः || ५६ || स्वेच्छयात्मात्मनो ब्रह्मन्भावयित्वैष विस्मृतिम् | करोति कठिनं बन्धं कोशकारकृमिर्यथा || ५७ || स्वेच्छयात्मात्मनो ब्रह्मन्भावयित्वा स्वकं वपुः | संसारान्मोक्षमाप्नोति स्वालानादिव वारणः || ५८ || स्वकं वपुः स्वीर्य पूर्णस्वरूपं भावयित्वा साक्षादनुभूय || ५८ || यथैव भावयत्यात्मा सततं भवति स्वयम् | तथैवापूर्यते शक्त्या शीघ्रमेव महानपि || ५९ || भाविता शक्तिरात्मानमात्मतां नयति क्षणात् | अनन्तमखिलं प्रावृड्मिहिका महती यथा || ६० || भाविता चिरभावनया दृढीकृता शक्तिर्वासना | आत्मतां स्वानुरूपताम् | अनन्तमाकाशम् | प्रावृणिहिका प्रसिद्धा || ६० || या शक्तिरुदिता शीघ्रं याति तन्मयतामजः | य एवर्तुः स्थितिं यातस्तन्मयो भवति द्रुमः || ६१ || उक्तमेव स्फुटयति - या शक्तिरिति || ६१ || न मोक्षो मोक्ष ईशस्य न बन्धो बन्ध आत्मनः | बन्धमोक्षदृशौ लोके न जाने प्रोत्थिते कुतः || ६२ || इयं बन्धमोक्षकल्पना अज्ञदृशा तत्त्वदृशा तु तत्संभावनैव नास्तीत्याह - नेति || ६२ || नास्ति बन्धो न मोक्षोऽस्ति तन्मयस्त्विव लक्ष्यते | ग्रस्तं नित्यमनित्येन मायामयमहो जगत् || ६३ || तन्मयो बन्धमोक्षविकारवानिव लक्ष्यते भ्रान्त्या | कुतः यतोऽस्य नित्यं पूर्णात्मरूपमनित्येन आविद्यकेन वासनाध्यस्तभोक्तृभोग्यादिभावेन ग्रस्तं रितोहितम् | तदेव मायामयं जगदित्यर्थः || ६३ || यदैव चित्तं कलितं किलानेनाकलात्मना | कोशकारवदात्मायमनेनावलितस्तदा || ६४ || तत्र मुक्यं बन्धं दर्शयति - यदैवेति || ६४ || अन्योन्यरूपास्त्वत्यन्तं विकल्पितशरीरकाः | मनःशक्तय एतस्मादिमा निर्यान्ति कोटयः || ६५ || अन्ये बन्धास्तु तत्कृता एवेत्याह - अन्योन्येति || ६५ || तज्जास्तत्स्थाः पृथग्रूपाः समुद्रादिव वीचयः | तज्जास्तत्स्थाः पृथक्स्थाश्च चन्द्रादिव मरीचयः || ६६ || पृथगिव भूताः | कर्मज्ञानेन्द्रियभेदात्तामससात्त्विकभेदाद्वा विभागविवक्षया क्रमाद्दृष्टान्तद्वयोपन्यासः || ६६ || अस्मिन्स्पन्दमये स्फारे परमात्ममहाम्बुधौ | चिज्जले वितताभोगे चिन्मात्ररसमालिनि || ६७ || मुख्यामुख्यबन्धोपाधिकजीवाख्यसंविद्भेदानेव नामरूपक्रियादिवैचित्र्यैर्विस्तरेण दर्शयितुमुपक्रमते - अस्मिन्नित्यादिना || ६७ || काश्चित्स्थिरा ब्रह्मविष्णू काश्चिद्रुद्रत्वमागताः | काश्चित्पुरुषतां प्राप्ताः काश्चिद्देवत्वमागताः || ६८ || पुरुषतां मनुष्यताम् || ६८ || (लहर्यः [कोष्ठकविन्यस्ताः श्लोकाः प्रक्षिप्ता इति भाति] प्रस्फुरन्त्येताः स्वभावोद्भावितात्मकाः | काश्चिद्यममहेन्द्रार्कवह्निवैश्रवणादिकाः || घ्नन्ति कुर्वन्ति तिष्ठन्ति लहर्यश्चपलैषणाः | काश्चित्किंनरगन्धर्वविद्याधरसुरादिकाः || उत्पतन्ति पतन्त्युग्रा लहर्यः परिवल्गिताः | काश्चित्किंचित्स्थिराकारा यथा कमलजादिकाः || काश्चिदुत्पन्नविध्वस्ता यथा सुरनरादिकाः ||) कृमिकीटपतङ्गाहिगोमशाजगरादिकाः | काश्चित्तस्मिन्महाम्भोधौ स्फुरन्त्येतेम्बुबिन्दुवत् || ६९ || मशा मशकाः | महाम्भोधौ यादोरूपेणेति शेषः | दृष्टान्तशेषो वा || ६९ || काश्चिच्चला नरमृगगृध्रजम्बुलकादिकाः | स्फुरन्ति गिरिकुञ्जेषु वेलावनतटेष्विव || ७० || जम्बुलका जम्बुकाः | चञ्चुलका इति पाठे पक्षिभेदाः | वेलावनतटेष्विव चला अस्थिराः | तेषु हि वायुप्राबल्यात्सदैव तरुगुल्मलतादीनां चलता प्रसिद्धा || ७० || सुदीर्घजीविताः काश्चित्काश्चिदत्यल्पजीविताः | अतुच्छकलनाः काश्चित्काश्चित्तुच्छशरीरकाः || ७१ || अतुच्छा महती कलना देहसंस्थानकल्पना यासां ताः || ७१ || संसारस्वप्नसंरम्भे काश्चित्स्थैर्येण भाविताः | सुविकल्पहताः काश्चिच्छङ्कन्ते सुस्थिरं जगत् || ७२ || स्थैर्येण चिरस्थायित्वेन | सुविकल्पैर्दृढविकल्पैर्हता मोहिताः | शङ्कन्ते संभावयन्ति || ७२ || अल्पाल्पभावनाः काश्चिद्दैन्यदोषवशीकृताः | कृशोऽतिदुःखी मूढोऽहमितिदुःखैर्वशीकृताः || ७३ || अल्पभावनामेव त्रिधा दर्शयति - कृश इति || ७३ || काश्चित्स्थावरतां याताः काश्चिद्देवत्वमागताः | काश्चित्पुरुषतां प्राप्ताः काश्चिदर्णवतां गताः || ७४ || पुरुषतां सदेहताम् | अर्णवतां सुषुप्तिप्रलययोरिवानाविर्भूतवासनां मोहार्णवताम् || ७४ || काश्चित्स्थिता जगति कल्पशतान्यनल्पाः काश्चिद्व्रजन्ति परमं पदमिन्दुशुद्धः | ब्रह्मार्णवात्समुदिता लहरीविलोला- श्चित्संविदो हि मननापरनामवत्यः || ७५ || इन्दुरिव ज्ञानामृतपूर्णत्वाच्छुद्धाः सत्यः परमं पदं पूर्णस्वरूपावस्थितिलक्षणं मोक्षं व्रजन्ति | लहर्य इव विलोलाश्चितः संविद औपाधिकसंवेदनभेदाः मननं मनस्तत्तादात्म्याध्यासात्तन्नामधेयाः || ७५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे भार्गवोपाख्याने संसारप्रवृत्तिदर्शनं नामैकादशः सर्गः || ११ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे संसारप्रवृत्तिदर्शनं नामैकादशः सर्गः || ११ || द्वादशः सर्गः १२ काल उवाच | सुरासुरनराकारा इमा याः संविदो मुने | ब्रह्मार्णवादभिन्नास्ताः सत्यमेतन्मृषेतरत् || १ || तरङ्गाम्बुधिदृष्टान्तात्प्राप्तामात्मविकारताम् | वारयन् वक्ति मोहोत्थवैचित्र्यस्य विवर्तताम् || १ || तत्रादौ सर्वजीवानां ब्रह्मैक्यं भेदकप्रपञ्चमिथ्यात्वं चोपपादयितुं प्रतिजानीते - सुरासुरेति || १ || मिथ्याभावनया ब्रह्मन्स्वविकल्पकलङ्किताः | न ब्रह्म वयमित्यन्तर्निश्चयेन ह्यधोगताः || २ || यद्यभिन्नास्तर्हि कुतस्तथा नानुभवन्ति तत्राह - मिथ्येति | मिथ्याभावना अनात्मन्यात्मताभ्रान्तिस्तया हेतुनेत्यर्थः | अधोगताः निकृष्टां दशां प्राप्ताः || २ || ब्रह्मणो व्यतिरिक्तत्वं ब्रह्मार्णवगता अपि | भावयन्त्यो विमुह्यन्ति भीमासु भवभूमिषु || ३ || व्यतिरिक्तत्वं परिच्छिन्नतां भावयन्त्यः कल्पयन्त्यः || ३ || या एताः संविदो ब्राह्म्यो मननैककलङ्किताः | एतत्तत्कर्मणां बीजमप्यकर्मैव विद्धि ताः || ४ || मननं देहात्मभावस्य पुनःपुनरनुसंधानं तदेवैतत्कर्मणां पुण्यपापप्रवृत्तीनाम् | एवंभूता अपि ताः संविदः अकर्म निष्क्रियं ब्रह्मैवेति विद्धि || ४ || संकल्परूपयैवान्तर्मुने कलनयैतया | कर्मजालकरञ्जानां बीजमुष्ट्या करालया || ५ || प्राणस्तेजसा युक्तः सहात्मना यथासंकल्पितं लोकं नयति इति श्रुतेः कर्मबीजप्ररोहवैचित्र्यव्यवस्थायामपि संकल्पो हेतुरित्याह - संकल्परूपयेति || ५ || इमा जगति विस्तीर्णाः शरिरोपलपङ्क्तयः | तिष्ठन्ति परिवल्गन्ति रुदन्ति च हसन्ति च || ६ || आब्रह्मस्तम्बपर्यन्तं स्पन्दनैः पवनो यथा | उल्लसन्ति निलीयन्ते म्लायन्ति विहसन्ति च || ७ || ता एताः काश्चिदत्यच्छा यथा हरिहरादयः | काश्चिदल्पविमोहस्था यथोरगनरामराः || ८ || इदानीं तरङ्गस्थानीयांश्चित्संविच्छब्दितान् जीवानुपाधिवैशद्यतारतम्येन ज्ञानभूमिकाभेदेन कर्मगतिवैचित्र्यप्रयुक्तसंसरणप्रकारभेदेन च विभज्योदाहरति - ता एता इत्यादिना | ज्ञानैश्वर्योत्कर्षावधित्वादत्यच्छाः | ज्ञानाधिकारयोग्यताप्राप्तेरल्पविमोहस्थाः || ८ || काश्चिदत्यन्तमोहस्था यथा तरुतृणादयः | काश्चिदज्ञानसंमूढाः कृमिकीटत्वमागताः || ९ || इष्टानिष्टयोः प्रवृत्तिनिवृत्तिक्षमत्वात् कृमिकीटदेः स्थावरन्नात्यन्तमोहस्थतेति भावः || ९ || काश्चित्तृणवदुह्यन्ते दूरे ब्रह्ममहोदधेः | अप्राप्तभूमिका एता यथोरगनगादयः || १० || ब्रह्ममहोदधेर्मुक्तेर्दूरे उह्यन्ते प्रवाह्यन्ते शास्त्रप्रतिकूलप्रवृत्तिभिरित्यर्थः || १० || सत्त्वमात्रं समालोक्य काश्चिदेवमुपागताः | जाताजाता निखन्यन्ते कृतान्तजरठाखुना || ११ || एवं संसरणक्रमेण नरादिभावमुपागताः सन्तः सत्त्वं संसरणश्रमविश्रान्तिहेतुभूतयोगभूमिकासद्भावस्तन्मात्रम् | तटमात्रम् इति पाठेऽप्ययमेवार्थः | समालोक्य शास्त्रतः श्रुत्वा तदुन्मुखाः जाताजाता अपि कृतान्तो विघ्नकारि दुरदृष्टं तल्लक्षणेन जरठाखुना निखन्यन्ते | भूमिकादूषणेन पीड्यन्त इति यावत् || ११ || काश्चिदन्तरमासाद्य ब्रह्मतत्त्वमहाम्बुधेः | गतास्तत्तां समं कायैर्हरिब्रह्महरादिकाः || १२ || अन्तरं ईषद्भेदकं विशुद्धज्ञानोपाधिम् | कायैः समं तत्तां ब्रह्ममहाम्बुधिताम् | जीवन्मुक्तिमिति यावत् || १२ || अल्पमोहात्मिकाः काश्चित्तमेव ब्रह्मवारिधिम् | अदृष्टपारभूम्यौघमवलम्ब्य व्यवस्थिताः || १३ || न दृष्टा पारभूमिर्यस्य तथाविधः ओघः पूर्णता यस्य तं समाधिभिरवलम्ब्य || १३ || काश्चिद्भोक्तव्यजन्मौघभुक्तजन्मौघकोटयः | वन्ध्याः प्रकाशतामस्यः संस्थिता भूतजातयः || १४ || अधिकारिदेहप्राप्त्या प्रकाशेऽपि रागान्धत्वात्तामस्यः || १४ || काश्चिदूर्ध्वादधो यान्ति यथा हस्तान्महत्फलम् | ऊर्ध्वादूर्ध्वतरं काश्चिदधस्तात्काश्चिदप्यधः || १५ || ऊर्ध्वात् उत्कृष्टजन्मनः अधः निकृष्टपश्वादिजन्म || १५ || बहुसुखदुःखकराकराक्षयेयं परमपदास्मरणात्समागतेह | परमपदावगमात्प्रयाति नाशं विहगपतिस्मरणाद्द्विषव्यथेव || १६ || एवमनर्थसहस्रनिदानं जीवभावं प्रपञ्च्य तन्मूलं स्मारयंस्तन्निवृत्त्युपायमाह - वह्विति | बहवः सुखदुःखकराणां जन्मनां आकराः खनीभूता रागादयो यस्यां तथाविधा इयं जीवता परमपदस्य स्वात्मतत्त्वस्यास्मरणादपर्यालोचनदोषात्समागता || १६ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे भार्गवोपाख्याने संसारोत्पत्तिविस्तारवर्णनं नाम द्वादशः सर्गः || १२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे संसारोत्पत्तिविस्तारवर्णनं नाम द्वादशः सर्गः || १२ || त्रयोदशः सर्गः १३ काल उवाच | एतासां भूतजातीनामूर्मीणामिव सागरात् | विविधानां विचित्राणां लतानामिव माधवे || १ || उपवर्ण्य मनःशक्तीरथात्र भृगुकालयोः | शुक्रस्य संनिधौ गन्तुमुत्थानं प्रतिपाद्यते || १ || उक्तासु जीवजातिषु जीवन्मुक्तानामेव कृतार्थता नान्येषामित्याह - एतासामित्यादिना | सागरात् आविर्भूतानामिति शेषः | एतासां मध्ये ये जितमनोमोहास्ते भवन्तीति भव्याः कृतार्था इति परेणान्वयः | भव्यगेयप्रवचनीय - इत्यादिना कर्तरि यत् | यक्षादित्रितयोपादानमुदाहरणार्थं नतु परिगणनाय | मनुष्यादिष्वपि संभवात् || १ || भव्या जितमनोमोहा दृष्टलोकपरावराः | जीवन्मुक्ता भ्रमन्तीह यक्षगन्धर्वकिंनराः || २ || अन्ये तु काष्ठकुड्याभा मूढाः स्थावरजंगमाः | अपरे क्षीणमोहास्ते किं तेषां प्रविचार्यते || ३ || साधनचतुष्टयसंपन्ना अज्ञा एव शास्त्रविचारेऽधिकारिणो न तत्त्वज्ञा इत्याशयेनाह - किं तेषामिति || ३ || लोके प्रबुध्यमानानां भूतानामात्मसिद्धये | विहरन्तीह शास्त्राणि कल्पितान्युदितात्मभिः || ४ || किमर्थ तर्हि तेषां देहधारणमिति चेत् शास्त्रप्रकल्पनेनाज्ञोद्धारार्थमेवेत्याशयेनाह - लोके इति || ४ || संप्रबुद्धाशया ये तु दुष्कृतानां परिक्षये | तेषां शास्त्रविचारेषु निर्मला धीः प्रवर्तते || ५ || ज्ञानमुत्पद्यते पुंसः क्षयात्पापस्य कर्मणः इति स्मृतेः शास्त्रमपि शुद्धचित्तेष्वेव सफलं नान्येष्वित्याशयेनाह - संप्रबुद्धेति || ५ || विलीयते मनोमोहः सच्छास्त्रप्रविचारणात् | नभोविहरणाद्भानोः शार्वरं तिमिरं यथा || ६ || शर्वर्यां भवं शार्वरम् || ६ || अक्षीयमाणं हि मनो मोहायैव न सिद्धये | नीहार इव संचाद्य वेताल इव वल्गति || ७ || नीहार इवेत्यावरणे वेताल इवेति विक्षेपे दृष्टान्तौ | वल्गति नृत्यति || ७ || सर्वेषामेव देहानां सुखदुःकार्थभाजनम् | शरीरं मन एवेह नतु मांसमयं मुने || ८ || देहानां तदात्मतापन्नजीवानाम् || ८ || योऽयं मांसास्थिसंघातो दृश्यते पाञ्चभौतिकः | मनोविकल्पनं विद्धि न देहः परमार्थतः || ९ || मनःशरीरेण तव पुत्रोऽयं कृतवान्मुने | तदेव प्राप्तवानाशु वयं नात्रापराधिनः || १० || स्वया वासनया लोको यद्यत्कर्म करोति यः | स तथैव तदाप्नोति नेतरस्येह कर्तृता || ११ || स्वानुसंहितमन्तर्यन्मनोवासनया स्वया | को नाम भुवनेशोऽस्ति तत्कर्तुं यस्य शक्तता || १२ || मनोवाअसनया अनुसंधानमात्रेणापि क्षणाद्यत्क्रियते तदस्माभिर्महतापि यत्नेन चिरेणापि कर्तुं न शक्यत इति नास्मास्वपराधसंभावनापीत्याशयेनाह - स्वानुसंहितमिति || १२ || ये सर्गा नरकाभोगा या जन्ममरणैषणाः | स्वमनोमननेनेदं स निष्पन्दोऽपि दुःखदः || १३ || स मननात्मको निष्पन्द ईष~चलनमपि दुःखदः || १३ || बहुनात्र किमुक्तेन शब्दसंग्रहकारिणा | उत्तिष्ठ भगवन्यामो यत्र ते तनयः स्थितः || १४ || शब्दसंग्रहः श्रवणं तत्कारिणा नत्वर्थप्रदर्शकेनेत्यर्थः | याम इति अस्मदो द्वयोश्च इति वा अनुचरसाहित्याद्वा बहुवचनम् || १४ || सर्वं चित्तशरीरेण भुक्त्वा शुक्रः क्षणादिव | तथेन्दुरश्मिसंघट्टात्समङ्गातापसः स्थितः || १५ || सर्वं स्वर्गभोगं चित्तकल्पितशरीरेण भुक्त्वा अथ आकाशादिक्रमेण भूमाववतीर्ण इन्दुरश्मिसंपर्कादोषधीः प्रविश्यान्नादिभावक्रमेण जन्मपरम्परां प्राप्य संप्रति समङ्गायां तापसो भूत्वा स्थित इत्यर्थः || १५ || तत्प्राणपवनश्चित्तान्मुक्त इन्द्वंशुवत्फलम् | अवश्यायतया भूत्वा वीर्यं तेनान्तरास्थितः || १६ || इन्दुरश्मिसंघट्टादिति यदुक्तं तद्विशदयति - तत्प्राणेति | तस्य शुक्रस्य प्राणपवनश्चित्ताच्चेतनशक्तेर्मुक्तः संमूर्च्छितः सन् अवश्यायतया नीहारभावेन इन्द्वंशुसंपर्कात्तद्वद्भूत्वा सस्याद्वारा तत्फलं व्रीह्यादि भूत्वा पुरुषं प्रविश्यवीर्यं रेतो भूत्वा अन्तरा स्त्रीगर्भे स्थित इत्यर्थः || १६ || इत्युक्त्वा भगवान्कालो हसन्निव जगद्गतिम् | हस्ताद्धस्तेन जग्राह भृगुमिन्दुमिवांशुमान् || १७ || हस्तादिति ल्यब्लोपे पञ्चमी | हस्तं प्रसार्येत्यर्थः | दृष्टान्तपक्षे लक्षितलक्षणया हस्तशब्देन करशब्दवाच्यकिरणपरिग्रहः || १७ || अहो नु चित्रा नियतेर्व्यवस्थेति वदञ्छनैः | भगवान्भृगुरुत्तस्थावुदयाद्रेर्यथा रविः || १८ || नियतेर्दैवस्य कर्मणो वा || १८ || तेजोनिधी ह सममङ्ग स्मुत्थितौ तौ भातस्तदाम्बरतले सामालजाले | तुल्योदयाविव नभस्यमले विहर्तु- मभ्युत्थितौ सजलदौ सकलेन्दुसूर्यौ || १९ || श्रीवाल्मीकिरुवाच | ह इति किलेत्यर्थे निपातः अङ्गेति संबोधने | सतमालजाले मन्दरे समं समं युगपत्समुत्थितौ तेजोनिधी तौ भृगुकालौ सजलदे अम्बरतले तुल्योदयौ सकलः पूर्ण इन्दुश्च सूर्यश्च ताविव भातः प्रकाशत इत्यर्थः || १९ || इत्युक्तवत्यथ मुनौ दिवसो जगाम सायंतनाय विधयेऽस्तमिनो जगाम | स्नातुं सभा क्र्तनमस्करणा जगाम श्यामाक्षये रविकरैश्च सहाजगाम || २० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे भार्गवोपाख्याने भृगुसमाश्वासनं नाम त्रयोदशः सर्गः || १३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे भृगुसमाश्वासनं नाम त्रयोदशः सर्गः || १३ || अष्टमो दिवसः || चतुर्दशः सर्गः १४ श्रीवसिष्ठ उवाच | अथ कालभृगू देवौ मन्दराचलकन्दरात् | गन्तुं प्रवृत्ताववनौ समङ्गासरितस्तटम् || १ || गत्वा ताभ्यां समाधिस्थशुक्रस्यात्र प्रबोधनम् | स्मारणं पूर्ववृत्तस्यागमनेच्छा च कीर्यते || १ || अवनौ अवतीर्येति शेषः || १ || तौ शैलादवरोहन्तौ दृष्टवन्तौ महाद्युती | नवहैमलताजालकुञ्जसुप्तनभश्चरान् || २ || नभश्चरान् देवगणान्पक्षिणश्च || २ || वल्लीवलयदोलाभिः क्रीडतो गगनाङ्गणे | हरिणीमुग्धमुग्धाक्षिप्रेक्षितस्मारितोत्पलान् || ३ || हरिणीनामिव मुग्धमुग्धैः अक्षिप्रेक्षितैः कटाक्षैः स्मारितान्युत्पलानि यैः | सदृशदर्शनस्य स्मृतिहेतुत्वात्सादृश्यं गम्यते || ३ || सिद्धानध्यासितोत्तुङ्गसिलाशकलविष्टरान् | धृताकारानिवोत्साहान्हेलादृष्टजगत्त्रयान् || ४ || अध्यासितान्याश्रितान्युत्तुङ्गशिलाशकलान्येव विष्टराणि आसनानि यैः | धृताकारान् स्वीकृतशरीरान् उत्साहानिव स्थितान् | हेलया लीलया दृष्टं जगत्त्रयं यैः || ४ || कृताजस्रपतत्पुष्पधारासारनिमज्जनान् | तालोत्तालकृतोद्धस्तहस्तान्हस्तिघटापतीन् || ५ || तालवृक्षा [इयं व्याख्या न मूलानुसारिणी] इवोत्तालाः स्थूलदीर्घाः कराः शुण्डादण्डा येषां तान् हस्तिघटापतीन् गजयूथपान् तौ दृष्टवन्तौ इति सर्वत्र संबध्यते || ५ || मदावलेपनिद्रालून्मदान्मूर्तानिव स्थितान् | पुष्पकेसररक्ताङ्गपवनारुणवालधीन् || ६ || तानेव विशिनष्टि - मदेति | पुष्पकेसरैः रक्ताङ्गेन रञ्जितेन पवनेन परागैः पूरणादरुणवालधीनिति देहलीदीपन्यायेन पूर्वोत्तराभ्यां संबध्यते || ६ || चञ्चलांश्चमरांश्चारून्भूभृन्मण्डलचामरान् | कृताजस्रपतत्पुष्पधारासारनिमज्जनान् || ७ || चमरान्मृगविशेषान् | भूभृन्मण्डलस्य पर्वतराजसमूहस्य चामरानिव स्थितान् || ७ || किन्नरान्भूमखर्जूराञ्शाखासरलतां गतान् | परस्परफलाघातक्ष्वेडावर्जितकीचकान् || ८ || किन्नरान्दृष्टवन्ताविति पूर्वत्र संबन्धः | भूमखर्जूरान् खर्जूरोत्तमजातिभेदान् शाखापर्यन्तं सरलतामृजुतां गतान् | परस्परस्य खर्जूरफलैराघातास्ताडनानि तल्लक्षणाभिः क्रीडाभिरावर्जिताः सफलीकृता अधःप्ररूढाः कीचका वेणवो यैस्तान्मर्कटान् || ८ || धातुपाटलदुर्वक्त्रान्मर्कटान्नटनोत्कटान् | लतावितानसंछन्नसानूपवनमन्दिरान् || ९ || धातुर्गैरिकमिव पाटलानि दुर्वक्त्राणि विकृतमुखानि येषां तान् | नटने अवस्पन्दने उत्कटान् शौण्दान् || ९ || सिद्धानमरनारीभिर्मन्दारकुसुमाहतान् | धातुपाटलनिर्द्वारपयोदपटसंवृतान् || १० || सिद्धान् देवयोनिविशेषान् | अमरनारीभिरप्सरोभिः रतिकालज्ञापनाय मन्दारकुसुमैराहतान् | अत एव धातुपाटलैर्निर्द्वारैरच्छिद्रैः पयोदपटैः संवृतान् || १० || तटानजनसंसर्गान्बौद्धान्प्रव्रजितानिव | सरितः कुन्दमन्दारपिनद्धलहरीघटाः | सागरोत्कतयेवात्तमधुमासप्रसाधनाः || ११ || तटान् प्रपातदेशान् | अजनसंसर्गान् जनसंचारानर्हान् | बौद्धप्रव्रजितदृष्टान्तो वृथापतनयोग्यताविवक्षया | सागरे कान्ते उत्कतया सोत्कण्ठतया हेतुनेव आत्तानि गृहीतानि मधुमासश्चैत्रस्तत्संबन्धीनि प्रसाधनानि पुष्पपल्लवाद्यलंकारा याभिस्ताः | उत्कटताचान्तमधुमांसप्रसाधना इति पाठे तु सागरस्योत्कटतायै उपभोगमदाय आचान्तैरुपयुक्तैर्मधुमांसैः प्रसाधनं यासां ताः || ११ || पुष्पभारपिनद्धाङ्गान्वृक्षान्पवनकम्पितान् | क्षीबानिव मधुप्राप्तौ घूर्णान्मधुकरेक्षणान् || १२ || शैलराजश्रियं स्फीतां पश्यन्तौ तावितस्ततः | प्राप्तवन्तौ वसुमतीं पुरपत्तनमण्डिताम् || १३ || क्षणादवापतुस्तत्र पुष्पलोलतरङ्गिणीम् | समङ्गां सरितं साधु सर्वपुष्पमयीमिव || १४ || पुष्पलोलतरङ्गामिति बहुव्रीहिणैव मत्वर्थलाभे अतिशयनित्ययोगद्योतनार्थ इनिप्रत्ययः | तदेव स्पष्टीकर्तुमाह - सर्वपुष्पमयीमिवेति || १४ || ददर्शाथ तटे तस्मिन्कस्मिंश्चित्तनयं भृगुः | देहान्तरपरावृत्तं भावमन्यमुपागतम् || १५ || अन्यं भावं अशुक्रताम् || १५ || शान्तेन्द्रियं समाधिस्थमचञ्चलमनोमृगम् | सुचिरादिव विश्रान्तं सुचिरश्रमशान्तये || १६ || सुचिरश्रमः अनादिसंसारश्रमस्तस्य शान्तये || १६ || चिन्तयन्तमिवानन्ताश्चिरभुक्ताऽचिरोज्झिताः | संसारसागरगतीर्हर्षशोकनिरन्तराः || १७ || चिरं भुक्ता अचिरात् उज्झितास्त्यक्ताः || १७ || नूनं निश्चलतां यातमतिभ्रमितचक्रवत् | अनन्तजगदावर्तविवर्तातिशयादिव || १८ || अतिभ्रमितचक्रवदिति दृष्टान्तो रागोपरमक्रमेण चित्तं स्वयमेव विश्राम्यतीति द्योतनाय || १८ || एकान्तसंस्थितं कान्तं कान्त्यैकाकिनमाश्रितम् | उपशान्तेहसंभग्नचित्तसंभ्रमसंगमम् || १९ || चक्रदृष्टान्ताभिप्रायमेव स्पष्टमाह - उपशान्तेहेति || १९ || निर्विकल्पसमाधिस्थं विरतं द्वन्द्ववृत्तितः | हसन्तमखिलां लोकगतिं शीतल्या धिया || २० || द्वन्द्ववृत्तितः शीतोष्णसुखदुःखादेः || २० || विगताखिलवृत्तान्तं विगताशेषभोक्तृतम् | निरस्तकल्पनाजालमालम्बितमहापदम् || २१ || वृत्तान्तानि प्रवृत्तयः | भोक्तृतास्तत्फलानि | महापदं अपरिच्छिन्नात्मसुखम् || २१ || अनन्तविश्रान्तितते पदे विश्रान्तमात्मनि | प्रतिबिम्बमगृह्णन्तं सितं मणिमिवास्थितम् || २२ || हेयोपादेयसंकल्पविकल्पाभ्यां समुज्झितम् | संप्रबुद्धमतिं धीरं ददर्श तनयं भृगुः || २३ || तमालोक्य भृगोः पुत्रं कालो भृगुमुवाच ह | वाक्यमब्धिध्वनिनिभं तव पुत्रस्त्वसाविति || २४ || विबुध्यतामिति गिरा समाधेर्विरराम सः | भार्गवोऽम्भोदघोषेण शनैरिव शिखण्डभृत् || १५ || शिखण्डभृत् मयूरः || २५ || उन्मील्य नेत्रे सोऽपश्यदन्ते कालभृगू प्रभू | समोदयाविवायातौ देवौ शशिदिवाकरौ || २६ || अन्ते अन्तिके | समोदयौ संमुखोदितौ नत्वसमोदितौ || २६ || कदम्बलतिकापीठादथोत्थाय ननाम तौ | समौ समागतौ कान्तौ विप्रौ हरिहराविव || २७ || विप्रौ विप्रवेषौ || २७ || मिथःकृतसमाचाराः शिलायां समुपाविशन् | मेरुपृष्ठे जगत्पूज्या ब्रह्मविष्णुहरा इव || २८ || मिथः अन्योन्यं कृताः समाचारास्तत्कालोचितगौरवाभिनन्दनाद्याचारा यैः || २८ || अथ शान्तजपो राम स समङ्गातटे द्विजः | तावुवाच वचः शान्तममृतस्यन्दसुन्दरम् || २९ || शान्तजपः समापितसमाधिः | जप मानसे च इति धात्वर्थदर्शनात् | इदमर्धं पाठक्रमादार्थक्रमबलीयस्त्वात्कदम्बलतिकापीठादित्यतः प्राग्योज्यम् || २९ || भवतोर्दर्शनेनाहमद्य निर्वृतिमागतः | सममागतयोर्लोके शीतलोष्णरुचोरिव || ३० || निर्वृतिं सुखम् || ३० || यो न शास्त्रेण तपसा न ज्ञानेनापि विद्यया | विनष्टो मे मनोमोहः क्षीणोऽसौ दर्शनेन वाम् || ३१ || ज्ञानेन उपासनेन विद्यया ब्रह्मविद्यया | अतिशयोक्तिरियं प्रशंसार्था | वां युवयोः || ३१ || न तथा सुखयन्त्यन्तर्निर्मलामृतवृष्टयः | यथा प्रहर्षयन्त्येता महतामेव दृष्टयः || ३२ || चरणाभ्यामिमं देशं भवन्तौ भूरितेजसौ | कौ पवित्रितवन्तौ नः शशाङ्कार्काविवाम्बरम् || ३३ || इत्युक्तवन्तं प्रोवाच भृगुर्जन्मान्तरात्मजम् | स्मरात्मानं प्रबुद्धोऽसि नाज्ञोऽसीति रघूद्वह || ३४ || प्रबोधितोऽसौ भृगुणा जन्मान्तरदशां निजाम् | मुहूर्तमात्रं सस्मार ध्यानोन्मीलितलोचनः || ३५ || ध्यानेन उन्मीलितं उद्घाटितं दिव्यं लोचनं यस्य सः || ३५ || अथासौ विस्मयात्स्मेरमुखो मुदितमानसः | वितर्कमन्थरां वाचमुवाच वदतां वरः || ३६ || विस्मयादाश्चर्यदर्शनात् || ३६ || जगत्यविदितारम्भा नियतिः परमात्मनः | यद्वशादिदमाभोगि जगच्चक्रं प्रवर्तते || ३७ || नियतिः कर्मफलव्यवस्थाहेतुर्मायाशक्तिः || ३७ || ममानन्तान्यतीतानि जन्मान्यविदितान्यपि | दशाफलान्यनन्तानि कल्पान्तकलितादिव || ३८ || दशाफलानि मरणमूर्च्छादिदुर्दशाफलानि दुःखमोहादीनि | कल्पान्तः प्रलयस्तेन कलितात्संपन्नाद्वर्षवातदाहादेरिव || ३८ || दृष्टाः कठिनसंरम्भा विभवोऽप्यर्जनभ्रमाः | विहृतं वीतशोकासु चिरं मेरुस्थलीषु च || ३९ || कठिनः संरम्भः क्रोधः उद्यओगश्च येषु ते विभवो राजानो द्रव्यार्जनभ्रमा अपि || ३९ || पीतमामोदि मन्दारकेसरारुणितं पयः | मन्दाकिन्याः सकह्लारं तटीष्वमरभूभृतः || ४० || पयो वारि || ४० || भ्रान्तं मन्दरकुञ्जेषु फुल्लहेमलतालिषु | मेरोः कल्पतरुच्छायापुष्पसुन्दरसानुषु || ४१ || न तदस्ति न यद्भुक्तं न तदस्ति न यत्कृतम् | न तदस्ति न यद्दृष्टमिष्टानिष्टासु वृत्तिषु || ४२ || न तदस्तीति | सर्वं कृतं भुक्तं दृष्टं चेत्यर्थः | इष्टानिष्टासु अनुकूलप्रतिकूलासु वृत्तिषु दशासु || ४२ || ज्ञातं ज्ञातव्यमधुना दृष्टं द्रष्टव्यमक्षतम् | विश्रान्तोऽथ चिरं श्रान्तो गतो मे सकलो भ्रमः || ४३ || एकविज्ञानेनापि सर्वविज्ञानं दर्शयति - ज्ञातमिति | चिरं श्रान्तोऽहं संप्रति विश्रान्तः || ४३ || उत्तिष्ठ तात गच्छामः पश्यामो मन्दरस्थिताम् | तां तनुं तावदाशुष्कां शुष्कां वनलतामिव || ४४ || न समीहितमस्तीह नासमीहितमस्ति मे | नियते रचनां द्रष्टुं केवलं विहराम्यहम् || ४५ || किं ते तया तन्वा समीहितं तत्राह - नेति || ४५ || यदतिसुभगमार्यसेवितं त- त्स्थिरमनुयामि यदेकभावबुद्ध्या | तदलमभिमता मतिर्ममास्तु प्रकृतमिमं व्यवहारमाचरामि || ४६ || ननु नियते रचनां द्रष्टुं विहरतस्तव तत्राभिनिवेशात्पुनः पूर्ववदप्सरोमनोरथानुगमनादिसंसारापत्तिरित्याशङ्क्य दृढतरतत्त्वज्ञानबाधितानुवृत्तिमात्रत्वान्न पूर्ववदभिनिवेशप्रसक्तिरित्याह - यदिति | यद्यस्मात्कारणादहमेकभावबुद्ध्या एक एवात्मा भावः परमार्थसत्यो नान्यदिति दृढनिश्चयेन यच्चरित्रमतिसुभगमत्यन्तशुभावहमार्यैरन्यैश्च जीवन्मुक्तैः सेवितं तदेव स्थिरं यथा स्यात्तथा अनुयाम्यनुसरामि न पूर्ववन्मूढवृत्तं तत्तस्मात्तव मम च अभिमता पूर्वदेहजीवनादिरूपा मतिरलं सम्यगस्तु नाम न काचित्तया क्षतिः | तया प्रकृतं प्रारब्धशेषभोजकव्यवहारमाचरामि न मूढवदभिनिवेक्ष्यामीत्यर्थः || ४६ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे भा० भार्गवजन्मान्तरस्मरणवर्णनं नाम चतुर्दशः सर्गः || १४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे भार्गवजन्मान्तरवर्णनं नाम चतुर्दशः सर्गः || १४ || पञ्चदशः सर्गः १५ श्रीवसिष्ठ उवाच | विचारयन्तस्तत्त्वज्ञा इति ते जागतीर्गतीः | समङ्गायास्तटात्तस्मात्प्रचेलुश्चञ्चलासवः || १ || अत्र तां तनुमालोक्य शुक्रस्य परिदेवनम् | तन्निमित्तविशेषोक्त्या स्वभावश्चोपदिश्यते || १ || इति प्रागुक्तप्रकाराः जागतीः सांसारिकीर्गतीर्विचारयन्तः सन्तः समङ्गातटाद्भृग्वाश्रमं प्रति प्रचेलुः प्रचलिताः | चञ्चलासव इत्यनेन प्राणक्रिययैव तेषां चलनोपचारो नत्वात्मनि क्रियास्तीति द्योतनाय || १ || क्रमादाकाशमाक्रम्य निर्गत्याम्बुदकोटरैः | संप्रापुः सिद्धमार्गेण क्षणान्मन्दरकन्दरम् || २ || अम्बुदकोटरैर्मेघच्छिद्रैः || २ || अधित्यकायां तस्याद्रेरार्द्रपर्णावगुण्ठिताम् | ददर्श भार्गवः शुष्कां पूर्वजन्मोद्भवां तनुम् || ३ || अधित्यकायां ऊर्ध्वभागभूमौ || ३ || उवाचेदं च हे तात तन्वी तनुरियं हि सा | या त्वया सुखसंभोगैः पुरा समभिलालिता || ४ || इदं वक्ष्यमाणप्रकारं वाक्यम् | तन्वी कृशा || ४ || इयं सा मत्तनुर्यस्याः कर्पूरागुरुचन्दनैः | अङ्गमङ्गीकृतस्नेहा धात्री चिरमलेपयत् || ५ || सुखसंभोगैरिति यदुक्तं तत्प्रपञ्चयति - कर्पूरेत्यादिना || ५ || इयं सा मत्तनुर्यस्या मन्दारकुसुमोत्करैः | रचिता शीतला शयया मेरूपवनभूमिषु || ६ || इयं सा मत्तनुर्मत्तदेवस्त्रीगणलालिता | सरीसृपमुखक्षुण्णा पश्य शेते धरातले || ७ || सरीसृपमुखैः सर्पवृश्चिकप्रभृतिकीटैः क्षुण्णा संचूर्णिता | छिद्रितेति यावत् || ७ || चन्दनोद्यानखण्डेषु मम तन्वा ययानया | चिरं विलसितं सेयं शुष्ककङ्कालतां गता || ८ || चन्दनानां हरिचन्दनानामुद्यानखण्डेषु विलसितं क्रीडाभिः शोभितम् | नन्दना इति पाठे स्पष्टम् || ८ || सुराङ्गनाङ्गसंसर्गादुत्तूङ्गानङ्गभङ्गया | चेतोवृत्त्या रहितया तन्वाद्य मम शुष्यते || ९ || उत्तुङ्गा अनङ्गभङ्गाः कामतरङ्गा यस्यां तथाविधया चेतोवृत्त्या रहितया त्यक्तया शुष्यते | भावे लट् || ९ || तेषु तेषु विलासेषु तासु तासु दशासु च | तथा तद्भावनाबन्धः कथं स्वस्थोऽसि देहक || १० || इदानीं देहमेव संबोध्यानुशोचति - तेषु तेष्वित्यादिना | तेषु तेषु विचित्रेषु अवकाशेषु देवोद्यानादिप्रदेशेषु | तासु तासु विचित्रासु बाल्ययौवनादिदशासु | तथा प्रागभूतप्रकारास्तत्तत्सौन्दर्यालंकार गीतहास्यरतिविलासादिभावनासंबन्धा यस्य स तथाविधो भूत्वा संप्रति कथं स्वस्थोऽसि | कुतस्तन्नानुशोचसीत्यर्थः || १० || हा तनो शवनामासि तापसंशोषमागता | कङ्कालतां प्रयातासि मां भीषयसि दुर्भगे || ११ || कङ्कालतां अस्थिमात्रावशेषताम् || ११ || देहेनाहंविलासेषु [अलमिति पाठः] येनैव मुदितोऽभवम् | कङ्कालतामुपगतात्तस्मादेव बिभेम्यहम् || १२ || ताराजालसमाकारो यत्र हारोऽभवत्पुरा | ममोरसि निलीयन्ते तत्र पश्य पिपीलिकाः || १३ || हारो मुक्तावली || १३ || द्रवत्काञ्चनकान्तेन लोभं नीता वराङ्गना | येन मद्वपुषा तेन पश्य कङ्कालतोह्यते || १४ || द्रवत्काञ्चनं द्रुतं सुवर्णमिव कान्तेन भासुरेण | लोभं कामभोगस्पृहाम् | उह्यते धार्यते | पश्येति पुनः पितरं प्रत्युक्तिः || १४ || पश्य मे विततास्येन तापसंशुष्ककृत्तिना | मत्कङ्कालकुवक्त्रेण वित्रास्यन्ते वने मृगाः || १५ || कुवक्रेण विकृतेन मुखेन || १५ || पश्यामि संशुष्कतया शवोदरदरी मम | प्रकाशार्कांशुजालेन विवेकेनेव शोभते || १६ || अन्तःप्रविष्टत्वात्प्रकाशेन प्रकाशमानेनार्कांशुजालेन शोभते | पश्यामीत्यस्य पश्य मृगो धावतीत्यत्रेव वाक्यार्थः कर्म || १६ || मत्तनुः परिशुष्केयं स्थितोत्तानाचलोपले | वैराग्यं नयतीवात्मतुच्छत्वेनान्तरं सताम् || १७ || आत्मनः स्वस्यास्तुच्छत्वेन फल्गुत्वेन | कुत्सितरूपताप्रदर्शनेनेति यावत् | नयत्युपदिशतीव || १७ || शब्दरूपरसस्पर्शगन्धलोभाद्विमुक्तया | निर्विकल्पसमाध्येव तदेतच्छुष्यते गिरौ || १८ || गन्धान्तानां लोभादभिलाषाद्विमुक्तया मत्तन्वा तदेतावत्कालं मत्परोक्षमेतदिदानीं मत्प्रत्यक्षं च निर्विकल्पः समाधिर्यस्यास्तयेव शुष्यते तप्यते || १८ || मुक्ताचित्तपिशाचेन नूनं सुखमिवास्थिता | तनुर्दैवतभङ्गेभ्यो न बिभेति मनागपि || १९ || सुखं स्वस्थम् | दैवतोपपादितेभ्यो भङ्गेभ्योविपद्भ्यः || १९ || संशान्ते चित्तवेताले यामानन्दकलां तनुः | याति तामपि राज्येन जागतेन न गच्छति || २० || आनन्दस्य कलां चमत्कृतिम् | जागतेन त्रैलोक्यसंबन्धिना राज्येनापीत्यन्वयः || २० || पश्य विश्रान्तसंदेहं विगताशेषकौतुकम् | निरस्तकलनाजालं सुखं शेते कथं वने || २१ || चित्तमर्कटसंरम्भसंक्षुब्धः कायपादपः | तथा वेगेन चलति यथाऽमूलान्निकृन्तति || २२ || संरम्भेण कामादिचापलेन संक्षुब्धो न केवलं विवेकसद्वासनादिशाखापल्लवादीन्येव स्वस्य यथा विशातयति तथा चलति किंतु आमूलाद्यथा निकृन्तति उन्मूलितो भवति तथा चलति | विवेकाद्यनधिकृतस्थावरादियोनिष्वेव जीवं पातयतीत्यर्थः || २२ || चित्तानर्थविमुक्तोऽद्रौ गजाभ्रहरिविग्रहम् | नाद्य पश्यति मे देहः परानन्द इव स्थितः | २३ || अद्रौ अस्मिन्मन्दरे मे देहश्चित्तलक्षणेनानर्थेन विमुक्तः सन्नद्य गजानामभ्रैर्मेघैर्हरिभिः सिंहैश्च विग्रहं वैरं युयुत्साप्रतिगर्जनाभिगमनादिलक्षणं न पश्यति | प्राक्कौतुकदर्शनपरानन्दे स्थित इव यथा प्राग्बहिः कौतुकदर्शनेन नन्दति तथाद्य नेत्यर्थः | अथवा अद्रौ स्फटिकशिलासु प्रतिबिम्बितं जगाभ्रहरीणां विग्रहं युद्धं मूर्तिं वाद्य न पश्यतीत्यर्थः | नाट्यं पश्यति इति पाठे तु यथा परानन्दे परमात्मनि स्थितो जीवन्मुक्तः प्रथमं गजमिव स्थूलं अभ्रमिव सूक्ष्मं हरिमिव कारणं च विग्रहाः शरीराणि यस्मिंस्तथाविधमात्मनटस्य नाट्यं पश्यति तथा मम देहोऽपि चित्तानर्थविमुक्तत्वादेव पृथक् स्थितेन मदात्मना अस्मिञ्जद्रौ क्वचिद्रवाः क्वचिदभ्राणि क्वचिद्धरयः सिंहमर्कटादय इति नानाविग्रहमात्मनटस्य नाट्यं पश्यतीत्यर्थः || २३ || सर्वाशाज्वरसंमोहमिहिकाशरदागमम् | अचित्तत्वं विना नान्यच्छ्रेयः पश्यामि जन्तुषु || २४ || सर्वे आशारूपा ये ज्वरास्तन्निदानभूतो यो मोहस्तल्लक्षणाया मिहिकाया अभ्रबीजस्य शरदागमभूतम् | सर्वासामाशानां दिशां वा सर्वास्वाशासु दिक्षु वा ज्वरभूताया मोहमिहिकायाः शरदागमम् | अचित्तत्वं मनोनाशं विना || २४ || त एव सुखसंभोगसीमान्तं समुपागताः | महाधिया शान्तधियो ये याता विमनस्कताम् || २५ || सुखसंभोगा हैरण्यगर्भानन्दान्ता विषयसुखभोगास्तेषां सीमान्तं परमावधिं भूमानन्दम् | अपरिच्छिन्नब्रह्मसाक्षात्कारत्वान्महाधिया | रागादिधीकार्योपशमाच्छान्तधियः || २५ || सर्वदुःखदशामुक्तां संस्थितां विगतज्वराम् | दिष्ट्या पश्याम्यमननां वने तनुमिमामहम् || २६ || स्वदेहे जीवन्मुक्तदेहसाम्यं संभाव्याभिनन्दति - सर्वेति | दिष्ट्या भाग्योदयेन || २६ || श्रीराम उवाच | भगवन्सर्वधर्मज्ञ भार्गवेण तदा किल | सुबहून्युपभुक्तानि शरीराणि पुनःपुनः || २७ || रामस्य प्रश्नाशयः स्पष्टः || २७ || भृगुणोत्पादिते काये तत्तस्मिंस्तस्य किं पुनः | महानतिशयो जातः परिदेवनमेव वा || २८ || तत्तेभ्यः शरीरेभ्यः | तस्मिन्काये किं कस्माद्धेतोः महान् प्रवृद्धः | अतिशयः स्नेहस्येति शेषः || २८ || श्रीवसिष्ठ उवाच | शुक्रस्य कलना राम यासौ जीवदशां गता | कर्मात्मिका समुत्पन्ना भृगोर्भार्गवरूपिणी || २९ || शुक्रस्य सांप्रतिकग्रहपदाधिकारोपभोगप्रयोजकप्राक्कल्पानुष्ठितसत्कर्मणामुत्क्र् आन्तिकाले एतत्कल्पभाविभृगूत्पाद्यशरीराकारेण परिणतानां तादृशाकारवासनात्मनैव प्रलये चिरमवस्थानादाकाशादिक्रमेणैतत्कल्पे भृगुशरीरोत्पत्तौ अन्नद्वारा प्राणापानप्रवाहेण तद्धृदयं प्रविश्य रेतोरूपपरिणामद्वारा चिराभ्यासदृढीकृतप्राक्तनकामकर्मवासनानुसारेणैव शुक्रदेहारम्भात्तेन कतिपयकर्मभोगेऽपि भोक्तव्यप्रारब्धकर्मणां बहूनामवशिष्टत्वाद्युक्तस्तस्मिन्स्नेहातिशयो न देहान्तरेषु तद्भोग्यकर्मणामनवशेषादित्याशयेनोत्तरं वसिष्ठ आह - शुक्रस्येत्यादिना | कलना प्राक्तनोत्क्रान्तिकालिकी भाविदेहाकारकलना | भार्गवरूपिणी भृगूत्पाद्यदेहाकारा या प्राक्कल्पे आसीदिति शेषः || २९ || सा हीदंप्रथमत्वेन समुपेत्य परात्पदात् | भूताकाशपदं प्राप्य वातव्यावलिता सती || ३० || सा हि सैवेदानीमौशनसी तनुः संपन्नेति परेणान्वयः | केन क्रमेण तमाह - इदंप्रथमत्वेनेत्यादिना | परात्पदात्प्रलयकालपरिशिष्टान्मायाशबलेश्वरात् इदंप्रथमत्वेन एतत्कल्पीयप्रथमशरीरभावेन समुपेत्य सिक्तोच्छूनबीजान्तरङ्कुरशक्तिवदीषदाविर्भूय क्रमादाकाशादिपदं तत्तद्भूतसाम्यं प्राणवातेन वृष्टिद्वारा अन्नादिभावेन व्यावलिता अन्तर्भाविता सती || ३० || प्राणापानप्रवाहेण प्रविश्य हृदयं भृगोः | क्रमेण वीर्यतामेत्य संपन्नौशनसी तनुः || ३१ || प्राणक्रियाविशेषात्मना अन्नग्रासिना अपानप्रवाहेण || ३१ || विहितब्राह्मसंस्कारा तत्र सा पितुरग्रगा | कालेन महता प्राप्ता शुष्ककङ्कालरूपताम् || ३२ || विहिता विधिवदनुष्ठिता ब्राह्मा ब्राह्मणजन्मोचिता गर्भाधानपुंसवनजातकर्मान्नप्राशनचौलोपनयनादयः संस्कारा यस्याम् | नह्यसंस्कृततया ग्रहाधिकारो भोक्तुं शक्यत इति भावः || ३२ || इदंप्रथममायाता यदासौ ब्रह्मणस्तनुः | अतस्तां प्रति शुक्रेण तदा तत्परिदेवितम् || ३३ || ब्रह्मणः सकाशादुक्तरीत्या इदं प्रथमं यथा स्यात्तथा यदा यस्माद्धेतोरायाता अतः अकाले | पञ्चम्या अपि च्छान्दसो दाप्रत्ययः || ३३ || वीतरागोऽप्यनिच्छोऽपि समङ्गाविप्ररूपवान् | स शुशोच तनुं शुक्रः स्वभावो ह्येष देहजः || ३४ || ज्ञानिनोऽपि न प्रारब्धमतिवर्तन्त इत्याशयेनाह - वीतेति || ३४ || ज्ञस्याज्ञस्य च देहस्य यावद्देहमयं क्रमः | लोकवद्व्यवहारोऽयं सक्त्यासक्त्याथवा सदा || ३५ || यावद्देहं यावज्जीवनं सदा सर्वकाले क्रमो मर्यादानियमः न कदाचिद्व्यभिचरतीत्यर्थः | ज्ञस्य सक्त्या अज्ञस्य त्वसक्त्येति विशेष इत्यर्थः || ३५ || ये परिज्ञातगतयो ये चाज्ञाः पशुधर्मिणः | लोकसंव्यवहारेषु ते स्थिता लोकजालवत् || ३६ || अत एवेतरव्यवहारेष्वपि तयोस्तुल्यतैवेत्याह - ये इति || ३६ || व्यवहारे यथैवाज्ञस्तथैवाखिलपण्डितः | वासनामात्रभेदोऽत्र कारणं बन्धमोक्षदम् || ३७ || तर्हि द्वयोः साम्ये एकस्य बन्धोऽपरस्य मोक्ष इति विशेषः कुतस्तत्राह - वासनेति || ३७ || यावच्छरीरं तावद्धि दुःखे दुःखं सुखे सुखम् | असंसक्तधियो धीरा दर्शयन्त्यप्रबुद्धवत् || ३८ || दुःखे दुःखनिमित्तप्राप्तौ | दर्शयन्ति विडम्बयन्ति || ३८ || सुखेषु सुखिता नित्यं दुःखिता दुःखवृत्तिषु | महात्मानो हि दृश्यन्ते दृश्य एवाप्रबुद्धवत् || ३९ || दुःखवृत्तिषु दुःखनिमित्तेषु दुःखिता दुःखिता इव | दृश्ये व्यवहारविषये एवाप्रबुद्धवद्वर्तन्ते स्वात्मतत्त्वे तु सुस्थिरा नाज्ञवद्वर्तन्त इत्यर्थः || ३९ || सूर्यस्य प्रतिबिम्बानि क्षुभ्यन्ति न पुनः स्थिरम् | चलाचलतया तज्ज्ञो लोकवृत्तिषु तिष्ठति || ४० || एकस्यैकदैव स्थिरास्थिरवृत्तिविरोधवारणाय दृष्टान्तमाह - सूर्यस्येति | यथा सूर्यस्य जलस्थानि प्रतिबिम्बवपूंष्येव क्षुभ्यन्ति संचलन्ति नतु नभस्थं स्थिरं बिम्बवपुस्तद्वदित्यर्थः | त्वर्थे पुनःशब्दः || ४० || अवस्थित इव स्वस्थः प्रतिबिम्बेषु भास्करः | संत्यक्तलोककर्मापि बुद्ध एवाप्रबुद्धधीः || ४१ || यथा प्रतिबिम्बेष्ववस्थितो भास्करः स्वस्थ एवास्वस्थोऽभिन्नश्चल इव भवति तद्वद्बुद्ध एव व्यवहारस्थोऽप्रबुद्धधीर्भवतीत्यर्थः || ४१ || मुक्तबुद्धीन्द्रियो मुक्तो बद्धकर्मेन्द्रियोऽपि हि | बद्धबुद्धिन्द्रियो बद्धो मुक्तकर्मेन्द्रियोऽपि हि || ४२ || तर्ह्यज्ञवद्विहितनिषिद्धकर्मभिस्तस्य बन्धोऽपि स्यादित्याशङ्क्य बुद्धिन्द्रियासङ्गपूर्वककर्मणामेव बन्धकता नान्येषामित्याशयेनाह ##- | इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते || इत्यादिना || ४२ || सुखदुःखदृशो लोके बन्धमोक्षदृशस्तथा | हेतुर्बुद्धिन्द्रियाण्येव तेजांसीव प्रकाशने || ४३ || सुखदुःखदृशः सुखदुःखभोगस्य || ४३ || बहिर्लोकोचिताचारस्त्वन्तराचारवर्जितः | समो ह्यतीव तिष्ठ त्वं संशान्तसकलैषणः || ४४ || ननु तर्हि मया कथं स्थेयं तत्राह - बहिरिति | आचारवर्जितः कूटस्थात्मदृढनिष्क्रियः | अत एव समो वैषम्यशून्यः || ४४ || सर्वैषणाविमुक्तेन स्वात्मनात्मनि तिष्ठता | कुरु कर्माणि कार्याणि नूनं देहस्य संस्थितिः || ४५ || एषणा कर्मफलासङ्गस्तद्विमुक्तेन आत्मनि ब्रह्मणि तिष्ठता प्रतिष्ठितेनात्मना मनसा कर्माणि कुरु | नूनमिति हेतौ | यतो देहस्य कार्याणि कर्माणि संस्थितिः स्वभाव इत्यर्थः | नहि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः इति भगवताप्युक्तम् || ४५ || आधिव्याधिमहावर्तगर्तसंसारवर्त्मनि | ममतोग्रान्धकूपेऽस्मिन्मा पतातापदायिनि || ४६ || आधयो मानसदुःखानि | व्याधयः शारीरदुःखानि | महान्त आवर्ता मरणजन्मभ्यां परिवर्तनानि तान्येव गर्ताः श्वभ्राणि यस्मिंस्तथाविधे संसारवर्त्मनि ममतोग्रान्धकूपे मा पत || ४६ || न त्वं भावेषु नो भावास्त्वयि तामरसेक्षण | शुद्धबुद्धस्वभावस्त्वमात्मान्तः सुस्थिरो भव || ४७ || तदपतने उपायमाह - न त्वमित्यादिना | भावेषु दृश्यवस्तुषु देहादिषु तिष्ठसीत्यर्थः | त्वयि सन्तीति शेषः || ४७ || त्वं ब्रह्म ह्यमलं शुद्धं त्वं सर्वात्मा च सर्वकृत् | सर्वं शान्तमजं विश्वं भावयन्वै सुखी भव || ४८ || भावयन् विचारेणानुभवन्सन् || ४८ || व्यपगतममतामहान्धकारः पदममलं विगतैषणं समेत्य | प्रभवसि यदि चेतसो महात्मं- स्तदतिधिये महते सते नमस्ते || ४९ || हे महात्मन् विगतैषणं सकलैषणानिवर्तकं पूर्णानन्दममलमविद्यादिशून्यं पदं समेत्य सम्यगनुभवेन प्राप्य व्यपगतममतामहान्धकारः संश्चेतसश्चित्तस्य यदि वधे प्रभवसि समर्थः स्यास्तर्हि अतिधिये अपरिमितबुद्धये महते पूर्णाय सते परमार्थसत्यब्रह्मभूताय ते नमः | अस्मदादीनामपि सदा वन्द्यो भविष्यसीत्याशयः || ४९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्र० भार्गवोपा० भार्गवपरिदेवनप्रसङ्गेनोपदेशकरणं नाम पञ्चदशः सर्गः || १५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे भार्गवपरिदेवनप्रसङ्गेनोपदेशकरणं नाम पञ्चदशः सर्गः || १५ || षोडशः सर्गः १६ श्रीवसिष्ठ उवाच | अथाक्षिप्य वचस्तस्य तनयस्य तथा भृगोः | उवाच भगवान्कालो वचो गम्भीरनिःस्वनः || १ || कालवाक्याद्गते काले प्रवेशः स्वतनौ पुनः | शुक्रस्य दैत्यगुरुता जीवन्मुक्तिश्च वर्ण्यते || १ || तथा प्राग्वर्णितप्रकारं भृगोस्तनयस्य शुक्रस्य वचः परिदेवनवाक्यमाक्षिप्य अयुक्तत्ववर्णनेन निरस्य || १ || काल उवाच | समङ्गातापसीमेतां तनुं संत्यज्य भार्गव | प्रविशेमां तनुं साधो नगरीमिव पार्थिवः || २ || काले पूर्वजया तन्वा तपः कृत्वा तया पुनः | गुरुत्वमसुरेन्द्राणां कर्तव्यं भवतानघ || ३ || काले आधिकारिकप्रारब्धोद्बोधकाले | पूर्वजया इदंप्रथमया || ३ || महाकल्पान्त आयाते भवता भार्गवी तनुः | अपुनर्ग्रहणायैषा त्याज्या प्रम्लानपुष्पवत् || ४ || कदा तर्हि सा त्याज्या तदाह - महाकल्पान्ते इति | महतः सहस्रयुगपरिमितस्य कल्पस्य ब्रह्मदिनस्यान्ते | अपुनर्ग्रहणाय पुनः शरीरान्तराग्रहणाय | उपभुक्तम्लानपुष्पवत् || ४ || जीवन्मुक्तपदं प्राप्तस्तन्वा प्राक्तनरूपया | महासुरेन्द्रगुरुतां कुर्वंस्तिष्ठ महामते || ५ || प्राक्तनरूपया पूर्वकल्पार्जितकर्मारब्धया || ५ || कल्याणमस्तु वां यामो वयं त्वभिमतां दिशम् | न किंचिदपि यच्चित्तं यस्य नाभिमतं भवेत् || ६ || कल्याणं शुभं वां युवाभ्यामस्तु | वयमिति अस्मदो द्वयोश्च इत्येकस्मिन्बहुवचनमनुचरसाहित्यविवक्षया वा | अभिमतामिति दिग्विशेषणमनभिमतव्यावृत्तये नोपात्तं पूर्णात्मनोऽनभिमतस्यैवाप्रसिद्धेः | यस्य तु चित्तस्येदमभिमतमिदं नाभिमतमिति विकल्पो भवेत्तद्यदनभिमतं विहायाभिमतमुपसर्पच्चित्तं पर्यालोच्यमानं न किंचिद्वस्तुरूपमस्ति तस्मादभिमतां दिशमित्यस्य परमप्रेमास्पदमात्मभावावस्थानं याम इति स्वाशयसूचनाय विशेषणमुपात्तमिति दर्शयन्नाह - न किंचिदिति || ६ || इत्युक्त्वा मुञ्चतोर्बाष्पं तयोः सोऽन्तरधीयत | तप्ताङ्ग्योरिव रोदस्योः सममंशुभिरंशुमान् || ७ || तयोर्भृगुशुक्रयोः स्नेहाद्बाष्पं मुञ्चतोः | षष्ठी चानादरे इति भावलक्षणे षष्ठी सप्तमी वा || ७ || गते तस्मिन्भगवति कृतान्ते भवितव्यताम् | विचार्य भार्गवोऽभेद्यां नियतेर्नियतां गतिम् || ८ || कृतान्ते काले | भवितव्यतामवश्यभाविकर्मगतिम् | नियतेरीश्वरेच्छाया नियतामनिवार्यां गतिं च विचार्येत्यर्थः || ८ || कालकारणसंशुष्कां भाविपुष्पशुभोदयाम् [फलोदयामिति पाठः] | विवेश तां तनुं बालां सुलतामिव माधवः || ९ || कालश्चिरकालो हेमन्तशिशिरकालश्च तेन कारणेन निमित्तेन संशुष्काम् | माधवो वसन्तः || ९ || सा ब्राह्मणीतनुर्भूमौ विवर्णवदनाङ्गिका | पपात कम्पिता तूर्णं छिन्नमूला लता यथा || १० || सा वासुदेवाभिधाना समङ्गा तापसतनुः || १० || तस्यां प्रविष्टजीवायां पुत्रतन्वां महामुनिः | चकाराप्यायनं मन्त्रैः स कमण्डलुवारिभिः || ११ || तस्यां शुक्राख्यायां पुत्रतन्वां प्रविष्टो जीवो यस्यां तथाविधायां सत्याम् || ११ || सर्वा नाड्यस्ततस्तन्वास्तस्याः पूर्णा विरेजिरे | सरितः प्रावृषीवाम्बुपूरपूरितकोटराः || १२ || ततः आप्यायनानन्तरम् || १२ || नलिनी प्रावृषीवासौ मधाविव नवा लता | यदा पूर्णा तदा तस्याः प्रान्ताः पल्लविता बभुः || १३ || प्रान्ता अङ्गुलिनखकेशादयः पल्लविताः पल्लववन्निर्गताः सन्तो बभुः || १३ || अथ शुक्रः समुत्तस्थौ वहत्प्राणसमीरणः | रसमारुतसंयोगादापूर्ण इव वारिदः || १४ || रसस्य जलस्य मारुतस्य पुरोवातस्य च संयोगात् || १४ || पुरोऽभिवादयामास पितरं पावनाकृतिम् | प्रथमोल्लासितो मेघः स्तनितेनेव पर्वतम् || १५ || स्तनितेनेवेति दृष्टान्तबलान्नामगोत्रकीर्तनपूर्वकता अभिवादने गम्यते || १५ || पिताथ प्राक्तनीं तन्वा आलिलिङ्गाकृतिं ततः | स्नेहार्द्रवृत्तिर्जलदश्चिरादद्रितटीमिव || १६ || तन्वाः पुत्रतन्वाः | शोषविशीर्णाकृत्यपेक्षया प्राक्तनीं | पूर्ववद्यौवनसौन्दर्यादिशालिनीमिति यावत् || आकृतिं आकारम् || १६ || भृगुर्ददर्श सस्नेहं प्राक्तनीं तानवीं तनुम् | मत्तो जातेयमित्यास्थां हसन्नपि महामतिः || १७ || बालत्वात्तनुः सूक्ष्मा सैव तानवी तां तनुं पुत्रदेहम् | तत्त्वदृशा अनौचित्यचिन्तनाद्धसन्नपि | चकारेति शेषः || १७ || मत्पुत्रोऽयमिति स्नेहो भृगुमप्यहरत्तदा | परमात्मीयता देहे यावदाकृतिभाविनी || १८ || यावदाकृति यावज्जीवं भाविनी | आवश्यके णिनिः | प्रारब्धप्राबल्यादवश्यभाविनीत्यर्थः || १८ || बभूवतुः पितापुत्रौ तावथान्योन्यशोभितौ | निशावसानमुदितावर्कपद्माकराविव || १९ || चिरसंगमसंबद्धाविव चक्राह्वदम्पती | घनागमनसस्नेहौ मयूरजलदाविव || २० || चक्राह्वदम्पती चक्रवाकजायापती | घनशब्देन तत्कालो लक्ष्यते | बभूवतुरित्यनुषङ्गः || २० || चिरकालदृढोत्कण्ठौ तुल्ययोग्यतया तया | स्थित्वा तत्र मुहूर्तं तावथोत्थाय महामती || २१ || चिरकालवियोगाद्दृढीकृतसमागमोत्कण्ठौ | तया जगत्प्रसिद्धया वर्णितरूपया च तुल्यानन्दभरयोग्यतया मुहूर्तं स्थित्वा जढीभूय || २१ || समङ्गाद्विजदेहं तं भस्मसात्तत्र चक्रतुः | को हि नाम जगज्जातमाचारं नानुतिष्ठति || २२ || आचारं सदाचारम् | तथाचाचारपरिपालनमेव दाहादिफलं न फलान्तरमत्रेत्यर्थः || २२ || एवं तौ कानने तस्मिन्पावने भृगुभार्गवौ | संस्थितौ तापसौ दीप्तौ दिवीव शशिभास्करौ || २३ || चेरतुर्ज्ञातविज्ञेयौ जीवन्मुक्तौ जगद्गुरू | देशकालदशौघेषु सुसमौ सुस्थिरौ ततः || २४ || देशकालानां शुभाशुभादिदशौघेषु समौ हर्षविषादवैषम्यरहितौ | यतः स्वरूपे सुस्थिरावित्यर्थः || २४ || अथासुरगुरुत्वं स शुक्रः कालेन लब्धवान् | भृगुरप्यात्मनो योग्ये पदेऽतिष्ठदनामये || २५ || असुरगुरुत्वग्रहणं ग्रहाधिकारस्याप्युपलक्षणम् | पदे प्राजापत्याधिकारे || २५ || शुक्रोऽसौ प्रथममिति क्रमेण जात- स्तस्मात्सत्परमपदादुदारकीर्तिः | स्वेनाशु स्मृतिपदविभ्रमेण पश्चा- दन्येषु प्रविलुलितो दशान्तरेषु || २६ || उक्तां शुक्रगतिं संक्षिप्योपसंहरति - शुक्र इति | स्वेन स्वीयेन स्मृतिपदं पुनः पुनः स्मरणारूढा अप्सरास्तत्प्रयुक्तेन मनोराज्यविभ्रमेण || २६ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे भार्ग० शुक्रस्य पुनर्जीवनं नाम षोडशः सर्गः || १६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे शुक्रस्य पुनर्जीवनं नाम षोडशः सर्गः || १६ || सप्तदशः सर्गः १७ श्रीराम उवाच | भगवन्भृगुपुत्रस्य प्रतिभासानुभूतितः | यथैषा सफला जाता तथान्यस्य न किं भवेत् || १ || शुद्धानामिह चित्तानां सत्यसंकल्पतोच्यते | वासनादृष्टतुल्यत्वे मेलनं च परस्परम् || १ || ननु शुक्रस्याप्सरः स्वर्गादिमनोराज्यस्य चिरं भोगेन साफलयमिवान्येषामपि तस्य तथात्वं किं न स्यादिति रामः शङ्कते - भगवन्निति | या भानोरथिकी प्रतिभा सैषा यथा स्वर्गाद्यनुभूतितः सफला जाता तथा अन्येषामपि किं न भवेदित्यन्वयः || १ || श्रीवसिष्ठ उवाच | इयं प्रथममुत्पन्ना सा तनुर्ब्रह्मणः पदात् | शुद्धा जातिर्भार्गवस्य नान्यजन्मकलङ्किता || २ || प्रतिभानां फलोपभोगसंवादेन सफलत्वे द्वौ हेतू सत्यसंकल्पत्वयोग्या चित्तशुद्धिः उत्क्रान्तिकालोद्बुद्धपरिपक्वभाविभोगप्रदकर्मोद्भावितत्वं च | तत्राद्यं शुक्रस्य दर्शयन्समाधत्ते - इयं प्रथममित्यादिना | शुक्रस्य प्राक्कल्पीयसर्वदोषाणां तच्चरमजन्मानुष्ठितकर्मोपासनैः क्षयादस्मिन्कल्पे सेयं तनुः प्रथममुत्पन्नेत्येतत्कल्पीयदोषाप्रसक्तेर्ब्रह्मणः पदादेवाधिकारभोगार्थं धातुः संकल्पाज्जातत्वेन तत्सांकल्पिकदोषस्याप्रसक्तेरुभयकुलशुद्धा ब्राह्मणजातिरिति बीजगर्भजात्यादिदोषस्याप्यप्रसक्तेर्नासत्यसंकल्पताप्राप्तिरित्यन्येभ्योऽस्य विशेष इत्यर्थः || २ || सर्वैषणानां संशान्तौ शुद्धचित्तस्य या स्थितिः | तत्सत्यमुच्यते सैषा विमला चिदुदाहृता || ३ || अन्येषां ब्रह्मविदामपि सत्यसंकल्पत्वे रागादिदोषक्षयप्रयुक्तशुद्ध्या चित्तस्य सत्यात्मभावापत्तिरेव हेतुरित्याशयेनाह - सर्वैषणानामिति || ३ || मनोनिर्मलसत्त्वात्म यद्भावयति यादृशम् | तत्तथाशु भवत्येव यथावर्तो भवेत्पयः || ४ || यथा भृगुसुतस्यैव बिभ्रमः प्रोत्थितः [सोत्थितः इति पाठः] स्वयम् | प्रत्येकमप्येवमेव दृष्टान्तोऽत्र भृगोः सुतः || ५ || अन्येषां चित्तशुद्ध्यभावात्सत्यसंकल्पत्वासिद्ध्या आद्यकल्पासंभवेऽपि द्वितीयकल्पानुसारात्प्राक्तनमरणोद्बुद्धकर्मवासनाद्यनुगुणसुखदुःखभ् ओगानुकूलजगत्प्रतिभासे शुक्रसाम्यमस्त्येवेत्याशयेनाह - यथेति || ५ || बीजस्थाङ्कुरपत्रादि स्वं चमत्कुरुते यथा | सर्वेषां भूतसङ्घानां भ्रमखण्डास्तथैव हि || ६ || भ्रमखण्डा भ्रान्तिकृतद्वैतविभागाः || ६ || यदिदं दृश्यते विश्वमेवमेवाखिलं जगत् | प्रत्येकमुदितं मिथ्या मिथ्यैवास्तमुपैति च || ७ || दृश्यते अस्माभिरिति शेषः | प्रत्येकं प्रतिजीवम् || ७ || नास्तमेति नचोदेति जगत्किंचन कस्यचित् | भ्रान्तिमात्रमिदं मायामुग्धेव परिजृम्भते || ८ || परमार्थदृशा त्वाह - नास्तमिति | मुग्धा उन्मत्तेव || ८ || यथा संप्रतिभासस्थः स्वयं संसारखण्डकः | तथा तेषां सहस्राणि मिथ्या दृष्टानि सन्ति हि || ९ || एकैकस्यापि जीवस्यानेकं जगदनुभवसिद्धमित्याह - यथेति | संप्रति जागरे भासोऽपरोक्षावभासस्तत्र तिष्ठतीति भासस्थः | अस्माकमिति शेषः | तेषां संसारखण्डानाम् | सन्ति स्वप्नभ्रमादावित्यर्थः | अथवा यदि प्रतिजीवं संसाराः प्रत्येकमुदितास्तर्हि कुतो न भासन्त इति चेत् भासन्त एवेत्याह - यथेति | सम्यक्प्रतिभासः स्फुटानुभवस्तत्स्थः अस्माकमिति शेषः | तेषां जीवान्तराणां सहस्राणि संसाराणामिति शेषः || ९ || स्वप्नसंकल्पनगरव्यवहाराः परस्परम् | पृथग्यथा न दृश्यन्ते तथैते संसृतिभ्रमाः || १० || तर्हि सर्वैः परस्परं संसाराः पृथक्कुतो न दृश्यन्ते तत्राह - स्वप्नेति | यथान्यस्य स्वप्नोऽन्यैर्न दृश्यते तद्वदित्यर्थः || १० || एवं नगरवृन्दानि नभस्संकल्परूपिणि | सन्ति तानि न दृश्यन्ते मिथ्याज्ञानदृशं विना || ११ || पिशाचयक्षरक्षांसि सन्त्येवंरूपकाणि ह | संकल्पमात्रदेहानि सुखदुःखमयानि च || १२ || एवमेव वयं चेमे संपन्ना रघुनन्दन | स्वसंकल्पात्मकाकारा मिथ्यासत्यत्वभाविनः || १३ || एवमेव शुक्रवदेव || १३ || एवंरूपैव हि परे विद्यते सर्गसंततिः | न वास्तवी वस्तुता तु संस्थितैवमवस्तुनि || १४ || व्यष्टेः परे हिरण्यगर्भेऽपि एवमन्धपरम्परयैव संस्थिता || १४ || प्रत्येकमुदितं विश्वमेवमेव मुघैव हि | वनगुल्मकरूपेण वसन्तैकरसो यथा || १५ || सर्वजीवजगदाकारेण ब्रह्मैवोदितमित्याह - प्रत्येकमिति || १५ || प्रथमोऽयं स्वसंकल्पः प्रथामभ्यागतो यथा | तथातिपरमार्थेन दृष्टेनेत्थं विभाव्यते || १६ || प्राथमिकः स्वसंकल्प एव जगदाकारप्रथामभ्यागत इति कथं ज्ञायते तत्राह - प्रथम इति | तत्त्वदर्शनेन ज्ञायत इत्यर्थः || १६ || प्रत्येकमुदितं चित्तं स्वस्वभावोदरस्थितम् | इदमित्थं समारम्भं जगत्पश्यन्विनश्यति || १७ || स्वस्य स्वभावः अनाद्यज्ञानं तदुदरस्थितं चित्तमेव जगदिति पश्यन्विनश्यति स्वयमित्यर्थः || १७ || प्रतिभासवशादस्ति नास्ति वस्त्ववलोकनात् | दीर्घस्वप्नो जगज्जालमालानं चित्तदन्तिनः || १८ || तथाच प्रतिभासकालिक्येव जगत्सत्ता न वास्तवाधिष्ठानदर्शने स्थातुमर्हतीत्याह - प्रतिभासेति || १८ || चित्सत्तैव जगत्सत्ता जगत्सत्तैव चित्तकम् | एकाभावाद्द्वयोर्नाशः स च सत्यविचारणात् || १९ || तर्हि जगति किं प्राक्प्रतिभाता सत्ता अत्यन्तासती नेत्याह - चित्सत्तैवेति | चित्तसत्तैव हि जगत् इति पाठे आलानं चित्तदन्तिन इति यदुक्तं तदाशयं स्फुटयति - चित्तसत्तैवेति | तत्फलमाह - एकाभावादिति || १९ || शुद्धस्य प्रतिभासो हि सत्यो भवति चेतसः | प्रमार्जनादिव मणेर्मलिनस्येह युक्तितः || २० || चित्तसत्तया जगत्सत्ता क्व दृष्टेति चेच्छुद्धचित्तानां सत्यसंकल्पोत्थे वस्तुनि दृष्टेत्याशयेनाह - शुद्धस्येति | मणेः प्रमार्जनान्मणिकार्यस्य प्रकाशविषनिर्हरणादेरिवेत्यर्थः | युक्तित उपायतः || २० || चिरमेकदृढाभ्यासाच्छुद्धिर्भवति चेतसः | अनाक्रान्तस्य संकल्पैः प्रतिभोदेति चेतसः || २१ || एकदृढाभ्यास ऐकाग्र्यदार्ढ्याभ्यासः | प्रतिभा स्वच्छताप्रयुक्तभास्वरता || २१ || सुवर्णं न स्थितिं याति मलवत्यंशुके यथा | एका दृष्टिः स्थितिं याति न म्लाने चित्तके तथा || २२ || सुवर्णं शोभनवर्णं रञ्जकद्रव्यं द्रुतस्वर्णं वा | मलवत्यंशुके मलिनवस्त्रे | एका दृष्टिरद्वैतात्मज्ञानम् || २२ | श्रीराम उवाच | प्रतिभासात्मनि जगत्येते कालक्रियाक्रमाः | सोदयास्तमया जाताः कथं शुक्रस्य चेतसः || २३ || वासनानुसारी जगद्भ्रम इत्युक्तं तत्राननुभूते स्वर्गाप्सरोजन्मपरम्परादिवैचित्र्यक्रमे वासनारूपबीजासंभवाच्छुक्रस्य कथं तदारोपक्रमः संपन्न इत्याशयेन रामः पृच्छति - प्रतिभासात्मनीति | शुक्रस्य चेतसश्चित्तस्य प्रतिभासात्मनि प्रातिभासिककल्पनात्मके जगति कथं केन हेतुना जाताः || सोदयास्तमया इत्यनेन प्रतिभासोदयास्तमययोः प्रतिभासकाले ग्रहणायोगादप्रतिभासकाले च तयोरप्यनुभवासिद्धेः सुतरां तद्गोचरवासनाऽसिद्धिस्तदसिद्धौ क्रमस्याप्यसिद्धिरित्याशयः सूचितः || २३ || श्रीवसिष्ठ उवाच | यादृग्जगदिदं दृष्टं शुक्रेण पितृशास्त्रतः | तादृक्कस्य स्थितं चित्ते मयूराण्डे मयूरवत् || २४ || पितृतः पितृजन्यचक्षुरादिवशात्पितृवाक्याच्च | शास्त्रतः श्रुतिस्मृत्यादिभ्यश्च यादृक् यादृशोत्पत्तिनाशादिविशिष्टमस्तीत्यवगतमैहिकं पारलौकिकं च तस्य चित्ते तादृगेव संस्काररूपेण स्थितम् | तथाच पितृशास्त्रादिप्रमाणतदाभासैरेव [प्रमाणतयाभासैः इति पाठः] वासनोदयस्तस्याप्यासीदेवेत्यर्थः | उत्पत्तिनाशक्रमगोचरसंस्कारः साक्षिणैव सेत्स्यतीति भावः || २४ || स्वभावकोशस्थमिदं तदेतेन क्रमोदितम् | बीजेनाङ्कुरपत्रादिलतापुष्पफलं यथा || २५ || स्वभावकोशश्चिदधिष्ठिता सजीवा अविद्या | एतेन पितृशास्त्रनिमित्तेन || २५ || जीवो यद्वासनाबद्धस्तदेवान्तः प्रपश्यति | स्वरूपं चात्र दृष्टान्तो दीर्घस्वप्नस्त्विदं जगत् || २६ || स्वरूपं स्वप्ने स्वकल्पितं शरीरम् | ननु नायं स्वप्नो नेत्याह - दीर्घेति || २६ || प्रत्येकमुदितो राम नूनं संसृतिखण्डकः | रात्रौ सैन्यनरस्वप्नजालवत्स्वात्मनि स्फुटः || २७ || यथा सैन्यस्था नरा दिवा सैन्यवासनावासिता रात्रौ स्वप्ने प्रत्येकं सैन्यं स्वस्ववासनाकल्पितं नानासैन्यं पश्यन्तोऽपि ऐक्यं मन्यन्ते तद्वदित्यर्थः || २७ || श्रीराम उवाच | एष संसृतिखण्डोत्थो मिथः स मिलति स्वयम् | नो वा मिलति तन्मे त्वं यथावद्वक्तुमर्हसि || २८ || नन्वेवं सति नरस्तदीयसंसारश्च परैर्न द्रष्टुं शक्यत इति गुरूणां शिष्योद्धाराय प्रवृत्तिः शास्त्रप्रणयनं च स्वप्रकृतपरोपकार इव न शिष्यं प्राप्नुयात् तथा चोपदेशालाभाच्छिष्यस्यानिर्मोक्षप्राप्तौ तुल्ययुक्त्या गुरोरपि स्वगुरोरुपदेशालाभादनिर्मोक्षदोषानिर्मोक्ष इति मूलघातिन्येवेयं कल्पनेत्याशयेन रामः पृच्छति - एष इति | यदि न मिलति तदोक्तदोषः यदि मिलति तर्हि साधारणोऽयं संसारो नैकैकस्य ज्ञानेन बाधितुं शक्य इत्युभयतस्पाशा रज्जिरित्याशयः || २८ || श्रीवसिष्ठ उवाच | मलिनं हि मनोऽवीर्यं न मिथः श्लेषमर्हति | अयोऽयसि च संतप्ते शुद्धे तप्तं तु लीयते || २९ || दोषद्वयास्पर्शाय व्यवस्थयोत्तरमाह - मलिनमिति | अयं भवः - मलिनं हि मनः शुद्धे मनसि मिथः परस्परसंश्लेषं मेलनं नार्हति | कुतः यतः अवीर्यं शुद्धमेलनयोग्यसौक्ष्म्यसामर्थ्यहीनम् | तप्तं कषायपाचनशुद्धं तु संतप्ते अयसि संतप्तमय इव लीयते ऐक्यं गच्छति | यतस्तत्समाधिज्ञाभ्यस्तसौक्ष्म्येण सवीर्यमित्याशयः | तथाच सवीर्यत्वादेव देवानां परकीयस्वप्नप्रवेशेन वरदानानुग्रह इव शिष्यमनःकल्पितजगदन्तःप्रवेशेन बोधनसमर्थमेवेति नाद्यो दोषः | साधारणत्वानभ्युपगमान्न द्वितीयदोषोऽपीति भावः || २९ || चित्ततत्त्वानि शुद्धानि संमिलन्ति परस्परम् | एकरूपाणि तोयानि यान्त्यैक्यं नाविलानि हि || ३० || शुद्धिर्हि चित्तस्य विवासनत्व- मभूतसंवेदनमेकरूपम् | तस्याशु शुद्ध्यां भवति प्रबुद्ध- स्तन्मात्रयुक्त्या परसंगमेति || ३१ || चित्तशुद्धेः परां काष्ठां दर्शयंस्तत्प्राप्त्यैव तत्त्वज्ञता दृढा परमप्राप्तिश्च प्रतिष्ठिता भवति नान्यथेत्युपसंहरति - शुद्धिर्हीति | विवासनत्वमात्यन्तिकवासनाक्षय एव चित्तस्य परमा शुद्धिरित्यर्थः | तस्य चित्तस्य तन्मात्रस्य तादृशचिन्मात्रपरिशेषलक्षणशुद्धिमात्रस्य युक्त्या लाभेन परेण परमकैवल्यात्मना सङ्गं मोक्षमेतीति यावत् || ३१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थि० भार्गवोपाख्याने मनोराज्यसंमेलनं नाम सप्तदशः सर्गः || १७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे मनोराज्यसंमेलनं नाम सप्तदशः सर्गः || १७ || अष्टादशः सर्गः १८ श्रीवसिष्ठ उवाच | सर्वसंसृतिखण्डेषु भूतबीजकलात्मनः | तन्मात्रप्रतिभासस्य प्रतिभासेन भिन्नता || १ || मलिनानां तु मलिनैर्योगोऽवस्थाविशोधतः | तन्मात्रयुक्तिर्विज्ञस्य परसङ्गश्च वर्ण्यते || १ || शुद्धमनोराज्यस्य शुद्धैर्मलिनैश्च संमेलनप्रकार उक्तः | इदानीं मलिनानां मलिनैर्मेलनप्रकारं जाग्रदाद्यवस्थानां द्रष्टृदृश्यादीनां च विशोधनेन चरमश्लोकोक्ततन्मात्रयुक्तिं [युक्तितया इति पाठः] तया परसङ्गप्राप्तिं च व्युत्पादयितुं प्रागुक्तं जाग्रदादिप्रपञ्चभेदमसाधारणस्वात्मप्रतिभासाधीनप्रतिभासेन साधयति - सर्वेति | सर्वेषां जीवानां स्वस्वकल्पितसंसृतिरूपेषु सृष्टिसंसृतेः खण्डेषु शकलेषु भूतात्मनः स्थूलस्य बीजात्मनः सूक्ष्मस्य कलनं कला लिङ्गभावोन्मुखता तदात्मनः कारणरूपस्य प्रपञ्चस्य प्रतिजीवं भिन्नता योक्ता सा स एव तन्मात्रः प्रतिभासते नान्यदिति तन्मात्रप्रतिभासः स्वप्रकाशचिदेकरस आत्मा तस्य प्रतिभासेन प्रतिनियताकारकल्पनया न वस्तुवृत्त्येत्यर्थः || १ || प्रवृत्तिर्वा निवृत्तिर्वा तन्मात्रावृत्तिपूर्वकम् | सर्वस्य जीवजातस्य सुषुप्तत्वादनन्तरम् || २ || तत्कुतोऽवगम्यते तत्राह - प्रवृत्तिरिति | यतः सर्वस्य जीवजातस्य सुषुप्तत्वादनन्तरमव्यवहितोत्तरक्षणे ह्यनादिद्वैतव्यवहारा यया प्रवृत्तिर्या च स्वप्ने जागरे च वननद्याद्यभिमुखी प्रवृत्तिस्ततो निवृत्तिः परावृत्तिर्वा सा सर्वापि तन्मात्रस्य चिदेकरसस्य या आसमन्ताद्वृत्तिर्व्याप्तिस्तत्पूर्वकमेव प्रसिद्धा अतो हेतोरित्यर्थः || २ || प्रवृत्तिभाजो ये जीवास्ते तन्मात्रप्रदर्शिनः | तन्मात्रैकतया सर्गान्मिथः पश्यन्ति कल्पितान् || ३ || प्रवृत्तिं भजन्ते व्यवहरन्ति ये ये जीवास्ते सर्वेऽपि तन्मात्रेण चिन्मात्रेणैव प्रदर्शिनः अर्थप्रकाशवन्तो नान्येन ज्योतिषा | अस्त्वेवं तथापि कथमन्यस्यान्यमनोराज्यप्रपञ्चदर्शनसिद्धिस्तत्राह - तन्मात्रेति | तन्मात्रस्य स्वस्वसाक्षिचिन्मात्रस्योपाधिमेलनेन ब्रह्मैक्यदार्ढ्येन वा एकतया एकत्वप्राप्त्या मिथः परस्परसर्गान्पश्यन्ति नान्यथेत्यर्थः || ३ || तन्मात्रैक्यप्रणालेन चित्राः सर्गजलाशयाः | परस्परं संमिलन्ति घनतां यान्ति चाभितः || ४ || उक्तलक्षणेन चिन्मात्रैकप्रणालेन | एकमार्गेणेति यावत् | घनतां परकीयव्यवहारसंवादादिना सत्यताभ्रान्तिदार्ढ्यान्निविडताम् || ४ || केचित्पृथक्स्थितिगताः पृथगेव लयं गताः | केचिन्मिथः संमिलिता जगद्गुञ्जा स्थिताक्षता || ५ || पृथक्सर्गान्तरमेलनं विनैव केचिन्मिथः संवलिताः एवंरीत्या जगत् ब्रह्माण्डं तल्लक्षणा गुञ्जा प्रसिद्धा || ५ || जगद्गुञ्जासहस्राणि यत्रासंख्यान्यणावणौ | अपरस्परलग्नानि काननं ब्रह्म नाम तत् || ६ || अणावणौ प्रतिपरमाणु | ब्रह्म मायाशबलम् | काननं वनम् || ६ || मिथः संमिलनेनैता घनतां समुपागताः | यद्यद्यत्र यथा रूढं तत्तत्पश्यति नेतरत् || ७ || एता जगद्गुञ्जाः घनतां निविडीभावात्साधारणव्यवहारयोग्यताम् | किं सर्वभावाः सर्वेषां दर्शनयोग्या नेत्याह - यद्यदिति | यावतां प्राणिनां यादृशकर्मभोगानुकूलं यत्र यथा रूढं तत्र तावदेव पश्यति नेतरत् | देशान्तरीयं लोकान्तरीयमित्यर्थः || ७ || वर्तमानं मनोराज्यं नैष्फल्यं समुपागता | सा कृत्तिर्मनसो ज्ञेया तस्य जीवपरम्परा || ८ || अत एव चित्तभेदस्तदुपाधिजीवभेदश्च सिद्ध्यतीत्याशयेनाह - वर्तमानमिति | एकस्य मनसो मनोन्तरे वर्तमानं मनोराज्यं प्रति नैष्फल्यं तद्दर्शनोपभोगाद्यसमर्थतालक्षणां निष्फलतां समुपागता या स्थितिः सैव कृत्तिर्विच्छित्तिर्मनोभेदहेतुर्ज्ञेयेत्यर्थः | तस्या एव सकाशाज्जिवपरम्परा जीवभेदा अपि ज्ञेया इत्यनुषज्यते || ८ || परस्परं संमिलतां सर्गाणां रूढभाविनाम् | देहसत्ता भृशं रूढा देहाभावस्तु विस्मृतिः || ९ || एवं विभिन्नमनोराज्यरूपाणां सर्गाणां तुल्यकर्मवासनादीनां युगपत्फलौन्मुख्येन मेलनेन व्यष्टिसमष्टिस्थूलदेहसत्तापि निरूढा ज्ञेया तद्विस्मृतौ तु देहाभाव एव स्वाभाविक इत्यर्थः || ९ || देहत्वपरिरूढत्वाच्चिद्धेम्ना विस्मृतात्मना | मिथ्यानुभूताऽविद्या तु शुद्धा कटकतामिता || १० || स्थूलदेहभावे निरूढे स्वाभाविकात्मस्थितिर्विस्मृता काल्पनिकी सांसारिकस्थितिः स्वीकृता चेत्याह - देहत्वेति | चिदेव हेम चिद्धेम तेन विस्मृतात्मना शुद्धा केवला कटकतामिता कटकत्वसदृशी संसारलक्षणा अविद्या मिथ्यैवानुभूतेत्यर्थः || १० || यथा शुद्धः प्राणमरुत्परप्राणादिवेदनात् | वेत्ति वेद्यं मनोराज्यं तथा सर्गान्तराश्रयम् || ११ || एवमशुद्धानामपि परस्परं क्वचिन्मेलनमुपपाद्य शुद्धानां परमनोराज्यवेदने दृष्टान्तमाह - यथेति | यथा हठयोगाभ्यासेन शुद्धः प्राणमरुत् परकायप्रवेशेन परप्राणानां आदिपदात्तदीयदेहेन्द्रियाणां च स्ववश्यतावेदनात्तैर्वेद्यं शब्दादि वेत्ति तथा शुद्धं मनोऽपि सर्गान्तराश्रयं मनोराज्यं वेत्तीत्यर्थः || ११ || सर्वेषां जीवराशीनामात्मावस्थात्रयं श्रितः | जाग्रत्स्वप्नसुषुप्त्याख्यमत्र देहो न कारणम् || १२ || ननु यदि मनोराज्यानां परस्परसंमिलनादेव स्थूलदेहसत्ता रूढा तर्ह्यसंमिलने देहाभावात् नेत्रस्थं जाग्रतं विद्यात्कण्ठे स्वप्नं समाविशेत् | सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् || इति श्रुतिबोधितदेहप्रदेशभेदाधीना जाग्रदाद्यवस्था अपि न स्युरित्याशङ्क्याह - सर्वेषामिति | जीवत्वस्वभावादेवावस्थात्रयकल्पना न देहमपेक्ष्य | जाग्रत्कल्पनां विना देहासिद्धावन्योन्याश्रयापत्तेः | श्रुतिस्तु परदृष्टिसिद्धदेहानुवादेन तदेकदेशदृश्यत्वान्न जाग्रदादिप्रपञ्चविस्तारः सत्य इत्येवंपरा न देहस्य तद्धेतुत्वपरेति भावः || १२ || एवमात्मनि जीवत्वे सत्यवस्थात्रयात्मनि | नचाम्भसीव वीचित्वमस्मिन्कचति देहता || १३ || अम्भ एव वीच्याद्यात्मकं प्रथते इति तत्त्वदर्शने सति ततः पृथग्वीच्यादिवस्त्विव जीव एवावस्थात्रयात्मेति पर्यालोचनेऽपि न जीवादन्या देहता वस्तुभूता परिशिष्यत इत्याह - एवमिति || १३ || चित्कलापदमासाद्य सुषुप्तान्तपदस्थितम् | बुद्धो निवर्तते जीवो मूढः सर्गे प्रवर्तते || १४ || एवमेव बुद्धस्तत्त्ववित् सुषुप्तस्यान्तमवसानभूतं यत्तुर्यं पदं स्वरूपं तत्र स्थितं चित्कलापदं चैतन्यैकरसस्वभावमासाद्य ज्ञानेन प्राप्य जीवभावान्निवर्तते | यस्तु मूढः अतत्त्ववित् स एव स्वकल्पनया पुनर्देहाद्याकारकल्पनारूपे सर्गे प्रवर्तत इत्यर्थः || १४ || द्वयोरेकस्वरूपैव स्वसौहार्दनिदर्शनात् | अज्ञः सुषुप्तोऽसंबुद्धो जीवः कश्चित्स सर्गभाक् || १५ || तर्हि किं ज्ञाज्ञयोः सुषुप्तिरपि भिद्यते नेत्याह - द्वयोरिति | एकस्वरूपैव सुषुप्तिरिति शेषः | स्वस्याज्ञस्यापि सौहार्दस्य संप्रसादस्य श्रुतौ निरतिशयानन्दमोक्षनिदर्शनत्वेनोपन्यासात् | तर्हि सैकस्य सर्गबीजमन्यस्य नेति कुतो विशेषतत्राह - अज्ञ इति | तयोर्मध्ये अज्ञः सुषुप्तोऽसंबुद्धो वास्तवात्मज्ञानहीनो देहाद्यात्मताभ्रमवासनावासितश्चेत्यस्मादेव विशेषात्स जीवः सर्गभागित्यर्थः || १५ || सर्वगत्वाच्चितः [१] कश्चित्परसर्गेण नीयते | सर्गे सर्गे पृथग्रूपं सन्ति सर्गान्तराण्यपि || १६ || तत्राप्यवान्तरविशेषमाह - सर्वगत्वादिति [सर्गगत्वात् इत्युभयत्र पाठः] | नीयते अन्तः प्रवेश्यते | पृथग्रूपमिति क्रियाविशेषणम् || १६ || तेष्वप्यन्तस्थसर्गौघाः कदलीदलपीठवत् | सर्वसर्गान्तरादूरं पत्रपीवरवृत्तिमत् || १७ || कदलीदलस्य पीठान्याधारभूतास्त्वक्कोशास्तद्वदन्तरन्तः सन्तीत्यर्थः | ब्रह्म तु सर्वसर्गेष्वप्यैकरूप्येण संनिहितं कदलीदलमण्डपवदित्याह ##- अदूरं बहिर्विस्तीर्णैः पत्रैरिव पीवरवृत्तिमत् बृहदिति [बृहदित्यस्य परश्लोकस्थेन ब्रह्मेत्यनेनान्वय इत्यर्थः] परेणान्वयः || १७ || स्वभावशीतलं ब्रह्म कदलीदलमण्डपः | कदल्यामन्यता नास्ति यथा पत्रशतेष्वपि || १८ || दृष्टान्तं विवृणोति - कदल्यामिति || १८ || ब्रह्मतत्त्वेऽन्यता नास्ति तथा सर्गशतेष्वपि | बीजमेव रसात्फुल्लं भूत्वा बीजं पुनर्भवेत् || १९ || इत्थं जगद्भावापन्नस्य ब्रह्मणः पुनः स्वभावापत्तौ दृष्टान्तमाह - बीजमिति | यथा वटादिबीजमेव रसाज्जलादिसंसर्गात्फुल्लं वृक्षादि भूत्वा तद्विटपप्रसरफलादिद्वारा पुनः प्राक्तनबीजभावेनाविर्भवति तथा ब्रह्मापि कामकर्मादिरससंपर्कान्मनो भूत्वा जन्ममरणादिकल्पनया अधिकारिदेहप्राप्तौ श्रवणमननादिक्रमेण बोधोदयात्प्राक्तनब्रह्मभावेनाविर्भवतीत्यर्थः || १९ || तथा ब्रह्म मनो भूत्वा बोधाद्ब्रह्म परं भवेत् | रसकारणकं बीजं फलभावेन जृम्भते || २० || यदि तस्यापि बीजस्य रससंपर्कैः पुनर्वृक्षभाववन्मुक्तस्यापि पुनर्जीवभावः स्यादिति बीजमदृष्टान्तं मन्यसे तर्हि रस एव दृष्टान्तोऽस्त्वित्याह - रसकारणकमिति || २० || ब्रह्मकारणको जीवो जगद्रूपेण जृम्भते | रसस्य कारणं किं स्यादिति वक्तुं न युज्यते || २१ || एवंच सति ब्रह्मणः कारणं किं स्यादिति शङ्काया अपि न प्रसर इत्याह - रसस्येति || २१ || ब्रह्मणः कारणं किं स्यादिति वक्तुं न युज्यते | स्वभावो निर्विशेषत्वात्परो वक्तुं न युज्यते || २२ || ननु पत्रकाण्डवृक्षपुष्पफलादीनां सरसतादर्शनात्तत्स्वभावभूतो रसस्तेषां कारणमिव जगत्कारणं ब्रह्मापि जगद्धर्मस्वभावविशेष एव स्यात्तथाच ब्रह्मकारणतासाधनं स्वभावकारणतावादेनार्थान्तरितं स्यादित्याशङ्क्याह - स्वभाव इति | न युज्यते | कुतः | निर्विशेषत्वात्कारणस्य कार्यसहोत्पत्तिकासाधारणधर्मविशेषरूपतत्स्वभावरूपत्वा##- नाकारणे कारणादि परे वस्त्वादिकारणे | विचारणीयः सारो हि किमसारविचारणैः || २३ || तर्हि चिद्ब्रह्ममात्रेण कारेणेन जगति जाड्यादिस्वभावत्वासिद्धेर्जाड्यदुःखादिस्वभावं ब्रह्मणि जगतः कारणान्तरं वैचित्र्यहेतूनि निमित्तान्तराणि चाभ्युपेयानि स्युरिति चेन्नेत्याह ##- सर्वप्रपञ्चारोपस्यादिकारणे ब्रह्मणि कारणनिमित्तादि वस्त्वपि न संभवति तत्स्वभावविरोधादेवेत्यकारणविवर्तरूपं जगदनृतमेवेत्यर्थः | तर्हि जडानृतदुःखरूपस्य जगतो जडानृतदुःखरूपमेवादिकारणमुचितमिति तदेव विचार्यतां किमकारणब्रह्मविचारणेति चेत्तत्राह - विचारणीय इति | असारविचारणैः किं | कः पुरुषार्थ इत्यर्थः || २३ || बीजं जहद्बीजवपुः फलीभूतं विलोक्यते | ब्रह्माजहन्निजवपुः फलं बीजे च संस्थितम् || २४ || अकारणमादिकारणमिति यदुक्तं तदाशयोद्घाटनाय प्रागुक्तबीजदृष्टान्तापेक्षया ब्रह्मणि यो विशेषस्तमाह - बीजमिति | बीजं बीजवपुर्बीजाकारं जगत् त्यजत् सत् अङ्कुरादिफलीभूतं लोके विलोक्यते न तथा ब्रह्मेति | अत एव तद्विवर्तोपादानं स्वसमसत्ताककार्याभावादकारणमित्युक्तमित्याशयः || २४ || बीजस्याकृतिमत्सर्वं तेनानाकृतिमत्पदम् | न युज्यते समीकर्तुं तस्मान्नास्त्युपमा शिवे || २५ || विशेषान्तरमपि दर्शयन्निर्विशेषस्योपचारादेवोपमोपन्यस्ता न वस्तुवृत्त्येत्याह - बीजस्येति | सर्वं स्वरूपमवयवगुणादि च आकृतिमत् इतरव्यावर्तकजातिसंस्थानादिमत् | तेन बीजेन समीकर्तुं तुलयितुम् || २५ || स्वमेव जायतेऽस्वाभं न च तज्जायतेऽन्यदृक् | अतो न जातं नाजातं विद्धि ब्रह्म नभो जगत् || २६ || तर्ह्युपमोपचारस्य किं फलं तदाह - स्वमेवेति | अस्वाभं अनात्माभासम् || २६ || दृश्यं पश्यन्स्वमात्मानं न द्रष्टा संप्रपश्यति | प्रपञ्चाक्रान्तसंवित्तेः कस्योदेति निजा स्थितिः || २७ || यदि स्वमेव जगदाभासं पश्यति तर्हि कुतोऽस्यानर्थप्राप्तिर्यतस्तत्परिहाराय शास्त्रं सफलं स्यात्तत्राह - दृश्यमिति | यथाभूतं स्वमात्मानं न पश्यतीत्यत एवानर्थ इत्यर्थः || २७ || मृगतृष्णाजलभ्रान्तौ सत्यां कैव विदग्धता | विदग्धतायां सत्यां तु कैवासौ मृगतृष्णिका || २८ || भ्रान्त्युदये स्वाभाविक्यप्यस्य पूर्णानन्दस्वप्रकाशता वृथा संपन्नेत्याशयेनाह - मृगतृष्णेति | विदग्धता विद्वता || २८ || आकाशविशदो द्रष्टा सर्वाङ्गोऽपि न पश्यति | नेत्रं निजमिवात्मानं दृशीभूतमहो भ्रमः || २९ || निर्मलस्वप्रकाशसर्वगतस्वभावत्वात्सर्वेषां सर्वदा स्फुटदर्शनार्होऽप्यात्मा कदापि केनापि तत्त्वतो न वीक्ष्यते अहो बहिर्मुखानां भ्रान्तिप्राबल्यमित्याह - आकाशेति | यथा नेत्रं पराक्प्रवणत्वात्स्वमात्मानं न पश्यति तद्वत् || २९ || आकाशविशदो द्रष्टा सर्वाङ्गोऽपि न पश्यति | तेषां निजमिवात्मानं दृशीभूतमिवाभ्रमः || ३० || ननु बहिर्मुख आन्तरं स्वमात्मानं न पश्यतु बाह्यानां तु परेषामात्मानं पश्यत्विति चेन्नेत्याह - आकाशेति | निजात्मानमिव तेषां सर्वेषां बाह्यानामप्यात्मानं पारमार्थिकरूपं न पश्यति | यथा अभ्रमः निःशेषनिवृत्तभ्रान्तिर्मुक्तः दृशीभूतं दृश्यतापन्नं द्वैतं न पश्यति तद्वदित्यर्थः || ३० || आकाशविशदं ब्रह्म यत्नेनापि न लभ्यते | दृश्ये दृश्यतया दृष्टे त्वस्य लाभः सुदूरतः || ३१ || तथाच दृश्यं दृश्यतया न द्रष्टव्यं किंतु दृङ्मात्रतयेति भावः || ३१ || तादृग्भावस्वरूपेण विना यत्र न दृश्यते | तत्रापि दूरोदस्तैव द्रष्टुः सूक्ष्मस्य दृश्यता || ३२ || ननु प्रमातुरान्तर आत्मा विषयाभिमुखेन तेन न दृश्यतां घटादिविषयाधिष्ठानभूतस्तु बहिर्वृत्तिव्याप्त्या दृश्यताम् तत्र प्रत्यङ्मुखत्वस्यानुपयोगादित्याशङ्क्याह - तादृगिति | यत्र घटादिविषयप्रदेशे वृत्त्यवच्छिन्नस्य द्रष्टुर्वृत्तेर्बाह्यघटाद्याकारानुरञ्जनात्स्वस्यापि तादृग्भावस्वरूपेण विना घटादि द्रष्टुं न शक्यते तत्रापि द्रष्टुर्दृश्यता दर्शनार्हता दूरोदस्ता दूरान्निरस्तैव | तत्र हेतुगर्भं विशिनष्टि - सूक्ष्मस्येति | विषयवृत्तिताद्रूप्यानुरक्तस्वरूपाद्विविच्य सूक्ष्मचिन्मात्रस्यावधारणाशक्तेरिति भावः || ३२ || दृश्यं च दृश्यते तेन द्रष्टा राम न दृश्यते | द्रष्टैव संभवत्येको नतु दृश्यमिहास्ति हि || ३३ || यदि सर्वथा द्रष्टा न दृश्यते तर्हि कथं तन्मात्रयुक्त्या तल्लाभसिद्धिरित्याशङ्क्य तदुपायमाह - द्रष्टैव संभवतीत्यादिना || ३३ || द्रष्टा सर्वात्मको दृश्ये स्थितश्चेत्कैव द्रष्टृता | सर्वशक्तिमता राज्ञा यद्यत्संपद्यते यथा || ३४ || कुतो नास्ति तदाह - द्रष्टेति | दृश्यप्रदेशास्थितस्य द्रष्टृत्वे अतिप्रसङ्गात् सर्वभूताधिवासः साक्षी चेता इत्यादिश्रुतेश्च सर्वात्मा दृश्ये स्थितश्च द्रष्टावश्यं वाच्यः | एवं चेत्तस्य स्वात्मभूते सर्वस्मिन्दृश्ये स्वात्मनि क्रियाविरोधात् कुतो द्रष्टृतेत्यर्थः | यदि तु सर्वशक्तिमत्त्वात्समर्थो राजेव दृश्यं संपाद्य तत्तथानुभवन् द्रष्टा भविष्यतीति ब्रूयास्तर्हि स्वातिरिक्तोपकरणापेक्षत्वे शक्तिसंकोचापत्तेरविकृतः स एव तत्तद्दृश्यरूपेण तथा तथोदेतीति पक्षस्यैव परिशेषान्न द्रष्टृतेत्यतिरिक्तवस्तुसिद्धिरित्याशयेनाह - सर्वशक्तिमतेति || ३४ || तत्तथानुभवत्याशु स एवोदेति तत्तथा | यथा मधुरसोल्लासः खण्डो भवति भासुरः || ३५ || उक्तेऽर्थे समञ्जसं दृष्टान्तमुपवर्ण्य प्रकृते योजयति - यथेत्यादिना | मधुरसस्य मधुररसस्यैक्षवरसस्य प्रसिद्धमधुरूपस्य वा रसस्य देशविशेषे मधुनोऽपि खण्डशर्करोत्पत्तिप्रसिद्धेः | खण्डः खण्डशर्करा || ३५ || रसतामजहच्चैव फलपुष्पलतोन्नतः | चिदुल्लासस्तथा जीवो भूयो भवति देहकः || ३६ || फलपुष्पादिरसैर्मधुमक्षिकाहृतैरुन्नतः [मूले फलपुष्पलताशब्देन लक्षणया तद्रसो गृह्यते] | अथवा मधुरसो वसन्तकाले वृक्षप्रविष्टरसः फलपुष्पलतात्मनोन्नतो वनखण्डो यथा भवति तद्वदिति व्याख्येयम् || ३६ || चिन्मात्रतां तामजहदेव दर्शनदृङ्मयम् | अन्तःस्वानुभवश्चैव जगत्स्वप्नं प्रपश्यति || ३७ || अहंतादिरसे भौमे खण्डकत्वमिवात्मनि | नानाखण्डसहस्रौघैरद्वितीयैर्निजात्मनः || ३८ || आत्मनि अहंतादिभौमे रसे लवणादौ खण्डकत्वमिवेति प्रतिज्ञातस्यार्थस्य नानाखण्डसहस्रौघैरित्यादि चित्तथोदेत्यसंभ्रममित्यन्तमुपपादनम् | निजात्मनो लवणादेरद्वितीयैरभिन्नैः || ३८ || यथोदेति रसो भौमश्चित्तथोदेत्यसंभ्रमम् | चिद्रसोल्लासवृक्षाणां कचतामात्मनात्मनि || ३९ || ब्रह्माण्डानन्त्यं दर्शितमित्याशयेनाह - चिद्रसेति || ३९ || दृश्यशाखाशताढ्यानामिह नान्तोऽवगम्यते | खण्डः प्रत्येकमेवायं यथा रसचमत्कृतिम् || ४० || तेषु तेषु भोगचमत्कारा अप्यनन्ता इति दर्शयति - खण्ड इति | अयं दृश्यमानः खण्ड एतद्ब्रह्माण्डलक्षणो वनखण्डो यथा यथा स्वरसचमत्कृतिं स्वादयति अनुभावयति एवं तथा तथा एषा चित् पश्यत्यनुभवतीति परेणान्वयः || ४० || स्वादयत्येवमेषा चित्पृथक्पश्यति संस्थितिम् | या योदेति यथा यस्या जीवशक्तेः स्वसंसृतिः || ४१ || पृथगिति वीप्सितं बोध्यम् | प्रतिब्रह्माण्डमित्यर्थः | चमत्कृतिवैचित्र्ये तत्कल्पकविचित्रतत्तज्जीवसंस्कारोद्बोध एव हेतुरित्याह - या येति || ४१ || तां तां तथैति सा स्वात्मचिद्रूपभुवनस्थितिम् | जीवसंसृतयः काश्चित्प्रमिलन्ति परस्परम् || ४२ || तत्र समानाकारवासनोद्भवेऽज्ञजीवानामपि संसृतयो मिलन्तीति जीवसंसृतिमेलनमुपवर्णितमुपसंहरति - जीवसंसृतय इति || ४२ || स्वयं विहृत्य संसारे शाम्यन्ति चिरकालतः | सूक्ष्मया परया दृष्ट्या त्वं पश्य ज्ञानचेतसा || ४३ || मम तर्हि परसंसृतिसहस्रदर्शने क उपायस्तमाह - सूक्ष्मयेत्यादिना | ज्ञानचेतसेति | प्रागुक्तेन शुद्धचित्तानां दर्शनोपायेनेत्यर्थः || ४३ || जगज्ज्वालसहस्राणि परमाण्वन्तरेष्वपि | चित्ते नभसि पाषाणे ज्वालायामनिले जले || ४४ || सन्ति संसारलक्षाणि तिले तैलमिवाखिले | सिद्धिमेति यदा चेतस्तदा जीवो भवेच्चितिः || ४५ || शुद्धा च सा सर्वगता तेन तन्मेलनं मिथः | सर्वेषां पद्मजादीनां स्वसत्ताभ्रमरूपकः || ४६ || पद्मजादीनामस्मदादिसंसारदर्शनं शुद्धिवशादेवेत्याह - शुद्धा चेति | सर्वगतब्रह्मैकरसत्वात्सर्वगता | मेलनमपि स्वकीयपरकीयस्वप्नानां दैवात्क्वचित्संवादवत्स्वान्तःकल्पनात्मकमेवेत्याशयेनाह - सर्वेषामित्यादिना || ४६ || जगद्दीर्घमहास्वप्नः सोऽयमन्तः समुत्थितः | स्वप्नात्स्वप्नान्तरं यान्ति काश्चिद्भूतपरम्पराः || ४७ || तेनोपलम्भः कुड्यादावसौ दृढतरः स्थितः | यद्यत्र चिद्भावयति तत्तत्राशु भवत्यलम् || ४८ || तेन स्वप्नपरमपराभ्रमणेन | तद्वासनादार्ढ्याद्दृढतरः | चितो वासनोद्भवानुरूपविवर्तसामर्थ्यं सार्वत्रिकमिति दर्शयति - यद्यत्रेति || ४८ || तया स्वप्नेऽपि यद्दृष्टं तत्काले सत्यमेव तत् | चिदणोरन्तरे सन्ति समस्तानुभवाणवः || ४९ || अत एव चित्सत्तायास्तत्रानुवेधानुभव इत्याह - तयेति | अनुभवाणवः सूक्ष्मीभूतानुभवाः जगदाकारवासना इति यावत् || ४९ || (यथा [कोष्ठकविन्यस्तोऽयं पाठः प्रक्षिप्त इति भाति आदर्शान्तरेष्वदर्शनाट्टीकाकर्त्रसंमतत्वाच्च] बीजान्तरे पत्रलतापुष्पफलाणवः) | परमाणुजगत्यन्तर्मन्ये चित्परमाणवः | लीनमाकाशमाकाशे द्वैतैक्यभ्रममुत्सृज || ५० || परमाण्विति | तथाच चिज्जगतोः कार्त्स्येन परस्परान्तःप्रविष्टत्वमाश्चर्यं मन्ये इत्यर्थः | अथवा नेदमाश्चर्यं चिदाकाशस्यैव जगद्भ्रमैर्भेदेन गृहीतस्य स्वात्मनि लीनत्वादित्याशयेनाह - लीनमिति || ५० || देशकालक्रियाद्रव्यैः स्वैरेवाणुभिरेव चित् | अणूननुभवत्यन्तरितराणि नसंभवात् || ५१ || उक्तमेव प्रपञ्चयति - देशेत्यादिना | अणुभिः सूक्ष्मैः स्वैरेव चिदंशैः स्वात्मभूतानेवेतराणीवानुभवति नतु वस्तुत इतराणि | इतरेषां नसंभवादसंभवात् || ५१ || स्वयं सर्गस्य कचितः स्वप्ने चिदणुखण्डकः | ब्रह्मादेः कीटनिष्ठस्य देहदृष्ट्यानुभावितः || ५२ || ब्रह्मादेः कीटनिष्ठस्य कीटान्तस्थस्य साधारणस्तत्तदन्तःकरणोपाधिवशाच्चिदणुखण्डकः प्रलयकाले अस्फुटोऽपि सर्गस्य स्वप्ने प्रसक्ते तत्तद्देहदृष्ट्यानुभावितो भवतीत्यर्थः || ५२ || कचितं किंचिदेवेह वस्तुतस्तु न किंचन | स्वयं सत्यं स्वादयन्ते द्वैतं चित्परमाणवः || ५३ || यदनुभूयते किं तदिति तत्राह - कचितमिति | किंचिदेवेत्यनिर्वचनीयमित्यर्थः | तर्हि तत्किं तत्राह - स्वयं सत्यमिति | यथा कश्चिद्भ्रान्तः स्वयं स्वस्कन्धमारुरुक्षति तद्वच्चित्परमाणवो जीवाः स्वयं सत्यमात्मरूपमेव द्वैतं मन्यमाना भ्रान्त्या स्वादयन्तीत्यर्थः || ५३ || स्वयं प्रकचति स्फारदेहश्चिदणुखण्डकः | नेत्रादिकुसुमद्वारैः संविदामोदमुद्गिरन् || ५४ || चिदेवाण्वन्तःकरणपरिच्छेदादणुखण्डकः || ५४ || संपश्यतितरां कश्चिद्बहीरूपेण चिद्घटः | सर्वगत्वादनाशित्वाद्दृश्यबीजस्य वै चितेः || ५५ || कश्चिद्व्यष्टिरूपश्चिदेव घटसदृशस्थूलदेहपरिच्छेदाच्चिद्घटः | देशतः कालतश्च बहीरूपेण | तत्र क्रमाद्धेतुः - सर्वगत्वादनाशित्वाच्चेति || ५५ || अन्तरेवाखिलं कश्चित्पश्यत्य विमलं जगत् | तत्रातिकालकलनादुन्मज्जति निमज्जति || ५६ || कश्चित्समष्ट्यात्मा ब्रह्माण्डरूपः | अतिकालकलनाच्चिराभ्यासात्तादात्म्याभिमानेन निमज्जति लीयते उन्मज्जति पुनराविर्भवति || ५६ || स्वप्नात्स्वप्नान्तरं तत्र तथा पश्यन्पुनः पुनः | मिथ्या वटेषु लुठति शिलेव शिखरच्युता || ५७ || केचित्संमिलिताः केचिदात्मन्येवाभ्रमे स्थिताः | मग्नाः स्वसंवित्प्रसरे स्फुरन्तो देहखण्डकाः || ५८ || स्वयमन्तः प्रपश्यन्ति ये जगज्जीवविभ्रमम् | तैस्तैः कैश्चित्ततं दृश्यमसत्स्वप्नवदाश्रितम् || ५९ || अन्तर्दृश्यद्रष्टॄणां तन्मिथ्यात्वज्ञानं विशेष इत्याशयेनाह - स्वयमिति || ५९ || सर्वात्मत्वात्स्वभावस्य तद्दृश्यं सत्यमात्मनि | सर्वगं विद्यते यत्र तत्र सर्वमुदेति हि || ६० || तेषामन्तरेव विश्वोदये चान्तस्तत्सत्ताहेतुर्बहिः केषांचित्तद्दर्शने तु बहिरेव तत्सत्ताहेतुरिति बीजव्यवस्थां हृदि निधायाह - सर्वात्मत्वादिति || ६० || जीवान्तः प्रतिभासस्य सर्वस्य पुनरन्तरे | जीवखण्ड उदेत्युच्चैस्तस्यान्तरितरोऽपि च || ६१ || जीवान्तर्जीवान्तरस्य तत्र तत्र च जीवान्तरस्य सप्रपञ्चस्यानवस्थितस्योदयेऽपि तत्रत्यचिति तत्तत्सत्तैवाज्ञानसहिता हेतुर्ज्ञाते तु न किंचित्क्वाप्यासीदस्ति भविष्यति वेत्याशयेनाह - जीवान्तरित्यादिना || ६१ || जीवान्तर्जायते जीवस्तस्यान्तरपि जीवकः | सर्वत्र रम्भादलवज्जीवो जीवन्तरेव हि || ६२ || दृश्यबुद्धिपरावृत्तौ सममेतदनन्तरम् | हेम्नीव कटकादित्वं परिज्ञातं विनश्यति || ६३ || बुद्धेः परावृत्तौ पराक्प्रवणतां त्यक्त्वा प्रत्यक्प्रवणत्वे सति समं युगपदेव चैतदान्तरं बाह्यं च तत्त्वतः परिज्ञातं सद्विनश्यति || ६३ || विचारो यस्य नोदेति कोऽहं किमिदमित्यलम् | तस्यान्तर्न विमुक्तोऽसौ दीर्घो जीवज्वरभ्रमः || ६४ || एवं तत्त्वदर्शनलक्षणां तन्मात्रयुक्तिं दर्शयित्वा तत्प्राप्तिप्रतिष्ठोपायानिन्द्रियजयादिविचारान्तान्व्युत्क्रमेण वक्तुमुपक्रमते - विचार इति || ६४ || विचारः सफलस्तस्य विज्ञेयो यस्य सन्मतेः | दिनानुदिनमायाति तानवं भोगगृध्नुता || ६५ || वैराग्यपूर्वकविचार एव फलपर्यवसायी न रागीकृत इत्याह - सफल इति || ६५ || यथा देहोपयुक्तं हि करोत्यारोग्यमौषधम् | तथेन्द्रियजयेऽभ्यस्ते विवेकः फलितो भवेत् || ६६ || इन्द्रियजयाभ्यासपूर्वकमेव वैराग्यं विवेकहेतुर्नान्यादृशमित्याह - यथेति | देहेनोपयुक्तं पथ्याशनादिनियमैः सेवितम् || ६६ || विवेकोऽस्ति वचस्येव चित्रेऽग्निरिव भास्वरः | यस्य तेनापरित्यक्ता दुःखायैवाविवेकिता || ६७ || वेवेकोऽपि वैराग्यमुमुक्षौत्कण्ठ्यापादनेन संन्यासश्रवणादिपहलपर्यवसित एव तन्मात्रयुक्तिजन्मप्रतिष्ठयोरुपयुज्यते न वाङ्मात्रपल्लवित इति दर्शयति - विवेक इत्यादिना | यस्य वचस्येव विवेकोऽस्ति न मनसि तेन अविवेकिता अपरित्यक्तेति सा दुःखायैव भवतीत्यर्थः || ६७ || यथा स्पर्शेन पवनः सत्तामायाति नो गिरा | तथेच्छातानवेनैव विवेकोऽस्य विबुध्यते || ६८ || तर्हि मनःप्रतिष्ठितेऽस्य विवेके किं लिङ्गमिति चेद्वैराग्यदार्ढ्यमेवेत्याह ##- तद्वदित्यर्थः | तानवं अपक्षयक्रमेण नाशः || ६८ || चित्रामृतं नामृतमेव विद्धि चित्रानलं नानलमेव विद्धि | चित्राङ्गना नूनमनङ्गनेति वाचा विवेकस्त्वविवेक एव || ६९ || रागिणा वाङ्मात्रदर्शितो विवेकस्तु अविवेकशाखोपशाखात्मकत्वादविवेक एवेति तुल्योक्त्या दर्शयति - चित्रामृतमिति | चित्रलिखितममृतं पीयूषं वारि वा || ६९ || पूर्वं विवेकेन तनुत्वमेति रागोऽथ वैरं च समूलमेव | पश्चात्परिक्षीयत एव यत्नः स पावनो यत्र विवेकितास्ति || ७० || यत्न इष्टानिष्टप्राप्तिपरिहारानुकूला प्रवृत्तिर्ज्ञानोदयेन मूलोच्छेदात्परिक्षीयत एव | तस्माद्यत्र वेवेकितास्ति स एव पुमांस्तन्मात्रयुक्तिप्रतिष्ठायोग्यः पावन इत्यर्थः || ७० || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे जीवनखण्डकावतारो नामाष्टादशः सर्गः || १८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे जीवनखण्डकावतारो नामाष्टादशः सर्गः || १८ || एकोनविंशः सर्गः १९ श्रीवसिष्ठ उवाच | जीवबीजं परं ब्रह्म सर्वत्र खमिव स्थितम् | तेन जीवोदरजगत्यपि जीवोऽस्त्यनेकधा || १ || यथोपास्तिफलावाप्तिर्बोधात्सत्यात्मसंस्थितिः | जाग्रत्स्वप्नसुषुप्तीनां स्थितिस्तुर्यस्य चोच्यते || १ || ननु जीवान्तर्जीवपरम्पराकल्पनायां बाह्यबाह्यजीवा आन्तरान्तरजीवजगतामधिष्ठानत्वाद्बीजं स्युस्तथान्तरान्तराणां बाह्यबाह्यजीवात्मभावबोधात्तत्तद्भावप्राप्तिक्रमेण सर्वबाह्यजीवस्य ब्रह्मबोधोदये मुक्तिर्युक्ता नान्तराणां साक्षाद्ब्रह्माबोधाद्ब्रह्मणस्तत्र तत्रासंनिधानेआधिष्ठानत्वलक्षणबीजत्वासंभवात्तत्संभवे च सर्वेषां तुल्यतया तत्तदन्तःसत्त्वकलना निर्मूला स्यादित्याशङ्क्य जीवोदरजगज्जीवानामपि ब्रह्मैवाधिष्ठानत्वाद्बीजमिति साधयति - जीवबीजमिति | तेन सर्वत्र स्थितत्वेन हेतुना || १ || चिद्घनैकघनात्मत्वाज्जीवान्तर्जीवजातयः | कदलीदलवत्सन्ति कीता इव धरोदरे || २ || एकान्तरेकस्तदन्तरप्येक इति परम्पराकल्पनायां कदलीदलवदेकैकान्तर्वहव इति परम्पराकल्पनायां तु धरोदरे कीटा इवेति भेदः || २ || यो यो नाम यथा ग्रीष्मे कल्पस्वेदाद्भवेत्कृमिः | यद्यद्दृश्यं शुधचित्खं तज्जीवो भवति स्वतः || ३ || तुल्याधिष्ठानकत्वे आन्तरत्वकल्पना निर्मूलेत्यस्य कः परिहार इति चेत्तमाह ##- स तत्तदन्तरेव भवति तथा शुद्धचित्त्वमपि आन्तरं बाह्यं वा यद्यदेव यत्र दृश्यं भवति तत्तद्भोक्ता तत्र तत्र जीवो भवतीत्यर्थः || ३ || यथा यथा यतन्ते ते जीवकाः स्वाम्तसिद्धये | तथा तथा भवन्त्याशु विचित्रोपासनक्रमैः || ४ || प्राक्तनपुरुषप्रयत्नरूपकर्मवशाद्वा सर्वव्यवस्थासिद्धिरित्याशयेनाह ##- देवान्देवयजो यान्ति यक्षा यक्षान्व्रजन्ति हि | ब्रह्म ब्रह्मयजो यान्ति यदतुच्छं तदाश्रयेत् || ५ || कर्मोपासनातारतम्यानुसारिदेवताजीवसायुज्येष्वपि तत्तद्देवान्तस्तारतम्येन भोगप्रसिद्धिः शास्त्रप्रामाण्यात्सिद्धेत्याशयेनाह - देवानिति | ब्रह्म हिरण्यगर्भाख्यं परं च | तेषु किं हेयं किमुपादेयं तदाह - यदिति || ५ || स मुक्तो भृगुपुत्रो हि निर्मलत्वात्स्वसंविदः | बद्धः प्रथमदृष्टेन दृश्येनाशु स्वभावतः || ६ || भार्गवोपाख्यानमप्युक्तेऽर्थेऽनुकूलमित्याह - स इति | प्रथमदृष्टेनाप्सरोरूपेण शुक्रो बद्धोऽभूदित्यर्थः || ६ || भुवि जाता परिम्लाना बाला यत्प्रथमं पुरः | तथैवाव्युत्पन्ना बाला संविद्यथैव व्युत्पाद्यते तथैव भवतीति वास्तवब्रह्मात्मभावेनैव सा व्युत्पाद्या न मिथ्याजीवादिभावेनेत्याशयेनोपसंहरति - भुवीति | सांसारिकव्यसनतापैर्यावदपरिम्लानेत्यर्थः || ७ || श्रीराम उवाच | जाग्रत्स्वप्नदशाभेदं भगवन्वक्तुमर्हसि | कथं च जाग्रज्जाग्रत्स्यात्स्वप्नो जाग्रद्भ्रमः कथम् || ८ || संवित्कदा बाला कदा वा प्रौढेति विशेषं ज्ञातुं जाग्रत्स्वप्नदशावैलक्षण्यहेतुं श्रीरामः पृच्छति - जाग्रदिति | अपरोक्षावभासत्वाविशेषेऽपि जाग्रत्कथं केन हेतुना जाग्रत्सत्यताव्यवहारहेतुः | स्वप्नस्तु जाग्रदाकारो भ्रम इति कथमित्यर्थः || ८ || श्रीवसिष्ठ उवाच | स्थिरप्रत्यययुक्तं यत्तज्जाग्रदिति कथ्यते | अस्थिरप्रत्ययं यत्स्यात्तत्स्वप्नः समुदाहृतः || ९ || स्थिरप्रतीतियोग्यतैव पुनःपुनः संवादिप्रत्यभिज्ञोपनीता जाग्रदर्थेषु सत्यताव्यवहारहेतुरिति वसिष्ठः समाधत्ते - स्थिरेति || ९ || जाग्रत्त्वे क्षणदृष्टः स्यात्स्वप्नः कालान्तरे स्थितः | तज्जाग्रत्स्वप्नतामेति स्वप्नो जाग्रत्त्वमृच्छति || १० || स्वप्नोऽपि चेत्कालान्तरे स्थितः स्यात्तदा जाग्रत्त्वे क्षणेन जाग्रदेवेदमिति प्रत्यक्षानुभवेन दृष्टः स्यादेवं जाग्रदपि कालान्तरे यदि न स्थितं स्यात्तत्तर्हि स्वप्न एव स्यादिति जाग्रत्स्वप्नतां स्वप्नश्च जाग्रत्त्वं ऋच्छति गच्छतीत्यर्थः || १० || जाग्रत्स्वप्नदशाभेदो न स्थिरास्थिरते विना | समः सदैव सर्वत्र समस्तोऽनुभवोऽनयोः || ११ || अनुभवः अनुभवांशस्त्वनयोः समः || ११ || स्वप्नोऽपि स्वप्नसमये स्थैर्याज्जाग्रत्त्वमृच्छति | अस्थैर्याज्जाग्रदेवास्ते स्वप्नस्तादृशबोधतः || १२ || अस्थैर्यादिति | यथा जाग्रन्मनोरथादिः || १२ || स्वप्नोऽपि जाग्रद्बुद्ध्यंशो जाग्रत्त्वमनुगच्छति | स्वप्नता स्वप्नबुद्ध्या तु यथासंवेदनं स्थितम् || १३ || जाग्रद्बुद्ध्यंशो जाग्रद्बुद्धिग्राह्यास्थैर्यांशो यथा हरिश्चन्द्रस्य द्वादशवार्षिकः | तर्हि तस्य कथं स्वप्नता तत्राह - स्वप्नतेति || १३ || यत्तु यावत्स्थिरं बुद्धं तत्तावज्जाग्रदुच्यते | क्षणभङ्गात्तु तत्स्वप्नो यथा भवति तच्छृणु || १४ || यथासंवेदनं स्थिरमित्येतद्विशदयति - यत्त्वित्यादिना || १४ || जीवधातुः शरीरेऽन्तर्विद्यते येन जीव्यते | तेजो वीर्यं जीवधातुरित्याद्यभिधमङ्ग यत् || १५ || प्रतिज्ञातवर्णनोपोद्घातेन तद्द्रष्टृजीवभावं साधयति - जीवधातुरिति | येन जीव्यते इत्यनेन जीवनमेव तत्सद्भावसाधकं लिङ्गं दर्शितम् | तेज इति नाम्ना शरीरोष्मा तल्लिङ्गं वीर्यमिति नाम्ना शरीरचेष्टानिमित्तं बलं तल्लिङ्गमुक्तम् | जीवधातुरित्यनेन जीवनहेतुः सारो निरुपाधिप्रेमा तल्लिङ्गमुक्तम् | आदिपदादहमित्यभिमाननिमित्तं ज्ञानाद्यपि तथा प्रसिद्धं दर्शितं बोध्यम् || १५ || व्यवहारी यदा कायो मनसा कर्मणा गिरा | भवेत्तदा मरुन्नुन्नो जीवधातुः प्रसर्पति || १६ || अस्तु देहे जीवस्तस्य रूपादिदर्शनार्थप्रवृत्तौ किं निमित्तं तदाह - व्यवहारीति | प्रसर्पति हृदयात्कुल्याद्वारा सरो जलमिव निर्गत्य संचरतीत्यर्थः || १६ || तस्मिन्प्रसर्पत्यङ्गेषु सर्वा संविदुदेति हि | दृष्टत्वात्प्रैति चित्ताख्यमन्तर्लीनजगद्भ्रमम् || १७ || तत्रास्य वासनोद्भवात्स्वप्नदर्शनमित्याह - तस्मिन्निति | अङ्गेषु अङ्गान्तर्गतनाडीषु || १७ || ईक्षणादिषु रन्ध्रेषु प्रसरन्ती बहिर्मयम् | नानाकारविकाराढ्यं रूपमात्मनि पश्यति || १८ || तस्य जागरणमाह - ईक्षणादिष्विति | अनुभवकाले प्रत्ययस्य स्वप्नाविशेषेऽप्यथ प्रात्यहिकप्रत्यभिज्ञानन्तरं स्थिरत्वकल्पना जाग्रदित्यवगम्यत इत्यर्थः || १८ || स्थिरत्वात्तत्तथैवाथ जाग्रदित्यवगम्यते | जाग्रत्क्रम इति प्रोक्तः सुषुप्तादिक्रमं शृणु || १९ || सुषुप्तादीत्यादिपदात्तुरीयक्रमं च || १९ || मनसा कर्मणा वाचा यदा क्षुभ्यति नो वपुः | शान्तात्मा तिष्ठति स्वस्थो जीवधातुस्तदा त्वसौ || २० || वाचिककायिकविक्षेपोपरमे स्वप्नोदयो मानसविक्षेपस्याप्युपरमे तु सुषुप्तिरित्याशयेनाह - मनसेत्यादिना || २० || समतामागतैर्वातैः क्षोभ्यते न हृदम्बरे | निर्वातसदने दीपो यथाऽलोकैककारकः || २१ || आलोकैककारकः निर्विक्षेपप्रकाशमात्रनिमित्तम् || २१ || ततः सरति नाङ्गेषु संवित्क्षुभ्यति तेन नो | न चेक्षणादीन्यायाति रन्ध्राण्यायाति नो बहिः || २२ || पूर्वार्धेन स्वप्ननिमित्ताभाव उत्तरार्धेन जाग्रन्निमित्ताभाव उक्तः || २२ || जीवोऽन्तरेव स्फुरति तैलसंविद्यथा तिले | शीतसंविद्धिम इव स्नेहसंविद्यथा घृते || २३ || ननु सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति इति श्रुत्या सुषुप्तौ जीवस्य ब्रह्मण्यप्ययः श्रूयते तत्कथं तदा दीपवज्जिवस्थानमुच्यते तत्राह - जीव इति | जीवोऽहमिति संस्कारसचिव एव ब्रह्माप्येति न तद्विमुक्त इति तिले तैलसंविदिव तद्भावापन्नः स्फुरतीत्यर्थः || २३ || जीवाकारा कला काचिच्चितिः स्वच्छतयात्मनि | दशामायाति सौषुप्तिं सौम्यवातां विचेतनाम् || २४ || ननु तर्हि तीर्णो हि तदा सर्वाञ्छोकान् हृदयस्य भवति सलिल एको द्रष्टाऽद्वैतो भवति इत्यादिश्रुतिभिरात्यन्तिकब्रह्मैक्योक्तेस्तर्हि का गतिस्तत्राह - जीवाकारेति | प्रागुक्तजीवाकारा या काचिच्चितिः सा कला उपाधिविलयात्स्वच्छतया ब्रह्मात्मनि विचेतनां पृथक्चेतनशून्यां दशामायातीत्यंशमादाय ताः श्रुतयः प्रवृत्ता न भेदवासनाविलयाभिप्रायेणेत्यर्थः | प्राणवातकृतविक्षेपमाशङ्क्य विशिनष्टि - सौम्यवातामिति || २४ || ज्ञात्वा वैचित्युपरते [१] साम्यं व्यवहरन्नपि | जाग्रत्स्वप्नसुषुप्तेषु संबुद्धस्तुर्यवान्स्मृतः || २५ || प्रसङ्गात्तस्य तुर्यावस्थां दर्शयति - ज्ञात्वेति | चित्ते [चेतस्युपरते इति पाठः] उपरते सर्वव्यवहारोपरमवति चिति साम्यं अवैषम्यं शास्त्रतो ज्ञात्वा विचारैकाग्र्याभ्यां स्वप्रयत्नैः संबुद्धः प्राप्तसाक्षात्कारो योगी जाग्रत्स्वप्नसुषुप्तेषु प्रसिद्धेषु प्रागुक्तभूमिकाभेदेषु वा व्यवहरन् | अपिशब्दात्समाधिस्थोऽपि बोधदार्ढ्यबलात्तुर्यात्मस्वभावादप्रच्युतः सदैव तुर्यावस्थावान् स्मृत इत्यर्थः || २५ || सुषुप्ते सौम्यतां यातैः प्राणैः संचाल्यते यदा | स जीवधातुः सा संवित्ततश्चित्ततयोदिता || २६ || प्रस्तुतं सुषुप्तिमेवानूद्य ततः प्रागुक्तस्वप्नावतारं प्रपञ्चयितुं चित्तोत्पत्तिमाह - सुषुप्ते इति | सौम्यतां प्राप्तैः प्राणैरुपलक्षितः स जीवधातुर्यदा भोजकादृष्टपरिपाकापादितवैषम्यैस्तैरेव चाल्यते तदा सा जीवचित्तत्तद्भोगानुकूलप्राक्तनसंस्कारोद्बोधाच्चित्ततयोदिता | आविर्भूता भवतीत्यर्थः || २६ || स्वान्तःसंस्थजगज्जालं भावाभावैः क्रमभ्रमैः | पश्यति स्वान्तरेवाशु स्फारं बीज इव द्रुमम् || २७ || ततः स्वप्नदर्शनमाह - स्वान्तःसंस्थेति | बीज इव यथा योगी बीजे स्थितं द्रुमं योगशक्त्या भाविविस्तारयुक्तं विविच्य पश्यति तद्वत् || २७ || जीवधातुर्यदा वातैः किंचित्संक्षुभ्यते भृशम् | ततोऽस्म्यहं सुप्त इति पश्यत्यात्मनि खे गतिम् || २८ || उक्तमेव स्फुटमनूद्य चित्तादहंकारोत्पत्तिं भ्रान्तिभेदनिमितानि चाह - जीवेति | सुप्तः पुरुषो यदा वातैः किंचित्संक्षुभ्यते तदा अहमस्मीति पश्यति | यदा तु भृशं संक्षुभ्यते तदा खे गतिमाकाशगमनं पश्यतीत्यर्थः || २८ || यदाम्भसा प्लाव्यतेऽसौ तदा वार्यादिसंभ्रमम् | अन्तरेवानुभवति स्वामोदं कुसुमं यथा || २९ || अम्भसा नाड्यन्तर्गतश्लेष्मद्रवेण || २९ || यदा पित्तादिनाक्रान्तस्तदा ग्रीष्मादिसंभ्रमम् | अन्तरेवानुभवति स्फारं बहिरिवाखिलम् || ३० || रक्तापूर्णो रक्तवर्णान्देशान्कालान्बहिर्यथा [देशकालान् इति पाठः] | पश्यत्यनुभवात्मत्वात्तत्रैव च निमज्जति || ३१ || रक्तेन नाड्यन्तर्गतरुधिरेणापूर्ण आप्लुतः सन् देशान् गैरिकादिव्याप्तदेशान् कालान् रक्ताभ्रव्याप्तसंध्यादिकालान् || ३१ || सेवते वासनां यां तां सोऽन्तः पश्यति निद्रितः | पवनक्षोभितो रन्ध्रैर्भैरक्षादिभिर्यथा || ३२ || अनाक्रान्तेन्द्रियच्छिद्रो यतः क्षुब्धोऽन्तरेव सः | संविदानुभवत्याशु स स्वप्न इति कथ्यते || ३३ || न आक्रान्तानीन्द्रियच्छिद्राणि चक्षुरादिस्थानानि येन स तथाविधः सन् | सः आन्तरार्थानुभवः || ३३ || समाक्रान्तेन्द्रियच्छिद्रो यः क्षुब्धो वायुना यदा | परिपश्यति तज्जाग्रदित्याहुर्मुनिसत्तमाः || ३४ || तस्य जाग्रत्प्राप्तिलक्षणमाह - समाक्रान्तेति | यो जीवो यदा क्षुब्धः सन् समाक्रान्तेन्द्रियच्छिद्रो भूत्वा बहिः शब्दादीन्परिपश्यति तद्दर्शनं जाग्रदित्याहुरित्यर्थः || ३४ || इति विदितवता त्वयाधुनान्तः प्रथितमहामतिनेह सत्यताख्या | असति जगति नैव भवनीया मृतिहतिसंहृतिदोषभावनी या || ३५ || जाग्रदादिभेदैः प्रपञ्चिते जगति सत्यताबुद्धिरेवाभिनिवेशहेतुत्वादनर्थ इति सैव हेयेत्याह - इतीति | इह असति जगति सत्यताख्या दृष्टिर्नैव भावनीया | कुतः यतो या दृष्टिर्मृतिराध्यात्मिकनिमित्तैर्मरणं हतिराधिभौतिकैर्निमित्तैर्मरणं संहृतिराधिदैविकैर्निमित्तैर्मरणं तद्धेतवश्च ये दोषास्तेषां भावनी अवश्यं संपादयित्रीत्यर्थः || ३५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० स्थितिप्रकरणे जाग्रत्स्वप्नसुषुप्तितुरीयस्वरूपविचारो नामैकोनविंशः सर्गः || १९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे जाग्रत्स्वप्नसुषुप्तितुरीयस्वरूपविचारो नामैकोनविंशः सर्गः || १९ || विंशः सर्गः २० श्रीवसिष्ठ उवाच | एतत्ते कथितं सर्वं मनोरूपनिरूपणम् | मया राघव नान्येन केनचिन्नाम हेतुना || १ || विश्वं हि मनसो भ्रान्तिः सत्यात्मानवलम्बिनः | सत्यात्मालम्बने चेतो विश्वं चात्मेति वर्ण्यते || १ || प्राग्वर्णितजाग्रदादिस्वरूपवर्णनस्य प्रस्तुतार्थसंबन्धं दर्शयति - एतदिति | मनोरूपं निरूप्यते यथावद्बोध्यते येन उपायेन तत्तथाभूतम् | मनःस्वभावपरिज्ञानाय जाग्रदादिवर्णनं प्रस्तुतं नान्येन प्रयोजनेनेत्यर्थः || १ || दृढनिश्चयवच्चेतो यद्भावयति भूरिशः | तत्तां यात्यनलाश्लेषादयःपिण्डोऽग्नितामिव || २ || अनेन मनसः कीदृशः स्वभावः परिज्ञात इति चेद्दृढभावितार्थाकारधारणस्वभाव इत्याह - दृढेति || २ || भावाभावग्रहोत्सर्गदृशश्चेतनकल्पिताः | नासत्या नापि सत्यास्ता मनश्चापलकारिताः || ३ || तेन सदसद्रूपहेयोपादेयप्रत्ययविषयाः सर्वे मनःकल्पनामात्रत्वात्सदसद्विलक्षणा इति सिद्धमित्याह - भावेति || ३ || मनो मोहे तु कर्तृ स्यात्कारणं च जगत्स्थितेः | विश्वरूपतयैवेदं तनोति मलिनं मनः || ४ || तत्र मनसो व्यष्टिरूपेण भ्रान्तिकर्तृता समष्टिरूपेण तद्विषयजगदुपादानतेति विशेषमाह - मन इति | विश्वरूपतया व्यष्टिसमष्टिरूपतया || ४ || मनो हि पुरुषो नाम तं नियोज्य शुभे पथि | तज्जयैकान्तसाध्या हि सर्वा जगति भूतयः || ५ || तत्र कर्त्रशः शुभे पथि नियुक्तश्चेदुपादानांशगता अणिमादिभूतयस्तत्त्वबोधश्च वशे भवन्तीत्याह - मन इति || ५ || पुरुषश्चेच्छरीरं स्यात्कथं शुक्रो महामतिः | अगमद्विविधाकारं जन्मान्तरशतभ्रमम् [जनान्तर इति पाठः] || ६ || ननु देह एव पुरुषोऽस्तु न मन इति चेन्नेत्याह - पुरुष इति || ६ || अतश्चित्तं हि पुरुषः शरीरं चेत्यमेव हि | यन्मयं च भवत्येतत्तदवाप्नोत्यसंशयम् || ७ || शरीरस्य पुरुषत्वासंभवे घटकुड्यादिवच्चेत्यतैव परिशेषादित्याह - अत इति | एतच्चित्तम् || ७ || यदतुच्छमनायासमनुपाधि गतभ्रमम् | यत्नात्तदनुसंधानं कुरु तत्तामवाप्स्यसि || ८ || मनः सर्वावाप्तिसमर्थमस्तु ततो मम को लाभस्तत्राह - यदिति | मोक्षप्रयत्ने कृते तव तल्लाभो भविष्यतीत्यर्थः || ८ || अभिपतति मनःस्थितं शरीरं नतु वपुराचरितं मनः प्रयाति | अभिपततु तवात्र तेन सत्यं सुभग मनः प्रजहात्वसत्यमन्यत् || ९ || उक्तमेवार्थ संक्षिप्योपसंहरति - अभिपततीति | मनःस्थितं मनोभिलषितं देशं विषयं वा शरीरमभिपतति वपुषाचरितं तु देशं विषयं वा मनो न नियमेन प्रयाति अतो मनसः स्वाभिलषितसिद्धौ देहेन्द्रियादिनियमनसमर्थत्वात्तवापि मनस्सत्यं परमार्थभूतमात्मतत्त्वमभिपततु तत्प्राप्तये यतताम् | तेन देहेन्द्रियाद्यसत्यं द्वैतभ्रमं प्रजहात्वित्यर्थः || ९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपाये स्थितिप्रकरणे मनोरूपवर्णनं नाम विंशतितमः सर्गः || २० || इति श्रीवासिष्ठम्हारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे मनोरूपवर्णनं नाम विंशतितमः सर्गः || २० || एकविंशः सर्गः २१ श्रीराम उवाच | भगवन्सर्वधर्मज्ञ संशयो यो महानयम् | हृदि व्यावर्तते लोलः कल्लोल इव सागरे || १ || विशुद्धे कल्पकाभावान्मनःकॢप्तिर्न युज्यते | अविशुद्धे मनःसिद्धेर्नानामतविकल्पनाः || १ || यदतुच्छमनायासमनुपाधि गतभ्रमम् | यत्नात्तदनुसंधानं कुर्विति गुरुणोक्तो रामः स्वबुद्धिकौशलेन तदनुसंधाय तत्र मनःकल्पनायोग्यतामपश्यन्प्रागुक्तायां तत्र मनःकल्पनायामाश्वासमलभमानोऽर्धविकासितमतिः प्रष्टुकामो गुरुमभिमुखीकृत्य संशयं दर्शयति - भगवन्निति | सर्वधर्मज्ञेति शिष्याशयपरिज्ञानकौशलद्योतनाय विशेषणम् || १ || दिक्कालाद्यनवच्छिन्ने तते नित्ये निरामये | म्लाना संविन्मनोनाम्नी कुतः केयमुपस्थिता || २ || दिक्कृतपरिच्छेदाभावात्तते कालकृतपरिच्छेदाभावान्नित्ये आदिपदोपात्तवस्तुकृतपरिच्छेदविरहान्निरामये | म्लाना विषयाकारकलुषा | कुत इति कारणासंभवः केति स्वरूपासंभवः इयमित्यपरोक्षता च मनसो दर्शिता || २ || यस्मादन्यन्न नामास्ति न भूतं न भविष्यति | कुतः कीदृक्कथं तत्र कलङ्कस्तस्य विद्यते || ३ || यद्यविद्याकलङ्कवशादिति ब्रूयुस्तत्राप्याह [ब्रूयाः इति पाठः] ##- कलङ्कसद्भावो न संभावित इत्यर्थः || ३ || श्रीवसिष्ठ उवाच | साधु राम त्वया प्रोक्तं जाता ते मोक्षभागिनी | मतिरुत्तमनिष्यन्दा नन्दनस्येव मञ्जरी || ४ || एवं पृष्टो वसिष्ठो वस्तुपरिचयचमत्कारि रामबुद्धिकौशलं प्रथमं प्रशंसति - साध्विति | उत्तमो मकरन्दनिष्यन्द इव वस्त्वनुभवचमत्कारो यस्याः || ४ || पूर्वापरविचारार्थतत्परेयं मतिस्तव | संप्राप्स्यसि पदं प्रोच्चैर्यत्प्राप्तं शंकरादिभिः || ५ || प्रश्नस्यास्य तु हे राम न कालस्तव संप्रति | सिद्धान्तः कथ्यते यत्र तत्रायं प्रश्न उच्यते || ६ || शुद्धे चिदात्मन्यविद्याकलङ्को न युक्त इति प्रश्नः शुद्धात्मानमनुभूतवतः शोभेत | नच तं प्रति वयं मनो निरूपयामो येन स तथा पृच्छेत् | यस्तु शुद्धं नानुभूतवान् विद्वांसमेवात्मानं मन्यमानस्तेन स्वानुभवविरुद्धा आत्मनः शुद्धिरेव कथमिति शङ्कितव्यं नत्वनुभवविरुद्धां शुद्धिमभ्युपगम्य शुद्धे मालिन्यं कथमिति नाज्ञोपदेशकाले विज्ञवत्प्रश्नावसर इत्याशयेनाह - प्रश्नस्येति | यत्र निर्वाणप्रकरणे तवात्मदर्शनसमाधिप्रतिष्ठानन्तरं सिद्धान्तोऽनुभवारूढ एवार्थो मया स्वानुभवसंवादाय कथ्यते तत्रायं प्रश्न उच्यते | समाधीयत इत्यर्थः || ६ || सिद्धान्तकाले भवता प्रष्टव्योऽहमिदं परम् | करामलकवत्तेन सिद्धान्तस्ते भविष्यति || ७ || वक्ष्यामि नवेत्यनाश्वासे पुनर्वा अहं प्रष्टव्य इत्याह - सिद्धान्तकाले इति | तेन प्रश्नेन मया समाहितेन सिद्धान्तः अनुभवारूढतत्त्व आत्मा भविष्यति || ७ || सिद्धान्तकाले प्रश्नोक्तिरेषा तव विराजते | प्रावृषीव हि केकोक्तिर्युक्ता शरदि हंसगीः || ८ || शरदि तु हंसगीर्युक्ता नतु केकोक्तिस्तद्वदज्ञानुरूप एव प्रश्नो युक्तः | सर्वेषां श्रोतॄणामद्याप्यात्मतत्त्वप्रतिबोधानुदयादिति भावः || ८ || सहजो नीलिमा व्योम्नि शोभते प्रावृषः क्षये | प्रावृषि त्वतनूदग्रपयोदपटलोत्थितः || ९ || सांप्रतं त्वयं प्रश्नः प्रावृषि नभसः सहजनीलिमवर्णनवदित्याह ##- अयं प्रकृत आरब्धो मनोनिर्णय उत्तमः | यद्वशाज्जनताजन्म तदाकर्णय सुव्रत || १० || एवं समाधाय प्रस्तुतश्रवणे राममनुकूलयति - अयमिति || १० || एवं प्रकृतिरूपेयं मनोमननधर्मिणी | कर्मेति राम निर्णीतं सर्वैरेव मुमुक्षुभिः || ११ || एवं प्रागुक्तदिशा मालिन्यस्याज्ञानुभवसिद्धत्वात्तदुपहिता इयं चित् व्याक्रियमाणा प्रकृतिरूपा भवति | मननधर्मिणी सती मनो भवति | पश्यन्ती चक्षुर्भवति | शृण्वन्ती श्रोत्रम् | पश्यंश्चक्षुः शृण्वन् श्रोत्रं मन्वानो मनः इत्यादिश्रुतेः | एवं कर्मेन्द्रियभावापन्ना व्यापारेण धर्माधर्माख्यकर्मापि स्वयमेव भवतीति मुमुक्षुभिः श्रुत्यादिप्रमाणैर्निर्णीतमित्यर्थः || ११ || शृणु दर्शनभेदेन तन्नामाभिमताकृतिम् | वाग्मिनां वदतां यातं चित्राभिः शास्त्रदृष्टिभिः || १२ || बहुभिर्वादिभिः स्वस्वाभिमतनामरूपाकारेणान्यथाप्युत्प्रेक्ष्यमाणं तदेवेत्याह - शृण्विति || १२ || यं यं भावमुपादत्ते मनो मननचञ्चलम् | तत्तामेति घनामोदमन्तःस्थः पवनो यथा || १३ || तर्हि एकमूलत्वे कुतस्तेषां सिद्धान्तभेद इति शङ्कापरिहारव्याजेन कर्मेति निर्णीतमिति यदुक्तं तद्दर्शयति - यं यमित्यादिना | यं यं भावं यादृशयादृशवासनोद्भवम् | यथा सुरभिपूत्युग्रनिर्हार्यादिनानागन्धवत्कुसुमान्तःस्थः पवनस्तद्गन्धात्मकतामेति तद्वत् || १३ || ततस्तमेव निर्णीय तमेव च विकल्पयन् | अन्तःस्थया रञ्जनया रञ्जयन्स्वामहंकृतिम् || १४ || तं स्वस्ववासनाकल्पितमेव युक्तिभिर्निर्णीय रञ्जनया स्वकल्पितार्थे स्वीयतारागेण स्वामहंकृतिं रञ्जयंस्तद्भावमिवापादयन् || १४ || तन्निश्चयमुपादाय तत्रैव रसमृच्छति | यन्मयत्वं शरीरे तु ततो बुद्धीन्द्रियेषु च || १५ || रसं पुनःपुनरास्वादनचमत्कारम् | विषयिणां विषयास्वादरसेऽप्येषैव गतिरित्याशयेन तदनुरूपदेहधारणामाह - यन्मयत्वमिति || १५ || यन्मयं हि मनो राम देहस्तदनु तद्वशः | तत्तामायाति गन्धान्तः पवनो गन्धतामिव || १६ || गन्धान्तः गन्धवद्द्रव्यान्तः प्रविष्टः पवनस्तद्गन्धरूपतामिव || १६ || बुद्धीन्द्रियेषु वल्गत्सु कर्मेन्द्रियगणस्ततः | स्फुरति स्वत एवोर्वी रजोलोल इवानिले || १७ || मनोनुसारिदेहधारणे तत्र ज्ञानेन्द्रियाविर्भावे तत्पर्यालोचितविषयप्राप्तिहेतुक्रियानिमित्तकर्मेन्द्रियप्रादुर्भाव इत्याह - बुद्धिन्द्रियेष्विति | वल्गत्सु आविर्भूय स्वस्वविषये वल्गत्सु | रजोलोले अनिले वल्गति तदन्तर्गतरजोरूपा उर्वीव || १७ || कर्मेन्द्रियगणे क्षुब्धे स्वशक्तिं प्रणयत्यलम् | कर्म निष्पद्यते स्फारं पांसुजालमिवानिले || १८ || स्वशक्तिं क्रियाशक्तिम् | प्रणयति प्रकटयति || १८ || एवं हि मनसः कर्म कर्मबीजं मनः स्मृतम् | अभिन्नैव तयोः सत्ता यथा कुसुमगन्धयोः || १९ || उपपादितक्रमां मनसः कर्मरूपताप्राप्तिमुपसंहरन् कर्ममनसोः परस्परबीजतामभिन्नसत्तां चाह - एवमिति || १९ || यादृशं भावमादत्ते दृढाभ्यासवशान्मनः | तथा स्पन्दाख्यकर्माख्यप्रथाशाखा विमुञ्चति || २० || एवं वासनाकर्मतत्फलानुभवानामपि समानरूपत्वादेका सत्तेत्याह - यादृशमिति द्वाभ्याम् || २० || तथा क्रियां तत्फलतां निष्पादयति चादरात् | ततस्तमेव चास्वादमनुभूयाशु बध्यते || २१ || यं यं भावमुपादत्ते तं तं वस्त्विति विन्दति | तत्तच्छ्रेयोऽन्यन्नास्तीति निश्चयोऽस्य च जायते || २२ || अस्त्वेवं तथाप्यसारेऽपि स्वस्याभिमते कथं पक्षपातः प्राणिनां वादिनां च तत्राह - यं यमिति || २२ || धर्मार्थकाममोक्षार्थं प्रयतन्ते सदैव हि | मनांसि दृढभिन्नानि प्रतिपत्त्या स्वयैव च || २३ || मनो वै कापिलानां तु प्रतिपत्तिनिजामलम् | उररीकृत्य निर्णीय कल्पिताः शास्त्रदृष्टयः || २४ || तत्र कापिलानां मनस्तु विवेकित्वादसङ्गचिन्मात्रत्वं पदार्थमात्रप्रतिपत्त्या निजया अमलं निर्मलमेव | तत्पदार्थविषये तु श्रुत्यनवलम्बनेन व्यामोहात्स्वबुद्ध्यैव सुखदुःखमोहात्मकस्य जडस्य जगतस्तादृशमेवोपादानं त्रिगुणात्मकं प्रधानं भवितुमर्हतीत्युररीकृत्य पुनःपुनरास्वादनेन तदेव तत्त्वमिति निर्णीय तथैव तेषां शास्त्रदृष्टयः कल्पिता इत्यर्थः || २४ || मोक्षे तु नान्यथा प्राप्तिरिति भावितचेतसः | स्वां दृष्टिं प्रतिबिम्बन्ति स्थिताः स्वनियमभ्रमैः || २५ || अन्यथा स्वोक्तोपायमन्तरेण मोक्षे कस्यापि प्राप्तिर्नास्तीति निश्चितचेतसः स्वकल्पितनियमभ्रमैः स्थिता उपायान्तरमतिभ्यो निवृत्ताः सन्तः स्वां दृष्टिं ग्रन्थनिर्माणादिना प्रकाशयन्तः प्रतिबिम्बन्ति परबुद्धिषु संक्रामयन्तीत्यर्थः || २५ || वेदान्तवादिनो बुद्ध्या ब्रह्मेदमिति रूढया | मुक्तिः शमदमोपेता निर्णीय परिकल्पिता || २६ || एवं वेदान्तिनोऽपीत्याह - वेदान्तवादिन इति | श्रुतिप्रामाण्यादध्यारोपापवादन्यायेनेदं जगद्ब्रह्मैव नान्यद्ब्रह्मणोऽणुमात्रमप्यस्तीति रूढया | शमः सर्वानर्थनिवृत्तिः दमो वास्तवनिरतिशयानन्दापरिच्छिन्नब्रह्मात्मभावेनाविर्भावस्ताद्रूप्येण उप समीपे स्वस्थान एव इता प्राप्ता नत्वर्चिरादिमार्गेण दूरगमनेनेत्यर्थः | शमदमोपेता वेदान्तिन इति वा | परिरुपर्यर्थे | सर्वोत्कृष्टतया समर्थितेत्यर्थः || २६ || मुक्तौ तु नान्यथा प्राप्तिरिति भावितचेतसः | स्वां दृष्टिं प्रविवृण्वन्ति स्वैरेव नियमभ्रमैः || २७ || नियमभ्रमैरित्यनेन वेदान्तिनामुपेयतत्त्वमात्रं वास्तवमुपायप्रक्रियाभेदास्तु पाणिनेरिव कल्पिता एवेति सूचितम् || २७ || विज्ञानवादिनो बुद्ध्या स्फुरत्स्वभ्रमपूरया | मुक्तिः शमदमोपेता निर्णीय परिकल्पिता || २८ || शमेन सांवर्तिकोपप्लवोपशमेन दमेनेन्द्रियद्वारसंवरणेन चोपेता युक्ता सर्वज्ञबुद्धिधारानुप्रवेशलक्षणा | शमदमादिप्रसिद्धसाधनैरुपेता प्राप्तेति वा || २८ || मुक्तौ तु नान्यथा प्राप्तिरिति भावितचेतसः | स्वां दृष्टिं प्रविवृण्वन्ति स्वैरेव नियमभ्रमैः || २९ || नियमभ्रमैः प्रक्रियानियमभ्रमैस्तप्तशिलारोहणादिसाधननियमभ्रमैर्वा || २९ || आर्हतादिभिरन्यैश्च स्वयाभिमतयेच्छया | चित्राश्चित्रसमाचारैः कल्पिताः शास्त्रदृष्टयः || ३० || आर्हतादिभिरित्यादिपदात्कापिलकौलिकादयो [आर्हतमते हि जीवादयो भोक्षान्ताः सप्त पदार्थाः | तत्र जीवश्चेतनः शरीरपरिमाणः १ अजीवोऽश्मादिः २ आस्रवती जीवोऽनेनेत्यास्रव इन्द्रियवर्गः ३ संवृणोतीति संवरो विवेकः यमनियमादिरित्यन्ये ४ निःशेषतया जीर्यति कामादिरनेनेति निर्जरः केशोल्लुञ्चनादितपः ५ बन्धो मुहुर्जन्ममरणे ६ मोक्षस्तदुच्छेदादलोकाकाशे सदोर्ध्वगमनं ७ इति | एषां सप्तानां साधकः सप्तभङ्गीन्यायः सद्वादी १ असद्वादी २ सदसद्वादी ३ अनिर्वचनीयवादी ४ इति चतुर्विधा वादिनः | अनिर्वचनीयवादेऽपि सदादिभेदात्पुनस्त्रिविधा इति संकलनया सप्त वादिनः | तत्र सद्वादिना आर्हतं प्रति तव मते मोक्षादिरस्तीति पृष्टे स ब्रूते स्यादस्तीति | स्यादिति तिङन्तप्रतिरूपकमीपदर्थकं कथंचिदर्थकं वाऽव्ययं सर्वत्र | एवमसद्वाद्यादीन्प्रति क्रमेण स्यान्नास्तीत्यादीन्युत्तराणि | तेन तेषां तूष्णींभाव इत्यार्हतमनोरथः इति | इदंच काश्मीरस्थपुस्तके टिप्पणीरूपेणोपलभ्दम्] गृह्यन्ते | जीवाजीवास्रवसंवरनिर्जरबन्धमोक्षादिपदार्थविभागकल्पनैः स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्ति च स्यादवक्तव्यः स्यादस्ति चावक्तव्यश्च स्यान्नास्ति चावक्तव्यश्च स्यादस्ति नास्ति चावक्तव्यश्च इत्यादिसप्तभङ्गीनयकल्पनैश्च चित्राः | चित्रैः समाचारैर्विवसनभिक्षाचर्याद्याचारैः || ३० || निर्निमित्तोत्थसौम्याम्बुबुद्बुदौघैरिवोत्थितैः | स्वनिश्चितैरिति प्रौढा नानाकारा हि रीतयः || ३१ || सर्वेषां कल्पनावैचित्र्याणां न मानमेये मूलं किंतु चिराभ्यासरूढा मनःकल्पनैवेत्याह - निर्निमित्तेति द्वाभ्याम् || ३१ || सर्वासामेव चैतासां रीतीनामेवमाकरः | मनो नाम महाबाहो मणीनामिव सागरः || ३२ || न निम्बेक्षू कटुस्वादू शीतोष्णौ नेन्दुपावकौ | यद्यथा परमाभ्यस्तमुपलब्धं तथैव तत् || ३३ || शीतोष्णाविति | अत एव हि चन्द्रमण्डले अर्काग्निमण्डलादिषु च वसतां देवानां न शीतोष्णादिपीडेति भावः | परमाभ्यस्तं भोजकादृष्टफलोत्पादपर्यन्तमभ्यस्तमित्यर्थः || ३३ || यस्त्वकृत्रिम आनन्दस्तदर्थं प्रयतैर्नरैः | मनस्तन्मयतां नेयं येनासौ समवाप्यते || ३४ || एवं तुच्छेऽपि कले दृढाभ्यासापेक्षा चेत्किं वाच्यमनादिसांसारिकविपरीतभावनातिरस्कृते अकृत्रिमानन्दमोक्षफले दृढाभ्यासापेक्षेत्याशयेनाह - यस्त्विति || ३४ || दृश्यं संपरिडिम्भं स्वं तुच्छं परिहरन्मनः | तज्जाभ्यां सुखदुःखाभ्यां नावश्यं परिकृष्यते || ३५ || कस्य तर्हि दृढाभ्यासो मुक्तये कार्य इति चेद्दृश्यमार्जनस्यैवेत्याशयेनाह - दृश्यमित्यादिना | सम्यक्परिरभ्य डिम्भमर्भकमिव स्नेहात्करोतीति संपरिडिम्भं एवंरूपं स्वं मनस्तदृश्यं परिहरत्त्यजत्सदृश्यजाभ्यां सुखदुःखाभ्यां न परिकृष्यते | अवश्यमित्यवधारणे || ३५ || अपवित्रमसद्रूपं मोहनं भयकारणम् | दृश्यमाभासमाभोगि बन्धमाभावयानघ [बन्धं माभावय इति पाठः] || ३६ || मायैषा सा ह्यविद्यैषा भावनैषा भयावहा | संविदस्तन्मयत्वं यत्तत्कर्मेति विदुर्बुधाः || ३७ || तन्मयत्वं दृश्यप्रायत्वं यत्तदेव प्रागुक्तक्रमेण बन्धकं कर्म भवतीति विदुरित्यर्थः || ३७ || दृष्ट्वा दृश्यैकतानत्वं विद्धि त्वं मोहनं मनः | प्रमार्जयैव तन्मिथ्या महामलिनकर्दमम् || ३८ || दृश्यतन्मयता यैषा स्वभावस्थानुभूयते | संसारमदिरा सेयमविद्येत्युच्यते बुधैः || ३९ || दृश्येन किमपराद्धं यदर्थं तन्मार्जनमुच्यत इति चेतत्राह - दृश्येति || ३९ || अनयोपहतो लोकः कल्याणं नाधिगच्छति | भास्वरं तापनालोकं पटलान्धेक्षणो यथा || ४० || तपनः सूर्यस्तस्येमं तापनमालोकम् || ४० || स्वयमुत्पद्यते सा च संकल्पाद्व्योमवृक्षवत् | असंकल्पनमात्रेण भावनायां महामते || ४१ || दृश्यमार्जने चासंकल्पनं हेतुरित्याह - स्वयमिति || ४१ || क्षीणायां स्वरसादेव विमर्शेन विलासिना | असंसङ्गः पदार्थेषु सर्वेषु स्थिरतां गतः || ४२ || विमर्शेन विचारेण श्रवणमननात्मना | विलासिना समाध्यभ्यासदार्ढ्यविलासवता || ४२ || सत्यदृष्टौ प्रपन्नायामसत्ये क्षयमागते | निर्विकल्पचिदच्छात्मा स आत्मा समवाप्यते || ४३ || अच्छात्मा स्वच्छस्वभावः स परमार्थसत्य आत्मा | अहं स आत्माहं स आत्मेति वा पाठान्तरे [निर्विकल्पचिदच्छोऽहं स आत्मा समवाप्यते इत्येवंरूपे] च्छेदः | उभयत्रापि प्रत्यगात्मेत्यर्थः || ४३ || न सत्ता यस्य नासत्ता न सुखं नापि दुःखिता | केवलं केवलीभावो यस्यान्तरुपलभ्यते || ४४ || सत्ता व्यक्तता | असत्ता अव्यक्तता | सुखं सात्त्विकचित्तवृत्तिरूपम् | अन्तः स्वहृदि स्वानुभवादेवोपलभ्यते || ४४ || अभव्यया भावनया न चित्तेन्द्रियदृष्टिभिः | आत्मनोऽनन्यभूताभिरपि यः परिवर्जितः || ४५ || अभव्यया अनर्थहेतुभूतया देहाद्यहंभावनया यो नोपलभ्यत इत्यनुषज्यते | आत्मनस्तादात्म्याध्यासादनन्यभूताभिः || ४५ || वासनाभिरनन्ताभिर्व्योमेव घनराजिभिः | संदिग्धायां यथा रज्ज्वां सर्पतत्त्वं तथैव हि || ४६ || अपिशब्दानुकर्षाद्वासनाभिरपि परिवर्जित इति पूर्वेणान्वयः | एतदन्तविशेषणानां सर्वेषां स आत्मा समवाप्यते इति व्यवहितेन संबन्धः | बन्धनिरासोपायं प्रपञ्च्य बन्धकल्पनाकर्तारमाह - संदिग्धायामित्यादिना | सर्पतत्त्वं सर्पत्वम् || ४६ || चिदाकाशात्मना बन्धस्त्वबन्धेनैव कल्पितः | कल्पितं कल्पितं वस्तु प्रतिकल्पनयान्यथा || ४७ || चिदाकाशात्मना स्वात्मनीति शेषः | कल्पितवस्त्वनुवेधात्प्रतिवस्तु बह्मैव नानावैचित्र्यमिव गतं दुःखसंसारात्मना विभाव्यत इत्याशयेनाह - कल्पितं कल्पितमिति || ४७ || तदेवान्यत्वमादत्ते स्वमहोरात्रयोरिव | यदतुच्छमनायासमनुपाधि गतभ्रमम् || ४८ || तदेव कल्पनात्यागे परमपुरुषार्थसुखं परिशिष्यत इत्याह - यदतुच्छमिति || ४८ || तत्तत्कल्पनयातीतं तत्सुखायैव कल्पते | शून्य एव कुसूले तु सिंहोऽस्तीति भयं यथा || ४९ || शून्य एव शरीरेऽन्तर्बद्धोऽस्मीति भयं तथा | शून्य एव कुसूले तु प्रेक्ष्य सिंहो न लभ्यते || ५० || अभयेऽप्यज्ञानाद्भयदर्शने प्रेक्षणमात्रेण तन्निवृत्तौ च दृष्टान्तमाह - शून्य एवेत्यादिना || ५० || तथा संसारबन्धार्थः प्रेक्षितोऽसौ न लभ्यते | इदं जगदयं चाहमिति संभ्रान्तमुत्थितम् || ५१ || अयं देहादिसंघातः || ५१ || बालानां मध्यमे काले छाया वैतालिकी यथा | कल्पनावशतो जन्तोर्भावाभावशुभाशुभाः || ५२ || अतिशैशवयौवनयोर्मध्यमे त्रिचतुर्हायनादिकाले प्रकाशनिशयोर्मध्यमे मन्दान्धकारकाले वा | छाया वृक्षमूलादिप्रदेशस्थगाढान्धकारः | वैतालिकी वेतालाकारा | भावो वैभवमभावो दारिद्र्यं तद्रूपाः शुभाशुभा भावाः || ५२ || क्षणादसत्तामायान्ति सत्तमपि पुनः क्षणात् | मातैव गृहिणीभावगृहीता कण्ठलम्बिनी || ५३ || असत्तां तिरोभावं पुनः सत्तामाविर्भावमप्यायान्तीत्यर्थः | पदार्थानां कल्पनानुसार्यर्थक्रियाकारिता प्रसिद्धैवेत्याह - मातैवेत्यादिना || ५३ || करोति गृहिणीकार्यं सुरतानन्ददा सती | कान्तैव मातृभावेन गृहीता कण्ठलम्बिनी || ५४ || नूनं विस्मारयत्येव मन्मथं मातृभावनात् | भावानुसारिफलदं पदार्थौघमवेक्ष्य च || ५५ || न ज्ञेनेह पदार्थेषु रूपमेकमुदीर्यते | दृढभावनया चेतो यद्यथा भावयत्यलम् || ५६ || तत्तत्फलं तदाकारं तावत्कालं प्रपश्यति | न तदस्ति न यत्सत्यं न तदस्ति न यन्मृषा || ५७ || यद्यथा येन निर्णीतं तत्तथा तेन लक्ष्यते | भाविताकाशमातङ्गं व्योमहस्तितया मनः || ५८ || भावितः आकाशो मातङ्गो येन तथाविधं मनस्तस्मिन्कल्पितया व्योमहस्तितया आकाशगजभावेन कामातुरं सत् व्योमकल्पितकाननचारिणीं स्वसंकल्पितां मातंगीं करेणुमनुधावत्यनुसरतीति परेणान्वयः || ५८ || व्योमकाननमातङ्गीं व्योमस्थामनुधावति | तस्मात्संकल्पमेव त्वं सर्वभावमयात्मकम् || ५९ || तस्मात्संकल्पत्यागेनैव स्वाभाविकात्मभावेन स्थितिरित्युपसंहरन्नुपदिशति - तस्मादिति || ५९ || त्यज राम सुषुप्तस्थः स्वात्मनैव भवात्मनः | मणिर्हि प्रतिबिम्बानां प्रतिषेधक्रियां प्रति || ६० || आत्मनः स्वस्य पारमार्थिकेनाद्वयानन्दात्मनैव भव नत्वपारमार्थिकदुःखात्मनेत्यर्थः | ननु मया सह संकल्पैस्त्यक्ता अपि द्वैतभावा अनिच्छेऽपि मयि मणौ प्रतिबिम्बा इव दुर्वाराः स्युरित्याशङ्क्य विशेषमाह - मणिरिति || ६० || न शक्तो जडभावेन नतु राम भवादृशः | यदात्मनि जगद्राम तवेह प्रतिबिम्बति || ६१ || निरुद्धे चेतसि दैवात्कदाचिद्द्वैतप्रतिबिम्बनेऽपि तस्य मिथ्यात्वानुसंधानेन ताद्रूप्यरञ्जनं त्याज्यमित्याह - यदेति || ६१ || तदवस्त्विति निर्णीय मा तेनागच्छ रञ्जनम् | तदेव सत्यमिति वाप्यभिन्नं परमात्मनः || ६२ || तस्य चिदैक्यानुसंधानेन प्रविलापनं वा कार्यमित्याह - तदेवेति | एवकारो भिन्नक्रमः | तत्सत्यं ब्रह्मैवेत्यर्थः || ६२ || मत्वान्तस्त्वमनाद्यन्तं भावयात्मानमात्मना | चेतसि प्रतिबिम्बन्ति ये भावास्तव राघव | रञ्जयन्त्वन्यसक्तत्वान्मा ते त्वां स्फटिकं यथा || ६३ || ते त्वां मा रञ्जयन्तु || ६३ || स्फटिकममननं यथा विशन्ति प्रकटतया न च रञ्जना विचित्रा | इह हि विमननं तथा विशन्तु प्रकटतया भुवनैषणा भवन्तम् || ६४ || अस्तु वा द्वैतप्रतिभासस्तथापि निर्विकारात्मबोधात्स्फटिकस्येव न तैस्तव रञ्जनास्त्वित्याह - स्फटिकमिति | मननं प्रतिबिम्बितार्थानां पुनःपुनरनुसंधाने रागादिवासनाधानं तद्रहितम् | भुवनैषणाः प्रारब्धभोगोचितजगद्व्यवहारेच्छाः || ६४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे विज्ञानवादो नामैकविंशः सर्गः || २१ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे विज्ञानवादो नामैकविंशः सर्गः || २१ || द्वाविंशः सर्गः २२ श्रीवसिष्ठ उवाच | जन्तोः कृतविचारस्य विगलद्वृत्तिचेतसः | मननं त्यजतो ज्ञात्वा किंचित्परिणतात्मनः || १ || इह प्ररूढबोधस्य सर्वदोषपरिक्षयः | प्रसादः सुविशुद्धात्मदर्शनं चोपवर्ण्यते || १ || ज्ञानफलजीवन्मुक्तावस्थानुभवप्रकारं प्रपञ्चयिष्यन् श्रवणमननाद्युपचयक्रमेण यथा यथा ज्ञानदार्ढ्यं तथा तथा दोषक्षयप्रकर्षं प्रथमं दर्शयति - जन्तोरित्यादिना | समाध्यभ्यासेन क्रमाद्बाह्यमननमात्ममननं च त्यजतः किंचित्परिणतो विशुद्धात्माकारतया विश्रान्त आत्मा मनो यस्य तथाविधस्य जन्तोरधिकारिणो जीर्णजाड्ये आत्माम्भसा एकत्वं व्रजति सति विज्ञानवशतः स्वभावः प्रसीदतीत्यनेनान्वयः [अष्टमश्लोकस्थेनेत्यर्थः] || १ || दृश्यं संत्यजतो हेयमुपादेयमुपेयुषः | द्रष्टारं पश्यतो दृश्यमद्रष्टारमपश्यतः || २ || हेयमज्ञानभूमिकाभेदं संत्यजतः | उपादेयं ज्ञानभूमिकाविशेषमुपेयुषः | द्रष्टारं प्रमातारमपि दृश्यं साक्षिचिद्वेद्यं पश्यतः | अथवा सर्वं दृश्यं द्रष्टारं भासकं चिन्मात्रमेवेति पश्यतः अद्रष्टारं भासकचिद्व्यतिरिक्तमपश्यतः || २ || जागर्तव्ये परे तत्त्वे जागरूकस्य जीवतः | सुप्तस्य घनसंमोहमये संसारवर्त्मनि || ३ || घने संमोहमये अज्ञानविकारात्मके सुप्तस्य | यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः इति भगवद्वचनात् || ३ || पर्यन्तात्यन्तवैराग्यात्सरसेष्वरसेष्वपि | भोगेष्वाभोगरम्येषु विरक्तस्य निराशिषः || ४ || सर्वसुखलवावधि विरञ्चिपदपर्यन्तमत्यन्तवैराग्यात् सरसेषु क्रममुक्तिरसवत्सु अरसेषु तद्रहितेषु आभोगं भोगकालपर्यन्तमेव रम्येषु भोगेषु भोगसाधनेषु स्रक् चन्दनादिषु विरक्तस्य | अत एव लोकसंग्रहार्थं क्रियमाणकर्मफलेषु प्रारब्धोपनीतभोगेषु च निराशिषः | आविरिञ्चसुखेषु वैराग्यात्तत्साधनाप्सरोविमानादिविषयेषु ऐहिकभोगेषु च विरक्तस्येति पिण्डितार्थः || ४ || व्रजत्यात्माम्भसैकत्वं जीर्णजाड्ये नभस्यलम् | गलत्यपगतासङ्गे हिमापूर इवातपे || ५ || जीर्णजाड्ये अनादिजडे नभसि अज्ञानाकाशे गलति सति | किं जले सैन्धवखण्डवद्रसावशेषेण नेत्याह - आत्माम्भसा एकत्वं व्रजतीति | आतपे हिमखण्डवन्निरवशेषमित्यर्थः || ५ || तरङ्गितासु कल्लोलजललोलान्तरासु च | शाम्यन्तीष्वथ तृष्णासु नदीष्विव घनात्यये || ६ || तरङ्गितास्विति द्वे नदीतृष्णयोर्द्वयोरपि विशेषणे | तृष्णापक्षे कल्लोलजलमिव लोलान्तरासु || ६ || संसारवासनाजाले खगजाल इवाखुना | त्रोटिते हृदयग्रन्थौ श्लथे वैराग्यरंहसा || ७ || खगजाले पक्षिबन्धनानाये | आखुना मूषकेण || ७ || कातकं फलमासाद्य यथा वारि प्रसीदति | तथा विज्ञानवशतः स्वभावः संप्रसीदति || ८ || कातकं कतकसंबन्धि फलं | तद्रज इति यावत् | स्वभावोऽत्र मनः || ८ || नीरोगं निरुपासङ्गं निर्द्वन्द्वं निरुपाश्रयम् | विनिर्याति मनो मोहाद्विहगः पञ्जरादिव || ९ || रागः कामः | उप आसंजयति प्रसंजयति विषयेष्वित्युपासङ्गो विषयगुणानुसंधानम् | द्वन्द्वं भार्यादिजनसाहित्यम् | उपाश्रयः पुनःपुनर्भोगलाभभूमिः | इत्येतेभ्यः प्रथमं निर्गतं पश्चान्मोहादज्ञानाद्विनिर्याति || ९ || शान्ते संदेहदौरात्म्ये गतकौतुकविभ्रमम् | परिपूर्णान्तरं चेतः पूर्णेन्दुरिव राजते || १० || विनिर्गतस्य पुनः कीदृशी स्थितिस्तां वर्णयति - शान्ते इत्यादिना || १० || जनितोत्तमसौन्दर्या दूरादस्तमयोन्नता | समतोदेति सर्वत्र शान्ते वात इवार्णवे || ११ || समता समदृष्टिता || ११ || अन्धकारमयी मूका जाड्यजर्जरितान्तरा | तनुत्वमेति संसारवासनेवोदये क्षपा || १२ || मूका बोधवाग्व्यवहारशून्या | क्षपापक्षे जाड्येन तुषारशैत्येन वासनापक्षे मौर्ख्येण जर्जरान्तरा | तनुत्वमपक्षयम् | उदये सूर्योदये क्षपेवेत्यन्वयः || १२ || दृष्टचिद्भास्करा प्रज्ञापद्मिनी पुण्यपल्लवा | विकसत्यमलोद्द्योता प्रातर्द्युरिव रूपिणी || १३ || दृष्टः चिद्भास्करो यया | पुण्यानि गुरुसेवाश्रवणसमाध्यभ्यासादिसुकृतान्येव पल्लवाः किसलयानि यस्यास्तथाविधा | हृदयसरसि प्रज्ञापद्मिनी विवेकपद्मिनी विलसति | द्यौर्व्योमेव || १३ || प्रज्ञा हृदयहारिण्यो भुवनाह्लादनक्षमाः | सत्त्वलब्धाः प्रवर्धन्ते सकलेन्दोरिवांशवः || १४ || हृदयहारिण्यो मनोहराः सत्त्वगुणोपचयाल्लब्धाः प्रज्ञाः प्रवर्धन्ते || १४ || बहुनात्र किमुक्तेन ज्ञातज्ञेयो महामतिः | नोदेति नैव यात्यस्तमभूताकाशकोशवत् || १५ || अभूतो वायवादिभूतचतुष्टयरहितो य आकाशकोशस्तद्वत्परिच्छिन्न [तद्वदपरिच्छिन्न इति पाठः] इत्यर्थः || १५ || विचारणा परिज्ञातस्वभावस्योदितात्मनः | अनुकम्पा भवन्तीह ब्रह्मविष्ण्विन्द्रशंकराः || १६ || तस्य महाप्रभावतामाह - विचारणेति | सर्गावताराद्यधिकारक्लेशदर्शनादनुकल्प्याः || १६ || प्रकटाकारमप्यन्तर्निरहंकारचेतसम् | नाप्नुवन्ति विकल्पास्तं मृगत्ष्णामिवैणकाः || १७ || तस्य पुनः प्रमादात्पूर्ववद्विक्षेपप्रसक्तिं वारयति - प्रकटाकारमिति | मृगतृष्णा तत्सलिलपानं लक्षणया || १७ || तरङ्गवदिमे लोकाः प्रयान्त्यायान्ति चेतसः | क्रोडीकुर्वन्ति चाज्ञं ते न ज्ञं मरणजन्मनी || १८ || एवं जन्ममरणप्रसक्तिमपि वारयति - तरङ्गवदिति | आयान्ति जायन्ते | प्रयान्ति म्रियन्ते | चेतसः स्वचित्तवासनावशात् || १८ || आविर्भावतिरोभावौ संसारो नेतरक्रमः | इति ताभ्यां समालोको रमते स निबध्यते || १९ || इतरस्मिन्नज्ञभिन्ने तत्त्वज्ञे क्रमते इति क्रमस्तथाविधो न इति ज्ञात्वेति शेषः | सम्यगालोको वस्तुतत्त्वदर्शनं यस्य स तत्त्ववित् | मायाव्याघ्रादिकौतुकदर्शनेनेव रमते सोऽज्ञस्तु निबध्यते || १९ || न जायते न म्रियते कुम्भे कुम्भनभो यथा | भूषिते दूषिते वापि देहे तद्वदिहात्मवान् || २० || विवेक उदिते शीते मिथ्या भ्रममरूदिता | क्षीयते वासना साग्रे मृगतृष्णा मराविव || २१ || साग्रे अग्रभागोदितचन्द्रसहिते प्रदोषे | साये इति वा पाठः || २१ || कोऽहं कथमिदं चेति यावन्न प्रविचारितम् | संसाराडम्बरं तावदन्धकारोपमं स्थितम् || २२ || मिथयाभ्रमभरोद्भूतं शरीरं पदमापदाम् | आत्मभावनया नेदं यः पश्यति स पश्यति || २३ || कीदृशस्थित्या तर्हि निःसंसारान्धकारं पूर्णात्मानं पश्यति तामाह ##- देशकालवशोत्थानि न ममेति गतभ्रमम् | शरीरे सुखदुःखानि यः पश्यति स पश्यति || २४ || देववशोत्थान्याधिभौतिकानि कालवशोत्थान्याधिदैविकानि शरीरे उत्थान्याध्यात्मिकानि च सुखदुःखानि न ममेति यः पश्यति || २४ || अपारपर्यन्तनभो दिक्कालादिक्रियान्वितम् | अहमेवेति सर्वत्र यः पश्यति स पश्यति || २५ || अपारपर्यन्तं यन्नभोदिक्कालादि यच्च तत्र परिच्छिन्नमुत्पत्तिचलतादिक्रियान्वितं तत्र सर्वत्राहमेवेति यः पश्यति || २५ || बालाग्रलक्षभागात्तु कोटिशः परिकल्पितात् | अहं सूक्ष्म इति व्यापी यः पश्यति स पश्यति || २६ || यो व्यापी सन् कोटिशः परिकल्पिताद्वालाग्रलक्षभागात् | तुशब्दोऽप्यर्थे || २६ || आत्मानमितरच्चैव दृष्ट्या नित्याविभिन्नया | सर्वं चिज्ज्योतिरेवेति यः पश्यति स पश्यति || २७ || आत्मानं स्वात्मत्वेन प्रसिद्धं जीवं इतरत्तदृश्यं च सर्व चिज्ज्योतिरिति तेन नित्यमविभिन्नया दृष्ट्या यः पश्यतीत्यर्थः || २७ || सर्वशक्तिरनन्तात्मा सर्वभावान्तरस्थितः | अद्वितीयश्चिदित्यन्तर्यः पश्यति स पश्यति || २८ || आधिव्याधिभयोद्विग्नो जरामरणजन्मवान् | देहोऽहमिति यः प्राज्ञो न पश्यति स पश्यति || २९ || तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमा मम | द्वितीयो न ममास्तीति यः पश्यति स पश्यति || ३० || महिमा विस्तारः || ३० || मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव | चित्तं तु नाहमेवेति यः पश्यति स पश्यति || ३१ || चिदेव तन्तुस्तेन प्रोते सर्वमहमेवेति वा चित्तमन्तःकरणं तु नाहमेवेति वा || ३१ || नाहं न चान्यदस्तीति ब्रह्मैवास्ति निरामयम् | इत्थं सदसतोर्मध्ये यः पश्यति स पश्यति || ३२ || अहमेवेति पश्यतीत्युक्ते चित्परित्यागेन अहंकार एव परिगृहीतो माभूदिति सहाहंकारेण जगत्प्रतिषेधेन चिदेकरसं ब्रह्मैव परिशेष्य द्रष्टव्यमित्याह - नाहमिति | सतो वर्तमानस्यासतोऽतीतस्य भविष्यतश्च मध्ये | सतो व्यक्तस्यासतोऽव्यक्तस्येति वा || ३२ || यन्नाम किंचित्त्रैलोक्यं स एवावयवो मम | तरङ्गोऽब्धाविवेत्यन्तर्यः पश्यति स पश्यति || ३३ || अवयव इति | पादोऽस्य सर्वा भूतानि इति श्रुतेः विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् इति भगवद्वचनाच्चेति भावः || ३३ || शोच्या पाल्या मयैवेयं स्वसेयं मे कनीयसी | त्रिलोकी पेलवेत्युच्चैर्यः पश्यति स पश्यति || ३४ || स्वतः सत्ताशून्यत्वेन मृतप्रायत्वाच्छोच्या | अत एव स्वसत्तास्फूर्त्यर्पणेन पाल्या | स्वसा अनुजा कनीयसो अल्पा | युवाल्पयोः कनन्यतरस्याम् इति कनादेशः | दृष्टिमात्रेणापि पीड्यमानत्वात्पेलवा || ३४ || आत्मतापरते त्वत्तामत्ते यस्य महात्मनः | भवादुपरते नूनं स पश्यति सुलोचनः || ३५ || भवः सांसारिकदेहादिस्तस्मादुपरते विवेकबाधाभ्यां निवृत्ते || ३५ || चेत्यानुपातरहितं चिद्भैरवमयं वपुः | आपूरितजगज्जालं यः पश्यति स पश्यति || ३६ || चेत्यानुपातो दृश्यसंवलनं तद्रहितम् | अत एव निष्प्रत्यूहस्वभावस्फूर्त्या आपूरितं प्रभया तम इव सर्वतो व्याप्तं जगज्जालं येन || ३६ || सुखं दुःखं भवो भावो विवेककलनाश्च याः | अहमेवेति वा नूनं पश्यन्नपि न हीयते || ३७ || भवः अधिकारिदेहस्तत्र भावो गुरुदैवतशास्त्रादिश्रद्धा तत्र नित्यानित्यादिविवेकस्तेन कलनाः श्रवणादिक्रमेणात्मपरिचयतारतम्यभेदाश्च सर्वे अहमेवेति यः पश्यति || ३७ || स्वात्मसत्तापरापूर्णे जगत्यंशेन वर्तिना | किं मे हेयं किमादेयमिति पश्यन्सुदृङ्गरः || ३८ || आत्मसत्तयैव परया निरतिशयानन्दघनया आपूर्णे ब्रह्मादिस्तम्बपर्यन्ते आनन्दलवार्पणेन तर्पिते जगति अंशेनैकदेशेन वर्तिना ऐहिकपारलौकिकभोग्यवस्तुना मे किं दुःखमस्ति यद्धेयं किंवान्यत्सुखमस्ति यदुपादेयमिति पश्यन्सुदृक् अभ्रान्तदृष्टिरित्यर्थः || ३८ || अप्रतर्क्यमनाभासं सन्मात्रमिदमित्यलम् | हेयोपादेयकलना यस्य क्षीणा स वै पुमान् || ३९ || अप्रतर्क्यं तर्कागम्यम् | अनाभासं वृत्तिभेदप्रतिफलनरहितं निर्विक्षेपमिति यावत् || ३९ || य आकाशवदेकात्मा सर्वभावगतोऽपि सन् | न भावरञ्जनामेति स महात्मा महेश्वरः || ४० || महानीश्वरो निरतिशयस्वानन्दोपभोगसमर्थः शिव इत्यर्थः || ४० || तमःप्रकाशकलनामुक्तः कालात्मतां गतः | यः सौम्यः सुसमः स्वस्थस्तं नौमि पदमागतम् || ४१ || तमः सुषुप्तिः प्रकाशो जागरः कलना स्वप्नस्तैर्मुक्तः | कालस्य मृत्योरप्यात्मतां निरतिशयप्रेमास्पदतां गतः | स्वस्थस्तुरीयावस्थाप्रतिष्ठो यस्तम् || ४१ || यस्योदयस्तमयसंकलनाकलासु चित्रासु चारुविभवासु जगद्गतासु | वृत्तिः सदैव सकलैकमतेरनन्ता तस्मै नमः परमबोधवते शिवाय || ४२ || सकलेऽपि जगत्येकं ब्रह्मेति मतिर्यस्य | जगद्गतासु चित्रासूदयः सर्गोऽस्तमयः प्रलयः संकलना स्थितिस्तल्लक्षणासु वृत्तिर्ब्रह्माकारदृष्टिरनन्ता अपरिच्छिन्ना | तस्मै परमबोधवते जीवन्मुक्तविग्रहाय साक्षाच्छिवाय नम इत्यर्थः || ४२ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे अनुत्तमपदविश्रान्तिवर्णनं नाम द्वाविंशः सर्गः || २२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे अनुत्तमपदविश्रान्तिवर्णनं नाम द्वाविंशः सर्गः || २२ || त्रयोविंशः सर्गः २३ श्रीवसिष्ठ उवाच | य उत्तमपदालम्बी चक्रभ्रमवदास्थितः | शरीरनगरीराज्यं कुर्वन्नपि न लिप्यते || १ || शरीरनगरे राज्यं प्रबुद्धस्यात्र वर्ण्यते | विनोदोसक्तसद्भोगैर्मनोजयसुखोदयः || १ || जीवन्मुक्तस्य शरीरनगरीराज्यं वर्णयिष्यन् रामस्य तज्जिज्ञासां प्रश्नप्रयोजिकामुत्थापयति - शरीरेति | निवृत्ते घटोत्पादनप्रयोजने यावद्वेगं कुलालचक्रभ्रमवद्यावत्प्रारब्धक्षयं देहधारणव्यवहारमास्थितो जीवन्मुक्तः इत्यर्थः | न लिप्यते सत्यत्वाभिमानाभावादिति भावः || १ || तस्येयं भोगमोक्षार्थं तज्ज्ञस्योपवनोपमा | सुखायैव न दुःखाय स्वशरीरमहापुरी || २ || क्रीडाविनोदहेतुत्वादुपवनोपमा || २ || श्रीराम उवाच | नगरीत्वं शरीरस्य कथं नाम महामुने | एतां चाधिवसन्योगी कथं राजसुखैकभाक् || ३ || एतां त्वदुक्तां शरीरनगरीमधिवसन्नधिष्ठाय पालयन् | एकपदस्वारस्यात्सुखमेव भजते नतु राजान इव तद्दुःखलेशमपीत्यर्थः || ३ || श्रीवसिष्ठ उवाच | रम्येयं देहनगरी राम सर्वगुणान्विता | ज्ञस्यानन्तविलासाढ्या स्वालोकार्कप्रकाशिता || ४ || स्वालोक आत्मज्योतिः स एवार्कः || ४ || नेत्रवातायनोद्द्योतप्रकाशभुवनान्तरा | करप्रतोलीविस्तारप्राप्तपादोपजाङ्गला || ५ || नेत्रे एव वातायने तत्रस्थाभ्यामुद्द्योताभ्यामिन्द्रियप्रदीपाभ्यां प्रकाशन्ते इति प्रकाशानि भुवनान्तराणि यस्याम् | करावेव प्रतोल्यौ रथ्ये तद्विस्तारेण प्राप्तं जानुपर्यन्ततालक्षणं पादोपजाङ्गलं यस्याः || ५ || रोमराजीलतागुल्मा त्वचाजालकमालिता | गुल्फाङ्गुल्यां प्रविश्रान्तजङ्घोरुस्तम्भमण्डला || ६ || त्वचागतैः शिराजालकैर्मालिता | गुल्फौ पादजङ्घासंधिग्रन्थी ताभ्यां पार्ष्णिर्लक्ष्यते तत्सहितायामङ्गुल्याम् | जातावेकवचनम् || ६ || रेखाविभक्तपादाग्रशिलाप्रथमनिर्मिता | चर्ममर्मशिरासारसंधिसीमामनोरमा || ७ || पादाग्रपदेनात्र पादाधस्तनी कठिना त्वगुच्यते सैव स्तम्भमूलाधारशिला | रेखाभिर्विभक्तया नानालक्षणया तया प्रथमनिर्मिता | प्रथमाधारनिर्माणेन निर्मितेत्यर्थः | बहिश्चर्म अन्तर्मर्माणि सीमानः मध्ये मध्ये शिराणां साराः शाखाप्ररोहाः सीमानः अस्थिषु तु संधयः सीमानः ताभिर्मनोरमा || ७ || उरूरुतनुभागाग्रनिर्मितोपस्थनिम्नगा | कचत्केशावलीकाचदलप्रस्थवनावृता || ८ || उर्वोः ऊर्वोस्तनोर्मध्यकायस्य च यः संधिभागस्तस्याग्रे पुरोभागे निर्मिता उपस्थेन्द्रियरूपा निम्नगा नगरमध्यनदी यस्याः | कचन्ती केशावल्येव काचवन्नीलानि दलानि येषु तथाविधैः क्रीडाशैलप्रायशिरःप्रस्थेन श्मश्रुकक्षादिरोमवनैश्चावृता || ८ || भ्रूललाटोष्ठसच्छायवदनोद्यानशोभिता | दृष्टिपातोत्पलाकीर्णकपोलविपुलस्थली || ९ || नीलच्छदसदृशाभ्यां भ्रूभ्यां पाण्डुनवच्छदसदृशेन ललाटेन पुष्पसदृशाभ्यामोष्ठाभ्यां च सच्छायं कान्तिमद्यद्वदनलक्षणमुद्यानं कदलीवनं तेन शोभिता | दृष्टिपाताः कटाक्षास्तल्लक्षणैरुत्पलैराकीर्णौ यौ कपोलौ तल्लक्षणे विहारस्थल्यौ यत्र || ९ || वक्षःस्थलसरःस्यूतकुचपङ्कजकोरका | घनरोमावलीच्छन्नस्कन्धक्रीडाशिलोच्चया || १० || स्कन्धावेव क्रीडाशिलोच्चयौ यस्याम् || १० || उदरश्वभ्रनिक्षिप्तस्वान्नेष्टा भक्ष्यतत्परा | दीर्घकण्ठबिलोद्गीर्णवातसंरम्भशब्दिता || ११ || उदरलक्षणे कोशागारश्वभ्रे निक्षिप्तानि यानि स्वप्रारब्धप्रापितान्यन्नानि तान्येव स्वानि धनानि अन्नानि धान्यादीनीष्टानि प्रियाणि वसनाभरणादीनि च यस्याम् | भक्ष्यमनिषिद्धविषयोपभोगं तन्वन्तीति भक्ष्यततो रसनश्रोत्रादयः पराः शिरःसौधवातायनोपविष्टनागरस्थानीया यस्याम् | दीर्घमूर्ध्वमुखं यत्कण्ठबिलं तद्द्वारा उद्गीर्णो यः प्राणवातस्तत्कृतेन संरम्भेण कण्ठद्वारकपाटोद्घाटनेन शब्दिता || ११ || हृदयापणनिर्णीतयथाप्राप्तार्थभूषिता | अनारतनवद्वारप्रवहत्प्राणनागरा || १२ || हृदयापणशब्देन तत्स्था विचारलक्षणा रत्नादिपरीक्षकजना गृह्यन्ते | तैर्निर्णीताः परीक्ष्य गृहीताश्चक्षुरादिद्वारा यथायोग्यं प्राप्ता ये शब्दाद्यर्थास्तैर्वासनारूपैः पण्यैर्भूषिता || १२ || आस्यस्फारवदादृष्टदन्तास्थिशकलाकुला | मुखास्पदाभ्रमज्जिह्वाचण्डीचर्वितभोजना || १३ || आस्ये स्फारवत् द्वारभक्तिरचना गजदन्तविभागदीषद्दृष्टैर्दन्तलक्षणैरस्थिशकलैराकुला | मुखास्पदया आसमन्ताद्भ्रमन्त्या जिह्वालक्षणया चण्ड्या काल्या चर्वितानि आस्वादितानि भोजनानि चतुर्विधान्यन्नानि यस्याम् || १३ || रोमशष्पतरच्छन्ना कर्णकोटरकूपका | स्फिक्शृङ्खलास्थितोपान्तपृष्ठविस्तीर्णजङ्गला || १४ || रोमलक्षणैः श.पतरैर्दीर्घतृणैश्छन्ना || १४ || गुदोत्थानारघट्टान्तप्रद्रुतानन्तकर्दमा | चित्तोद्यानमहीवल्गदात्मचिन्तावराङ्गना || १५ || गुदादुत्थानमुद्गमो यस्य मलस्य तदेव मूत्रस्थानलक्षणस्य आरघट्टस्य घटीयन्त्रस्यान्ते प्रान्ते प्रद्रुतः प्रवहन्ननन्तो दूरतः कर्दमो यस्याम् | चित्तलक्षणायामुद्यानमह्यां वल्गन्ती सदाक्रीडमाना आत्मचिन्तालक्षणा वराङ्गना पुरस्वामिनी यस्याम् || १५ || धीवरत्रादृढावद्धचपलेन्द्रियमर्कटा | वदनोद्यानहसनपुष्पोद्गममनोरमा || १६ || धीरेव वरत्रा चर्मरज्जुस्तया दृढा बद्धाश्चपलेन्द्रियमर्कटा यस्याम् | वदनोद्याने हसनमेव पुष्पोद्गमस्तेन मनोरमा || १६ || स्वशरीरमनोज्ञस्य सर्वसौभाग्यसुन्दरी | सुखायैव न दुःखाय परमाय हिताय च || १७ || स्वशरीरमनसी जानातीति स्वशरीरमनोज्ञस्तत्त्ववित्तस्य सुखायैव परमहितमुपदेशादिना परोद्धारस्तस्मै च || १७ || अज्ञस्येयमनन्तानां दुःखानां कोशमालिका | ज्ञस्य त्वियमनन्तानां सुखानां कोशमालिका || १८ || किंचिदस्यां प्रनष्टायां ज्ञस्य नष्टमरिन्दम | स्थितायां संस्थितं सर्वं तेनेयं ज्ञसुखावहा || १९ || ज्ञस्यानन्तसुखायेति यदुक्तं तद्दर्शयति - किंचिदिति | किंचिदल्पं तुच्छमेव नष्टं न सत्यवस्त्वित्यर्थः | सर्वं भोगमोक्षसुखम् || १९ || यदेनां ज्ञः समारुह्य संसारे विहरत्यलम् | अशेषभोगमोक्षार्थं तेनेयं ज्ञरथः स्मृतः || २० || ज्ञस्य रथ इव रथः || २० || शब्दरूपरसस्पर्शगन्धबन्धुश्रियो यतः | अनयैव हि लभ्यन्ते तेनेयं ज्ञस्य लाभदा || २१ || सुखदुःखक्रियाजालं यदेषोद्वहति स्वयम् | तदेषा राम सर्वज्ञसर्ववस्तुभरक्षमा || २२ || सर्वं पूर्णमात्मानं जानातीति सर्वज्ञस्तत्त्ववित्तस्य सर्वेषां भोगमोक्षोपायवस्तूनां भरणं भरः संग्रहस्तत्क्षमा || २२ || तस्यां शरीरपुर्यां हि राज्यं कुर्वन्गतज्वरः | ज्ञस्तिष्ठति गतव्यग्रः स्वपुर्यामिव वासवः || २३ || व्यग्रशब्दो भावप्रधानः | तथाच गतव्यग्रः स्वस्थ इत्यर्थः || २३ || न क्षिपत्यवटाटोपे मनोमत्ततुरङ्गमम् | न लोभदुर्द्रुमादाय प्रज्ञापुत्रीं प्रयच्छति || २४ || अवटे योनिगर्ते आटोपः पराक्रमो यस्य कामस्य तद्विषये | न क्षिपति न प्रेरयति | लोभ एव दुर्द्रुर्विषवृक्षस्तमादाय शुल्कत्वेन गृहीत्वा प्रज्ञालक्षणां पुत्रीं कन्यां मोहाधर्मादिदौष्कुलेयेभ्यो न प्रयच्छति | अथवा दुर्द्रुमशब्देन तत्फलं लक्ष्यते | लोभलक्षणदुर्द्रुमफलमत्ति अनुभवतीति लोभदुर्द्रुमादः अधार्मिकजनस्तस्मै प्रज्ञा विवेकवती बुद्धिस्तल्लक्षणां पुत्रीं न प्रयच्छति | तेषु स्वप्रज्ञां गूहमानश्चरतीत्यर्थः || २४ || अज्ञानपरराष्ट्रं च न रन्ध्रं त्वस्य पश्यति | संसारारिभयस्यान्तर्मूलान्येव निकृन्तति || २५ || संसारलक्षणारिभयस्य मूलानि स्नेहास्तानि निकृन्तति || २५ || तृष्णासारपरावर्तं कामसंभोगदुर्ग्रहे | न निमज्जति पर्यस्तः सुखदुःखप्रदेवने || २६ || तृष्णानद्याः सरणं सारः प्रवाहस्तस्य महत्यावर्ते कामसंभोगलक्षणदुष्टग्राहवति अन्तर्मुखत्वात्पर्यस्तो बहिर्मुखः सन् न निमज्जति | सुखलवलक्षणैर्दुःखैः प्रदेवने परिदेवनसाधने || २६ || करोत्यविरतं स्नानं बहिरन्तरवीक्षणात् | सरित्संगमतीर्थेषु मनोरथगतः क्रमात् || २७ || बहिरन्तश्च अस्य वासुदेवस्य परमात्मन ईक्षणादाधिभौतिकेष्वाध्यात्मिकेषु च सरित्संगमतीर्थेषु अविरतं सार्वकालिकं स्नानं करोति | तथाचाहुर्वृद्धः - स्नातं तेन समस्ततीर्थसलिले सर्वापि दत्ताऽवनिर्यज्ञानां च कृतं सहस्रमयुतं देवाश्च संपूजिताः | संसाराच्च समुद्धृताः स्वपितरः सर्वस्य पूज्यो ह्यसौ यस्य ब्रह्मविचारणे क्षणमपि प्राप्नोति धैर्यं मनः || इति | मनोरथोऽत्र मानसब्रह्माकारवृत्तिस्तद्गतस्तदारूढः || २७ || सकलाक्षजनादृश्यसुखप्रेक्षापराङ्मुखः | ध्याननाम्नि सुखं नित्यं तिष्ठत्यन्तःपुरान्तरे || २८ || सकलैरक्षलक्षणैर्जनैरादृश्येषु आपातदृश्येषु विषयेषु सुखानां प्रेक्षायां पराङ्मुखः || २८ || सुखावहैषा नगरी नित्यं वै विदितात्मनः | भोगमोक्षप्रदा चैषा शक्रस्येवामरावती || २९ || स्थितया संस्थितं सर्वं किंचिन्नष्टं न नष्टया | यया पुर्या महीयस्या सा कथं न सुखावहा || ३० || विनष्टे देहनगरे ज्ञस्य नष्टं न किंचन | आक्रान्तकुम्भाकाशस्य स्वस्य कुम्भक्षये यथा || ३१ || आक्रान्तः स्वसात्कुतः कुम्भाकाशो येन तस्य स्वस्य || ३१ || विद्यमानं घटं वायुः किंचित्स्पृशति नास्थितम् | यथा तथैव देही स्वां शरीरनगरीमिमाम् || ३२ || यस्य स्थितिदशायामपि न सम्यक् स्पर्शस्तस्य नाशे स्पर्शो नेति किं वाच्यमिति दृष्टान्तेनाह - विद्यमानमिति || ३२ || अत्रस्थः पुरुषो भोगानात्मा सर्वगतोऽपि सन् | विश्वकल्पकृतान्भुक्त्वा पुंसामधिगतार्थभाक् || ३३ || अत्रास्यां शरीरनगर्यां तिष्ठतीत्यत्रस्थ आत्मा तत्त्वविद्विश्वकल्पनं विश्वकल्पस्तत्कृतान्प्रारब्धभोगान्भुक्त्वा अधिगतं प्राक्साक्षात्कृतं पूर्णं स्वात्मरूपमर्थं परमपुरुषार्थं मोक्षं भजत् इत्यधिगतार्थभाग्भवतीति शेषः || ३३ || कुर्वन्नपि न कुर्वाणः समस्तार्थक्रियोन्मुखः | कदाचित्प्रकृतान्सर्वान्कार्यार्थाननुतिष्ठति || ३४ || व्यवहारदृशा कुर्वन्नपि परमार्थदृशा न कुर्वाणः || ३४ || कदाचिल्लीलया लोलं विमानमधिरोहति | अनाहतगतिः कान्तं विहर्तुममलं मनः || ३५ || तस्य देहनगर्यां कान्तादिभोगफलान्याह - कदाचिदिति | विमानं विमानतुल्यं हृत्पुण्डरीकम् | कान्तं भोगकौतुकवन्मनो विहर्तुं विनोदयितुम् || ३५ || तत्रस्थो लोकसुन्दर्या सततं शीतलाङ्गया | रमते रामया मैत्र्या नित्यं हृदयसंस्थितः || ३६ || तत्रस्थः पूर्ववत् | मैत्र्या मैत्रीलक्षणया | रामया प्रियया || ३६ || द्वे कान्ते तिष्ठतः सम्यक् पार्श्वयोः सत्यतैकते | इन्दोरिव विशाखे द्वे समाह्लादितचेतसी || ३७ || क्षपितानखिलांल्लोकान्दुःखक्रकचदारितान् | वल्लीवनस्थान्नभसः पृष्ठादर्क इवेक्षते || ३८ || स्वर्गिणो नारकिदुःखदर्शितामिव तस्याज्ञजनदुःखदर्शितामाह - क्षपितानिति | वल्लीभिर्वनमिव परस्परं संवेष्ट्य स्थितान् | नभसः पृष्ठे स्थितोऽर्क इवेति दृष्टान्तात्तत्त्वविदोऽपि संसारवनविप्रकर्षो गम्यते || ३८ || चिरं पूरितसर्वाशः सर्वसंपतीसुन्दरः | अपुनःखण्डनायेन्दुः पूर्णाङ्ग इव राजते || ३९ || आशा दिशो मनोरथाश्च | सर्वाः संपत्तयस्ताभिः सर्वात्मभावसंपत्त्या च सुन्दरः | अपुनःखण्डनाय पुनःक्षयाभावाय || ३९ || सेव्यामानोऽपि भोगौघो न खेदायास्य जायते | कालकूटः किलेशस्य कण्ठे प्रत्युत राजते || ४० || भोगौघः स्रक्चन्द्रनादिभोगौघः | खेदाय पुनर्जन्मादिदुःखाय | अथवा भोगौघो दुष्प्रारब्धः भोगौघः खेदाय तात्कालिकदुःखाय | प्रत्युतेति | तत्त्वविदोऽपि तप आदिक्लेशः प्रत्युताज्ञजनशिक्षामहाफलो राजते इति भावः || ४० || परिज्ञातोपभुक्तो हि भोगो भवति तुष्टये | विज्ञाय सेवितो मैत्रीमेति चोरो न शत्रुताम् || ४१ || परिज्ञाय भोगे प्रत्युत तस्य सुखहेतुतैवेत्याशयेनाह - परिज्ञातेति || ४१ || नरनारी नटौघानां [नदौघानां इति पाठः] विरहे दूरगामिनाम् | ज्ञेन यात्रेव सुभगा भोगश्रीरवलोक्यते || ४२ || तत्कुतस्तत्राह - नरेति | विरहे समाजविघटने दूरगमनशीलानां समाजमिलितनरनारीनटौघानां यात्रा समाज इव | भोगश्रीर्भोग्यपुत्रधनादिश्रीः || ४२ || अशङ्कितोपसंप्राप्ता ग्रामयात्रा यथाध्वगैः | प्रेक्ष्यन्ते तद्वदेव ज्ञैर्व्यवहारमयाः [ङीयभाव आर्षः] क्रियाः || ४३ || अयत्नोपनतेऽप्यक्षि पदार्थेषु यथा पुनः | नीरागमेव पतति तद्वत्कार्येषु धीरधीः || ४४ || यथा अक्षि चक्षुरयत्नोपनते यत्नाविरचिते पर्वतवनपुष्करिण्यादौ तद्गततरुगुल्मतामरसादिपदार्थेषु ममत्वाभिमानाभावाच्छेदभेदापहारादिदर्शनेऽपि दुःखादर्शनान्नीरागमेव पतति तद्वद्धीरस्य विदुषो धीः स्वपुत्रमित्रादिव्यवहारकार्येष्वपि नीरागमेव पततीत्यर्थः || ४४ || इन्द्रियाणां न हरै प्राप्तमर्थं कदाचन | नाददाति तथाऽप्राप्तं संपूर्णो ज्ञोऽवतिष्ठते || ४५ || कथं तर्हि प्रवर्तते तदाह - इन्द्रियाणामिति | प्राप्तं प्रारब्धोपस्थापितमर्थं विषयं न हरति न वारयति | अप्राप्तं च यत्नपूर्वकं नाददाति न संपादयति | यथाप्राप्तोपयोगेन जीवतीत्यर्थः || ४५ || अप्राप्तचिन्ताः संप्राप्तसमुपेक्षाश्च सन्मतिम् | न कम्पयन्ति तरलाः पिच्छाघाता इवाचलम् || ४६ || तत्कुतस्तत्राह - अप्राप्तेति | यतः अप्राप्तचिन्ताः प्राप्तोपेक्षाः पश्चात्तापाच्च तं न कम्पयन्ति न तरलीकुर्वन्त्यज्ञमिवेत्यर्थः | पिच्छाघाता मयूरबर्हघाताः || ४६ || संशान्तसर्वसंदेहो गलिताखिलकौतुकः | संक्षीणकल्पनादेहो ज्ञः सम्राडिव राजते || ४७ || सर्वसंदेहकारणाज्ञाननाशादेव संशान्तसर्वसंदेहः | सर्वभोगेषु मिथ्यात्वदर्शनाद्गलिताखिलकौतुकः | संक्षीणौ तदुभयकल्पनाहेतू स्थूलसूक्ष्मदेहौ यस्येति हेतुगर्भं विशेषणम् | सम्राट् राजसूयफलं स्वाराज्यपदं प्राप्तवानिव | स स्वराड्भवति इति श्रुतेः || ४७ || आत्मन्येव न मात्यन्तः स्वात्मनात्मनि जृम्भते | संपूर्णोऽपारपर्यन्तः क्षीरार्णव इवार्णवे || ४८ || पामरदृशा स्वाराज्यदृष्टान्तस्तत्त्वदृशा तु नास्ति दृष्टान्तः परिच्छेदाभावादित्याशयेनाह - आत्मन्येवेति | अर्णवे स्वात्मनीत्यर्थः || ४८ || भोगेच्छाकृपणाञ्जन्तून्दीनान्दीनेन्द्रियाणि च | अनुन्मत्तमनाः शान्तो हसत्युन्मत्त्कानिव || ४९ || अनुन्मत्तमनाः प्रशान्तचित्तः संभोगेच्छाकृपणान् जन्तून् दीनानि स्वपरेन्द्रियाणि च उन्मत्तकानिव हसति || ४९ || इच्छतोऽन्योज्झितां जायां यथैवान्येन हस्यते | इन्द्रियस्येच्छतो भोगं तद्वज्ज्ञेन विहस्यते || ५० || तत्त्वविदोज्झितं भोगमिच्छत इन्द्रियस्य | हस्यते प्रवृत्तिरित्युभयत्र शेषः || ५० || त्यजत्स्वात्मसुखं सौम्यं मनो विषयविद्रुतम् | अङ्कुशेनेव नागेन्द्रं विचारेण वशं नयेत् || ५१ || ननु मन्दज्ञानेन पुरुषेण विषयेषु द्रुतं मनः कथं निग्राह्यं तत्राह - त्यजदिति || ५१ || भोगेषु प्रसरो यस्या मनोवृत्तेश्च दीयते | साप्यादावेव हन्तव्या विषस्येवाङ्कुरोद्गतिः || ५२ || दीयते यया भोगतृष्णयेति शेषः || ५२ || ताडितस्य हि यः पश्चात्संमानः सोऽप्यनन्तकः | शालेर्ग्रीष्माभितप्तस्य कुसेकोऽप्यमृतायते || ५३ || ननु [तनुनिग्रहपीडितं इति पाठः] निग्रहपीडितं मनो रुष्टो बाल इव स्वात्मन्यपि न रज्येतेति चेत्तत्राह - ताडितस्येति | चिरोन्मादलालितस्य सकृन्निग्रहे पुनः परित्यागे हि तथा स्याच्चिरनिग्रहेण निराशतां नीतस्य तु न तथेति भावः | कुसेकोऽपीत्यपिशब्दात्सुसेके किं वाच्यमिति गम्यते || ५३ || अनार्तेन हि सन्मानो बहुमानो न बुध्यते | पूर्णानां सरितां प्रावृट्पूरः स्वल्पो न राजते || ५४ || उक्तमेव भावं प्रकाशयति - अनार्तेनेति || ५४ || पूर्णस्तु प्राकृतोऽप्यन्यत्पुनरप्यभिवाञ्छते | जगत्पूरणयोग्याम्बुर्गृह्णात्येवार्णवो जलम् || ५५ || मनसोऽभिगृहीतस्य या पश्चाद्भोगमण्डना | तामेवालब्धविस्तारां [तामेव लब्धविस्तारात् इति टीकानुगुणः पाठ इति भाति] क्लिष्टत्वाद्बहु मन्यते || ५६ || अभिगृहीतस्य सर्वतो निगृहीतस्य | भोगमण्डनाभिक्षाशनाद्यल्पविषयार्पणेन लालनम् | लब्धविस्तारात्प्राक्तनभोगाद्बहु अधिकं मन्यते || ५६ || बन्धमुक्तो महीपालो ग्रासमात्रेण तुष्यति | परैरबद्धो नाक्रान्तो न राज्यं बहु मन्यते || ५७ || उक्तेऽर्थे दृष्टान्तमाह - बन्धमुक्त इति || ५७ || हस्तं हस्तेन संपीड्य दन्तैर्दन्तान्विचूर्ण्य च | अङ्गान्यङ्गैरिवाक्रम्य जयेच्चेन्द्रियशात्रवान् || ५८ || तस्माच्चिरनिग्रहेण बोधेन च समूलमनोजयाय प्रथममिन्द्रियजय एव सर्वप्रयत्नैः कार्य इत्याह - हस्तमिति || ५८ || जेतुमन्यं कृतोत्साहैः पुरुषैरिह पण्डितैः | पूर्वं हृदयशत्रुत्वाज्जेतव्यानीन्द्रियाण्यलम् || ५९ || न मनोजयार्थमेव बाह्यशत्रुजयार्थमपीन्द्रियजय आवश्यक इत्याह - जेतुमिति || ५९ || एतावति धरणितले सुभगास्ते साधुचेतनाः पुरुषाः | पुरुषकलासु च गण्या न जिता ये चेतसा स्वेन || ६० || इन्द्रियनिग्रहफलं मनोजयमाश्रयप्रशंसावन्दनाभ्यां प्रशंसति ##- पुरुषाणां कलासु स्वबन्धमोक्षकौशलेषु गण्या इत्यर्थः || ६० || हृदयबिले कृतकुण्डल- कलनाविवशो मनोमहाभुजगः | यस्योपशान्तिमागत- मलमुदितं तं सुनिर्मलं वन्दे || ६१ || हृदयबिले कृतया कुण्डलकलनया विवशो गर्वपरवशो महाभुजगो मनो यस्य उपशान्तिमात्यन्तिकनाशमागतं महामुनिं अलं स्वेन रूपेणोदितमाविर्भूतं सुनिर्मलं तं तत्त्वविदं वन्दे इत्यर्थः || ६१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे शरीरनगरविभूतियोगो नाम त्रयोविंशः सर्गः || २३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे शरीरनगरविभूतियोगो नाम त्रयोविंशः सर्गः || २३ || चतुर्विंशः सर्गः २४ श्रीवसिष्ठ उवाच | महानरकसाम्राज्ये मत्तदुष्कृतवारणाः | आशाशरशलाकाढ्या दुर्जया हीन्द्रियारयः || १ || इह प्राबल्यमक्षाणां जयोपायश्च वर्ण्यते | तेन प्रसादबोधाभ्यां वासनाक्षय ईर्यते || १ || तत्रेन्द्रियजये उपायप्रयत्नाधिक्यं विधित्सुरिन्द्रियाणां दुर्जयतामाह - महानरकेति | तपनाऽवीचिमहारौरवरौरवसंघातकालसूत्रसंज्ञकमहानरक##- वारणा गजा येषाम् | आशास्तृष्णास्ता एव शरशलाकास्ताभिराढ्याः || १ || स्वाश्रयं प्रथमं देहं कृतघ्ना नाशयन्ति ये | ते कुकार्यमहाकोशा दुर्जयाः स्वेन्द्रियारयः || २ || कुकार्याणि पापानि तान्येव महान्तः कोशा धनसंचया येषाम् || २ || कलेवरालयं प्राप्य विषयामिषगृध्नुकाः | अक्षगृध्रा विवल्गन्ति कार्याकार्योग्रपक्षिणः || ३ || कलेवरलक्षणमालयं कुलायम् | विषयलक्षणेष्वामिषेषु गृध्नुका अभिकाङ्क्षिणः | अक्षीणीन्द्रियाण्येव गृध्नाः | कार्यं कर्तु योग्यमनिषिद्धं कर्म अकार्य निषिद्धं कर्म ते एवोग्रपक्षौ ताभ्यामुग्रपक्षिणः || ३ || विवेकतन्तुजालेन गृहीता येन ते शठाः | तस्याङ्गानि न लुम्पन्ति पाशा नागबलं यथा || ४ || शठा धूर्तास्ते इन्द्रियारयो येन गृहीता निगृहीतास्तस्य पुंसोऽङ्गानि शान्त्यादीनि न लुम्पन्ति | नागबलं गजघटाम् || ४ || आपातरमणीयेषु रमते विषयेषु यः | विवेकधनवानस्मिन्कुकलेवरपत्तने || ५ || तानरीन् जेतुं प्रथमं विवेकधनसंचयः कार्य इत्याशयेनाह - आपातेति || ५ || इन्द्रियारिभिरन्तस्थैरवशो नाभिभूयते | न तथा सुखिता भूपा मृन्मयोग्रपुरीजुषः || ६ || मृन्मयोग्रत्वाभ्यां पुरीविशेषणं स्वशरीरपुर्यास्तद्विलक्षणत्वेनोत्कर्षप्रतिपादनार्थम् || ६ || यथा स्वाधीनमनसः स्वशरीरपुरीश्वराः | आक्रान्तेन्द्रियभृत्यस्य सुगृहीतमनोरिपोः || ७ || इन्द्रियादिनिग्रहस्य फलान्याह - आक्रान्तेत्यादिना || ७ || वसन्त इव मञ्जर्यो वर्धन्ते शुद्धबुद्धयः | प्रक्षीणाचित्तदर्पस्य निगृहीतेन्द्रियद्विषः || ८ || पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः | तावन्निशीथवेताला वल्गन्ति हृदि वासनाः || ९ || निशीथपदेनाज्ञानान्धकारो गम्यते || ९ || एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः | भृत्योऽभिमतकर्तृत्वान्मन्त्री सत्कार्यकारणात् || १० || स्वदेहनगरीसाम्राज्ये भृत्यमन्त्रिसामन्तादिकार्यं शुद्धं मन एव निर्वाहयतीत्याह - भृत्य इति || १० || सामन्तश्चेन्द्रियाक्रान्तेर्मनो मन्ये विवेकिनः | लालनात्स्निग्धललना पालनात्पावनः पिता || ११ || स्निग्धा स्नेहवती | ललना भार्या || ११ || सुहृदुत्तमविश्वासान्मनो मन्ये मनीषिणाम् | स्वालोकितः शास्त्रदृशा बुद्ध्यान्तः स्वानुभावितः || १२ || मनसः पितृत्वे हेत्वन्तरमप्याह - स्वालोकित इति | शास्त्रदर्शितया देवतादृशा अनुल्लङ्घ्यशासनत्वेन चिन्मात्रस्पन्दत्वेन च स्वालोकितः | बुद्ध्या स्नेहबुद्ध्या विवेकबुद्ध्या च || १२ || प्रयच्छत्ति परां सिद्धिं त्यक्त्वात्मानं मनःपिता | सुदृष्टः सुपरामृष्टः सुदृढः सुप्रबोधितः || १३ || परां स्वार्जितधनादिलक्षणां तत्त्वज्ञानलक्षणां च सिद्धिम् | आत्मानं देहं मनोरूपं च त्यक्त्वा | सुदृढ इति विशेषणाद्वज्रमणिरिति गम्यते | आदौ शास्त्रदर्शितपरीक्षादृशा सुदृष्टः खनिस्थाने भाग्यादृष्टश्च | तत आचार्यसतीर्थ्यादिसहायेन स्वानुभवपर्यन्तं सुपरामृष्टः सम्यक् शाणोल्लेखनपरामृष्टश्च | ततो निदिध्यासनेन सुदृढो घनघातसहस्राभेद्यश्च | ततस्तत्त्वसाक्षात्कारेण सुप्रबोधितस्तेजोव्यञ्जकरसक्षालनसुप्रबोधितश्च || १३ || सुगुणे योजितो भाति हृदि हृद्यो मनोमणिः | जन्मवृक्षकुठाराणि तथोदर्कोदयानि च || १४ || ततः सुगुणे पञ्चमादिभूमिकाभेदे योजितः शोभनगुणवति स्वर्णहारादौ योजितश्च | मणिरूपकप्रस्तावेऽपि रामस्यान्तरा मन्त्री सत्कार्यकारणादिति प्रागुक्ते सत्कार्यविशेषजिज्ञासामुपलक्ष्याह - जन्मेति | शुभकर्मणि शास्त्रीये प्रवृत्तस्येति शेषः | अनर्थपरम्परालक्षणानां जन्मवृक्षाणां कुठाराणि च्छेदकानि तथा उदर्कस्तदुत्तरफलभूत उदयो निरतिशयानन्दाविर्भावो येभ्यस्तथाविधानि च साधनचतुष्टयसंपत्त्यादिसाक्षात्कारान्तानि कर्माणि सत्कार्याणि दिशति | कारयतीत्यर्थः || १४ || दिशत्येवं मनोमन्त्री कर्माणि शुभकर्मणि | एवं मनोमणिं राम बहुपङ्ककलङ्कितम् || १५ || इत्थं रामं समाधाय प्रस्तुतं मणिरूपकमेवावलम्ब्योपसंहरति - एवमिति | अथवा मणिमन्त्रौषधीनामचिन्त्यप्रभावत्वान्मन्त्रकार्यसिद्धिवैचित्र्याणां मणिनापि संभवान्मनोमणिरेव मन्त्रीत्युक्तः | तस्य च जन्मवृक्षच्छेदो निरतिशयानन्दोदयश्च सिद्धिवैचित्र्ये इति तात्पर्येण मणिरूपकानुसारेणैव योज्यम् || १५ || विवेकवारिणा सिद्ध्यै प्रक्षाल्यालोकवान्भव | भवभूमिषु भीमासु विवेकविकलो वसन् || १६ || एवं विवेकस्य निरतिशयशुभोदर्कतामुक्त्वा महानर्थोदर्कात्तत्प्रमादाद्रामं वारयति - भवभूमिष्वित्यादिना || १६ || मा पतोत्पातपूर्णासु [पातोत्पात इति पाठः] विवशः प्राकृतो यथा | संसारमायामुदितामनर्थशतसंकुलाम् || १७ || उत् ऊर्ध्वात्पातयन्तीत्युत्पाता रागादयस्तैः पूर्णासु || १७ || मा महामोहमिहिकामिमां त्वमवधीरय | विवेकं परमाश्रित्य बुद्ध्या सत्यमवेक्ष्य च || १८ || मावधीरय महारोगमिव नोपेक्षयावमंस्था इत्यर्थः | प्रस्तुतमिन्द्रियारिजयोपायोपदेशमुपसंहरति - विवेकमिति || १८ || इन्द्रियारीनलं जित्वा तीर्णो भव भवार्णवात् | असत्येव शरीरेऽस्मिन्सुखदुःखेष्वसत्सु च || १९ || ननु उत्पत्तिप्रकरणे देहेन्द्रियादीनामसत्त्वमुपपादितं तत्कुतोऽत्र तज्जयोपाय उपदिश्यते तत्राह - असत्येवेति || १९ || दामव्यालकटन्यायो मा ते भवतु राघव | भीमभासदृढस्थित्या त्वं यास्यसि विशोकताम् || २० || तत्त्वदृशा असत्त्वेऽपि मोहदृशा तत्सत्त्वस्यानुभविकत्वादचिकित्सने वासनादार्ढ्येन दामव्यालकटन्यायेनानर्थप्राप्तिर्दुर्वारा | विवेकाद्यभ्यासेन तच्चिकित्सने तु भीमभासदृढन्यायान्नानर्थप्राप्तिरित्याह - दामेति || २० || अयमहमिति निश्चयो वृथा य- स्तमलमपास्य महामते स्वबुद्ध्या | यदितरदवलम्ब्य तत्पदं त्वं व्रज पिब भुङ्क्ष्व न बध्यसे मनस्कः || २१ || अयं दृश्यभूतो देहादिरेवाहमिति यो वृथा निश्चयो मिथ्याभिमानस्तं स्वबुद्ध्या स्वतत्त्वनिश्चयेन अलमपास्य यदिदं वस्तुन इतरत् प्रत्यगेकरसं तदेवावलम्ब्य तत्स्वभावेन स्थितत्वादमनस्कः सन् व्रजनादिव्यवहारं कुर्वन्नपि न बध्यसे मुक्त एवासीत्यर्थः || २१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे मनस्यसत्ताप्रतिपादनं नाम चतुर्विंशः सर्गः || २४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे मनस्यसत्ताप्रतिपादनं नाम चतुर्विंशः सर्गः || २३ || पञ्चविंशः सर्गः २५ श्रीवसिष्ठ उवाच | अस्मिन्विहरतो लोके लोकारामस्य धीमतः | श्रेयसे तिष्ठतो यत्नमुत्तमार्थाभिधायिनः || १ || सेनापतीनां त्रिदशैः शम्बरस्यात्र सूदनम् | दामव्यालकटोत्पत्तिस्तैर्जयाशा च वर्ण्यते || १ || निर्वासनस्यापि शनैर्वासनासंचयेन देहाद्यभिमानजनने जन्ममरणपरम्परा भवति किं पुनर्विवेकविरलवासनस्येति कैमुतिकन्यायप्रदर्शनमुखेनेषदात्मव्युत्पन्नानामलब्धपूर्णनिष्ठाना ं मन्दमध्यमाधिकारिणां वासनोच्छेदप्रयत्नदार्ढ्यावश्यकताप्रदर्शनपरां दामव्यालकटाख्यायिकां विवक्षुर्वसिष्ठो रामस्य तच्छुश्रूषोत्पादनायोक्तमेव विविच्य पुनरनुवदति - अस्मिन्निति द्वाभ्याम् | लोका जना आरमन्ते विश्राम्यन्त्यस्मिन्निति लोकारामस्तस्य ते यत्नं तिष्ठतः अनुतिष्ठतः उत्तमान् शमदमाद्यर्थानभिधत्ते स्वात्मनि प्रकाशयति तच्छीलस्य || १ || दामव्यालकटन्यायो मा ते भवतु राघव | भीमभासदृढस्थित्या त्वं विशोको भवेति च || २ || दामव्यालकटन्यायो माभूदिति भीमभासदृढस्थित्या विशोको भवेति च उदाहृतं प्रागिति शेषः || २ || श्रीराम उवाच | दामव्यालकटन्यायो मा ते भूदित्युदाहृतम् | ब्रह्मन् किमेतद्भवता भवतापापहारिणा || ३ || एवं पुनरनुवादेनोत्थापितजिज्ञासो रामस्तदुभयोक्तेर्विस्तरं पृच्छति - दामेत्यादिना || ३ || भीमभासदृढस्थित्या त्वं विशोको भवेति च | प्रभो किमुक्तं भवता भवतापापहारिणा || ४ || उदारयैतया शुद्धं संप्रबोधय मां गिरा | घनस्तापापहारिण्या प्रावृषीव कलापिनम् || ५ || एतया एतत्कथाद्वयवर्णनरूपया | घनो मेघः | कलापिपक्षे संप्रबोधनमुल्लासनम् || ५ || श्रीवसिष्ठ उवाच | दामव्यालकटन्यायं भीमभासदृढस्थितिम् | शृणु राघव तच्छ्रुत्वा यदिष्टं तत्समाचर || ६ || आसीत्पातालकुहरे सर्वाश्चर्यमनोरमे | शम्बरो नाम दैत्येन्द्रो मायामणिमहार्णवः || ७ || मायालक्षणानां मणीनां महार्णव इवाकरः || ७ || आकाशनगरोद्यानरचितासुरमन्दिरः | कृत्रिमोत्तमचन्द्रार्कभूषितात्मीयमण्डलः || ८ || तत्त्वमेव प्रपञ्चयति - आकाशेत्यादिना | आकाशकल्पिते नगरे उद्यानेषु रचितान्यसुरमन्दिराणि येन || ८ || शिलाशकलसंभूतपद्माद्यैरमराचलः | अनन्तविभवारम्भपरिपूरितदानवः || ९ || शिलाशकलानीव संभूतैः सुलभैः पद्माद्यः पद्मरागाद्यैर्मणिभिर्निधिश्च अमराचलो मेरुरिव संपन्नः || ९ || गृहरत्नाङ्गनागेयजितामरवधूध्वनिः | चन्द्रबिम्बकलापूर्णक्रीडोपवनपादपः || १० || गृहे रत्नभूतानामङ्गनानां गेयैर्गीतैर्जिता अमरवधूनां ध्वनयो गीतिसंपदो यस्य || १० || फुल्लनीलोत्पलव्यूहकरालरमणालयः | रत्नहंसध्वनाहूतहेमाम्बुरुहसारसः || ११ || फुल्लैर्नीलोत्पलव्यूहैः करालः कामिभयंकरो रमणालयः क्रीडागृहं यस्य | ध्वननं ध्वनिस्तेनाहूतः || ११ || हेमपादपशाखाग्रकृताम्भोरुहकुड्मलः | करञ्जजालप्रपतन्मन्दारकुसुमाकरः || १२ || तर्कुयन्त्रमयानन्तदैत्यनिर्जितवासवः | हिमशीतानलज्वालानिर्मितोद्यानमण्डपः || १३ || तर्कुयन्त्रं कर्तरीयन्त्रं तन्मयैरनन्तैर्बहुभिर्दैत्यैर्निर्जितो वासवो येन | हिममिव शीतैरनलज्वालैर्निर्मितो रचित उद्यानमण्डपो येन || १३ || सर्वत्र कुसुमोद्यानजितानन्दननदनः | मायासर्वहृतव्यालमलयाचलचन्दनः || १४ || मायया सर्वाणि हृतानि व्यालसहितानि मलयाचलचन्दनानि येन || १४ || हेमश्रीलोकलावण्यनिर्जितान्तःपुराङ्गनः | नानाकुसुमसंभारजानुदघ्नगृहाङ्गणः || १५ || हेम्नः श्रीर्लोकलावण्यानि च निर्जितानि याभिस्तथाविधा अन्तःपुराङ्गना यस्य | निष्ठापरनिपातश्छान्दसः || १५ || क्रीडार्थमृन्मयेशानजितचक्रगदाधरः | अजस्रोड्डीनरत्नौघताराढ्यखपुरान्तरः || १६ || क्रीडार्थेन मृन्मयेनेशानेन जितश्चक्रगदाधरो विष्णुर्येन | अजस्रमुड्डीनैः खद्योतबद्भ्रमद्भिः रत्नौघैस्ताराढ्यं तारकितं खं पुरान्तरं च यस्य || १६ || निशीथाखिलपातालशतचन्द्रनभस्तलः | स्वशालभञ्जिकालोकगीतगीतिरणोत्कटः || १७ || अमावास्यादिनिशीथेष्वखिले पाताले शतचन्द्रं नभस्तलं यस्य | स्वरचितशालभञ्जिकामर्चां आलोकयन्तीति स्वशालभञ्जिकालोकास्तैः स्वशालभञ्जिकालक्षणैर्लोकैर्वा गीता गीतिः प्रबन्धो यस्य तथाविधो रणोत्कुटो युद्धशौण्डीर्यं यस्य || १७ || मायैरावणनागेन्द्रविद्रुतामरवारणः | त्रैलोक्यविभवोत्कर्षपूरितान्तःपुरान्तरः || १८ || विभवेषु स्त्रीहस्त्यश्वादिषूत्कर्षैः रत्नभूतैः स्त्रीरत्नादिभिः || १८ || सर्वसंपत्तिसुभगः सर्वैश्वर्यनमस्कृतः | समस्तदैत्यसामन्तवन्दितोग्रानुशासनः || १९ || महाभुजवनच्छायाविश्रान्तासुरमण्डलः | सर्वबुधिगणाधाररत्नमण्डलमण्डितः || २० || वनग्रहणादिच्छया मायिकसहस्रायुतादिभुजसंपत्तिर्गम्यते || २० || तस्योत्सादितदेवस्य कठिनोड्डामराकृतेः | बभूव विपुलं सैन्यमासुरं सुरनाशनम् || २१ || तस्य शम्बरस्य | कठिना दुःसहा उड्डामरा भीषणा नभश्चरी वा आकृतिर्यस्य || २१ || तस्मिन्मायाबले सुप्ते देशान्तरगते तथा | तत्सैन्यं तरसा जघ्नुश्चिद्रं प्राप्य किलामराः || २२ || माया बलं यस्य तथाविधे तस्मिन्मये || २२ || अथ शम्बरदैत्येन मुण्डिक्रोधद्रुमादयः | रक्षार्थमथ सामन्ताः स्वसेनासु नियोजिताः || २३ || सामन्ताः सेनापतयः || २३ || तानप्यन्तरमासाद्य जघ्नुर्देवा भयानकाः | व्योमान्तरगताः श्येनाः कलविङ्कानिवाकुलान् || २४ || सेनापतीन्पुनश्चान्यांश्चकारासुरसत्तमः | चपलानुद्भटारावांस्तरङ्गानिव सागरः || २५ || देवास्तानपि तस्याशु जघ्नुस्तेन [जग्मुः इति पाठः] स कोपवान् | जगामामरनाशाय परिपूर्णं त्रिविष्टपम् || २६ || परिपूर्णं देवैरित्यर्थाद्गम्यते || २६ || तस्मात्तन्मायया भीताः सुरास्तेऽन्तर्धिमाययुः | मेरुकाननकुञ्जेषु मृगा गौरीहरेरिव || २७ || गौरीहरेर्गौरीवाहनसिंहाद्भीता मृगा इव || २७ || क्रन्दत्क्षुद्रामरगणं बाष्पक्लिन्नाप्सरोमुखम् | शून्यं ददर्श स स्वर्गं कल्पक्षीणजगत्समम् || २८ || विहरन्कुपितस्तत्र लब्धमाहृत्य सुन्दरम् | लोकपालपुरीं दग्ध्वा जगामात्मीयमालयम् || २९ || तत्र स्वर्गे लुण्ठनेन लब्धं सुन्दरं रत्नादि आहृत्य आदाय || २९ || एवं दृढतरीभूते द्वेषे दानवदेवयोः | देवाः स्वर्गं परित्यज्य दिक्षु जग्मुरदर्शनम् || ३० || अदर्शनमन्तर्धानम् || ३० || अथ शम्बरदैत्येन ये ये सेनाधिनायकाः | क्रियन्ते यत्नतस्तांस्तु जघ्नुर्यत्नपराः सुराः || ३१ || तांस्तान् जघ्नुर्यावच्छम्बर उद्वेगमायातः सन् जज्वालेति परेणान्वयः || ३१ || यावदुद्वेगमायातः शम्बरः कोपवान्भृशम् | तार्णोऽतिमात्रमनल इव जज्वाल सोच्छ्वसन् || ३२ || सोच्छ्वसन्निति सोचि लोपे चेत्पादपूरणम् इति सोर्लोपः || ३२ || त्रैलोक्यमपि चान्विष्यन्न देवांल्लब्धवानथ | परेणापि प्रयत्नेन निधानमिव दुष्कृती || ३३ || ससर्ज मायया घोरानसुरांस्त्रीन्महाबलान् | बलरक्षार्थमुदितान्कालान्मूर्तिमिव स्थितान् || ३४ || बलं सैन्यं तस्य रक्षार्थमुदितानुद्युक्तान् | कालान् भूतो भविष्यन् वर्तमान इति त्रिधा प्रसिद्धान् || ३४ || निर्वृत्ता मायया भीमा बलपादपवाहिनः | उदगुस्ते महामायाः पक्षक्षुब्धा इवाद्रयः || ३५ || बलमिव पादपान्वहन्ति तच्छीलानित्यद्रिपक्षे || ३५ || दामो व्यालः कटश्चेति नामभिः परिलाञ्छिताः | यथाप्राप्तैककर्तारश्चेतनामात्रधर्मिणः || ३६ || दमयति शत्रूनिति दमः स एव दामः | व्याल इव वेष्टयति परानिति व्यालः | कटत्यावृणोति परास्त्रेभ्यः स्वानिति कट इति व्युत्पत्त्यान्वर्थैर्नामभिः परिलाञ्छिता अङ्किताः || ३६ || अभावात्कर्मणां ते च प्राक्तना नच वासनाः | निर्विकल्पकचिन्मात्रपरिस्पन्दैकधर्मकाः || ३७ || पूर्वेभ्यस्तेषु कोऽतिशये हेतुस्तमाह - अभावादित्यादिना | ते दामादयः प्राक्तनाः पूर्वसिद्धजीवा न | नच वासनास्तेषां सन्ति | कुतः | कर्मणां धर्मादीनामभावात् | किंतु निर्विकल्पको भयशङ्कापलायनादिविकल्पशून्यो यश्चिन्मात्रसंनिधाननिमित्तदेहपरिस्पन्दस्तदेकधर्मकाः || ३७ || कर्मजीवकलां तन्वीमसारां च मनोभिदाम् | अपुष्टां कृत्रिमामन्तश्चोदयओदयमागताः || ३८ || ननु यदि तेषां कर्मकामवासना न सन्ति तर्हि जन्मबीजाभावाज्जन्मैव न स्यात् | यदि च बीजाभावेऽपि जन्म स्यात्तर्हि मुक्तानामपि पुनर्जन्म स्यादिति | तथा चाग्रेऽपि वक्ष्यति विद्यते वासना यत्र तत्र सा याति पीनताम् इति | अतोऽसंगतं कर्माद्यभाववचनमित्याशङ्क्याह - कर्मजीवकलामिति | नैते स्वतन्त्रा जीवाः किंतु अन्तश्चोदयति प्रेरयतीत्यन्तश्चोदा अन्तर्यामिचित् तया निमित्तभूतया कर्मजीवस्य शम्बरस्य कलां कौशलरूपां तन्वीमल्पपरिमाणामपुष्टां कर्मवासनाद्यनुपचितां कृत्रिमां मायाकल्पनारूपामत एवासारां भोगसारशून्यां मनोभिदां सर्गसंकल्पवृत्तिमादाय उदयमाविर्भावमागताः | तथा चैन्द्रजालिकसृष्टपुरुषान्तराणामिव स्वतन्त्रकर्माभावेऽप्याविर्भावलक्षणं जन्मोपपद्यत इति भावः | अथवा विपश्चिदुपाख्यानवक्ष्यमाणन्यायेन शम्बरजीवस्यैवाग्निविस्फुलिङ्गवदन्तश्चाद्बहिश्च विभागात्कर्मजीवस्य कलामंशभूतां तत्र कर्मवासनादीनामत्यल्पत्वादपुष्टां मनो मनःप्रायां कृत्रिमां भिदां प्राप्य देहाद्युपाध्युदयादुदयं जन्म आगताः प्राप्ताः | तथाच योगिदेहभेदवच्छम्बरकामकर्मवासनाबीजवशादेवैषां जन्मसिद्धेर्न पृथक्तदपेक्षास्ति | एतावांस्तु विशेषः | योगिनां देहभेदे तत्त्वज्ञानेन बाधितत्वान्न प्रतिशरीरं कामादिजन्मबीजोपचयो दामव्यालकटादिदेहे त्वज्ञत्वात्तदुपचये जन्मपरम्पराप्राप्तिरिति न काचिदनुपपत्तिरिति भावः || ३८ || ते ह्यन्धपारम्पर्येण काकतालीयवद्भटाः | प्रकृतामनुवर्तन्ते क्रियामुज्झितवासनाः || ३९ || अत एव योगिवदेव तेषां यावद्वासनोपचयं व्यवहार इत्याह - ते हीति || ३९ || अर्धसुप्ता यथा बालाः स्वाङ्गै रिङ्गन्ति केवलम् | वासनात्माभिमानाभ्यां हीनास्ते तद्वदेव हि || ४० || अप्रबुद्धवासनानां क्व चेष्टा दृष्टेति चेत्तत्राह - अर्धसुप्ता इति | रिङ्गन्ति चेष्टन्ते || ४० || नाभिपातं न चापातं न विदुस्ते पलायनम् | न जीवितं न मरणं न रणं न जयाजयौ || ४१ || अभिपातं युद्धकाले आभिमुख्येन शत्रूणां पतनम् | आपातं विश्रान्तविश्वस्तेषु अकस्माच्छत्रूणां पतनम् || ४१ || केवलं सैनिकानग्रे दृष्टानाहननोद्यतान् | अभिजग्मुः परानाजौ प्रहारदलिताद्रयः || ४२ || यदि न विदुस्तर्हि स्वयं कथं शत्रूनभिपेतुस्तत्राह - केवलमिति | अभिपत्य प्रहर्तव्यमित्येतादृशशम्बरसंकल्पवासनामात्रशरीरत्वादभिमुख##- शम्बरश्चिन्तयामास परितुष्टमनाः परम् | विजेष्यते हि मे सेना मायासुरसुरक्षिता || ४३ || मायाकृतैरसुरैः सुरक्षिता || ४३ || अतिबलासुरदोर्द्रुमपालिता मम चमूः स्थिरतामलमेष्यति | अमरवारणदन्तविघट्टने- ष्वमरपर्वतहेमशिला यथा || ४४ || अमरवारणा दिग्गजास्तेषां दन्तविघट्टनेष्वमरपर्वतो मेरुस्तदीया हेमशिलेव शत्रुप्रहारेष्वपि अलमत्यन्तं स्थिरतामेष्यति प्राप्स्यति || ४४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे दामव्यालकटोत्पत्तिवर्णनं नाम पञ्चविंशः सर्गः || २५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे दामव्यालकटोत्पत्तिवर्णनं नाम पञ्चविंशः सर्गः || २५ || षड्विंशः सर्गः २६ श्रीवसिष्ठ उवाच | इति निर्णीय दैत्येन्द्रो दामव्यालकटान्विताम् | सेनां संप्रेषयामास भूतलं देवनाशिनीम् || १ || दामव्यालकटादीनामुद्भूतानां रसातलात् | दैवतैः सह संग्रामो वर्ण्यतेऽत्र महोद्भटः || १ || इति विजेष्यते इत्यादिपूर्वोक्तप्रकारेण || १ || दैत्याः सागरकुञ्जेभ्यः कन्दरेभ्यश्च सायुधाः | उदगुर्भीमनिर्ह्रादाः सपक्षगिरिलीलया || २ || सागरेभ्यो वेलावनकुञ्जेभ्यो गिरिकन्दरेभ्यश्च यथामार्गलाभं उदगुः ऊर्ध्व निश्चक्रमुः || २ || रोदसीकोटरं हस्तप्रहारहतभास्करम् | दानवाः पूरयामासुर्दामव्यालकटैधिताः || ३ || हस्तप्रहारैर्हतो निस्तेजस्कः कृतो भास्करो यस्मिंस्तथाविधं रोदस्योर्द्यावापृथिव्योः कोटरमन्तरालाकाशम् | दामव्यालकटैरेधिता वर्धिताः || ३ || अथोत्तस्थुर्निकुञ्जेभ्यः कन्दरेभ्यः सुराचलात् | प्रलयान्त इवाक्षुब्धा भीमाः स्वर्वासिनां गणाः || ४ || उत्तस्थुर्युद्धायेति शेषः || ४ || देवासुरपताकिन्योस्तद्युद्धमभवत्तयोः | अकालोल्बणकल्पान्तभीषणं भुवनान्तरे || ५ || अकाले उल्बणो दुःसहः कल्पान्तः प्रलय इव भीषणम् || ५ || पेतुः प्रलयपर्यस्तचन्द्रार्का इव दीप्तयः | शिरांसि कुण्डलोद्द्योततेजःपीततमांस्यथ || ६ || कुण्डलोद्योततेजोभिः पीततमांसि शिरांसि प्रलयपर्यस्तचन्द्रार्का दीप्तय इव कबन्धात्पेतुः || ६ || जुघूर्णुर्भटनिर्मुक्तसिंहनादविराविताः | प्रलयानिलसंपूरैः स्फुटहासा इवाद्रयः || ७ || प्रलयानिलानां संपूरैर्महाप्रवाहैः स्फुटनं स्फुटः | घञर्थे कविधानात्कः | स एवान्तरधातुवैचित्र्यदन्तप्रकाशसाम्याद्धासो येषाम् || ७ || रेणुः शैलशिलातुल्यहेतिघातास्तभित्तयः | कुलाचलतटाभीरुविश्रान्तहरिमण्डलाः || ८ || भीरवः अत एव विश्रान्ता अन्तर्निलीना हरिमण्डलाः सिंहसमूहा येषु तथाविधाः शैलशिलासदृशहेतीनां घातैरस्तभित्तयो भग्नवप्राः [भङ्गवप्राः इति पाठः] | कुलाचलानां हिमवदादीनां तटाः रेणुः दध्वनुः | रणतेर्लिट् || ८ || चेरुः परस्पराघातहतहेतिसमुत्थिताः | लोलानलकणाः कल्पविशीर्णा इव तारकाः || ९ || विलेसू रक्तमांसौघपूर्णैकार्णवतीरगाः | कल्पतालवदुत्ताला वेतालास्तालतालिताः || १० || कल्पः संवर्तस्तदीयोत्पातभूततालवृक्षवदुत्तालाः || १० || प्रस्फुरद्रुधिरासारशान्तपांसुपयोधरे | व्योम्नि हेतिहतक्षुण्णा मौलिकुण्डलकोटयः || ११ || शान्ताः पयोधरा इव पांसवो यस्मिन्व्योम्नि मौलिकुण्डलकोटयो भास्कराकारैरुपलक्षिता बभूवुरिति देहलीदीपन्यायेन संबध्यते || ११ || बभूवुर्भास्कराकारैः कल्पभूरुहधारिभिः | प्रहारदलिताद्रीन्द्रैर्दैत्यैर्निर्विवरा दिशः || १२ || प्रहरणायोत्पाटितकल्पभूरुहधारिभिः || १२ || जग्मुर्ज्वलदसिप्रान्तवातपातितभित्तयः | कणप्रकरतां शैलाः कल्पाग्निदलिता इव || १३ || असिप्रान्तलक्षणैर्वातैर्झञ्झापवनैः पातिता भित्तयो वप्राणि येषाम् | कणप्रकरतां चूर्णसमूहताम् || १३ || देवास्ते च समाजग्मुरश्वमेधैधिता इव | असुरानस्त्रविभ्रष्टाञ्जलदानिव वायवः || १४ || जगृहुस्तानथाक्रम्य जरठाखूनिवौतवः | तेऽपि ताञ्जगृहुर्मत्तानृक्षारूढानिव द्रुमान् || १५ || तानसुरान् रजठाखुन्वृद्धमूषकान् ओतवो मार्जारा इव ते असुरास्तान् देवान् द्रुमान् रूढानारूढान् मत्तान् प्रमत्तपुरुषान् ऋक्षा भल्लूका इव जगृहुः || १५ || दोर्वृक्षविलसद्धेतिकुसुमाः शस्त्रपल्लवाः | रेजुः सुरासुराः फुल्ला वनलोला इव द्रुमाः || १६ || दोर्लक्षणेषु वृक्षेषु विलसन्त्यो हेतयः शस्त्राण्येव कुसुमानि येषाम् || १६ || अन्योन्यं पूरयामासुः शस्त्रपूरैर्दिशो दश | वनानि कुसुमव्रातैः सुमेराविव मारुतः || १७ || घोरं समभवद्युद्धं देवदानव सेनयोः | रोदोरन्ध्रोदुम्बरान्तर्महामशकसंघयोः || १८ || रोदोरन्ध्ररूपो य उदुम्बरान्तःप्रदेशस्तत्र महामशकसंघप्राययोर्देवदानवसेनयोः || १८ || अथोदपतदुत्तालैर्लोकपालेभमण्डलैः | कल्पाभ्रस्फूर्जिताकारो दारुणः समरारवः || १९ || इदानीं दिग्गजादिप्रमृद्यमानजनरणकोलाहलं वर्णयति - अथेत्यादिसप्तभिः || १९ || पिण्डग्रहेण नभसि भूभागमिव कुट्टिमम् | मुष्टिग्राह्यो महामेघमन्थरोदरपीवरः || २० || पिण्डग्रहेण घनीभावस्वीकारेण नभसि कुट्टिमं भूभागमिव कुर्वाण इति शेषः | क्वचित्प्रदेशे मुष्टिग्राह्य इव क्वचिच्च मेघानां मन्थरं जलभारमन्थरमुदरमिव पीवरो गम्भीर इति यावत् || २० || रथसंपातसंपिष्टशस्त्रशैलरटन्नटः | त्रुटद्धृदयनिःसत्त्वकर्कशाक्रन्दघर्घरः || २१ || रथसंपातेन संपिष्टैः शस्त्रैः शैलेषु रटन् नट इव ताललयानुसारी | त्रुटद्धृदयानां निस्सत्त्वानां कर्कशाक्रन्दैर्घर्घरः || २१ || प्रलयप्रत्ययोल्लासिकल्पान्तारावबृंहणः | द्वादशादित्यसंघट्टद्रवत्काञ्चनपर्वतः || २२ || प्रलयस्य प्रत्ययैः कारणैरग्निवायवादिभिरुल्लासी यः कल्पस्य ब्रह्माह्णोऽन्ते प्रसिद्ध आरावस्तस्य बृंहणः प्रतिगर्जनप्रायः | द्वादशादित्यानां संघट्टनेन मेलनेन द्रवन् यः काञ्चनपर्वतस्तदीयशब्द इवेत्यर्थः || २२ || ब्रह्माण्डकुण्डसंघट्टात्परावृत्त्या च निर्गतः | महास्रोतःपयःपूरः सत्त्वाहत इवाकरः || २३ || संघट्टादिति ल्यब्लोपे पञ्चमी | संघट्टं प्राप्य परावृत्त्या चकारेण स्वस्थानाच्च निर्गतः सत्त्वैः प्राणिभिराहतः आकरः सत्त्वाकरः महास्रोतसः पयःपूरध्वनिरिव || २३ || चञ्चत्सपक्षशैलेन्द्रपक्षपातचलद्ध्वनिः | कठिनापूरणोद्धूतस्फुटच्छैलेन्द्रकन्दरः || २४ || चञ्चतां चलतां सपक्षशैलेन्द्राणां पक्षवातेनेव चलन् ध्वनिर्यत्र | कठिनैर्दुःश्रवैरापूरणैरुद्धूता उद्विग्नाः स्फुटन्तः श्रोत्रप्रायाः शैलेन्द्रक्न्दराः येन || २४ || मन्दरोद्धूतदुग्धाब्धिसंक्षोभसदृशाङ्गकः | रतिश्रुद्धुंघुमास्फोटघटितद्वीपजन्तुभूः || २५ || अमृतार्थं मथने मन्दरेणोद्धूतस्य दुग्धाब्धेः संक्षोभध्वनिना सदृशमङ्गं स्वरूपं यस्य | तत्रैवामृतोत्पत्तौ रत्या तदासक्त्या शृण्वन्ति ये देवासुरास्तेषां हर्षोत्कर्षे घुंघुमा इव ध्वनन्त आस्फोटा भुजास्फालन शब्दास्तैर्घटिता व्याप्ताः सप्तद्वीपलक्षणा जन्तुभुवः प्राण्यावासायेन || २५ || सेनयोः क्षुब्धयोरासीद्युद्धमुद्धतदानवम् | निष्पिष्टनगरग्रामगिरिकाननमानवम् || २६ || इत आरभ्य आसर्गसमाप्तेर्युद्धमेव वर्णयति - सेनयोरित्यादिना || २६ || महाहेतिशतच्छिन्नदानवाचलपूर्णदिक् | अन्योन्याहतहेत्यादिचूर्णपूर्णाम्बरोदरम् || २७ || भुशुण्डीमण्डलास्फोटस्फुटन्मेरुशिरःशतम् | शरमारुतनिर्लूनदैत्यदेवमुखाम्बुजम् || २८ || चक्रावर्तशतभ्रान्तदेवदैत्यजरत्तृणम् | सेनाप्रहारकल्लोलवलनावलिताम्बरम् || २९ || हेत्युग्रवातनिष्पिष्टपतद्वैमानिकव्रजम् | अस्त्रोदिताब्धिवार्योघप्लावितव्योमपत्तनम् || ३० || हेतय एवोग्रवातास्तैर्निष्पिष्टाः पतन्तश्च वैमानिकव्रजा यत्र | अस्त्रैर्वारुणास्त्रादिभिरुदितस्याब्धेर्वार्योधैः प्लावितानि व्योमपत्तनान्यमरावत्यादीनि यत्र || ३० || वहन्महास्त्रपातासिशूलशक्तिनदीशतम् | शैलपक्षोद्भटास्फोटलुठद्ब्रह्माण्डमण्डपम् || ३१ || शैलानां पक्षेषु पार्श्वेषु उद्भटैरास्फोटैर्लुठन् कम्पमानो ब्रह्माण्डमण्डपो यत्र || ३१ || दैत्यपार्ष्णिप्रहारौघपतल्लोकेशपत्तनम् | नारीहलहलारावरणत्कङ्कणमन्दिरम् || ३२ || लुठद्दैत्यबलोद्भूतमत्तास्रौघजलान्वितम् [बलोद्धूत इति पाठः] | रक्तधौतनरौघोग्रमुक्तनादद्रवज्जनम् || ३३ || लोकपानीकपाम्भोजच्छन्नाच्छन्नयमान्वितम् | पुनः सुरासुरैर्घातैर्दृष्टसैन्यकुलाकुलम् || ३४ || लोकपानामिन्द्रादीनामनीकपाः सेनानायकास्तल्लक्षणेष्वम्भोजेषु भ्रमर इव कदाचिन्मृतानां प्राणहरणाय च्छन्नः कदाचिद्युद्धार्थमच्छन्नः प्रकटश्च यो यमस्तेनान्वितम् | पलायनकाले घातैः प्रहारैः पुनः परावृत्त्य दृष्टेनार्थात्प्रहरता सैन्यकुलेनाकुलम् || ३४ || सपक्षपर्वताकारदानवाद्रिगमागमैः | वहच्छवशवाशब्दभूरिभाङ्कारभीषणम् || ३५ || शवशवेत्यनुकरणशब्दरूपैर्भूरिभिर्भाङ्कारैर्भीषणम् || ३५ || आयुधाग्रविभिन्नोग्रदैत्यपर्वतनिर्झरैः | रक्तैररुणिताशेषवसुधार्णवपर्वतम् || ३६ || उत्सन्नराष्ट्रनगरविपिनग्रामगह्वरम् | धृतासंख्यासुरेभाश्वमनुष्यशवपर्वतम् || ३७ || धृता असंख्यसुरेभाश्वमनुष्यशवा यैस्तथाविधाः पर्वता मेर्वादयो यत्र || ३७ || सुतालोत्तालनाराचराजिरोचितवारणम् | मुष्टिप्रहारपिष्टांसमत्तैरावणवारणम् || ३८ || कल्पाभ्रपटलासारधारादलितपर्वतम् | महाशनिविनिष्पेषपिष्टोड्डीनकुलाचलम् || ३९ || कुपिताग्निज्वलज्ज्वालाजालज्वलितदानवम् | एकाञ्जलिपुटानीतसमुद्रोत्सादितानलम् || ४० || कुपिताग्नीति देवपराक्रमः | एकाञ्जलीत्यसुरपराक्रमः || ४० || चण्डदैत्यातिसंभारशिलीकृतमहाज्वलम् | वनव्यूहेन्धनाग्न्यर्चिर्द्राविताम्बुशिलोच्चयम् || ४१ || चण्डैर्दैत्यैः शैलशिलाद्यतिसंभारैः प्रक्षिप्तैः शिलीकृतः महान् ज्वलतीति ज्वलोऽग्निर्यत्रेति दैत्यपराक्रमः | वनव्यूहलक्षणेन्धनप्रयुक्ताभिरन्न्यर्चिर्भिर्द्राविता अत एवाम्बुप्रायाः शिलोच्चया यत्रेति देवपराक्रमः | एवमग्रेऽपि यथायोग्यं बोध्यम् || ४१ || अस्त्रनिर्मितदुर्वारतमःकल्पान्तरात्रिकम् | मायासूर्यगणोद्द्योतैः पीतातनुतमःपटम् || ४२ || मायाग्निवर्षनिष्पीतकलाभ्रघनवर्षणम् | ससीत्काराग्निवमनशस्त्रसंघट्टवर्षणम् || ४३ || कला मायाकौशलं तत्प्रयुक्तानामभ्राणां धनं वर्षणं यत्र || ४३ || वज्रवर्षास्त्रनिर्धूतशैलवर्षास्त्रसंभ्रमम् | निद्राबोधास्त्रयुद्धाढ्यं संघर्षावग्रहाश्रयम् || ४४ || संघर्षः पराभिभवः स एवावग्रहः प्रागुक्तवर्षप्रतिबन्धस्तदाश्रयम् || ४४ || वहत्क्रकचवृक्षास्त्रं जलाग्न्यस्मरणान्वितम् | ब्रह्मास्त्रयुद्धविषमं तमस्तेजोस्त्रसारितम् || ४५ || जलाग्न्योरस्मरणेन व्यामोहेनान्धितम् || ४५ || अस्त्रोद्गीर्णायुधानीकनीरन्ध्रसकलाम्बरम् | शिलावर्षास्त्रदलितं वह्निवर्षास्त्रभासुरम् || ४६ || आसुरपैशाचाद्यस्त्रैरुद्गीर्णैस्तोमरमुसलमुद्गराद्यायुधानीकैर्नीरन्ध्रं सकलाम्बरं यत्र || ४६ || पताकास्पृष्टशशिकश्चक्रचीत्कारगर्जितैः | मुहूर्तेन रथैर्लङ्घितोदयास्तमयाचलम् || ४७ || वज्रप्रहाराविरतम्रियमाणमहासुरम् | शुक्रामरमहाविद्याजीवमानमहासुरम् || ४८ || शुक्रस्य अमराख्या महाविद्या मृतसंजीवनविद्या तया जीवमाना महासुरा यत्र || ४८ || विद्रवद्देवसंघातं जयप्रोड्डामरामरम् | शुभग्रहमहाकेतुमालिकानामितस्ततः || ४९ || क्वचिद्विद्रवद्देवसंघातं क्वचिज्जयप्रोड्डामरामरम् | क्वचिच्छुभग्रहाणां महतीनां केतुमालिकानां च बुद्धेर्दर्शनार्थमितस्तत उद्धरकन्धरं उन्नमितकण्ठम् || ४९ || उत्पातमङ्गलुघानां बुद्धेरुद्धरकन्धरम् | साद्रिखोर्वीसमुद्रद्युजगद्रुधिरवारिधि || ५० || क्वचित्तु उत्पातानां मङ्गलौघानां बुद्धेर्दर्शनार्थमुद्धरकन्धरम् | फलस्यापि हेतुत्वविवक्षणाद्वुद्धेरिति पञ्चमी | अद्रिभिः स्वेन समुद्रेण दिवा च सहितं जगदेव रुधिरवारिधिर्यत्र || ५० || फुल्लैककिंशुकवनं कुर्वद्दुर्वारवैरतः | पर्वतप्रतिमासंख्यं शवपूर्णमहार्णवम् || ५१ || जगदित्यनुवर्तते | कुर्वदिति पूर्वोत्तरार्धान्वयि | उभयत्रापि रुधिरेणेति शेषः || ५१ || समग्रतरुशाखाग्रलम्बलोलमहाशवम् | दीप्यमानैः स्ववातार्तैः पक्षपुष्पैर्लसत्फलैः || ५२ || शरव्रातस्य वनत्वेन रूपणाय विशिनष्टि - दीप्यमानैरित्यादि | अर्करश्मिप्रतिबिम्बपल्लवैर्दीप्यमानैः स्वस्य वेगवातेनार्तैश्चञ्चलैः कङ्कादिपक्षा गरुत एव पुष्पाणि येषां तैः | लसन्ति फलानि लोहभागा एव श्लेषात्फलानि येषां तैः || ५२ || तालोत्तालैः शरव्रातवनैर्व्याप्तनभस्थलम् | पर्वतप्रतिमासंख्यकबन्धशतबाहुभिः || ५३ || तालेभ्योऽप्युत्तालैरुच्छ्रितैः || ५३ || नृत्यद्भिः पातिताम्भोदविमानसुरतारकम् | शरशक्तिगदाप्रासपट्टिशप्रोतपर्वतम् || ५४ || कबन्धशतबाहुभिः पातिता अम्भोदा विमानानि सुरस्तारकाश्च यत्र | पट्टिशान्तैः प्रोताः संतताः पर्वता यत्र || ५४ || लोकसप्तकविभ्रष्टकुड्यखण्डचिताम्बरम् | अनारतरसन्मत्तकल्पाभ्रदृढदुन्दुभि || ५५ || यद्यप्यूर्ध्वं षडेव लोकास्तथापि भूलोकस्थकुड्यखण्डानामप्युड्डयनेन भ्रंशसंभवाल्लोकसप्तकेत्युक्तम् || ५५ || एवं शब्दशतोन्नादपातालतलवारणम् | विनायककराकृष्टदीर्घदानवपर्वतम् || ५६ || एवं प्रागुक्तप्रकारैः शब्दशतैरुन्नादाः प्रतिगर्जन्तः पातालतलवारणा दिग्गजा यत्र || ५६ || एकदिक्करनिष्पन्दसिद्धसाध्यमरुद्गणम् | पलायमानगन्धर्वकिन्नरामरचारणम् || ५७ || दिग्भेदकराणां सूर्येन्द्रादीनामेकस्यां दिशि दैवान्मिलने एकदिक्करा असुरभयान्निष्पन्दाश्च सिद्धसाध्यमरुद्गणा यत्र || ५७ || वबुरशनिनिपातखण्डिताङ्गा दलितशिलाशकलाः ककुम्मुखेषु | प्रलयसमयसूचकाः सुराणां सुरतरुघर्घरघस्मराः समीराः || ५८ || इदानीमौत्पातिकं झंझापवनं वर्णयति - ववुरिति | अशनिनिपातैर्वैद्युताग्निपातनैः खण्डितप्राण्यङ्गा दलितशिलाशकलाश्च | सुराणां प्रलयसमयस्य सूचकाः सुरतरुघर्घराणां कल्पवृक्षसंबन्धिभ्रमरकोकिलादिध्वनीनां घस्मरा भक्षकास्तिरोधायका इति यावत् | समीरा झंझामारुता ववुः || ५८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे दामव्यालकटसंग्रामवर्णनं नाम षड्विंशः सर्गः || २६ || इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे स्थितिप्रकरणे दामव्यालकटसंग्रामवर्णनं नाम षड्विंशः सर्गः || २६ || सप्तविंशः सर्गः २७ श्रीवैष्ठ उवाच | तस्मिंस्तदा वर्तमाने घोरे समरसंभ्रमे | देवासुरशरीरेषु गर्तेष्वभ्रोदरेष्विव || १ || देवाः पराजितास्तेभ्यः प्रपन्नेभ्योऽत्र पद्मभूः | प्राह दैत्यवधोपायं वासनोपचयं चिरात् || १ || देवासुरशरीरेषु जातेषु गर्तेषु व्रणेषु असृक्प्रवाहेषु वहत्स्विति परेणान्वयः || १ || वहत्स्वसृक्प्रवाहेषु गङ्गापूरेष्विवाम्बरात् | दाम्नि वेष्टितदेवौघकृतक्ष्वेडाघनारवे || २ || वेष्टितदेवौघं यथा स्यात्तथा कृतः क्ष्वेडा सिंहनादरूपो महारवो येन || २ || व्याले निजकराकृष्टिपिष्टसर्वसुरालये | कटे कठिनसंरम्भसङ्गरक्षपितामरे || ३ || आकृष्टिराकर्षणं तया पिष्टाः संचूर्णिताः सर्वसुरालया येन || ३ || ऐरावते क्षीणरवे पलायनपरायणे | प्रवृद्धे दानवानीके मध्याह्न इव भास्करे || ४ || पतिताङ्गव्यथार्तानि प्रस्नवद्रुधिराणि च | पयांसीवावसेतूनि देवसैन्यानि दुद्रुवुः || ५ || अवसेतूनि अवसन्नसेतूनि || ५ || दामव्यालकटास्तानि चिरमन्तर्हितानि च | अनुजग्मुर्लसन्नादमिन्धनानीव पावकाः || ६ || अन्तर्हितानि दूरं तिरोहितानि | लसन्नादं भ्राजमानाधिक्षेपध्वनि यथा स्त्यात्तथा || ६ || अन्विष्टानपि यत्नेन नालभन्तासुराः सुरान् | घनजालवनोड्डीनान्सिंहा हरिणकानिव || ७ || धनानि निबिडानि लतादिजालानि यस्मिंस्तथाविधे वने उड्डीनान् उत्प्लुत्य लीनान् || ७ || अलब्धेष्वमरौघेषु दामव्यालकटास्तदा | जग्मुः पातालकोशस्थं प्रभुं प्रमुदिताशयाः || ८ || निर्वासनात्वात्स्वत एव प्रमुदिताशयता जयलाभनिमित्तकत्वेनोपचर्यते || ८ || अथ देवा विषण्णास्ते क्सणमाश्वास्य वै ययुः | जयोपायाय विजिता ब्रह्माणममितौजसम् || ९ || जयोपायाय जयोपायप्रश्नाय || ९ || तेषामाविरभूद्ब्रह्मा रक्तरक्ताननश्रियाम् | सायं रक्तीकृताम्बूनामब्धीनामिव चन्द्रमाः || १० || रक्तै रुधिरै रक्ता शोणा आननश्रीर्येषां तेषाम् || १० || प्रणम्य ते सुरास्तस्मा अनर्थं शम्बरेहितम् | सम्यक्प्रकथयामासुर्दामव्यालकटक्रमम् || ११ || शम्बरस्येहितमिच्छा | सृष्ट्यात्मकं दामव्यालकटकमम् || ११ || तदाकर्ण्याखिलं ब्रह्मा विचार्य स विचारवित् | उवाचेदं सुरानीकमाश्वासनकरं वचः || १२ || श्रीब्रह्मोवाच | शतवर्षसहस्रान्ते शम्बरेण हरेः करात् | मर्तव्यं समरेशस्य तत्कालं संप्रतीक्षताम् || १३ || तत्कालमिति कालाध्वनोः इति द्वितीया || १३ || दामव्यालकटानेतानद्य त्वमरसत्तमाः | योधयन्तः पलायध्वं मायायुद्धेन दानवान् || १४ || युद्धाभ्यासवशादेषां मुकुराणामिवाशये | अहंकारचमत्कारः प्रतिबिम्बमुपैष्यति || १५ || अहमित्याकारा प्रथमान्तःकरणवृत्तिरहंकारचमत्कारः || १५ || गृहीतवासनास्त्वेते दामव्यालकटाः सुराः | सुजेया वो भविष्यन्ति लग्नजालाः खगा इव || १६ || तया वृत्त्या गृहीताः क्रमेणोपचिता वासना येषाम् || १६ || अद्य त्ववासना ह्येते सुखदुःखविवर्जिताः | धैर्येणारीन्विनिघ्नन्तो देवा दुर्जयतां गताः || १७ || अवासनाः शम्बरसंकल्पेन प्रतिबन्धादनाविर्भूतवासना नत्वत्यन्ता वासनाः | ज्ञानं विना आत्यन्तिकवासनोच्छेदासंभवात् | निर्वासनानां जन्मानुपपत्तेश्चेति बोध्यम् || १७ || वासनातन्तुबद्धा ये आशापाशवशीकृताः | वश्यतां यान्ति ते लोके रज्जुबद्धाः खगा इव || १८ || ये भिन्नवासना धीराः सर्वत्रासक्तबुद्धयः | न हृष्यन्ति न कुप्यन्ति दुर्जयास्ते महाधियः || १९ || भिन्नवासना नष्टवासनाः || १९ || यस्यान्तर्वासनारज्ज्वा ग्रन्थिबन्धः शरीरिणः | महानपि बहुज्ञओऽपि स बालेनापि जीयते || २० || अयं सोऽहं ममेदं तदित्याकल्पितकल्पनः | आपदां पात्रतामेति पयसामिव सागरः || २१ || इयन्मात्रपरिच्छिन्नो येनात्मा भव्यभावितः | स सर्वज्ञोऽपि सर्वत्र परां कृपणतां गतः || २२ || सर्वदुर्वासनानां मध्ये आत्मनो देहादितादात्म्येन परिच्छिन्नताभ्रान्तिवासनैव महामौर्ख्यकार्पण्यजन्ममरणादिबीजत्वान्महाननर्थ इत्याह - इयन्मात्रेत्यादिना || २२ || अनन्तस्याप्रमेयस्य येनेयत्ता प्रकल्पिता | आत्मनस्तस्य तेनात्मा स्वात्मनैवावशीकृतः || २३ || अवशीकृतो विवशीकृतः | संसारनर्थविह्वलीकृत इति यावत् || २३ || आत्मनो व्यतिरिक्तं यत्किंचिदस्ति जगत्त्रये | यत्रोपादेयभावेन बद्धा भवतु वासना || २४ || यद्यदि आत्मनो व्यतिरिक्तं किंचिदस्ति तर्हि तत्र उपादेयभावेन उपादातुं योग्यतया वासना भवतु नाम नतु तदस्तीत्यर्थः || २४ || आस्थामात्रमनन्तानां दुःखानामाकरं विदुः | अनास्थामात्रमभितः सुखानामाकरं विदुः || २५ || तथा चासद्वस्तुन्यास्था त्याज्येत्याशयेनाह - आस्थामात्रमिति || २५ || दामव्यालकटा यावदनास्था भवसंस्थितौ | तावन्न नाम जेयावो मशकानामिवानलाः || २६ || उक्तं प्रकृते योजयति - दामेति || २६ || अन्तर्वासनया जन्तुर्दीनतामनुयातया | जितो भवत्यन्यथा तु मशकोऽप्यमराचलः || २७ || देहाद्यहंभावग्राहिण्या अन्तर्वासनया देहादिनाशेनात्मनाशसंभावनया दीनतां कातरताम् | अन्यथा तादृशवासनाभावे तु मशकोऽप्यमराचलो मेरुरिवाप्रकम्प्यो भवतीत्यर्थः || २७ || विद्यते वासना यत्र तत्र सा याति पीनताम् | गुणो गुणिनि हि द्वित्वं सतो दृष्टं हि नासतः || २८ || हि यस्माद्गुणिनि धर्मिणि सति पीनत्वाख्यो गुणो भवति | किंचोपचयमन्तरा न पीनत्वसिद्धिः | उपचयश्च द्वितीयावयवसिद्धौ | तच्च द्वित्वं सतो द्रव्यस्य दृष्टं नासत इत्यर्थः || २८ || अयं सोऽहं ममेदं चेत्येवमन्तः स्वासनम् | यथा दामादयः शक्र भावयन्ति तथा कुरु || २९ || दामादयो यथा येनोपायेन | अयं देहादिरेव स प्रसिद्धोऽहम् | इदं जयपराजयपूजाजीवनादि मम इति भावयन्त्यभिमंस्यन्ते तथा तमुपायं कुर्वित्यर्थः || २९ || या या जनस्य विपदो भावाभावदशाश्च याः | तृष्णाकरञ्जवल्ल्यास्ता मञ्जर्यः कटुकोमलाः || ३० || वासनातन्तुबद्धो यो लोको विपरिवर्तते | सा प्रवृद्धातिदुःखाय सुखायोच्छेदमागता || ३१ || यो विपरिवर्तते तस्य सा वासना अतिदुःखायेत्यर्थः || ३१ || धीरोऽप्यतिबहुज्ञोऽपि कुलजोऽपि महानपि | तृष्णया बध्यते जन्तुः सिंहः शृङ्खलया यथा || ३२ || देहपादपसंस्थस्य हृदयालयगामिनः | तृष्णा चित्तखगस्येयं वागुरा परिकल्पिता || ३३ || हृदयपुण्डरीकमेवालयो नीडं तद्गामिनश्चित्तोपलक्षितजीवखगस्य || ३३ || दीनो वासनया लोकः कृतान्तेनापकृष्यते | रज्ज्वेव बालेन खगो विवशो भृशमुच्छ्वसन् || ३४ || रज्ज्वा तन्तुनेव || ३४ || अलमायुधभारेण संगर भ्रमणेन च | वासनाया विपर्यासं युक्त्या यत्नाद्रिपोः कुरु || ३५ || वासनायाः शम्बरसंकल्पाहितनिरभिमानवासनायाः | विपर्यासं वैपरीत्यम् | अभिमानोपचयमिति यावत् | रिपोर्दामादेः || ३५ || अन्तरा [अन्तरक्षुभिते इति पाठष्टीकाकृत्संमत इति भाति] क्षुभिते धैर्ये रिपोरमरनायक | न शस्त्राणि न चास्त्राणि न शास्त्राणि जयन्ति च || ३६ || शत्रोरन्तः अक्षुभिते धैर्ये सतीति शेषः | शास्त्राणि औशनसादीनि नीतिशास्त्राणि || ३६ || दामव्यालकटास्त्वेते युद्धाभ्यासवशेन च | अहंकारमयीं मत्तास्ते ग्रहीष्यन्ति वासनाम् || ३७ || अहंकारमयीं वासनां ते एते संकल्पाद्बहीष्यन्ति || ३७ || यदा तेऽत्यज्ञपुरुषाः शम्बरेण विनिर्मिताः | वासनामाश्रयिष्यन्ति तदा यास्यन्ति जेयताम् || ३८ || तत्त्वज्ञेभ्यस्तेषु कोऽपकर्षो येन ते वासनां गृह्णीयुस्तत्राह - अस्यज्ञेति || ३८ || तत्तावद्युक्तियुद्धेन तान्प्रबोधयतामराः | यावदभ्यासवशतो भविष्यन्ति सवासनाः || ३९ || प्रबोधयत व्यवहारपदेषु जागरूकान्कुरुत || ३९ || ततो वश्या भविष्यन्ति भवतां बद्धवासनाः | तृष्णाऽप्रोताशया लोके न च केचन पेलवाः || ४० || केचन केचिदपि तृष्णया अप्रोताशयाश्चेन्न च ते पेलवाः || ४० || समविषममिदं जगत्समग्रं समुपनतं स्थिरतां स्ववासनान्तः | चलचललहरीभरो यथाब्धा- वत इह सैव चिकित्स्यतां प्रयाता || ४१ || यथा जलाशयान्तश्चलचलानामत्यन्तचपलानां विचित्रलहरीणां भरोऽतिशयो जलात्मनैवास्ति तथा स्ववासनान्तरिदं समविषमं स्थिरतां प्रवाहनित्यतां समुपनतं समुपगतं स्थितमित्यर्थः || ४१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे पितामहवाक्यं नाम सप्तविंशः सर्गः || २७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे पितामहवाक्यं नाम सप्तविंशः सर्गः || २७ || अष्टाविंशः सर्गः २८ श्रीवसिष्ठ उवाच | इत्युक्त्वा भगवान्देवांस्तत्रैवान्तर्धिमाययौ | वेलावनितटे शब्दं कृत्वेवाम्बुतरङ्गकः || १ || विश्रान्तानां पुनर्युद्धं विस्तरेणात्र वर्ण्यते | देवानां दानवानां च चिरमावासनोदयात् || १ || अम्बुनस्तरङ्गको वेलापदसान्निध्यात्समुद्रतरङ्ग इति गम्यते || १ || सुरास्त्वाकर्ण्य तद्वाक्यं जग्मुः स्वाभिमतां दिशम् | कमलामोदमादाय वनमालामिवानिलाः || २ || स्वाभिमतां स्वाभिप्रेतां तत्तद्दिक्पालाधिष्ठितदिशम् | स्वाभिमतामित्येतद्वनमालाया अपि विशेषणम् || २ || दिनानि कतिचित्स्वेषु कान्तेषु स्थिरकान्तिषु | द्विरेफा इव पद्मेषु मन्दिरेषु विशश्रमुः || ३ || विशश्रमुर्विश्रान्ताः || ३ || कंचित्कालं समासाद्य स्वात्मोदयकरं शुभम् | चक्रुर्दुन्दुभिनिर्घोषं प्रलयाभ्ररवोपमम् || ४ || अथ दैत्यैर्ममाव्योम्नि तैः पातालतले स्थितैः | कालक्षेपकरं घोरं पुनर्युद्धमवर्तत || ५ || अथ दुन्दुभिरवं श्रुत्वा सन्नह्य दैत्येषूर्ध्वमागतेषु सत्सु | महाव्योन्न्यन्तरिक्षे || ५ || ववुरसिशरशक्तिमुद्गरौघा मुसलगदापरशूग्रचक्रशङ्खाः | अशनिगिरिशिलाहुताशवृक्षा अहिगरुडादिमुखानि चायुधानि || ६ || आसर्गसमाप्तेर्युद्धमेव वर्णयति - ववौरित्यादिना | शङ्खाः शङ्खाकारा आयुधविशेषाः | परप्राणहारित्वादायुधप्रायाः शङ्खशब्दा वा | गिरीणां शिलासहिताः गिरिप्रायाः शिला गिरयः शिलाश्चेति वा वृक्षान्ताः | अहिगरुडादिमुखान्यायुधानि च महाव्योम्नि ववुः जग्मुः || ६ || मायाकृतायुधमहाम्बुघनप्रवाहा क्षिप्रावहा प्रतिदिशं किल निर्जगाम | पाषाणपर्वतमहीरुहलक्षवृक्ष- क्षुब्धाम्बुपूरघनघोषवती नदी द्राक् || ७ || तदेव वर्णयति - मायेति | मायाकृतान्यायुधान्येव महाम्बूनि तेषां घनः प्रवाहो यस्याः | अत एव क्षिप्रान् शीघ्रहस्तानावहति जयायेति क्षिप्रावहा | पाषाणैः पर्वतैर्महीरुहलक्षैस्तेष्वपि प्रधानैर्वृक्षैश्च क्षुब्धाम्बुपूरेव घनघोषवती नदी द्राक् निर्जगामेत्यर्थः || ७ || मध्यप्रवाहवहदुल्मुकशूलशैल- प्रासासिकुन्तशरतोमरमुद्गरौघा | गङ्गोपमाम्बुवलितामरमन्दिरेण सर्वासु दिक्ष्वशनिवर्षनिकर्षणेन || ८ || तामेव नदीं पुनर्वर्णयति - मध्येति | अम्बुभिर्जलैरिव वलितं वेष्टितं अमरमन्दिरं मेर्वादि येन तथाविधेनाशनिप्रमुखायुधवर्षप्रयुक्तेन निकर्षणेन वप्रच्छेदनेव गङ्गोपमा | मेर्वादिगिरिपृष्ठप्रवहद्गङ्गासदृशीत्यर्थः || ८ || पृथ्व्यादिदारुणशरीरमपि प्रहार- दानग्रहा गहनराशिशरीरकेव | मायोपशाम्यति सुरासुरसिद्धसन्ना मायाकृतिः पुनरुदेति नचैव सैव || ९ || संप्रति सुरासुराणां परस्परव्यामोहनाय विचित्रमायानिर्माणं प्रतीकारैश्च तदुपशमं पुनःपुनस्तत्सदृशमायान्तरोद्भवोपशमं चाह - पृथ्व्यादीति | पृथ्वी मही तन्मयी आदिपदाज्जलतेजोवायवाकाशमयीव माया | यथेयं पृथिवी भ्रमतीव पततीव निरुणद्धिवाप्स्विव निमज्जन्त्यग्निनेव दह्यन्ते वायुनेवोड्डीयन्ते महागर्ताकाश इव निपतन्ति जना इति | दारुणानि रक्षःपिशाचादिशरीराणि तन्मयीव | यथा तानि निपतन्तीव धावन्तीव युध्यन्तीव खादन्तीवेत्येवंरूपा दारुणशरीरमयी | प्रहाराणां दानं ग्रहो ग्रहणं च बहुशो यस्यां तथाविधान्या | गहनानि परैर्दुस्तराणि राशीभूतानीव बहुत्वमापन्नानि शरीरकाणि प्रतियोधशरीराणि यस्यां सा तथाविधेवान्या | एवंविधापि प्रयुक्ता माया सुरैरसुरैः सिद्धैश्च प्रतीकारैः सन्ना विनाशिता सती उपशाम्यति पुनस्तादृश्येव मायाकृतिरुदेति सा किं सैव पूर्वोत्पन्नैव मायाकृतिरुत न चैव च सा किंत्वन्यैवेति तत्त्वतो दुर्ज्ञेयेत्यर्थः || ९ || शैलोपमायुधविघट्टितभूधराणि रक्ताम्बुपूरपरिपूर्णमहार्णवानि | देवासुरेन्द्रशवशैलविरूढकुन्त- तालीवनानि ककुभां वदनानि चाचन् || १० || देवलक्षणेष्वसुरेन्द्रशवलक्षणेषु च शैलेषु विरूढानि कुन्तपङ्क्तिलक्षणतालीवनानि येषु तथाविधानि च ककुभां दिशां वदनानि मुखान्यासन् || १० || उद्गीर्णकुन्तशरशक्तिगदासिचक्र- हेलानिगीर्णसुरदानवमुक्तशैला | काषोल्लसत्क्रकचदन्तनखाग्रमाला जीवान्विता ह्यपतदायससिंहसृष्टिः || ११ || उद्गीर्णैः कुन्तशरशक्तिगदासिचक्रैर्हेलयैव निगीर्णाः सुरैर्दान्ववैश्च मुक्ताः शैला यस्याम् | काषेण च्छेदनेनोल्लसतां क्रकचानां दन्ता एव नखाग्रमाला यस्यास्तथाविधा | परजीवग्राहित्वाज्जीवान्विता | आयसानामयोविकारायुधमयानां हिंस्रत्वात्सिंहानां सृष्टिरपतत् | निष्पपातेत्यर्थः || ११ || उज्ज्वाललोचनविषज्वलनातपौघ- दिग्दाहदर्शितयुगान्तदिनेशसेना | उड्डीयमानपरिदीर्घमहामहीध्न- मग्नाब्धिवद्विषधरावलिरुल्ललास || १२ || इदानीं सर्पास्त्रनिर्मितदृष्टिविषमायासर्पसमूहं वर्णयति - उज्ज्वालेति | उद्गता ज्वाला येभ्यस्तथाविधानां लोचनविषज्वलनानामातपौघेन ये दिशां दाहास्तैर्दर्शिता युगान्ते युगपदुदितद्वादशदिनेशानां सेना यया तथाविधा विषधराणां सर्पाणामावलिः उड्डीयमानैः परितो दीर्घैरुच्छ्रयेण महद्भिर्महीध्रैर्मग्नेन व्याप्तेनाब्धिना तुल्यं मग्नाब्धिवत् उल्ललास शुशुभे || १२ || उन्नादवज्रमकरोत्करकर्कशान्तः- क्षुब्धाब्धिवीचिवलयैर्वलिताचलेन्द्रैः | आसीज्जगत्सकलमेव सुसंकटाङ्ग- मावृत्तिभिर्विविधहेतिनदीप्रवाहैः || १३ || इदानीं सामुद्रास्त्रमायया समुद्रवेष्टनं वर्णयति - उन्नादेति | वलितो वेष्टितोऽचलेन्द्रो मेरुर्यैस्तथाविधैर्विविधैर्हेतिनदीप्रवाहैः उन्नादस्य वज्रादिरत्नैर्मकरोत्करैश्च कर्कशस्यान्तःक्षुब्धस्याब्धेर्वीचिवलयैः सकलमेव जगत् आवृत्तिभिः परिवर्तनैः सुसंकटाङ्गं पीडितसर्वावयवमासीत् || १३ || शैलास्त्रशस्त्रगरुडाचलचालितोच्च- नागं महासुरगणाङ्गणमन्तरिक्षम् | आसीत्क्षणं जलधिभिः क्षणमग्निपूरैः पूर्णं क्षणं दिनकरैः क्षणमन्धकारैः || १४ || महतां सुराणामसुराणां च युद्धाङ्गणभूतमन्तरिक्षं शैलास्त्रैः शस्त्रैर्मायारचितगरुडैर्बलादुत्पाट्य प्रक्षिप्तैरचलैश्च चालिताः पलायिताः प्राग्वर्णितदृष्टिविषनागा यस्मास्तथाविधं सत्क्षणं जलाधिभिः पूर्णमासीत् | क्षणमग्निपूरैः पूर्णमासीत् | क्षणं दिनकरैः पूर्णमासीत् | क्षणमन्धकारैः पूर्णमासीदिति प्रागुक्तस्यैवानुवादः || १४ || गरुडगुडगुडाकुलान्तरिक्ष- प्रविसृतहेतिहुताशपर्वतौघैः | जगदभवदसह्यकल्पकाले ज्वलितसुरालयभूतलान्तरालम् || १५ || गारुडास्त्रप्रभवैर्गरुडैः | गुडगुडेत्यव्यक्तानुकरणम् | गुडगुडेति ध्वनिभिराकुलेन्तरिक्षे प्रविसृतैर्हेतिहुताशपर्वतानामोघैः प्रवाहैः पुनरपि जगदसह्यकल्पकाल इव ज्वलितसुरालयभूतलान्तरालमभवत् || १५ || उदपतन्नसुरा वसुधातला- द्गगनमद्रितटादिव पक्षिणः | अतिबलादपतन्विबुधा भुवि प्रलयचालितशैलशिला इव || १६ || असुरा वसुधातलात् गगनं उत् ऊर्ध्वं अपतन् | विबुधास्तु ऊर्ध्वदेशाद्भुवि अपतन् || १६ || शरीररूढोन्नतहेतिवृक्ष- वनावलीलग्नमहाग्निदाहाः | सुरासुराः प्रापुरथाम्बरान्तः कल्पानिलान्दोलितशैलशोभाम् || १७ || शरीरे रूढैरुन्नतहेतिवृक्षैः संपन्नासु वनावलीषु लग्नो महानग्निदाहो येषां तथाविधाः सुरासुराः कल्पानिलैरान्दोलितानां भ्राम्यमाणानामर्थाज्ज्वलतां शैलानां शोभां प्रापुः || १७ || सुरासुराद्रीन्द्रशरीरमुक्तै रक्तप्रवाहैरभितो भ्रमद्भिः | वभार पूर्णं परितोऽम्बरोऽद्रेः संध्याकरौघक्षतमङ्ग गङ्गाम् || १८ || अद्रेर्मेरोः परितोऽभितश्चतुर्दिशमम्बर आकाशो नायकः | व्यत्ययेन पुंस्त्वम् | सुरासुरलक्षणानामद्रीन्द्राणां शरीरेभ्यो मुक्तैरभितो भ्रमद्भिः रक्तप्रवाहैः पूर्णं संध्याया नायिकायाः | करौघपदेन करजौघा लक्ष्यन्ते | तेषां क्षतं बभार | अथवा तथाविधरक्तप्रवाहैः पूर्णां गङ्गां बभारेत्युत्प्रेक्षयोर्विकल्पः | अङ्गेति स.बोधने | पूर्णमित्येतन्नखक्षतगङ्गयोर्द्वयोरपि विशेषणम् | स्त्रीनपुंसकयोः नपुंसकमनपुंसकेन इत्येकशेषे एकवद्भावः || १८ || गिरिवर्षणमम्बुवर्षणं विविधोग्रायुधवर्षणं तथा | विषमाशनिवर्षणं च ते सममन्योन्यमथाग्निवर्षणम् || १९ || ते सुरासुराः अनयन् इति परेणान्वयः || १९ || अनयन्नयमार्गकोविदा दलिताशेषगिरीन्द्रभित्तयः | ससृजुश्च समं समन्ततः करिकुम्भेष्विव पुण्यवर्षणम् || २० || पुण्ये पुण्यके उत्सवविशेषे क्रीडार्थं नलिकायन्त्रैर्लाक्षाकुङ्कुमचन्दनादिरसवर्षणमिवेत्यर्थः || २० || देवासुराः समरसंभ्रममाकुलास्ते अन्योन्यमङ्गदलनाकुलहेतिहस्ताः | नागेन्द्रडिम्भपृतनापृथुपीठपेषैः कीर्णश्रियो नभसि बभ्रमुरक्षिपन्तः || २१ || अन्योन्यं समरसंभ्रमं युद्धोत्साहमक्षिपन्तः अत्यजन्तो देवासुरा अङ्गदलने आकुला व्यग्रा हेतियुक्ता हस्ता येषां तथाविधाः सन्तो नागेन्द्राणामैरावतादिदिग्गजानां डिम्भानां सन्ततिभूतानां गनानां पृतनायाः समूहस्य पृथूनां पीठानां पीठसदृशपृष्थानां पेषैरिव पीडाकरैर्गुरुतरसंभारसंभृतारोहऽनिः कीर्णश्रियो विस्तारितशोभा नभसि बभ्रमुरित्यर्थः || २१ || छिन्नैः शिरःकरभुजोरुभरैर्भ्रमद्भि- राकाशकाष्ठशलभैरशिवैस्तदानीम् | आसीज्जगज्जठरमभ्रभरैरिवोग्रै- राभास्करस्थगितदिक्तटशैलजालम् || २२ || आकाशस्य काष्ठानां दिशां च समाहार आकाशकाष्ठं तत्र शलभैः औत्पातिकरक्तपतङ्गविशेषभूतैः आकाशस्यैव फलपुष्पपर्णाद्यनवशेषात्काष्ठसदृशस्य शलभैरिति वा | अभ्राणां मेघानां भरैरतिशयैरिव | अब्भ्रमरैः इति पाठेऽपि अपां भ्रमरैर्मेघैरित्येवार्थः | आभास्करं भास्करपर्यन्तं स्थगितान्याछादितानि दिक्तटानि शैलजालानि च यत्र तथाविधमासीत् || २२ || रटद्भटास्फोटकटिस्फुटद्भिः समीरितैर्हेतिकलासितौघैः | परस्पराघातहतैः पतद्भि- र्जगाम शीर्णा दलशो धरित्री || २३ || सम्यगीरितैः प्रहृतैः रटतां भटानामास्फोटेनास्फालनेन कटिप्रदेशेषु स्फुटद्भिस्त्रुट्यद्भिस्तथा परस्परास्फालहतैरत एव पतद्भिर्हेतिभिः कलाभिर्यन्त्रक्षेपण्यादिकौशलैरसितानां क्षिप्तानां शिलापर्वतादीनामोघैः | इट् छान्दसः | धरित्री शीर्णा सती दलशः खण्डशो जगाम | खण्डिताभूदित्यर्थः || २३ || अन्योन्यमायुधशिलाचलवृक्षवर्षै- र्मेरुप्रमाणकठिनाङ्गनिघर्षणैश्च | आसीद्रणं चटचटास्फुटदन्तरिक्षं कल्पक्षयान्तमिव भीमभरोग्रनादैः || २४ || मेरुप्रमाणानां कठिनानामङ्गानां देहानां निघर्षणैः परस्परसंघट्टनैश्च जनितैर्भीमो भरोऽतिशयो येषां तथाविधैरुग्रनादैः रणं कल्पक्षयान्तमिवासीदित्यर्थः || २४ || मत्तानिलक्षुब्धजलानलार्क- दलद्वयं दीर्घसुरासुरौघम् | ब्रह्माण्डमाखण्डितकुड्यकोण- मकालकल्पान्तकरालमासीत् || २५ || मत्तेन प्रचण्डेनानिलेन क्षुब्धा जलानलावधः अर्कश्च ऊर्ध्वं यत्र तथाविधं दलद्वयं यत्र | दीर्घा मायाविभवैः प्रवृद्धाः सुरासुरौघा यत्र | आखण्डिता विदारिताः प्रान्तकुड्यकोणा यत्र तथाविधं ब्रह्माण्डमकालप्रवृत्तकल्पान्त इव करालं भीषणमासीत् || २५ || भ्रान्तैर्भृशं भरितदिक्तटमद्रिकूटै- रात्मप्रमाणघनहेतिहतै रणद्भिः | कूजद्भिरार्तिभिरिवोग्रगुहोच्चवातैः क्रन्दद्भिरापतितसिंहरवैरदभ्रैः || २६ || पुनस्तत्कीदृशमासीत्तदाह - भ्रान्तैरिति | आत्मप्रमाणैः स्वसदृशायामैर्घनैर्हेतिभिर्हतैः | अत एव भृशं भ्रान्तैः | भ्रमणे च रणद्भिरुग्रगुहोच्चवातैरार्तिभिः कूजद्भिरिव अदभ्रैस्तारैः | आपतितसिंहरवैः क्रन्दद्भिरिव स्थितैरद्रिकूटैर्भरितदिक्तटमासीत् || २६ || मायानदीजलधियोधगनाग्निदाहै- र्वृक्षैः सुरासुरशवैरचलैः शिलोच्चैः | भ्रान्तैः शराशिशितशक्तिगदास्त्रशस्त्रै- र्वातावकीर्णवनपर्णवदन्तरन्तः || २७ || वातावकीर्णवनपर्णवदन्तरन्तर्भ्रान्तैः शरासिप्रभृतिभिर्भरितमसीदित्यनुवर्तते || २७ || अद्रीन्द्रपक्षपरिमाणगमाक्षमोक्त- दुर्वारहस्तिवलदारुणदेहकैर्द्राक् | आसीत्पतद्भटशरीरगिरीन्द्रवात- विभ्रष्टदेवपुरपूर्णजलार्णवौघम् || २८ || पुनस्तत्कीदृशमासीत्तदाह - अद्रीन्द्रेति | अद्रीन्द्रस्य मेरोः पक्षाः प्रत्यन्तपर्वतास्तत्सदृशपरिमाणैरत एव गमनं गमो मनुष्यादीनां संचारस्तन्निरोधकत्वात्तदक्षमैः पूर्वोक्तानां दुर्वारहस्तिबलानां हस्तियुथानां देहकैः शवैर्भरितदिक्तटमासीत् | किंच पतद्भिर्भटशरीरैर्गिरीन्द्रैर्वातविभ्रष्टदेवपुरैश्च पूर्णजलार्णवौघमासीत् || २८ || घनघुंघुमपूरितान्तरिक्षा क्षतजक्षालितभूधरा धरा च | रुधिरहदवृत्तिवर्तिनी वा भुवनाभोगगुहा तदाकुलाभूत् || २९ || किंच तदा भुवनाभोगस्य ब्रह्माण्डस्योदरगुहा घनैर्घुंघुमैर्ध्वनिभिः पूरितान्तरिक्षा | क्षतजैः क्षालिता भूधरास्तदधराः पृथ्वीपातालादयश्च यस्यां तथाविधा | रुधिरह्रद एव वृत्तिराहारो येषां रक्षःपिशाचादीनां त इव वर्तनशीला वा सती आकुलाभूत् || २९ || अनन्तदृक्प्रसृतविकारकारिणी क्षयोदयोन्मुखसुखदुःखशंसिनी | रणक्रियासुरसुरघट्टसंकटा तदाभवत्खलु सदृशीह संसृतेः || ३० || अनन्तदृशामिन्द्रादिदेवानां प्रसृतभयादिविकारकारिणी | अनन्तायां त्रिविधपरिच्छेदशून्यायां दृशि आत्मचैतन्ये प्रसृतजगद्विकारकारिणी च | क्षयोन्मुखानामुदयोन्मुखानां च व्युत्क्रमात्सुखदुःखशंसिनी असुराणां अशास्त्रीयचित्तवृत्तीनां सुराणां शास्त्रीयतद्वृत्तीनां प्रसिद्धानां चासुरसुराणां घट्टनं घट्टः परस्परसमागमस्तेन संकटा दुस्तरा रणक्रिया संसृतेरविद्यादिसंसारस्य सदृशी अभवत् || ३० || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे दामव्यालकटपुनर्युद्धवर्णनं नामाष्टविंशः सर्गः || २८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे दामव्यालकटपुनर्युद्धवर्णनं नामाष्टाविंशः सर्गः || २८ || एकोनत्रिंशः सर्गः २९ श्रीवसिष्ठ उवाच | एवंप्रायाकुलारम्भैरसुरैरसुहारिभिः | सहसा हृतसंरब्धैरारब्धः सुमहान् रणः || १ || प्राप्तदेहाभिमानानां दामादीनां सुरैर्मृधे | विषादो वर्ण्यते पश्चात्पलायनपराजयौ || १ || एवंप्रायाः प्राग्वर्णितप्रकारा आकुला व्यग्रप्राया आरम्भा येषां तैरसुहारिभिरसुरैः सुमहान् रण आरभ्दः || १ || माययाथ विवादेन सन्धिना विग्रहेण च | पलायनेन धैर्येण च्छन्नगोपायनेन च || २ || स संगरो देवैः कदाचिन्मायया विवादेन वाग्युद्धमात्रेण दानाद्युपायैः सन्धिना कदाचिद्विग्रहेण कदाचित्पलायनेन प्रच्छन्नतया स्थित्वा स्वजनगोपायनेन || २ || कार्पण्येनास्त्रयुद्धेन स्वान्तर्धानैश्च भूरिशः | धृतः स संगरो देवैस्त्रिंशद्वर्षाणि पञ्चकम् || ३ || कदाचित्कार्पण्येन कृपणवच्छरणागतियाञ्चादिना स संगरो विधृतः | तत्राद्यः संग्रामस्त्रिंशद्वर्षाणि विधृतः | द्वितीयस्तु पञ्चकं वर्षाणि अष्टौ मासान्दश दिवसान्विधृतः | तृतीयस्तु सप्त पञ्च चेति द्वादशदिवसान्विधृतः | तावत्कालं द्वयोरपि सेनयोर्वृक्षाणामग्नीनां हेतीनामेकेषां मुख्यानामशनीनां भूभृतां पर्वतानां च वर्षाणि वृष्टयः पेतुरित्यर्थः || ३ || वर्षाणि दिवसान्मासान्दशाष्टौ सप्त पञ्च च | वर्षाणि पेतुर्वृक्षाग्निहेत्येकाशनिभूभृताम् || ४ || एतावता तु कालेन दृढाभ्यासादहंकृतेः | दामादयोऽहमित्यास्थां जगृहुर्ग्रस्तचेतसः || ५ || ग्रस्तचेतसो वासनयेति शेषः || ५ || नैकट्यातिशयाद्यद्वद्दर्पणं बिम्बवद्भवेत् | अभ्यासातिशयात्तद्वत्ते साहंकारतां गताः || ६ || अभिमानाभ्यासस्याहंकारदार्ढ्यहेतुतां दृष्टान्तेन दर्शयति - नैकट्यादिति || ६ || यद्वद्दूरगतं वस्तु नादर्शे प्रतिबिम्बति | पदार्थवासना तद्वदनभ्यासान्न जायते || ७ || उत्पन्नापि वासना चिरमभ्यासत्यागेन नश्यतीत्याशयेनाह - यद्वदिति | दूरगतं दूरपरित्यक्तं न प्रतिबिम्बति प्रतिबिम्बभावादपैति | अनभ्यासादभ्यासपरित्यागात् || ७ || यदा दामादयो जाता अहंकारात्मवासनाः | तदा मे जीवितं मेऽर्थ इति दैन्यमुपागताः || ८ || अहंकार एवात्मेति वासना येषां ते अहंकारात्मवासनाः | जीवितं जीवनं मे स्यात् तदर्थं मे अर्थो धनं स्यादित्याशया दैन्यमुपागताः || ८ || भववासनया ग्रस्ता मोहवासनया ततः | आशापाशनिबद्धास्ते ततः कृपणतां गताः || ९ || ततः भवत्यस्मादिति भवो विहितनिषिद्धप्रवृत्तिस्तद्वासनया ग्रस्ताः | देहो मे सदैवारोगदृढभोगक्षमोऽस्त्वित्यादिमोहवासनया || ९ || मुग्धेव ह्यनहंकरैर्ममत्वमुपकल्पितम् | रज्ज्वां भुजङ्गत्वमिव दामव्यालकटैस्ततः || १० || मुग्धेव ह्यनहंकारैः इति पाठे मुग्धेव कृपणतां गता इति पूर्वेणान्वयः | शुद्धैरप्यनहंकारैः इति पाठे तु वस्तुतः शुद्धैरपि दामादिभिर्ममत्वमुपकल्पितमिति स्पष्टोऽर्थः || १० || आपादमस्तको देहः कथं मे भवतु स्थिरः | ममेति तृष्णाकृपणा दीनतां ते समाययुः || ११ || ममेति तृष्णाया एव विवरणमापादमस्तक इति || ११ || स्थिरो भवतु मे देहः सुखायास्तु धनं मम | इति बद्धधियां तेषां धैर्यमन्तर्द्धिमाययौ || १२ || सवासनत्वाद्वपुषामल्पसत्त्वात्सुरद्विषाम् | या तु प्रहारपरता मार्जितेवाशु साभवत् || १३ || सुरद्विषां दामादीनां या प्राक् प्रसिद्धा प्रहारपरता सा अल्पसत्त्वान्न्यूनबलत्वान्मार्जितेव लिपिः कार्याक्षमा अभवत् || १३ || कथं सुरा जगत्यस्मिन्भवाम इति चिन्तया | विवशा दीनतां जग्मुः पद्मा इव निरम्भसः || १४ || सुरा अमराः कथं भवाम इति चिन्तया || १४ || तेषां योषान्नपानेन स्वाहंकृतिमतां रतिः | बभूव भावभावस्था भीषणा भवभाजिनी || १५ || भावा विषयास्तेषां भावनं भावस्तत्स्था अत एव भवं भाजयति प्रापयति तच्छीला || १५ || अथ तस्मिन्रणे भीत्या सापेक्षत्वमुपाययुः | मत्तेभगनसंरब्धे वने हरिणका इव || १६ || सापेक्षत्वं जीवने इति शेषः | मत्तेभैर्युधाय घनं संरब्धे कुपिते || १६ || मरिष्यामो मरिष्याम इति चिन्ताहताशयाः | मन्दं मन्दं किल भ्रेमुः कुपितैरावणे रणे || १७ || कुपितः ऐरावण ऐरावतो यत्र || १७ || शरीरैकार्थिनां तेषां भीतानां मरणादपि | अल्पसत्त्वतया मूर्ध्नि कृतमेव परैः पदम् || १८ || परैः शत्रुभिः || १८ || अथ प्रम्लानसत्त्वास्ते हन्तुमग्रगतं भटम् | न शेकुरिन्धने क्षीणे हविर्दग्धुमिवाग्नयः || १९ || विबुधानां प्रहरतां मशकत्वमुपागताः | क्षतविक्षतसंघातास्तस्थुः सामान्यसद्भटाः || २० || सामान्या इतरे सद्भटा इव सामान्यसद्भटाः || २० || बहुनात्र किमुक्तेन मरणाद्भीतचेतसः | दैत्या देवेषु वल्गस्तु दुद्रुवुः समराजिरात् || २१ || वल्गत्सु अभिपतत्सु || २१ || तेषु द्रवत्सु भीतेषु सर्वतो दानवादिषु | दामव्यालकटाख्येषु विख्यातेषु सुरालये || २२ || तद्दैत्यसैन्यं न्यपतद्विद्रुतं खादितस्ततः | कल्पान्तपवनोद्भूतं [पवनोद्धूतं इति पाठः] ताराजालमिवाभितः || २३ || खात् नभसः || २३ || अमराचलकुञ्जेषु शिखराणां शिखासु च | तटेषु वारिराशीनां पयोदपटलेषु च || २४ || अमराचलकुञ्जेष्वित्यादिसप्तम्यन्तपदानां सर्वेषां पतितास्ते सुरारय इत्यत्र [एकोनत्रिंशश्लोक इति भावः] संबन्धः || २४ || सागरावर्तगर्तेषु श्वभ्रेषूद्यत्सरित्सु च | जङ्गलेषु दिगन्तेषु ज्वलत्सु विपिनेषु च || २५ || उद्यन्तीषु प्रवृद्धासु सरित्सु | कर्मधारये पुंवद्भावः || २५ || तद्बाणोच्छिन्नदेशेषु ग्रामेषु नगरेषु च | अटवीषूग्रपक्षासु मरुभूमिदवाग्निषु || २६ || तेषां देवासुराणां बाणैरुच्छिन्नेषु देशेषु | उग्राणां क्रूराणां सिंहव्याघ्ररक्षसां पक्षासु परिग्रहभूतासु || २६ || लोकालोकाचलान्तेषु पर्वतेषु ह्रदेषु च | आन्ध्रद्रविडकाश्मीरपारसीकपुरेषु च || २७ || नानाम्भोधितरङ्गासु गङ्गाजलघटासु च | द्विपान्तरेषु जालेषु जम्बुखण्डलतासु च || २८ || सहस्रमुखैर्गङ्गायाः समुद्रप्रवेशादेकोऽप्यम्भोधिः प्रदेशभेदेन नानेति नानाम्भोधिषु तरङ्गा यासां तासु | द्वीपान्तरेषु मत्स्यबन्धनाय प्रसारितेषु जालेषु | जम्बूखण्डा देशभेदाः || २८ || सर्वतः पर्वताकाराः पतितास्ते सुरारयः | विस्फोटिताङ्गचरणा विभिन्नकरबाहवः || २९ || पतितानेव विशिनष्टि - विस्फोटिताङ्गेत्यादिना || २९ || शाखालग्नान्त्रतन्त्रीका मुक्तरक्तभरच्छटाः | व्यस्तशेखरमूर्धानो निष्क्रान्ताः कुपितेक्षणाः || ३० || मुक्ता रक्तभरच्छटा यैः | निष्क्रान्ता नितरां विक्षिप्तपादाः || ३० || सायुधा बलमायेषुच्छिन्नकङ्कटहेतयः | दूरापातविपर्यस्तपतन्नानायुधांशुकाः || ३१ || बलैर्मायाभिरिषुभिश्च च्छिन्नाः कङ्कटा वारबाणा हेतयश्च येषाम् | दूरमापातेन पलायनेन विपर्यस्ताः पतन्तो नानायुधानामंशुकानां च समाहारा येषाम् || ३१ || कण्ठलम्बिशिरस्त्राणचटत्कारोग्रभीतयः | शिखाशतशिलाप्रोता देहभागविलम्बिनः || ३२ || कण्ठविलम्बिनां शिरस्त्राणानां चटत्कारैरुग्रा भीतिर्येषाम् | ग्रन्थिताग्रैः शिखाशतैः पर्वताग्रशिलासु प्रोताः | अत एव देहभागर्विलम्बिनो लम्बमानाः || ३२ || शाल्मल्युग्रदृढापातकटत्कण्टकसंकटाः | सुशिलाफलकास्फालशतधाशीर्णमस्तकाः || ३३ || शाल्मलीषु सकण्टकत्वादृढापाते कटद्भिः कण्टकैः संकटं दुःखं येषाम् || ३३ || सर्व एव सकलायुधशस्त्र- पातमात्रसमनन्तरमेव | दिक्षु नाशमगमन्नसुरेन्द्राः पांसवोऽम्बुदनिधौ पयसीव || ३४ || उपसंहरति - सर्व एवेति | इत्थं सर्व एवासुरेन्द्राः सकलानामायुधानां शस्त्राणां च पातमात्राद्युद्धारम्भात्समनन्तरमेव दिक्षु नाशमदर्शनमगमन् | यथाम्बुदानां निधौ वर्षर्तौ पयसि जले पांसवो नाशं गच्छन्ति तद्वदित्यर्थः || ३४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे दामव्यालकटोपाख्याने असुरपरिभ्रंशो नामैकोनत्रिंशः सर्गः || २९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे असुरपरिभ्रंशो नामैकोनत्रिंशः सर्गः || २९ || त्रिंशः सर्गः ३० श्रीवसिष्ठ उवाच | इति तुष्टेषु देवेषु दानवेषु हतेषु च | दामव्यालकटा [दामव्यालकटादीनां इति षष्ठीबहुवन्वनान्तः पाठः प्राङ्मुद्रिते आदर्शान्तरे च लभ्यते तत्स्वारस्यं तु धीधिषणेभ्य एव समधिगन्तव्यम्] दीना बभूवुर्भयविह्वलाः || १ || पाताले यमदग्धानामत्र जन्मपरम्परा | काश्मीरदेशमत्स्यान्ता दामादीनां प्रकीर्त्यते || १ || इत्यनया रीत्या दानवेषु हतेषु सत्सु | देवेषु तुष्टेष्विति पाठक्रमादर्थक्रमबलीयस्त्वाद्योज्यम् | दीना विषण्णाः || १ || जज्वाल कुपितः क्वेति कल्पान्ताग्निरिव ज्वलन् | शम्बरः शमितानीको दामव्यालकटान्प्रति || २ || शम्बरो दामव्यालकटान्प्रति कुपितः सन् क्वेति पृच्छन् जज्वालेत्यर्थः || २ || शम्बरस्य भयाद्गत्वा पातालमथ सप्तमम् | दामव्यालकटास्तस्थुस्त्यक्त्वाथ निजमण्डलम् || ३ || सप्तमं पातालमेव विशिनष्टि - यमस्येति | तत्रापि शम्बराद्भयं किं न स्यादिति शङ्कां वारयितुं कालत्रासनक्षमा इति | कालो मृत्युरिवान्येषां त्रासनक्षमा इत्यर्थः || ४ || यमस्य किङ्करा यत्र ये कालत्रासनक्षमाः | कुतूहलेन तिष्ठन्ति नरकार्णवपालकाः || ४ || ते तेषामथ यातानां दत्त्वा भयमभीरवः | चिन्ता इव घनाकाराः कुमारीश्च ददुः क्रमात् || ५ || यातानां शरणमिति शेषः | त्रिभ्यस्तिस्रः कुमारीः कन्या घनाकारा मूर्तिमतीश्चिन्ता इव स्थिता इत्यर्थः || ५ || तैः सार्धं नीतवन्तस्ते तत्र दामादयोऽवधिम् | दशवर्षसहस्रान्तमान्तानन्तकुवासनाः || ६ || अवधिं आयुःशेषम् || ६ || इयं मे कामिनी कन्या ममेयं प्रभुतेति च | दुरूढस्नेहबन्धानां कालस्तेषां व्यवर्तत || ७ || आत्तानन्तकुवासनाः प्रपञ्चयति - इयमिति || ७ || धर्मराजोऽथ तं देशं कदाचित्समुपाययौ | महानरककार्याणां विचारार्थं यदृच्छया || ८ || धर्मराजो यमः || ८ || अपरिज्ञातमेनं ते धर्मराजं त्रयोऽसुराः | न प्रणेमुर्विनाशाय सामान्यमिव किङ्करम् || ९ || छत्रचामरादिलिङ्गादर्शनाद्यमराजोऽयमित्यपरिज्ञातम् || ९ || अथ वैवस्वतेनैते ज्वलितासूग्रभूमिषु | विहितभ्रूपरिस्पन्दमात्रेणैव निवेशिताः || १० || ज्वलितासु रौरवाद्युग्रनरकभूमिषु | तासु हि शतयोजनपर्यन्तं जानुमितज्वलदङ्गारादयः प्रसिद्धाः || १० || तत्र ते करुणाक्रन्दाः ससुहृद्दारबन्धवः | प्रदग्धाः पर्णविटपा वृक्षा इव वनानिलैः || ११ || पर्णान्येव विटपाः शाखा येषां ते पर्णविटपाः | बाला इति यावत् || ११ || स्वया वासनया जातास्तयैव क्रूरया पुनः | बन्धकर्मकराकाराः किराता राजकिङ्कराः || १२ || वधबन्धकर्मकरयमकिङ्करसहवासात्तादृशवासनया बन्धकर्मकराकाराः किङ्कराश्च | एवमग्रेऽप्यूहम् || १२ || तज्जन्माथ परित्यज्य जाताः श्वभ्रेषु वायसाः | तदन्ते गृध्रतां यातास्ततोऽपि शुकतां गताः || १३ || सूकरत्वं त्रिगर्तेषु मेषत्वं पर्वतेषु च | मगधेष्वथ कीटत्वं बभ्रुस्ते [ते वक्रबुद्धय इति पाठः] च कुबुद्धयः || १४ || ते बभ्रुः | दधुरित्यर्थः || १४ || अनुभूयेतरामन्यां चित्रां योनिपरम्पराम् | अद्य मत्स्याः स्थिता राम काश्मीरारण्यपल्वले || १५ || मत्स्या भूत्वेति शेषः || १५ || दावाग्निक्वथिताल्पाल्पपङ्ककल्पाम्बुपायिनः | न म्रियन्ते न जीवन्ति जरज्जम्बालजर्जराः || १६ || जरज्जम्बालं जीर्णपङ्कस्तेषु जर्जराः श्लथदेहाः || १६ || विचित्रयोनिसंरम्भमनुभूय पुनःपुनः | भूत्वा भूत्वा पुनर्नष्टास्तरङ्गा जलधाविव || १७ || उक्तमेवानुवदति - विचित्रेति || १७ || भवजलधिगतास्ते वासनातन्तुनुन्ना- स्तृणमिव चिरमूढा देहरूपैस्तरङ्गैः | उपशममुपयाता राम नाद्याप्यनन्तं परिकलय महत्त्वं दारुणं वासनायाः || १८ || उपसंहरति - भवजलधीति | वासनातन्तुभिर्नुन्नाः प्रेरिताः सन्तो देहरूपैस्तरङ्गैस्तृणमिव चिरं ऊढा नानाप्रदेशं प्रापितास्ते अद्यापि अनन्तं अपरिच्छेद्यफलं उपशमं नोपयाताः | वासनाया दारुणं विदारुणं महत्त्वं | महानर्थरूपत्वमिति यावत् | परिकलय | अनेनैव दृष्टान्तेन सर्वत्र पश्येत्यर्थः || १८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपाये स्थितिप्रकरणे दामव्यालकटजन्मान्तरचित्रवर्णनं नाम त्रिंशः सर्गः || ३० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे दामव्यालकटजन्मान्तरचित्रवर्णनं नाम त्रिंशः सर्गः || ३० || एकत्रिंशः सर्गः ३१ श्रीवसिष्ठ उवाच | अतः प्रबोधाय तव वच्मि राम महामते | दामव्यालकटन्यायो मा तेऽस्त्विति तु लीलया || १ || अर्थच्युतिरनर्थाप्तिरहंमानादिहोच्यते | तथा दामादिभावानां सत्त्वासत्त्वनिराक्रिया || १ || पूर्वोक्तं स्मारयन् प्रकृतकथां तत्र योजयति - अत इति || १ || अविवेकानुसंधानाच्चित्तमापदमीदृशीम् | अनन्तभवदुःखाय परिगृह्णाति हेलया || २ || अविवेकानुसंधानाद्विवेकानुसंधानाभावात् | ईदृशीं अभिमानलक्षणां आपदम् || २ || क्व किलामरविध्वंसिशम्बरानीकनाथता | क्व तापतप्तजम्बालजालजर्जरमीनता || ३ || प्राक्तननिरभिमानितायाः पश्चात्तनाभिमानस्य च फलतो महदन्तरं दर्शयति - क्व किलेत्यादिना || ३ || क्व धैर्यममरानीकविद्रावणकरं महत् | क्व किरातमहीपालक्षुद्रकिङ्कररूपता || ४ || क्व नाम निरहङ्कारचित्सत्त्वोदारधीरता | क्व मिथ्यावासनावेशादहङ्कारकुकल्पना || ५ || स्वरूपतोऽप्यन्तरमाह - क्व नामेति || ५ || शाखाप्रतानगहना संसारविषमञ्जरी | अहङ्काराङ्कुरा देव समुदेतीयमातता || ६ || मञ्जरीपदेन तत्प्रधाना वल्ली गृह्यते || ६ || अहङ्कारमतो राम मार्जयान्तः प्रयत्नतः | अहं न किंचिदेवेति भावयित्वा सुखी भव || ७ || केनोपायेन तन्मार्जनं तमाह - अहं न किंचिदेवेति | दृश्ये जडे सर्वत्रेदंत्वस्यैव दर्शनादहंत्वायोगादृक्स्वरूपे अहङ्कारादिसर्वसाक्षिण्यभिमानधर्मकत्वाघटनेनाहंत्वायोगादृग्दृस् ह्यव्यतिरिक्तस्य चालीकत्वादहंत्वास्पदं न किंचिदेवेति तत्त्वतो भावयित्वेत्यर्थः || ७ || अहङ्काराम्बुदच्छन्नं परमार्थेन्दुमण्डलम् | रसायनमयं शीतमदृश्यत्वमुपागतम् || ८ || अहङ्कारस्यानर्थहेतुतामुक्त्वा अर्थविघातकतामाह - अहङ्कारेति | रसायनमयमानन्दैकरसम् | अमृतमयं शीततापत्रयशून्यं [अत्र शीतं तापत्रयशून्यं च इति पाठः साधीयान्] च || ८ || अहङ्कारपिशाचार्ता दामव्यालकटास्त्रयः | गताः सत्तामसन्तोऽपि मायामाहात्म्यदानवाः || ९ || सत्तां जन्ममरणप्रवाहे स्थितिम् | प्राक्तत्रासन्तोऽपि मायामाहात्म्यप्रयुक्ता दानवा दामादयः || ९ || काश्मीरेषु महारण्यसरसीवनपल्वले | अद्य मत्स्याः स्थिता राम शैवाललवलालसाः || १० || शैवाललवेषु लालसा अत्यन्तं साभिलाषाः || १० || श्रीराम उवाच | नासतो विद्यते भावो नाभावो विद्यते सतः | ते ह्यसन्तः कथं सत्तां संपन्ना इति मे वद || ११ || असन्तोऽपि सत्तां गता इत्येतच्छ्रुत्वा रामस्तदनुपपत्तिं शङ्कते - नासत इति || ११ || श्रीवसिष्ठ उवाच | एवमेतन्महाबाहो नासत्संभवति क्वचित् | कदाचित्किंचिदप्येव बृहत्संपद्यते तनु || १२ || स्वाभिप्रेतं विशेषं वक्तुं प्रथमं रामोक्तिमभ्युपगम्य वसिष्ठः परिहारमारभते - एवमेतदिति | सत्यं कदाचिदपि किंचिदपि नासत्संभवति किंतु तनु सूक्ष्ममेव सदाविर्भावेन बृहत्संपद्यते सैवोत्पत्तिर्बृहत्तिरोभावेन तनु संपद्यते स एव विनाश इत्यर्थः || १२ || किमसत्संस्थितं ब्रूहि किं तत्सद्वाथ संस्थितम् | सम्यङ्गिदर्शनेनैव करिष्ये तव बोधनम् || १३ || अस्त्वेवं तथापि अनात्मवस्तुषु सत्त्वासत्त्वविभाग एव दुर्निरूप इति विवक्षू रामं पृच्छति - किमिति || १३ || श्रीराम उवाच | सन्त एव स्थिताः सन्तो ब्रह्मन्वयमिमे किल | दामादयस्त्वसन्तोऽपि वक्षि सन्तः स्थिता इति || १४ || ननु अस्मदादीनां सत्त्वं प्रत्यक्षादिप्रमाणसिद्धं दामादीनां मायामात्रत्वादसत्त्वं त्वयैवोक्तं तथाच कथं तेषां पुनः सत्त्वं विप्रतिषिद्धं वदसि को वा तवाभिप्राय इत्यर्थः || १४ || श्रीवसिष्ठ उवाच | यथा दामादयो राम स्थिता मायामया इति | असत्या एव सत्याभा मृगतृष्णाम्बुपूरवत् || १५ || यद्यस्मदादिशरीराणां व्यावहारिकप्रमाणव्यवहारयोग्यत्वात्सत्त्वं मन्यसे तर्हि दामादीनामपि तत्तुल्यम् | अथ तत्त्वज्ञानबाध्यत्वाद्दुर्वचत्वाद्वा असत्त्वं मन्यसे तदपि तुल्यमिति न विप्रतिषेध इत्याशयेन वसिष्ठ उत्तरमाह - यथेत्यादिना || १५ || तथैवेमे वयमपि ससुरासुरदानवाः | असत्या एव वल्गामो याम आयाम एव च || १६ || अलीकमेव त्वद्भावो मद्भावोऽलीकमेव च | अनुभूतोऽप्यसद्रूपः स्वप्ने स्वमरणं यथा || १७ || त्वद्भावो रामशरीरभावः मद्भावो वसिष्ठशरीरभावः || १७ || मृतो बन्धुर्यथा स्वप्नेऽप्यनुभूतोऽप्यसन्मयः | मृतोऽयमिति चेज्ज्ञप्तिर्भवेदेवमिदं जगत् || १८ || एषातिमूढविषय उक्तिरेव न राजते | अभ्यासेन विनोदेति नानुभूतेरपह्नवः || १९ || जगत्सत्यतानिश्चयवानतिमूढस्तद्विषये तं प्रति एषा अलीकत्वोक्तिर्न राजत एव | कुतस्तत्राह - अभ्यासेनेति | परमार्थतत्त्वविचाराभ्यासेन विना जगत्सत्यत्वानुभूतेरपह्नवोऽपलापो नोदेति || १९ || निश्चयोऽन्तःप्ररूढो यः संपन्नोऽभ्यसनं विना | नाशमायाति लोकेऽस्मिन्न कदाचन कस्यचित् || २० || एवं पूर्वोत्पन्नदुःसंस्कारनाशोऽपि शास्त्रार्थतत्त्वाभ्यासं विना नोदेतीत्याह - निश्चय इति || २० || इदं जगदसद्ब्रह्म सत्यमित्येव वक्ति यः | तमुन्मत्तमिवोन्मत्तो विमूढोऽपि हसत्यलम् || २१ || अत एव ह्यनधिकारिण्युपदेशवाक्यमुन्मत्तप्रलपितप्रायत्वाद##- अक्षीबक्षीबयोरैक्यं क्व किलेहाज्ञतज्ज्ञयोः | अन्धप्रकाशयोर्बोधे स्याच्छायातपयोरिव || २२ || यद्यज्ञान्नोपदिशेत्तैः सहाज्ञचेष्टाभिरेव ज्ञोऽपि व्यवहरेत्तर्हि सोऽप्यज्ञः स्यात् तथा चाज्ञतज्ज्ञयोरैक्यं स्यादित्याशङ्क्याह - अक्षीबेति | क्षीबो मदिरामत्तः अक्षीबो विमदस्तयोरैक्यं क्व स्यात् | अन्धयतीत्यन्धं तमः | प्रकाशः सूर्यादिः || २२ || यत्नेनाप्यनुभूतोऽर्थः सत्ये कर्तुमपह्नवम् | अज्ञोऽन्तश्च न शक्नोति शवमाक्रमणं यथा || २३ || इतोऽप्यज्ञो नोपदेश्य इत्याह - यत्नेनेति | अज्ञो महतापि यत्नेन बोध्यमानोऽपि अन्तर्बहिश्च मनोबुद्ध्यादिभेदेन रूपरसादिभेदेन चानुभूतो द्वैतरूपो योऽर्थस्तस्य सत्ये अधिष्ठाने अपह्नवं नेतिनेतीति बाधं कर्तुं न शक्नोति | यथा शवं कुणपं आक्रमणं स्वपद्भ्यां भ्रमणं कर्तुं न शक्नोति तद्वत् | नचाप्यस्तापह्नवं विना अधिष्ठानतत्त्वं बोद्धुं शक्यमिति व्यर्थस्तदुपदेशः स्यादित्यर्थः || २३ || ब्रह्म सर्वं जगदिति वक्तुं नाज्ञस्य युज्यते | तपोविद्याननुभवे स तदेवानुभूतवान् || २४ || तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इति ज्ञानाधिकारसिद्धये तप उपासनादिविधानादपि तदसंस्कृतोऽज्ञो नोपदेशार्ह इत्याह - ब्रह्मेति | यतस्तपोविद्यादीनामननुभवे अनुभवप्रयुक्तसंस्काराभावे सति सोऽज्ञस्तत्प्रसिद्धं संसारिदेहाद्यात्मभावमेवानादिकालमनुभूतवान्न कदापि असंसार्यात्मभावमित्यर्थः || २४ || अबुद्धविषये ह्येषा राम वाक्प्रविराजते | बुद्धस्यास्मीति रूपेण किल नास्त्येव किंचन || २५ || क्व तर्ह्युपदेशवाग्विराजते तत्राह - अबुद्धेति | अनुदरा कन्येतिवदल्पार्थो नञ् समस्यते | अल्पबुद्धविषये इत्यर्थः | बुद्धस्य सम्यग्बोधवतस्तु अस्मीति अहंकारपरामर्शिरूपेण पराम्रष्टुं किंचिदपि नास्त्येवेति सोऽपि नोपदेशार्ह इत्यर्थः | तथाचोक्तमुपक्रमे नात्यन्तमज्ञो नोत ज्ञः सोऽस्मिञ्छास्त्रेऽधिकारवान् इति || २५ || ब्रह्मैवेदं परं शान्तमित्येवानुभवन्सुधीः | अपह्नवः स्वानुभूतेः कर्तुं तस्य क्व युज्यते || २६ || अस्मीति बोद्धुमशक्त्याहं ब्रह्मास्मीति वाक्यार्थबोधज्ञस्यानधिकारवन्निषेध्याप्रसिद्धेर्नेतीत्यपह्नववाक्यार्थबो धे पि ज्ञस्यानधिकारमाह - ब्रह्मैवेति || २६ || परस्माद्व्यतिरेकेण नाहमात्मनि किंचन | हेमनीवोर्मिकादित्वं न मययस्ति विशिष्टता || २७ || ननु हेमन्यूर्मिकादेरिवाहंकारस्यैव ब्रह्मण्य ह्वोऽज्ञेन कुतो न क्रियते तत्राह - परस्मादिति | यतः आत्मनि अहंपदवाच्यं परस्माद्व्यतिरेकेणोर्मिकादिकमिव प्रातीतिकमपि ज्ञस्य किंचिन्नास्तीत्यर्थः | न मयीति | यतोऽद्वये मयि विशिष्टता भ्रान्त्यापि नास्ति यत्र विशेषणापह्नवः क्रियेतेत्यर्थः || २७ || भूतता व्यतिरेकेण मूढे नात्मनि किंचन | ऊर्म्यादिबुद्धौ हेमेव ज्ञे नास्ति परमार्थता || २८ || ज्ञदृष्ट्या जगदिवाज्ञदृष्ट्या परमार्थोऽप्यत्यन्तासन्नेवेति तस्य तदस्तिता न बोधयितुं शक्येत्याशयेनाह - भूततेति | भूतता पाञ्चभौतिककार्यकारणमात्रात्मता || २८ || मिथ्याहंतामयो मूढः सत्यैकात्ममयः सुधीः | युज्यते न क्वचिन्नाम स्वभावापह्नवोऽनयोः || २९ || उक्तमेव संक्षिप्य स्फुटमाह - मिथ्येति द्वाभ्याम् || २९ || यो यन्मयस्तस्य तस्मिन्युज्यतेऽपह्नवः कथम् | पुरुषस्य घटोऽस्मीति वाक्यमुन्मत्तमेव हि || ३० || अन्यात्मतानिश्चयवतस्तदन्यात्मतोपदेशवैयर्थ्ये दृष्टान्तमाह - पुरुषस्येति || ३० || तस्मान्नेमे वयं सत्या नच दामादयः क्वचित् | असत्यास्ते वयं चेमे नास्ति नः खलु संभवः || ३१ || औपोद्धातिकं समाप्य प्रस्तुतमुपपादितमुपसंहरति - तस्मादिति | इमे प्रत्यक्षगम्यवसिष्ठरामादिदेहात्मना प्रसिद्धा वयं शास्त्रदृशा न सत्याः | विद्वदनुभवदृशाप्यसत्याः | यौक्तिकदृशापि न संभवः | सद्भावो नास्तीत्यर्थः || ३१ || सत्यं संवेदनं शुद्धं बोधाकाशं निरञ्जनम् | सत्यं सर्वगतं शान्तमस्त्यनस्तमयोदयम् || ३२ || किं तर्हि सत्यं तदाह - सत्यमिति | संवेदनमेव [संवेदनामव इति पाठः] शास्त्रदृशापि सत्यं विद्वदनुभवतोऽपि सत्यं यौक्तिकदृशापि तदेवानस्तमयोदयमस्तीत्यर्थः || ३२ || सर्वं शान्तं च निःशून्यं न किंचिदिव संस्थितम् | तत्र व्योम्नि विभान्तीमा निजा भासोऽङ्ग सृष्टयः || ३३ || सर्वं जगच्छान्तं उपरतम् | किं शून्यपरिशेषेण नेत्याह - निःशून्यमिति | निरस्तशून्यम् | तर्हि कथं शान्तं तत्राह - न किंचिदिवेति | सर्वशून्यमिव नतु शून्यमेव | सन्मात्रपूर्णभावेन स्थितमित्यर्थः | निजाः भासः अन्यथाप्रथाः || ३३ || यथा तैमिरिकाक्षस्य सहजा एव दृष्टयः | केशोण्ड्रकादिवद्भान्ति तथेमास्तत्र दृष्टयः || ३४ || सतः असत्सदाकारेण प्रथा क्व दृष्टेति चेत्तदाह - यथेति || ३४ || स आत्मानं यथा वेत्ति तथानुभवति क्षणात् | चिदाकाशस्ततोऽसत्यमपि सत्यं तदीक्षणात् || ३५ || स सत्यात्मा आत्मानं यथा येन येन प्रकारेण वेत्ति तथैव क्षणादनुभवति | ततस्तस्मात्तदीक्षणात् सत्यात्मदृष्टिबलादसत्यमपि सत्यमिव क्षणाद्भवतीत्यर्थः || ३५ || न सत्यमस्ति नासत्यमिति तस्माज्जगत्त्रये | यद्यथा वेत्ति चिद्रूपं तत्तथोदेत्यसंशयम् || ३६ || यदि सत्येक्षणात्सत्यं स्वतस्तर्हि जगत्किंरूपमस्ति तत्राह - न सत्यमिति || ३६ || यथा दामादयस्तद्वदेवमभ्युदिता वयम् | सत्यासत्याः किमत्राङ्ग तान्प्रत्यपि विकल्पना || ३७ || एवं प्रसिद्धेन वसिष्ठरामाद्याकारेण | तान् दामादीन् | अपिशब्द एवकारार्थे || ३७ || अस्यानन्तस्य चिद्ब्योम्नः सर्वगस्य निराकृतेः | चिदुदेति यथा यान्तस्तथा सा तत्र भात्यलम् || ३८ || या चित् अन्तः यथा यादृशाकारेण उदेति || ३८ || यत्र दामादिरूपेण संवित्प्रकचिता स्वयम् | तथा सा तत्र संपन्ना तथाकारानुभूतितः || ३९ || उक्तमेवोदाहृत्य दर्शयति - यत्रेति || ३९ || अस्मदादिस्वरूपेण संविद्यत्रोदिता स्वयम् | तथासौ तत्र संपन्ना तथाकारानुभूतितः || ४० || स्वस्वप्नप्रतिभासस्य जगदित्यभिधा कृता | चिद्व्योम्नो व्योमवपुषस्तापस्येव मृगाम्बुता || ४१ || तापस्य मरुमयूखस्य || ४१ || यत्र प्रबुद्धं चिद्व्योम तत्र दृश्याभिधा कृता | यत्र सुप्तं तु तेनैव तत्र मोक्षाभिधा कृता || ४२ || यत्र जगद्विषये प्रबुद्धं जागरूकम् | बाह्यार्थोपलब्धिरूपमिति यावत् | यत्र अद्वितीयस्वप्रकाशे स्वात्मनि प्रसुप्तं बाह्योपलब्धिरहितं तत्र तेनैव चिद्व्योम्नैव | तथाच श्रुतिः यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इति || ४२ || नच तत्क्वचिदासुप्तं न प्रबुद्धं कदाचन | चिद्व्योम केवलं दृश्यं जगदित्यवगम्यताम् || ४३ || इदं तु बोधनायावस्थाद्वयं सादृश्यकल्पनयोक्तं परमार्थतस्त्वाह ##- निर्वाणमेव सर्गश्रीः सर्गश्रीरेव निर्वृतिः | नानयोः शब्दयोरर्थभेदः पर्याययोरिव || ४४ || यदा दृश्यं केवलं चिद्व्योमैव तदा सर्गनिर्वाणयोर्भेदो निवृत्त इत्याह - निर्वाणमेवेति || ४४ || परमार्थो जगदिति रूपं वेत्ति स्वयं स्वकम् | यथा तैमिरिकं चक्षुः केशोण्ड्रकमिवेक्षते || ४५ || उक्तमुपपादयति - परमार्थ इति द्वाभ्याम् | स्वयं अज्ञानोपहित आत्मा || ४५ || न तत्केशोण्ड्रकं किंचित्सा हि दृष्टिस्तथा स्थिता | नेदं दृश्यमिदं किंचिदित्थं चिद्व्योम संस्थितम् || ४६ || सर्वत्र सर्वमिदमस्ति यथानुभूतं नो किंचन क्वचिदिहास्ति न चानुभूतम् | शान्तं सदेकमिदमाततमित्थमास्ते संत्यक्तशोकभयभेदमतस्त्वमास्स्व || ४७ || अध्यारोपदृष्टौ सर्वत्रगे चिद्व्योम्नि सर्वारोपसंभवात्सर्वत्र सर्वमस्ति अपवाददृष्टौ तु क्वचिदपि किंचिन्नास्ति | इत्थमुक्तप्रकारद्वयेऽपि इदं जगत् शान्तं निरस्तभेदं अत एवैकं सत् ततं पूर्णमास्ते | अतस्त्वमपि संत्यक्तशोकभयभेदं यथा स्यात्तथा पूर्ण आस्स्वेत्यर्थः || ४७ || शिलोदराकारघनं प्रशान्तं महाचिते रूपमिदं स्वमच्छम् | नैवास्ति नास्तीति दृशौ क्वचित्तु यच्चास्ति तत्साधु तदेव भाति || ४८ || तदेव पुनः स्थिरीकुर्वन्वर्णयति - शिलेति | स्फटिकशिलाया उदरमिव शून्याकारं भासमानमपि घनं तत्र प्रतिबिम्बवनगिरिनद्यादिस्वरूप इवास्ति नास्तीति दृशौ तु क्वचिन्नैव | यच्च प्रतिभानमात्रेणास्ति तत्तच्चितिरूपमेव तथा भातीत्यर्थः || ४८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु स्थितिप्रकरणे सदसन्निराकरणं नामैकत्रिंशः सर्गः || ३१ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे सदसन्निराकरणं नामैकत्रिंशः सर्गः || ३१ || द्वात्रिंशः सर्गः ३२ श्रीराम उवाच | सतामप्यसतामेव बालयक्षपिशाचवत् | दामव्यालकटादीनां दुःखस्यान्तः कथं भवेत् || १ || मत्स्यसारसजन्माप्त्या वियुक्ता राजसद्मनि | मशकादितनुष्वाप्तज्ञानास्ते मुक्तिमाययुः || १ || अज्ञबुद्ध्या सतामपि परमार्थतोऽसतामेव दुःखस्यान्तो मोक्षः कथं भवेत् | कदा भविष्यतीति यावत् || १ || श्रीवसिष्ठ उवाच | दामव्यालकुटुम्बैस्तैस्तदैव यमकिङ्करैः | प्रार्थितेन यमेनोक्तमिदं शृणु रघूद्वह || २ || दामव्यालकटानां कुटुम्बैर्बान्धवभूतैर्यमकिङ्करैः || २ || यदा वियोगमेष्यन्ति श्रोष्यन्ति च निजां कथाम् | दामादयस्तदा मुक्ता भविष्यन्तीत्यसंशयम् || ३ || निजां स्वीयां शम्बरमायाकल्पितजीवभावनिर्वासनाद्वयचिन्मात्रस्वस्वाभाव्यकथाम् | तदा स्वतत्त्वं बुद्ध्वा मुक्ता भविष्यन्तीति असंशयं निःसंशयं यमेनोक्तमित्यर्थः || ३ || श्रीराम उवाच | स्ववृत्तान्तमिमं कुत्र कदा कथयते कथम् | श्रोष्यन्ति भगवंस्ते वा वर्णयेदं यथाक्रमम् || ४ || ते दामादयः | त्वर्थे वाशब्दः | कथयते कथयतः सकाशात् | व्यत्ययेन पञ्चम्यर्थे चतुर्थी || ४ || श्रीवसिष्ठ उवाच | काश्मीरेषु महापद्मसरसीतीरपल्वले | भूयोभूयोऽनुभूयैव मत्स्ययोनिपरम्पराम् || ५ || आलोलिताशया लोलाः कालेन लयमागताः | तत्रैव पद्मसरसि ते भविष्यन्ति सारसाः || ६ || आलोलितः ग्रीष्मे महिषसूकरादिभिरालोडित आशयः पल्वलं येषां तथाविधाः सन्तः || ६ || तत्र ख्लारमालासु सरोजपटलीषु च | शैवालवरवल्लिषु तरङ्गवलनासु च || ७ || चलत्कुसुमदोलासु नीलोत्पललतासु च | सीकरौघाभ्रलेखासु शीतलावर्तवर्तिषु || ८ || सारसाः सरसंभोगान्भुक्त्वा भुवनभूषणाः | विहृत्य सुचिरं कालमलमागतशुद्धयः || ९ || ते वियुक्ता भविष्यन्ति मुक्तये लब्धबुद्धयः | रजःसत्त्वतमांसीव भेदं प्राप्य यदृच्छया || १० || लब्धबुद्धयः प्राप्तविचारबुद्धयः | यथा रजःसत्त्वतमांसि विवेकदृशा पर्यालोच्यमानानि मुक्तये भेदं विवेकं प्राप्नुवन्ति तद्वत् || १० || काश्मीरमण्डलस्यान्तर्नगरं नगशोभितम् | नाम्नाधिष्ठानमित्येव श्रीमत्तस्य भविष्यति || ११ || नगैर्वृक्षैरद्रिभिश्च शोभितम् || ११ || प्रद्युम्नशिखरं नाम तस्य मध्ये भविष्यति | शृङ्गं लघु सरोजस्य कोशचक्रमिवोदरे || १२ || लघु लङ्घनार्हं स्वारोहमिति यावत् | कोशचक्रं कर्णिकेव || १२ || तस्य मूर्ध्नि गिरेर्गेहं कश्चिद्राजा भविष्यति | अभ्रंकषमहाशालं शृङ्गे [शालशृङ्गे इति टिकानुगुणः पाठः] शृङ्गमिवापरम् || १३ || तस्य गिरेर्मूर्ध्नि कश्चित्किंचिद्गेहं अन्येषां गृहाणां राजेव राजा भविष्यति | अभ्रमाकाशं कषति च्छिद्रीकरोतीवेत्यभ्रंकषे महति शालवृक्षस्य शृङ्गे मध्यमशाखाग्रे | अभ्रंकषा महत्यः शालाः प्रासादा यत्र तथाविधे गिरिशृङ्गे अपरं शृङ्गमिवेत्युत्प्रेक्षा वा || १३ || गृहस्येशानकोणेऽस्ति शिरोभित्तिव्रणोदरे | तस्यानिशमविश्रान्तवाताधूततृणान्तिके || १४ || शिरोभित्तेरूर्ध्वकुड्यस्य व्रणो विदीर्णशिलासंधिभागस्तस्योदरे अस्ति नीडमिति शेषः || १४ || आलये दानवो व्यालः कलविङ्को भविष्यति | प्रथमाल्पश्रुतशास्त्र इवार्थरहितारवः || १५ || आलये तस्मिन्नीडे कलविङ्कश्चटकः | प्रथममल्पं श्रुतं शास्त्रं येन तथाविधो द्विज इव अर्थरहितो निरर्थक आरवो यस्य | चीचीकूचीत्यव्यक्तवाशित इति यावत् || १५ || तस्मिन्नेव तदा काले तत्र राजा भविष्यति | श्रीयशस्करदेवाख्यः शक्रः स्वर्ग इवापरः || १६ || दानवो दामनामात्र मशकस्तस्य सद्मनि | भविष्यति बृहत्स्तम्भपृष्ठच्छिद्रे मृदुध्वनिः || १७ || अधिष्ठानाभिधे तस्मिन्नेवान्तर्नगरे तदा | रत्नावलीविहाराख्यो विहारोऽपि भविष्यति || १८ || विहरन्त्यस्मिञ्जना इति विहारः क्रीडागृहम् || १८ || तस्मिंस्तद्भूमिपामात्यो नरसिंह इति श्रुतः | करामलकवद्दृष्टबन्धमोक्षो निवत्स्त्यति || १९ || करामलकवत् दृष्टौ श्रुतियुक्तिगुरूपदेशस्वानुभवैः परीक्ष्य रत्नतत्त्वमिव निश्चितौ बन्धमोक्षौ येन || १९ || भविष्यति गृहे तस्य क्रीडनः क्रकरः खगः | कटो मायासुरो नाम कृतराजतपञ्जरः || २० || तस्यामात्यस्य क्रीडनः क्रीडासाधनभूतः क्रकरः शारिकाभेदः कटो नाम मायासुर इत्यन्वयः || २० || स नृसिंहो नृपामात्यश्लोकैर्विरचितामिमाम् | दामव्यालकटादीनां कथयिष्यति सत्कथाम् || २१ || सकटः क्रकरः श्रुत्वा तत्कथासंस्मृतात्मभूः | शान्तमित्थं महाशान्तं परं निर्वाणमेष्यति || २२ || संस्मृत आत्मैव सर्वतः सर्वदा भवतीत्यात्मभूरपरिच्छिन्नात्मा येन | शान्तं बाधितशम्बरकलितजीवरूपम् | इत्थमेव महाशान्तं मूलतः शान्तं संसाररूपं यत्र तथाविधं परं मोक्षम् || २२ || प्रद्यिम्नशिखरप्रान्तवास्तव्यः कलविङ्ककः | तत्रत्यैश्च कथां श्रुत्वा परं निर्वाणमेष्यति || २३ || प्रद्युम्नस्य गिरेः शिखरप्रान्ते वसतीति वास्तव्यः | वसेस्तव्यत्कर्तरि णिच्च इति तव्यत्प्रत्ययः | तत्रत्यैश्चादन्यैश्च वर्ण्यमानामिति शेषः | कथां स्वपूर्ववृत्तान्तघटितब्रह्मकथम् || २३ || राजमन्दिरदार्वन्तर्व्रणवास्तव्यतां गतः | मशकोऽपि प्रसङ्गेन श्रुत्वा शान्तिमुपैष्यति || २४ || दार्वन्तः स्तम्भपृष्ठे | शान्तिं मोक्षम् || २४ || प्रद्युम्नशृङ्गाच्चटको मशको राजमन्दिरात् | विहारात्क्रकरश्चेति मोक्षमेष्यन्ति राघव || २५ || एष ते कथितः सर्वो दामव्यालकथाक्रमः | मायैवमेव संसारशून्यैवात्यन्तभासुरा || २६ || भ्रमयत्यपरिज्ञानान्मृगतृष्णाम्बुधीरिव | महतोऽपि पदादेवं नानाज्ञानवशादधः || २७ || इतरपदेभ्यो महतोऽपि पदात् अपरिपक्वज्ञानदशातः || २७ || पतन्ति मोहिता मूढा दामव्यालकटा इव | क्व भ्रूक्षेपविनिष्पिष्टमेरुमन्दरसद्मता || २८ || निर्वासनत्वप्रयुक्तप्राक्तनोत्कर्षस्य पश्चात्तनमशकादिजन्मनश्च महदन्तरं दर्शयति - क्वेत्यादिना || २८ || क्व राजगृहदार्वन्तर्व्रणे मशकरूपता | क्व चपेटभुजामात्रपातितार्केन्दुबिम्बता || २९ || चपेटः करतलेन प्रहारस्तेन भुजामात्रेण बाहुमात्रेण | विनैव प्रहरणानीति यावत् || २९ || क्व प्रद्युम्नगिरौ गेहे भित्तिव्रणविहङ्गता | क्व पुष्पलीलया लोलकरतोलितमेरुता || ३० || पुष्पलीलया पुष्पवल्लोलेन करेण तोलितो भारेयत्तयावधारितो मेरुर्यैस्तद्भावः क्व || ३० || क्व वा शृङ्गे नृसिंहस्य गृहे क्रकरपोतता | चिदाकाशोऽहमित्येव रजसा रञ्जितप्रभः || ३१ || नृसिंहस्य मन्त्रिणः | इदानीं राजसाहंकाररञ्जनेन चिदाकाशस्य देहाद्याकाराभिमानावतारप्रकारं दर्शयति - चिदाकाश इति || ३१ || स्वरूपमत्यजन्नेव विरूपमपि बुध्यते | स्वयैव वासनाभ्रान्त्या सत्ययेवाप्यसत्यया || ३२ || स्वरूपं स्वाभाविकस्वप्रकाशताम् | विरूपं अहंकारप्राणदेहेन्द्रियादिरूपम् || ३२ || मृगतृष्णाम्बुबुद्ध्येव याति जन्तुरिवान्तरम् | तरन्ति ते भवाम्भोधिं स्वप्रवाहधियैव ये || ३३ || अन्तरं चिद्रूपाद्भेदमिव याति | इदानीं तत्तरणोपायमाह - तरन्तीति | स्वप्रवाहधिया प्रत्यक्प्रवणबुद्ध्या || ३३ || शास्त्रेणासादितं दृश्यमिति निर्वाणसंस्थिताः | नानादुःखविकाराणि शुष्कतर्कमतानि ये || ३४ || शास्त्रेण महावाक्यादिलक्षणेन | किमिति महावाक्यावलम्बस्तर्कैरेव तन्निर्णयः कुतो न स्यात्तत्राह - नानेति || ३४ || यान्ति श्वभ्रं [स्वभ्रं इत्यपि पाठः] जलानीव स्वलाभं नाशयन्ति ते | स्वानुभूतिप्रसिद्धेन मार्गेणागमगामिना || ३५ || स्वलाभं पारमार्थिकात्मभावस्थितिलक्षणपरमपुरुषार्थलाभम् | औपनिषदमार्गमनुभूतिरपि संवदति न तार्किकमित्याशयेनाह - स्वानुभूतीति | आगमगामिना श्रुत्यनुसारिणा || ३५ || न विनाशो भवत्यङ्ग गच्छतां परमां गतिम् | इदं मे स्यादिदं मे स्यादितिबुद्धेर्महामते [बुद्धेरित्यत्र वृद्धैरिति क्वचित्पठ्यते] || ३६ || अङ्गेत्यामन्त्रणे | केन तर्हि पुरुषार्थविनाशस्तदाह - इदमिति | इतिबुद्धेः पुरुषस्य || ३६ || स्वेन दौर्भाग्यदैन्येन न भस्माप्युपतिष्ठते | वेत्ति नित्यमुदारात्मा त्रैलोक्यमपि यस्तृणम् || ३७ || दौर्भाग्यप्रयुक्तदैन्येनेत्यर्थः | नष्टस्य च पुरुषार्थस्य भस्मापि नोपतिष्ठत इति सर्वथा नैराश्यमित्यर्थः | एवं स्पृहाया अनर्थत्वमुक्त्वा वैराग्यस्य सर्वानर्थनिवर्तकत्वमाह - वेत्तीति || ३७ || तं त्यजन्त्यापदः सर्वाः सर्पा इव जरत्त्वचम् | परिस्फुरति यस्यान्तर्नित्यं सत्त्वचमत्कृतिः || ३८ || विरक्तस्य चेज्ज्ञानकलापि स्यात्तर्हि तस्य दूरे आपच्छङ्का प्रत्युत सर्वे देवाः स्वोपजीव्यं स्वाधारं ब्रह्माण्डमिव सदा तं पालयन्त्यपीत्याह - परिस्फुरतीति || ३८ || ब्राह्ममण्डमिवाखण्डं लोकेशाः पालयन्ति तम् | अप्यापदि दुरन्तायां नैव गन्तव्यमक्रमे || ३९ || न क्रम्यत इत्यक्रमेऽसन्मार्गे || ३९ || राहुरप्यक्रमेणैवं पबन्नप्यमृतं मृतः | सच्छास्त्रसाधुसंपर्कमर्कमुग्रप्रकाशदम् || ४० || कस्तर्हि मार्गस्तमाह - सच्छास्त्रेति | सच्छास्त्रमुपनिषदस्तदुपबृंहणानि च तदर्थनिष्ठाः साधवस्तदुभयेन संपर्कः सदा तन्निषेवणं तमेवार्क सूर्य निर्दयं निःशेषसंसारसंहारकत्वादुग्रः शिवः परमात्मा तस्य प्रकाशदं साक्षात्कारहेतुं तमोनभिभवनीयं प्रकाशदं च || ४० || ये श्रयन्ते न ते यान्ति मोहान्ध्यस्य पुनर्वशम् | अवश्या वश्यतां यान्ति यान्ति सर्वापदः क्षयम् || ४१ || मोहलक्षणस्यान्ध्यस्यान्धकारस्य | इदानीं वैराग्यादिगुणान्पुनः प्रशंसति - अवश्या इति || ४१ || अक्षयं भवति श्रेयः कृतं येन गुणैर्यशः | येषां गुणेष्वसंतोषो रागो येषां श्रुतं प्रति || ४२ || येन पुरुषश्रेष्ठेन वैराग्यशमदमादिगुणैर्यशः सत्स्वग्रगण्यत्वेन विख्यातिः | उक्तगुणेषु येषामसंतोषः अनलंबुद्धिः | श्रुतमध्यास्मशास्त्रश्रवणाभ्यासादि प्रति येषां सदा राग इच्छा || ४२ || सत्यव्यसनिनो ये च ते नराः पशवोऽपरे | यशश्चन्द्रिकया येषां भासितं जन्तुहृत्सरः || ४३ || ये च सत्यं सत्यवाक्यं ब्रह्म च तयोर्व्यसनिनस्त एव नरजन्मसार्थकीकरणान्नराः अपरे तु नरा अपि पशुवद्व्यर्थजन्मत्वात्पशव इत्यर्थः | येषां यशोलक्षणस्य चन्द्रस्य चन्द्रिकया जन्तूनां प्राणिनां हृत् हृदयलक्षणं सरो भासितं आह्लादकैरवोन्मेषैः प्रकाशितम् || ४३ || तेषां क्षीरसमुद्राणां नूनं मूर्तौ स्थितो हरिः | भुक्तं भोक्तव्यमखिलं दृष्टा द्रष्टव्यदृष्टयः || ४४ || त एव क्षीरसमुद्रा अत एव तेषां मूर्तौ हरिर्विष्णुः परमात्मा स्फुटं स्थित इत्यर्थः | इदानीं जगतो हितैषी पितृमातृभ्योऽप्याप्ततमः श्रीवसिष्ठः सर्वैरनादौ संसारे पुनःपुनः सहानर्थपरम्पराफलैरनुभूतेषु विषयेषु दृश्यकौतुकविशेषेषु च नापूर्वं किंचिदवशिष्टमिति दर्शयन्वैराग्यशास्त्राचारनिष्ठामेव प्रशंसमानः प्ररोचयति - भुक्तमित्यादिना || ४४ || किमन्यद्भवभङ्गाय भूयो भोगेषु लुब्धता | यथाक्रमं यथाशास्त्रं यथाचारं यथास्थिति || ४५ || अन्यद्भवेषु भाविजन्मपरम्परासु भङ्गाय स्वात्मविनाशाय भूयोऽपि भोगेषु लुब्धता किं युक्ता | सर्वथा न युक्तेत्यर्थः | अन्यद्भवेत्यत्र दुक् छान्दसः | यथाक्रमं स्वस्वाधिकारानुरूपम् | यथाशास्त्रं तादृशाधिकारिकचित्तशुद्ध्याद्यनुकूलशास्त्रानुरूपम् | तत्रापि यथाचारं पूर्वपूर्वाचार्यप्रवर्तितसंप्रदायानुरूपम् | यथास्थिति तत्राप्येकैकभूमिकायां यावत्परिपाकं स्थितिमनतिक्रम्येत्यर्थः || ४५ || स्थीयतां मुच्यतामन्तर्भोगजालमवास्तवम् | संस्तवः क्रियतां कीर्त्या गुणैर्गगनगामिभिः || ४६ || संस्तवः साधुजनमुखेषु स्वसाधुवादः | गगनगामिभिः स्वर्गपर्यन्तप्रख्यातैः || ४६ || त्रायेते मृत्युतो ह्येते न कदाचन भोगकाः | गायन्ति सिद्धसुन्दर्यो येषामिन्दुसितं यशः || ४७ || एते संस्तवकीर्ती | स्त्रीशेषश्छान्दसः सामान्ये नपुंसकं वा || ४७ || गीतिभिर्गगनाभोगैस्ते जीवन्ति मृताः परे | परमं पौरुषं यत्नमास्थायादाय सूद्यमम् || ४८ || गगनाभोगैर्गगनवत्सर्वदेशकालव्यापिभिः | यशः कथं संपादयितुं शक्यते तत्राह - परममिति || ४८ || यथाशास्त्रमनुद्वेगमाचरन्को न सिद्धिभाक् | यथाशास्त्रं विहरता त्वरा कार्या न सिद्धिषु || ४९ || आचरन् साधनानीति शेषः || ४९ || चिरकालपरिपक्वा सिद्धिः पुष्टफला भवेत् | वीतशोकभयायासमगर्वमपयन्त्रणम् || ५० || अपयन्त्रणं शीघ्रतानिर्बन्धरहितम् || ५० || व्यवहारो यथाशास्त्रं क्रियतां मा विनश्यताम् | जीवो जीर्णान्धकूपेषु भवेष्वन्तमिवागतः || ५१ || भवतां भूरिसङ्गानामधुनेन्द्रियदामतः | इतःप्रभृति मा भूयो गम्यतामधमादधः || ५२ || भूरिसङ्गानां भवतां जीव इन्द्रियदामतः अन्तं मृत्युमिवागतः सन् भवलक्षणेषु जीर्णान्धकूपेषु मा विनश्यतामिति पूर्वत्रान्वयः || ५२ || इदं विचार्यतां शास्त्रमस्त्रमापन्निवारणम् | रणे शितशरश्रेणिशतनिर्लूनवारणे || ५३ || शितैस्तीक्ष्णिः शरश्रेणिशतैर्निर्लूनाश्छिन्ना वारणा गजा यत्र तथाविधेऽपि रणे सद्यः प्रसक्तमहाभयमृत्यवाद्यापदामपि निवारणमजरामरनित्यनिरतिशयानन्दात्मप्रदर्शकमिदं शास्त्रमवश्यं विचार्यतामित्यर्थः || ५३ || जीवमुद्रा च किं पङ्के भोगगन्धो निरस्यताम् | किमर्थमात्रया कार्यमार्याः शास्त्रमवेक्ष्यताम् || ५४ || किं पङ्के ग्रीष्मोष्मसंतप्तपल्वलदुर्गन्धिपङ्कसदृशे संसारे पुनः पुनर्मृतोज्जीवितजरन्मण्डूकवज्जीवमुद्रा जीविताशेति यावत् | किं अतितुच्छेत्यर्थः | मुह्यसि इति पाठे स्पष्टम् | अतो भोगगन्धो भोगवासना हृदयादपनीयताम् | तदर्थया अर्थमात्रया द्रव्यलेशेन किं कार्यम् | हे आर्याः सर्व परित्यज्य मोक्षशास्त्रमेवावेक्ष्यतामित्यर्थः || ५४ || इदं बिम्बमिदं बिम्बमिति सत्यं विचार्यताम् | धिया परप्रेरणया यातमापशवो यथा || ५५ || विषयाकारवृत्तिप्रतिफलितचिदाभासानामन्तःकरणावच्छिन्नं चैतन्यं बिम्बम् | अन्तःकरणोपहितचिदाभासस्य तु शुद्धं ब्रह्मचैतन्यमेव बिम्बम् | प्रतिबिम्बतदुपाधी असत्ये बिम्बं तु सत्यम् | तत्रान्तःकरणोपाध्यसत्यत्वे तदवच्छिन्नबिम्बचैतन्यस्य तत्समनियतचिदाभासबिम्बभूतब्रह्मचैतन्यस्य च भेदो मिथ्यैवेत्यखण्डं सत्यं प्रत्यगभिन्नं ब्रह्मचैतन्यमेव परिशिष्यत इति विचार्यतामित्यर्थः | ननु परे सांख्यपातञ्जलगौतमकणादबुद्धार्हदादयो नोक्तप्रतिबिम्बताप्रक्रियामिच्छन्ति किंत्वन्यथान्यथैव निरूपयन्तस्तत्रैव जनान्प्रेरयन्ति तत्प्रेरणापि किमुपादेया नेत्याह - धियेति | यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् इत्यादिस्वतन्त्रश्रुतिप्रमाणानुसारिणां पशुवत्परप्रेरणया यानमनुचितमेवेति भावः || ५५ || दौर्भाग्यदायिनी दीना शुभहीना विचारणा | घनदीर्घमहानिद्रा त्यज्यतां संप्रबुध्यताम् || ५६ || एवं शास्त्रार्थविचारणां विधाय संप्रति जीवनधनपशुपुत्रादिसांसारिकविचारणां दर्शनान्तरविचारणां च त्याजयितुं निन्दति - दौर्भाग्येति | उदर्के दौर्भाग्यदायिनी स्वकाले कार्पण्यहेतुत्वाद्दीना तुच्छफलत्वात्फलहीना गाढतमओमात्रनिवेशाद्धनदीर्घमहानिद्रा त्यज्यताम् || ५६ || सुप्तं मास्थीयतां वृद्धकच्छपेनेव पल्वले | उत्थानमङ्गीक्रियतां जरामरणशान्तये || ५७ || अनर्थायार्थसंपत्तिर्भोगौघो भवरोगदः | आपदः संपदः सर्वाः सर्वत्रानादरो जयः || ५८ || पूर्वोत्तरार्धयोराद्यवाक्यार्थयोः प्रथमौ विधेयौ द्वितीयवाक्यार्थयोस्तद्वैपरीत्यम् || ५८ || लोकतन्त्रानुसारेण विचाराद्व्यवहारिणाम् | शास्त्राचारानुसारेण कर्मणा सत्फलाय च || ५९ || लोकतन्त्रं जनवृत्तं तदनुसारेण तदविरोधिना | शास्त्राचारौ अनुसरति तथाविधेन कर्मणा तत्फलाय चोत्थानमङ्गीक्रियतामिति व्यवहितानुषङ्गः || ५९ || आचारचारुचरितस्य विविक्तवृत्तेः संसारसौख्यफलदुःखदशास्त्रगृध्नोः [दशास्वगृध्रोः इति पाठष्टीकानुगुणः सुसमीचीनश्चेति प्रतीयते अन्यथा मूलेऽनर्थापातष्टीकाननुगुणत्वं चापतेत] | आयुर्यशांसि च गुणाश्च सहैव लक्ष्म्या फुल्लन्ति माधवलता इव सत्फलाय || ६० || उक्तमर्थ संक्षिप्योपसंहरति - आचारेति | विविक्तबुद्धेर्विवेकिबुद्धेः | अगृध्नोरनभिलाषस्य | फुल्लन्ति विकसन्ति | माधवलता वसन्तकालपल्लवितलता इव | सत्फलाय उत्तमफलाय || ६० || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे दामव्यालकटोपाख्याने सदाचारनिरूपणं नाम द्वात्रिंशः सर्गः || ३२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे सदाचारनिरूपणं नाम द्वात्रिंशः सर्गः || ३२ || त्रयस्त्रिंशः सर्गः ३३ श्रीवसिष्ठ उवाच | सर्वातिशयसाफल्यात्सर्वं सर्वत्र सर्वदा | संभवत्येव तस्मात्त्वं शुभोद्योगं न संत्यज || १ || वर्ण्यतेऽत्र शुभोद्योगसाधुसच्छास्त्रवैभवम् | बन्धोऽहङ्कारतस्तस्य त्यागान्मुक्तिश्च विस्तरात् || १ || वक्ष्यमाणस्य शुभोद्योगादेः सेवनोत्कर्षे फलावश्यंभावं दर्शयितुं सामान्यन्यायं दर्शयति - सर्वेति | सर्वेषां साधनातिशयानां साफल्यनियमात्सर्वत्र दृष्टकृस्.इसेवादिसाधने शास्त्रीयमोक्षसाधने शुभोद्योगादौ च सर्व स्वस्वानुरूपं फलं संभवत्येव न कदापि वैफल्यं तस्मान्मोक्षफलार्थी त्वमपि शुभोद्योगं कदापि न संत्यजेत्यर्थः || १ || मित्रस्वजनबन्धूनां नन्दिनानन्ददायिना | सरसीशानमासाद्य मृत्युरप्युपनिर्जितः || २ || तत्र शास्त्रीयशुभोद्योगस्यासाध्यं किंचिन्नास्त्येवेति दर्शयितुं नन्दीश्वरोपाख्यानादि संक्षिप्योदाहरति - मित्रेत्यादिना | शिलादनामा किल मुनिः सर्वज्ञं पुत्रं कामयमानस्तपसा भगवन्तं रुद्रं प्रसादयामास | तस्मै चिरेण तपसा प्रसन्नो वरं दास्यन्किल स भगवानुवाच | न मत्तोऽन्यः सर्वज्ञः संभवत्यतोऽहमेवांशेनावतीर्णस्ते पुत्रो भविष्यामि स ते मदंशजः पुत्रः ओंषशवर्षे मृत्युपदं यातेति | तच्छ्रुत्वा शिलादस्तद्वचनं प्रतिकूलयितुमशक्नुवंस्तमेव शरणं गतस्तथास्त्वित्यनुमेने | अथ तस्य सर्वज्ञः पुत्रो नन्दिनामा बभूव | स बाल एव पितुः सकाशात्स्वस्य भाविमृत्युपाशबन्धनं श्रुत्वा तपसा तमेव रुद्रमाराधयामास | अथ षोडशे वर्षे सरस्तीरे लिङ्गार्चनकाले मृत्युना पाशैर्वध्यमानस्तत्रैवाविर्भूतेन शिवेन मृत्युं वामपादाग्रेण हत्वा पाशांश्छित्त्वा स जरामृत्युवर्जितः स्वानुचरः कृतः इति लैङ्गे प्रसिद्धम् || २ || सर्वोत्कर्षेण संपन्ना देवा अपि विमर्दिताः | दानवैर्दानवार्थाढ्यैर्गजैः पद्माकरा इव || ३ || दानवैर्बलिप्रभृतिभिः दानवैः सैनिकैरर्थैर्घनैश्चाढ्यैः संपन्नतरैः || ३ || मरुत्तनृपतेर्यज्ञे संवर्तेन महर्षिणा | ब्रह्मणेवापरः सर्गो भावितः ससुरासुरः || ४ || यद्यपि महाभारते मरुत्तयज्ञे विघ्नं चिकीर्षोः सुरसैन्यसहितस्येन्द्रस्य संवर्तेन स्वसंकल्पमात्रेण वशीकृतस्य देवैः सह यज्ञपरिचारकत्वं कृतमित्येवं प्रसिद्धम् तथापि पुराणान्तरे सुरासुरसर्गारम्भोऽपि क्वचिच्छ्रुयत एवेति कल्पान्तरकथात्वान्न विरोधः || ४ || महातिशययुक्तेन विश्वामित्रेण विप्रता | भूयोभूयः प्रयुक्तेन दुष्प्रापा तपसार्जिता || ५ || पिष्टसेकाम्बु दुष्प्रापं रसायनवदश्नता | दुर्भगेनेदृशेनाप्तः क्षीरोद उपमन्युना || ६ || पिष्टसेकाम्बु पिष्टमिश्रितोदकं तदपि रोदनादियत्नप्राप्यत्वाद्दुष्प्रापम् [प्राप्येति पदं क्वचिन्न पठ्यते] | ईदृशेन दुर्भगेन भाग्यहीनेनाप्युपमन्युना क्षीरोदः क्षीरसमुद्रस्तपसा शिवप्रसादादाप्तः प्राप्त इति भारतादौ प्रसिद्धम् || ६ || त्रैलोक्यमल्लांस्तृणवदश्नन्विष्ण्वब्जजादिकान् | भक्त्यातिशयदार्ढ्येन कालः श्वेतेन कालितः || ७ || त्रैलोक्यमल्लान् | अतिबलत्वेन ख्यातानिति यावत् | तथाविधानपि विष्ण्वब्जजादिकांस्तृणवदश्रन्ग्रसन् | तथाच भार्गवाख्याने कालवचनं संसारावलयो भुक्ताः इत्यादि | श्वेतेन श्वेताख्येन मुनिना कालो मृत्युः कालितो निर्जितः | इदमपि लैङ्गे प्रसिद्धम् || ७ || प्रणयेन यमं जित्वा कृत्वा वचनसंगमम् | परलोकादुपानीतः सावित्र्या सत्यवान्पतिः || ८ || सावित्र्या राजकन्यया प्रणयेन भर्तृप्राणानुगमनस्तुत्यादिप्रीणनोपायेन यमं जित्वा वशीकृत्य ऋते सत्यवतः प्राणादन्यं वरं वृणीष्वेति यमवचनस्य स्वस्याः सत्यवतः शतपुत्रोत्पत्तिवरप्रार्थनावचनेन संगमं संबन्धम् | सावित्र्युपाख्यानमपि भारते प्रसिद्धमेव || ८ || न सोऽस्त्यतिशयो लोके यस्यास्ति न फलं स्फुटम् | भवितव्यं विचार्यान्तः सर्वातिशयशालिना || ९ || अतिशयः शास्त्रीयशुभोद्योगातिशयः | तर्हि नानाविधशुभोद्योगेषु दर्शितेषु मादृशेन कुत्रातिशायिना भाव्यं तत्राह - भवितव्यमित्यादिना | अधिकारिणा न मूढवत्क्षुद्रफलप्रार्थनया फल्गुना भवितव्यं किंत्वन्तर्मनसि फलतारतम्यं विचार्य सर्वातिशायिफललाभेन सर्वातिशयशालिना भवितव्यमित्यर्थः || ९ || आत्मज्ञानमशेषाणां सुखदुःखदशादृशाम् | मूलकाषकरं तस्माद्भाव्यं तत्रातिशायिना || १० || सर्वातिशयश्चात्मज्ञानादेव यतस्तदशेषाणां सुखदुःखजन्ममरणादिदशाभ्रान्तिदृष्टीनां मूलोच्छेदकरं तस्मात्तत्रैव शुभोद्योगातिशयशालिना भाव्यमित्यर्थः || १० || नाशायापद्गतार्थिन्या दृष्ट्या दृश्यादिदृष्टयः | दुःखादृते निराबाधं सुखं किं चिदवाप्यते || ११ || तत्रादौ भोगरागदृष्टीनां विनाशाय तत्तद्विषयदोषदृष्टयोऽन्वेष्टव्या इत्याह - नाशायेति | क्षुत्तृष्णाकामाद्यापद्गतानर्थयति विषयोपहारेणानुगृह्णातीत्यापद्गतार्थिन्या दृष्ट्याः भोगदृष्टेर्नाशाय प्रथमं तद्विरोधिविषयदोषदृष्टयो दृश्या अन्वेष्टव्याः | हिशब्दस्तदावश्यकत्वद्योतनार्थः | ननु तदन्वेषणे विषयत्यागपर्यवसानात्सद्यो दुःखं स्यादिति चेत्तत्राह - दुःखादिति | वैराग्याभ्यासादिदुःखादृते निराबाधं भूमानन्दसुखं चित् किं अवाप्यते | नावाप्यत एवेत्यर्थः | किंचिदिति च्छेदे तु काकुर्बोध्यः || ११ || अशमः परमं ब्रह्म शमश्च परमं पदम् | यद्यप्येवं तथाप्येनं प्रथमं विद्धि शंकरम् || १२ || ननु सर्वविषयदुःखत्यागमप्यङ्गीकृत्य वैराग्येण रागादिदोषप्रशमोऽवश्यं संपाद्यः स्याद्यदि प्राप्यं ब्रह्म सशममेव पुरुषार्थः स्यात् | नतु तथा | शमस्यापि सात्त्विकचित्तवृत्तिभेदस्यान्तःकरणधर्मस्याद्वितीये ब्रह्मण्यभावात्सुखैकरसब्रह्मातिरिक्तस्य दृश्यतया परमपुरुषार्थघटकत्वाभावाच्चेत्याशङ्कामर्धाङ्गीकारेण परिहरन् शमस्यावश्यकत्वं दर्शयति - अशम इति | सत्यमशमश्चिदात्मैव परमं ब्रह्म तथापि शमोऽपि सनिदानसंसारानर्थनिवृत्तिरूपः परमं पदं परमपुरुषार्थो भवत्येव | यद्यप्येवं द्वयमपि सममिति प्राप्तं तथापि एनं प्रशमं शं भूमानन्दब्रह्मसुखं करोत्यभिव्यनक्तीति शंकरं विद्धि | नह्यनभिव्यक्तसुखस्य पुरुषार्थतेति त्दुपयोगितास्याधिकेति भावः || १२ || अभिमानं परित्यज्य शममाश्रित्य शाश्वतम् | विचार्य प्रज्ञयार्यत्वं कुर्यात्सज्जनसेवनम् || १३ || इदानीं प्रशमोपायमाह - अभिमानमिति | शाश्वतं यत्कैवल्यमविचालि आर्यत्वं मोक्षयोग्याभ्यर्हितजन्मादिशालितां स्वस्य विचार्य परिशील्य || १३ || न तपांसि न तीर्थानि न शास्त्राणि जयन्ति च | संसारसागरोत्तारे सज्जनासेवनं विना || १४ || चित्तशुद्ध्यर्थं सेवितानां तप आदीनामपि सज्जनसेवनद्वारैव ज्ञानोपयोगो नान्यथेत्याशयेनाह - नेति | जयन्ति | ज्ञानोत्पत्तये प्रभवन्तीति यावत् || १४ || लोभमोहरुषां यस्य तनुतानुदिनं भवेत् | यथाशास्त्रं विहरति स्वस्वकर्मसु सज्जनः || १५ || इदानीं सज्जनलक्षणमाह - लोभेति | यस्य सेवनादिति शेषः || १५ || अथात्मविदुषां सङ्गात्तस्य साधोः प्रवर्तते | अत्यन्ताभाव एवास्य यथा दृश्यस्य दृश्यते || १६ || सदा सज्जनसेवापरायणस्य कदाचिदात्मवित्सङ्गोऽप्यवश्यं भवति येन ज्ञानलाभ इत्याह - अथेति || १६ || दृश्यात्यन्ताभावतस्तु परमेवावशिष्यते | अन्याभाववशादाशु जीवस्तत्रैव लीयते || १७ || तेन तस्य परमपुरुषार्थोऽपि सिद्ध्यतीत्याह - दृश्येति || १७ || नचोत्पन्नं नचैवासीद्दृश्यं नच भविष्यति | वर्तमानेऽपि नैवास्ति परमेवास्त्यवेधितम् || १८ || परमेवावशिष्यते इति यदुक्तं तद्दृश्यात्यन्ताभावोपपादनेन समर्थयति - नचेत्यादिना | अवेधितमतोदितं अपीडितमिति यावत् || १८ || एवं युक्तिसहस्रेण दर्शितं दृश्यतेऽपि च | सर्वैरेवानुभूतं च दर्शयिष्यामि चाधुना || १९ || यथोत्पत्त्यादिकं न संभवति तथोत्पत्तिप्रकरणेऽपि युक्तिभिरुपपादितमुपपादयिष्यते चेत्याह - एवमिति | यथा सर्वैर्विद्वद्भिरनुभूतं च तथा ते इदं त्रिजगत्संविदम्बरं अधुना दर्शयिष्यामि चेति परेण सहान्वयः || १९ || तथेदममलं शान्तं त्रिजगत्संविदम्बरम् | इदं तत्त्वमतत्त्वादि कुतोऽत्र स्यात्कथं च वा || २० || तदेव दर्शयति - इदं तत्त्वमिति | इदं संविदम्बरं तत्त्वं परमार्थरूपम् अत्र अतत्त्वं माया तदेव आदि मूलकारणं यस्य तद्वियदादि कुतः स्यात् | किं सत उत असत उत मायायाः | आद्ययोरविकारत्वान्माययोत्पादे मिथ्यात्वापत्तेरनुत्पत्तिपक्षस्यैव परिशेषात् | एवं कथं वा स्यात् | अच्छिद्रे कूटस्थनित्ये चिदात्मनि छिद्रस्वभावस्य वियतष्टङ्कसहस्रैरप्युत्पादयितुमशक्यत्वादित्यर्थः || २० || चिच्चमत्कुरुते चारु चञ्चलाऽचञ्चलात्मनि | यत्तयैव तदेवेदं जगदित्यवबुध्यते || २१ || यदि नोत्पन्नमेव कथं तर्हि जगदिति सर्वैरवबुध्यते तत्राह - चिदिति | अचञ्चलात्मनि कल्पितचाञ्चल्येन चञ्चला मायाप्रतिबिम्बचिद्यच्चमत्कुरुते जगद्भावमिव कल्पयति तदेव जगदिति तयैवावबुध्यत इत्यर्थः || २१ || त्रैलोक्यभूयोनुभवश्चिदादित्यांशुमण्डलम् | को वा स्वांशुमतोर्भेदो निर्विकल्पः स कथ्यताम् || २२ || नन्वियं जगदवबोधचित्सविकल्पा ब्रह्मचिन्निर्विकल्पेति जगद्भेदमपलपितुं प्रवृत्तस्य ते प्रत्युत चित्यपि भेदः प्रसक्त इत्याशङ्क्याह - त्रैलोक्येति | त्रैलोक्ये यावान्भूयाननुभवः स सर्वोऽपि ब्रह्मचिदादित्यस्यांशुमण्डलं किरणसमूह इव वस्तुतो न भिद्यत इत्यर्थः | स्वस्यांशुमण्डलस्यांशुमतश्च को वा भेदः | विकल्पानां मिथ्यात्वे स त्रैलोक्यभूयोनुभवोऽपि निर्विकल्पक एव कथ्यतामित्यर्थः || २२ || स्वाभावतोऽस्याश्चिद्दृष्टेर्ये [चिद्वृत्तेरिति पाठश्चेत्तर्हि व्याख्यानुकूलः स्यात्] उन्मेषनिमेषणे | जगद्रूपानुभूतेस्तावेतावस्तमयोदयौ || २३ || अस्याः सविकल्पायाश्चिद्वृत्तेश्चिदाभासस्य उन्मेषो जगदनुभूतेरुदयो निमेषोऽस्तमय इत्यार्थक्रमप्राबल्यात्पाठव्युत्क्रमेण योज्यम् | अथवास्या निर्विकल्परूपायाश्चिद्वृत्तेश्चरमसाक्षात्कारस्य उन्मेषो जगद्रूपानुभूतेरस्तमयो निमेषोऽनाविर्भावस्तूदय इति पाठक्रमेणैव योज्यम् || २३ || अहमर्थोऽपरिज्ञातः परमार्थाम्बरे मलम् | परिज्ञातोऽहमर्थस्तु परमात्माम्बरं भवेत् || २४ || तस्मान्निमेष एव प्रतीचोऽविद्यामल उन्मेषश्च नैर्मल्यलक्षणो मोक्ष इत्याशयेनाह - अहमर्थ इति || २४ || अहंभावः परिज्ञातो नाहंभावो भवत्यलम् | एकतामम्बुनेवाम्बु याति चिन्नभसात्मना || २५ || नन्वहमर्थोऽहंकारः स कथं परिज्ञातोऽपि परमात्माम्बरं स्यात्तत्राह - अहमर्थ इति | यावत्तत्त्वतो न परिज्ञातस्तावदेवाहंकारः सः परिज्ञाते तु न तथेत्यर्थः || २५ || अहमादिजगद्दृश्यं किल नास्त्येव वस्तुतः | अवश्यमेव तत्तस्माच्छिष्यतेऽहंविचारतः || २६ || परिज्ञातो बाध्येत तर्हि किं शिष्यते तदाह - अवश्यमेवेति | तच्चिन्नभः शिष्यते परिशिष्यते | विचारतः कोऽयमहंपदार्थः स्यादिति प्रमाणपूर्वकविचारजन्यज्ञानात् || २६ || बाध्यते चामलधियामपिशाचे पिशाचधीः | शिशूनां तावदाध्वान्तःकरणानां विचारणा || २७ || अपिशाचे पिशाचधीः अमलधियां प्रौढबुद्धीनां बाध्यते | आध्वान्तःकरणानां ईषन्मार्गप्रवृत्तबुद्धीनां तु शतशो नायं पिशाच इत्युपदिष्टेऽपि विचारणा संशय एव भवति नतु बाध्यत इत्यर्थः || २७ || चिज्ज्योत्स्ना यावदेवान्तरहंकारघनावृता | विकासयति नो तावत्परमार्थकुमुद्वतीम् || २८ || यथा बालानां मोहो बोधनिरोधी तद्वत्प्रौढानामभिमानोऽपि तन्निरोधीत्याशयेनाह - चिज्ज्योत्स्नेति || २८ || प्रमार्जितेऽहमित्यस्मिन्पदे स्वार्थे स्वयं विना | नरकस्वर्गमोक्षादितृष्णायाः कल्पनैव का || २९ || अहमभिमानापाये भयरागमुमुक्षाहेतुकद्वेषरागगोचरनरकस्वर्गमोक्षतृष्णाप्यपैतीत्याह - प्रमार्जिते इति || २९ || हृदि यावदहंभावो वारिदः प्रविजृम्भते | तावद्विकासमायाति तृष्णाकुटजमञ्जरी || ३० || आक्रम्य चेतनां नित्यमहंकाराम्बुदे स्थिते | जाड्यमेव स्थितिं याति न प्रकाशः कदाचन || ३१ || असन्नयमहंकारः स्वयं मिथ्या प्रकल्पितः | दुःखायैव न हर्षाय बालसंभ्रमयक्षवत् || ३२ || मुधैव कल्पितो मोहमहंभावः प्रयच्छति | अनन्तसंसारकरं दामादिष्विव दुर्मतौ || ३३ || मोहं भ्रमम् | दुर्मतौ अभिमानदूषितान्तःकरणे || ३३ || अयं सोऽहमिति स्फारान्मोहादन्यतरत्तमः | अनर्थभूतं संसारे न भूतं न भविष्यति || ३४ || तत्राप्ययं देहोऽहमिति भ्रमः सर्वानर्थनिदानमित्याह - अयमिति || ३४ || यत्किंचिदिदमायाति सुखदुःखमलं भवे | तदहंकारचक्रस्य प्रविकारो विजृम्भते || ३५ || प्रविकारो मुख्यः परिणामस्तदर्थत्वात्परिणामान्तराणाम् || ३५ || अहंकाराङ्कुरः कृष्टो हृदयेनावरोपितः | सहस्रशाखं दुश्छेदं तस्य संसृतिनाशनम् || ३६ || येन अहंकारलक्षणो दुर्वृक्षाङ्कुरो हृदयेन विचारपरिष्कृतमनसैव हलेन कृष्टः कर्षणेन मूलशैथिल्यमापादितः सन्नवरोपित उत्खाय निरस्तस्तस्यार्थादात्मक्षेत्रे संसृतिनाशनं ज्ञानसस्यं सहस्रशाखं प्रवृद्धं फलतीति शेषः || ३६ || अहंभावोऽङ्कुरो जन्म वृक्षाणामक्षयात्मनाम् | ममेदमिति विस्तीर्णास्तेषां शाखाः सहस्रशः || ३७ || तदनुच्छेदेऽनर्थमाह - अहंभाव इति | अक्षयात्मनां ज्ञानकुठारमन्तरेणानुच्छेद्यस्वभावानाम् || ३७ || करटापातविस्फोटा भान्त्यर्था वासनादयः | विचार्यचारुरववत्तरङ्गवरपङ्क्तिवत् || ३८ || ज्ञानमात्रोच्छेद्यत्वादतिनिःसाराश्च ते इत्याह - करटापातेति | करटानां काकानामापात ईषत्पतनं तेनापि विस्फुटन्ति विशीर्यन्ते इति करटापातविस्फोटाः | विचार्यो विमृश्यश्चारुः रवो विस्फोटनशब्दो यस्य तथाविधपक्वशाल्मलीफलादिवत् | तरङ्गाणां वरा रम्या याः पङ्क्तयस्तद्वच्चापातभङ्गुराः फल्गव इत्यर्थः || ३८ || अहंभावनया भाति त्वमहंभाववर्जितः | संसारचक्रवहनमात्मनः परिरोधया || ३९ || वस्तुतस्त्वहंभाववर्जित एवात्मा आत्मनः परिरोधया तिरोधात्र्याहंभावनया स्वयमेव संसारचक्रे वहनं भ्रमणमिव भातीत्यर्थः || ३९ || अहंभावतमो यावज्जन्मारण्ये विजृम्भते | तावदेता विवल्गन्ति चिन्तामत्ताः पिशाचिकाः || ४० || चिन्तालक्षणा मत्ताः पिशाचिका विवल्गन्ति विधावन्ति || ४० || अहंकारपिशाचेन गृहीतो यो नराधमः | न शास्त्राणि न मन्त्राश्च तस्याभावस्य सिद्धये || ४१ || तस्याहंकारपिशाचस्याभावस्य निवृत्तेः सिद्धये प्रभवन्तीति शेषः || ४१ || श्रीराम उवाच | केनोपायेन भगवन्नहंकारो न वर्धते | तं त्वं कथय मे ब्रह्मन्संसारभयशान्तये || ४२ || तं उपायम् || ४२ || श्रीवसिष्ठ उवाच | चिन्मात्रदर्पणाकारे निर्मले स्वात्मनि स्थिते | इति भावानुसंधानादहंकारो न वर्धते || ४३ || इति उक्तप्रकारस्य भावस्य स्वात्मस्वभावस्यानुसंधानात् सदा स्मरणात्स्वात्मनि चिन्मात्रदर्पणाकारे निर्मले स्थिते सति अहंकारो न वर्धते || ४३ || मिथ्येयमिन्द्रजालश्रीः किं मे स्नेहविरागयोः | इत्यन्तरानुसंधानादहंकारो न जायते || ४४ || स्नेहविरागयोः रागद्वेषाभ्यां किं न किंचित्प्रयोजनमित्यन्तर्मनस्यनुसंधानात् || ४४ || नाहमात्मनि नो यस्य दृश्यश्रिय इति स्वयम् | शान्तेन व्यवहारेण नाहंकारः प्रवर्धते || ४५ || यस्य पुंस आत्मनि नाहं अहंकारो नास्ति दृश्यश्रियश्च नो सन्ति इति स्थित्या स्वयमेव शान्तेन || ४५ || अहं हि जगदित्यन्तर्हेयादेयदृशोः क्षये | समतायां प्रसन्नायां [प्रपन्नायां क्त्युभयत्र पाठः क्वचित्] नाहंभावः प्रवर्धते || ४६ || अन्तरहमिति बहिर्जगदिति हेयादेयव्यवहारनिमित्तयोर्दृशोः क्षये सति समतायामवैषम्यलक्षणायां प्रसन्नायाम् || ४६ || अहं चिज्जगदित्यन्तर्हेयादेयदृशोः क्षये | समतायां प्रसन्नायां [प्रपन्नायां क्त्युभयत्र पाठः क्वचित्] नाहंभावः प्रवर्धते || ४७ || अहं द्रष्टा चिद्दर्शनं जगद्दृश्यं इति त्रिपुटीप्रत्यये तत्रापीदं हेयं शत्रुभूतमिदमादेयं मित्रभूतमिति दृशोः क्षये समतायां सर्वात्मतालक्षणायाम् || ४७ || श्रीराम उवाच | किमाकृतिरहंकारः कथं संत्यज्यते प्रभो | सशरीरोऽशरीरश्च त्यक्ते तस्मिंश्च किं भवेत् || ४८ || सशरीरो जाग्रदहंकारः | अशरीरः स्वाप्नमानोरथिकाहंकारश्च | अथवा सशरीरो देहमात्राहंभावलक्षणः | अशरीरो देहव्यतिरिक्तबुद्धिमात्रोपाधिकाहंभावलक्षणः सर्वाहंभावलक्षणश्चेत्यर्थः | कथं केनोपायेन संत्यज्यते || ४८ || श्रीवसिष्ठ उवाच | त्रिविधो राघवास्तीह त्वहंकारो जगत्त्रये | द्वौ श्रेष्ठावितरस्त्याज्यः शृणु त्वं कथयामि ते || ४९ || अशास्त्रीयस्याहंकारस्य त्याजनार्थं शास्त्रीयौ द्वावहंकारौ विहितौ सूक्ष्मात्मविषयः सार्वात्म्यविषयश्च तयोस्तत्त्वदर्शनाप्रतिकूलत्वात्सांप्रतिकत्वेन सुत्यजत्वादपरिच्छिन्नात्मदर्शनद्वारत्वाच्च श्रेष्ठता | इतरस्य देहमात्राहंभावरूपस्यानर्थरूपत्वात्त्याज्यता चेत्यर्थः || ४९ || अहं सर्वमिदं विश्वं परमात्माहमच्युतः | नान्यदस्तीति परमा विज्ञेया सा ह्यहंकृतिः || ५० || अहं सर्वमिदं विश्वमिति कार्यब्रह्मविषया परमात्माहमच्युत इति कारणविषया तत्पदवाच्यार्थलक्ष्यार्थविषया वा | अन्यदनहंभूतं जगति नास्तीत्यर्थः || ५० || मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते | सर्वस्माद्व्यतिरिक्तोऽहं वालाग्रशतकल्पितः || ५१ || जीवन्मुक्तस्य चतुर्थपञ्चमभूमिकास्थस्य | यद्यपीयमभ्यासदशापन्नस्यापि [यं तृतीयेत्यपि पाठः] भवति तथापि जीवन्मुक्तेषु पक्वेति भावः | बालाग्रस्य केशाग्रभागस्य शततमभाग इति कल्पितः | शोधनेन निरवयवः समर्थित इति यावत् | स्थौल्यविरहे बुद्धिसौक्ष्म्योपाधिकसौक्ष्म्यकाष्ठायां वाऽयं दृष्टान्तो नत्वणुपरिमाणत्वे | तस्यावैदिकत्वात् | स चानन्त्याय कल्पत इति श्रुतिविरोधाच्चेति बोध्यम् || ५१ || इति या संविदेषासौ द्वितीयाहंकृतिः शुभा | मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते || ५२ || अत एवाह - जीवन्मुक्तस्येति | षष्ठभूमिकास्थस्येत्याशयः || ५२ || अहंकाराभिधा या सा कल्प्यते नतु वास्तवी | पाणिपादादिमात्रोऽयमहमित्येष निश्चयः || ५३ || ये तु सप्तमभूमिकारूढास्तेषु जीवनान्यथानुपपत्त्या या कल्प्यते नतु वास्तवी सा कल्पना | कल्पयित्रा वेदित्रा वा प्रत्यक्षमननुभवात् | अतोऽत्यन्तासत्त्वादहंकार इति नाममात्रपरिशेषादहंकाराभिधामात्रमित्याह - अहंकाराभिधेति | तृतीयं दर्शयति - पाणिपादादीति | अयं देह एवाहमित्येष निश्चयो मिथ्याभिमानः || ५३ || अहंकारस्तृतीयोऽसौ लौकिकस्तुच्छ एव सः | वर्ज्य एव दुरात्मासौ शत्रुरेव [कन्दः संसारसंततेः इति पाठः] परः स्मृतः || ५४ || अनेनाभिहतो जन्तुर्न भूयः परिरोहति | रिपुणानेन बलिना विविधाधिप्रदायिना || ५५ || न परिरोहति नापरिच्छिन्नस्वभावेनाविर्भवति | आधिग्रहणं प्राधान्याद्दुःखमात्रोपलक्षणम् || ५५ || कष्टीकृतमतिर्लोकः संकटेष्वेव मज्जति | अनया दुरहंकृत्या भावात्संसक्तया चिरम् || ५६ || भावात्स्वभावादेव चिरमनादिकालादारभ्य संसक्तया कष्टीकृतमतिर्दुर्वासनाप्रचयदुष्प्रवृत्त्याद्यापादनेन पीडितचित्तः || ५६ || शिष्टाहंकारवाञ्जन्तुर्भगवान्याति मुक्तताम् | लोकाहंकारवद्दोषवपुरस्मिन्निरूपणः || ५७ || केन तर्हि तस्माज्जन्तुर्मुच्यते तदाह - शिष्टेति | शिष्टौ प्रागुक्तौ यौ शुद्धाहंकारौ तद्वान्सन् दोषान्ममताप्रयुक्तरागादीन्वपति सर्वतश्छिनत्तीति दोषवपुः सन् अस्मिन्सर्वात्मभावाहंकारेऽपि लोकप्रसिद्धदेहात्मभावाहंकारवन्निरूपयतीति निरूपणो दृढीभूतः सन् भगवान् हिरण्यगर्भ ईश्वरो वा स्वयमेव भावनया संपन्नो देहाहंभावाहंकारमुक्ततां यातीत्यर्थः || ५७ || न देहोऽस्मीति निर्णीय वर्जनं महतां मतम् | प्रथमं द्वावहंकारावङ्गीकृत्यान्त्यलौकिकौ || ५८ || अयमेव प्रकारोऽन्येषां ब्रह्मनिष्ठानां संमत इत्याह - न देह इति | अन्त्यो देहात्मभावाहंकार इव लौकिकौ निरूढतमौ आद्यौ द्वावहंकारौ प्रथममङ्गीकृत्य न देहोऽस्मीति विचारतोऽपि निर्णीय तदहंकारवर्जनं कार्यमिति महतां पूर्वेषामपि मतमित्यर्थः || ५८ || प्रथमं द्वावहंकारावङ्गीकृत्यान्त्यलौकिकौ | तृतीयाहंकृतिस्त्याज्या लौकिकी दुःखदायिनी || ५९ || उक्तमेवार्थ पुनरनूद्योपसंहरति - प्रथममिति || ५९ || अनया दुरहंकृत्या दामव्यालकटाः किल | तां दशां समनुप्राप्ता या कथास्वपि खेददा || ६० || तत्रोक्तोपाख्यानमपि निदर्शनमित्याह - अनयेति || ६० || श्रीराम उवाच | तृतीयां लौकिकीमेतां त्यक्त्वा चित्तादहंकृतिम् | किंभावः पुरुषो ब्रह्मन्प्राप्नुयादात्मनो हितम् || ६१ || प्रश्नद्वये समाहिते रामस्तृतीयं प्रश्नमर्थात्तृतीयाहंकारनिवृत्तिफलप्रश्नतया पर्यवसन्नमध्यवस्यंस्तादृशपुरुषस्थितिप्रकारभेदान्पृच्छति - तृतीयामिति | के भावाः स्थितिप्रकारा यस्य स किंभावः || ६१ || श्रीवसिष्ठ उवाच | एषा तावत्परित्याज्या त्यक्त्वैतां दुःखदायिनीम् | यथा यथा पुमांस्तिष्ठेत्परमेति तथा तथा || ६२ || यथा यथा सर्वाहंभावेन शुद्धाहंभावेन श्रवणगुरुशुश्रूषादिपरतया सप्तभूमिकाभेदेषु वा येन येन प्रकारेण स्थातुं शक्नोति तथा तथा स्वरूपसुखाभिव्यक्त्युत्कर्षलाभात्परमेतीत्यर्थः || ६२ || अहंकारदृशावेते पूर्वोक्ते भावयन्यदि | तिष्ठेदुपैति परमं तत्पदं पुरुषऽनघ || ६३ || तदेव प्रपञ्चयति - अहंकारेत्यादिना | पूर्वोक्ते आद्ये द्वे || ६३ || अथ ते अपि संत्यज्य सर्वाहंकृतिवर्जितः | संतिष्ठेत तथात्युच्चैः पदमेवाधिरोहति || ६४ || सर्वदा सर्वयत्नेन लौकिकी दुरहंकृतिः | परमानन्दबोधाय वर्जनीयाऽनया धिया || ६५ || शतकृत्वोऽपि पथ्यं वक्तव्यमिति न्यायात्पुनर्देहात्मभावनात्यागगुणान्कीर्तयंस्तदावश्यकत्वं दर्शयति - सर्वदेत्यादिना || ६५ || शरीरास्थामयापुण्यदुरहंकारवर्जनम् | अत्यन्तपरमं श्रेय एतदेव परं पदम् || ६६ || शरीरास्थामयः अपुण्यः पापरूपो यो दुरहंकारस्तस्य वर्जनम् || ६६ || भावादहंकृतिं त्यक्त्वा स्थूलामेतां हि लौकिकीम् | तिष्ठन्व्यवहरन्वापि न नरः प्रपतत्यधः || ६७ || भावनं भावो विचारस्तस्मात् || ६७ || संशान्ताहंकृतेर्जन्तोर्भोगा रोगा महामते | न स्वदन्ते सुतृप्तस्य यथा प्रतिविषा रसाः || ६८ || प्रतिपन्नविषाः प्रतिविषाः | विषसंपृक्ता इति यावत् || ६८ || भोगेष्वस्वदमानेषु पुंसः श्रेयः पुरो गतम् | क्षीणेऽन्धकारे किं नाम मनसोऽन्यत्प्रवर्तते || ६९ || प्रतिबन्धनिरासात्पुरोगतमिव भवतीति शेषः | मनसः अन्धकारे अन्धकारवदग्रहणान्यथाग्रहणनिमित्तेऽहंकारे क्षीणे सत्यन्यत्किं प्रतिबन्धकं प्रवर्तते येन श्रेयःप्राप्तिविघातः स्यात् | न किंचिदित्यर्थः || ६९ || अहंकारानुसंधानवर्जनादेव राघव | पौरुषेण प्रयत्नाच्च तीर्यते भवसागरः || ७० || पौरुषेण धैर्येण श्रवणादिप्रयत्नाच्च || ७० || नाहं न तेन मम किंचिदपीति मत्वा सर्वं च मे सकलमप्यहमेव चेति | लब्धास्पदं मनसि संविदमेवमीड्यां नीत्वा स्थितिं परमुपैति पदं महात्मा || ७१ || प्रथमं सकलमप्यहमेव तेन सर्वं च मे इति मत्वा तेन देहादि नाहं तत्संबन्धि च किंचिदपि मम न इति मत्वा तेन सर्वप्रतिबन्धक्षयान्मनसि लब्धास्पदं यथा स्यात्तथा ईड्यां पूज्यां एवं प्राग्विस्तरोक्तप्रकारां शुद्धात्मसंविदं नीत्वा प्रापयय क्रमेण सप्तभूमिकास्थितिं प्राप्य महानपरिच्छिन्न आत्मा स्वयं सन् परं पदं विदेहकैवल्यमुपैति प्राप्नोतीत्यर्थः || ७१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे दामव्यालकटोपाख्यानेऽहंकारविचारो नाम त्रयस्त्रिंशः सर्गः || ३३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे अहंकारविचारो नाम त्रयस्त्रिंशः सर्गः || ३३ || चतुस्त्रिंशः सर्गः ३४ श्रीवसिष्ठ उवाच | अत्र ते शृणु वक्ष्यामि दामादिषु गतेष्वथ | यद्वृत्तं शम्बरस्यैव नगरे नगसंनिभे || १ || भीमभासदृढैः कृत्तैर्देवैरभ्यर्थितो हरिः | शम्बरं निजघानात्र ते च मुक्ता विवासनाः || १ || ज्ञानविवेकयोरभावे संपन्नमपि निर्वासनत्वं दुरभ्यासेन विहन्यते | तयोर्दार्ढ्ये तु तस्य ह न देवाश्च नाभूत्या ईशते आत्मा ह्येषां स भवति इति श्रुत्युक्तदिशा न देवैरपि पुनर्बन्धः कर्तुं शक्य इत्यर्थे भीमभासदृढन्यायं निदर्शयितुमुपक्रमते - अत्रेत्यादिना | अत्र भावादहंकृतिं त्यक्त्वेत्यादिवर्णितेऽर्थे | नगसन्निभे संपदा मेरुसदृशे || १ || तथा गगनविभ्रष्टे समस्ते ध्वस्तसंस्थितौ | विनष्टे शम्बरानीके शरदीवाब्दमण्डले || २ || तथा वर्णितप्रकारेण | गगनाद्विभ्रष्टे अधःपतिते सति | ध्वस्तसंस्थितौ भिन्नमर्यादे || २ || देवनिर्जितसैन्योऽसौ नीत्वा कतिपयाः समाः | पुनर्देववधोद्युक्तश्चिन्तयामास दानवः || ३ || असौ दानवः शम्बरः || ३ || दामादयस्तु रचिता ये मया माययाऽसुराः | मौर्ख्यात्तैर्भाविता युद्धे मिथ्यैव दुरहंकृतिः || ४ || चिन्ताप्रकारमेवाह - दामादय इत्यादिना || ४ || इदानीं संसृजाम्यन्यान्दानवान्माययोदितान् | तानप्यध्यात्मशास्त्रज्ञान्सविवेकान्करोम्यहम् || ५ || तानध्यात्मशास्त्रज्ञान् सविवेकानपि करोमीत्यन्वयः || ५ || ततस्तत्त्वपरिज्ञानान्मिथ्याभावनयोज्झिताः | नाहंकारं प्रयास्यन्ति विजेष्यन्ति च तान्सुरान् || ६ || इति संचिन्त्य दैत्येन्द्रस्तादृशान्दानवान्धिया | माययोत्पादयामास बुद्बुदानिव वारिधिः || ७ || वरप्राप्तिविद्याबलवशीकृताविद्यालक्षणया मायया || ७ || सर्वज्ञा वेद्यवेत्तारो वीतरागा गतैनसः | यथाप्राप्तैककर्तारो भावितात्मान उत्तमाः || ८ || एकविज्ञानेन सर्वविज्ञानात्सर्वज्ञाः | वेद्यात्मतत्त्ववेत्तृत्वादेव वीतरागादिविशेषणा || ८ || भीमो भासो दृढ इति नामभिः परिलाञ्छिताः | जगत्तृणमिवाशेषं पश्यन्तः पावनाशयाः || ९ || ते दैत्या भुवनं प्राप्य च्छादयामासुरम्बरम् | गर्जन्तो हेतितडितः प्रावृषीव पयोधराः || १० || भुवनमूर्ध्वभुवनम् | हेतितडित इत्युपमानपक्षे इवार्थगर्भो बहुव्रीहिः || १० || अयुध्यन्त समं देवैरपि वर्षगणान्बहून् | विवेकवशतो जग्मुर्नाहंकारं कदाचन || ११ || तेषां यावदुदेत्यन्तर्ममेदमिति वासना | तावत्कोऽयमहं चेति विचाराद्यात्यसत्यताम् || १२ || असच्छरीरं विबुधाः कोऽसावहमिति स्थितिः | विचारादित्थमेतेषां प्रोदगुर्न भयादयः || १३ || येभ्यो भेतव्यं यदर्थे च तदुभयं मिथ्येति विचाराद्भयाद्यनुदय इत्याह - असदिति | शरीरं विबुधाश्च असत् | नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् इत्येकशेषैकवद्भावः || १३ || असच्छरीरं नास्तीदं चिच्छुद्धैवात्मनि स्थिता | अहंनाम न चान्योऽस्ति निश्चित्यैवासुरा ययुः || १४ || ततस्तैर्निरहंकारैर्जरामरणनिर्भयैः | प्राप्तार्थकारिभिर्धीरैर्वर्तमानानुसारिभिः || १५ || असक्तबुद्धिभिर्नित्यं हतान्यैरप्यहन्तृभिः | वासनाजालनिर्मुक्तैः कृतकार्यैरकर्तृभिः || १६ || हता अन्ये यैस्तथाविधैरपि हन्तृत्वाभिमानाभावादहन्तृभिः || १६ || प्रभोः कार्यमिदं कार्यमिति संगरतत्परैः | वीतरागैर्गतद्वेषैः सर्वदा समदृष्टिभिः || १७ || तर्हि तेषां कुतः संगरे प्रवृत्तिस्तत्राह - प्रभोरिति | प्रभोः शम्बरस्य दृशा इदं कार्यम् | तस्याज्ञत्वादित्यर्थः | अथवा सेवकीभूतैः सदसद्वा प्रभोः कार्यमवश्यं कार्यमिति नियतिरिति हेतोः संगरतत्परैर्नतु फलाभिलाषयेत्यर्थः || १७ || सा दैवी दानवैः सेना भीमभासदृढादिभिः | हता भुक्ता हृता प्लुष्टा स्वान्नश्रीरिव भोक्तृभिः || १८ || भुक्ता जवेन वशीकृत्य सेवादिनोपभुक्तेत्यर्थः || १८ || भीमभासदृढक्षुण्णा जाता गीर्वाणवाहिनी | परिदुद्राव वेगेन गङ्गेव हिमवच्च्युता || १९ || सा सुरानीकिनी देवं क्षीरोदार्णवशायिनम् | जगाम शरणं शैलं वातार्तेवाब्दमालिका || २० || सुराणां अनीकिनी सेना || २० || हरिराश्वासयामास तां भीतां देववाहिनीम् | भुजङ्गाभिवृतामेकां रमणीमिव नायकः || २१ || भुजङ्गैर्विटैर्बलादुपभोगायाभिवृताम् | भीतामित्यस्या अपि विशेषणम् | नायको भर्ता || २१ || अथ क्षीरोदकुहरे तावत्सा सुरवाहिनी | उवास यावद्भगवांस्तन्निरासार्थमुद्ययौ || २२ || क्षीरोदस्य कुहरे श्वेतद्वीपे | तावत् यावच्छम्बरस्यायुःक्षयस्तावत् | तस्य शम्बरस्य निरासो वधस्तदर्थम् || २२ || बभूव दारुणं युद्धं शौरिशम्बरयोस्ततः | अकाल इव कल्पान्ते समुड्डीनकुलाचलम् || २३ || कल्पान्त इव अकालेऽपि समुड्डीनकुलाचलं युद्धम् || २३ || शशाम समरे तस्मिन्दैत्यः सबलवाहनः | नारायणहतो यातः शम्बरो वैष्णवीं पुरीम् || २४ || शशाम | मृत इति यावत् | वैष्णवीं पुरीं यातः | ये ये हताश्चक्रधरेण दैत्यास्त्रैलोक्यनाथेन जनार्दनेन | ते ते गता विष्णुपुरं नरेन्द्र क्रोधोऽपि देवस्य वरेण तुल्यः || इति शास्त्रादित्यर्थः || २४ || भीमभासदृढास्ते तु तस्मिन्विषमसंगरे | विष्णुनैव शमं नीताः पवनेनेव दीपिकाः || २५ || शमं विदेहकैवल्यम् || २५ || ते हि निर्वासना एव यदा शान्तिमुपागताः | न तदैषां गतिर्ज्ञाता दीपानामिव शाम्यताम् || २६ || तेषामपि शम्बरवत्प्रसक्तां देशान्तरगतिं प्रतिषेधति - ते हीति | वासना हि गतिकारणम् | तदेष सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य इति श्रुतेः | निर्वासनत्वात्तेषां गत्यभावादेव गतिर्न ज्ञातेत्यर्थः || २६ || तस्माद्वासनया बद्धं मुक्तं निर्वासनं मनः | राम निर्वासनीभावमाहरस्व विवेकतः || २७ || उक्तां कथां प्रकृते योजयन्नुपसंहरति - तस्मादिति | आहरस्व आनय | अवश्यं संपादयेति यावत् || २७ || सम्यगालोकनात्सत्याद्वासना प्रविलीयते | वासनाविलये चेतः शममायाति दीपवत् || २८ || तदाहरणे क उपायस्तमाह - सम्यगिति | सत्याद्यथाभूतार्थगोचरात्सम्यगालोकनाद्रत्नतत्त्वसाक्षात्कारवच्चिरविचारप्र् अणिधानजनितसाक्षात्कारादित्यर्थः | चेतो मनः | शमं नाशम् || २८ || न सत्यं किंचिदेवेह सद्भावो भावयत्यलम् | नास्त्येव भावना तस्मादित्येतत्सम्यगीक्षणम् || २९ || सम्यगालोकनप्रकारमिदानीं दर्शयति - न सत्यमिति | अलं पूर्णः सद्भावः परमार्थसत्यश्चिदात्मा यदिदं दृश्यं भावयति तत्किंचिदपि न सत्यम् | तस्मात्तस्य दृश्यस्य भावना दर्शनमपि दृश्यविशेषिताकारा नास्त्येव इति एतत्स्वप्रकाशचिन्मात्रपरिशेषदर्शनमेव सम्यगीक्षणमित्यर्थः || २९ || आत्मैवेदं जगत्सर्वं कः किं भावयतु क्व वा | भावना नाम नास्त्येव तदेतत्सम्यगीक्षणम् || ३० || कः किं भावयत्विति त्रिपुटीनिषेधः | क्वेत्याधारनिषेधः | भावनेति तत्संस्कारनिषेधः || ३० || वासनाचित्तनामानौ शब्दावर्थसमन्वितौ | सत्यावलोकनाद्यत्र विलीनौ तत्परं पदम् || ३१ || वासना चित्तमितिशब्दावपि राहोः शिर इतिवद्वैकल्पिकभेदकल्पनात्तन्नामानौ || ३१ || वासनावलितं चित्तमिह स्थितिमुपागतम् | तदेव तद्विनिर्मुक्तं विमुक्तमिति कथ्यते || ३२ || विमुक्तं जीवन्मुक्तम् | विदेहकैवल्ये चित्तस्याभावात् || ३२ || नानाघटपटाकारैश्चेतःस्थितिमुपागतम् | तदेवाशु शमं नेयं मिथ्यायक्ष इवोत्थितः || ३३ || मिथ्यायक्षो बालवेताल इव || ३३ || दामव्यालकटाकारैश्चेतः परिणतं यथा | भीमभासदृढन्यायो राघवास्त्वचलस्तव || ३४ || देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम् | आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते इति न्यायाद्दामव्यालकटदेहात्मभावनया यथा तेषां चेतः परिणतं तथैव ब्रह्मात्मभावनया भीमभासदृढन्यायस्तवाचलोऽस्त्वित्यर्थः || ३४ || दामव्यालकटन्यायो मा ते भवतु राघव | एतद्राम पुरा प्रोक्तं पित्रा कमलजेन मे || ३५ || स्वोक्तार्थे सादरग्रहणसिद्धये पितृप्रसादलब्धतां दर्शयन्पुनः स्नेहातिशयात्तमेवार्थं स्थिरयन्नुपदिशति - दामेत्यादिना || ३५ || भवते यन्मया प्रोक्तं शिष्यायात्यन्तधीमते | दामव्यालकटन्यायस्तस्मान्मा तेऽस्तु राघव | भीमभासदृढन्यायो नित्यमस्तु तवानघ || ३६ || अविरलसुखदुःखसंकटेयं भवपदवी भवतापनोपयाता | व्यवहरणवतो विभूतियातौ सततमसक्ततयैव नश्यतीति || ३७ || इति उक्तप्रकारेण भीमभासदृढन्यायेन व्यवहरणवतस्तव सर्वव्यवहारविषयेष्वसक्ततयैव विभूतेस्तत्त्वबोधपरिपाकलक्षणस्यैश्वर्यस्य यातौ प्राप्तौ सत्यां अविरलसुखदुःखसंकटा भवेषु जन्मपरम्परासु तापनाय त्रिविधतापभोगायोपयाता भवपदवी मूलोच्छेदेन नश्यति नान्यथेत्यर्थः || ३७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे दामव्यालकटोपाख्यानसमाप्तिर्नाम चतुस्त्रिंशः सर्गः || ३४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे दामव्यालकटोपाख्यानसमाप्तिर्नाम चतुस्त्रिंशः सर्गः || ३४ || पञ्चत्रिंशः सर्गः ३५ श्रीवसिष्ठ उवाच | जयन्ति ते महाशूराः साधवो यैर्विनिर्जितम् | अविद्यामेदुरोल्लासैः स्वमनो विषयोन्मुखम् || १ || इह चित्तशमोपायो भोगेच्छात्याग उच्यते | सत्संगमविवेकात्मबोधरूढसमाधियुक् || १ || तत्र मनोनिग्रह एव मुख्योपायोऽन्ये तदर्था इत्याशयेन तमेव प्रथमं प्रशंसन्प्रस्तौति - जयन्तीति द्वाभ्याम् || १ || संसारस्यास्य दुःखस्य सर्वोपद्रवदायिनः | उपाय एक एवास्ति मनसः स्वस्य निग्रहः || २ || श्रूयतां ज्ञानसर्वस्वं श्रुत्वा चैवावधार्यताम् | भोगेच्छामात्रको बन्धस्तत्त्यागो मोक्ष उच्यते || ३ || मनोनिग्रहोपायेषु भोगेच्छात्यागो मुख्य इत्याह - श्रूयतामिति || ३ || किमन्यैः शास्त्रसंदर्भैः क्रियतामिदमेव तु | यद्यत्स्वाद्विह तत्सर्वं दृश्यतां विषवह्निवत् || ४ || तस्मिंश्च विषयेषु दोषदर्शनाद्बीभत्सा उपाया इत्याशयेनाह - किमन्यैरिति || ४ || विषमा विषयाभोगाः प्रविचार्य पुनःपुनः | उपरिष्टात्परित्यज्य सेव्यमानाः सुखावहाः || ५ || तत्राविचार्य सहसा विषयत्यागो दुःखद एव विचार्य गुरुशास्त्रोक्तक्रमेण त्यागस्त्वापातकटुकोऽप्युदर्के महासुख इत्याह - विषमा इति | विषयाणामभोगास्त्यागा विषमाः | विनाविचारमिति शेषः | पुनःपुनः प्रविचार्य सहनाभ्यासादुपरिष्टात्क्रमेण भोगवासनाः परित्यज्य सेव्यमानास्तु परिपाके सुखावहा इत्यर्थः || ५ || दोषान्प्रसवति स्फारान्वासनावलिता मतिः | कीर्णकण्टकबीजा भूः कण्टकप्रसरं यथा || ६ || भोगवासनासु सतीषु का हानिस्तत्राह - दोषानिति | दोषान् रागादीन् प्रसवति पुनःपुनर्विषयस्मारणेनोत्पादयति | कीर्णानि कण्टकद्रुमबीजानि यस्याम् || ६ || अलग्नवासनाजाला मतिः प्रसरवर्जिता | अदृष्टरागद्वेषा या शममेति शनैः परम् || ७ || अतो या मतिरलग्नवासनाजाला अत एवादृष्टरागद्वेषा अत एव प्रसरश्चाञ्चल्यं तद्वर्जिता सती सा शनैः शममेतीत्यर्थः || ७ || शुभाशुभानसद्ग्लानीन्प्रसूते सुगुणान्सदा | फलदानङ्कुरान्काले श्रेष्ठबीजवतीव भूः || ८ || शुभा मतिः असती अविद्यमाना ग्लानिर्दुःखं येभ्यस्तथाविधान्सुगुणान् शान्तिदान्त्यादिसद्गुणयुक्तान् शुभानेव ज्ञानसमाधिविश्रान्तिलक्षणान्मोक्षफलदानङ्कुरान्सूते | यथा शाल्यादि श्रेष्ठबीजवती भूमिरित्यर्थः || ८ || शुभभावानुसंधानात्प्रसन्ने मनसि स्थिते | शनैः शनैः प्रशान्ते च मिथ्याज्ञानघनाम्बुदे || ९ || दयादाक्षिण्यक्षमादिशुभभावाभ्यासमारभ्य समाधिपर्यन्तानि मनोविश्रान्तिसाधनानि क्रमेणाह - शुभेत्यादिना | सर्वेषां भावलक्षणसप्तम्यन्तानां मनो भवति निर्द्वन्द्वमित्यत्रान्वयः || ९ || वृद्धिं याते च सौजन्ये यक्षे शुक्ल इवोडुपे | विवेके प्रसृते पुण्ये नभसीवार्कतेजसि || १० || उडुपे चन्द्रे || १० || धृतावन्तर्विवृद्धायां मुक्तायामिव कीचके | स्थितावन्तः कृतार्थायां मधाविव निशाकरे || ११ || धृतौ इन्द्रियनिग्रहधैर्ये | कीचके वेणौ | करीन्द्रजीमूतवराहशङ्खमत्स्यादिशुक्त्युद्भववेणुजानि | मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि || इत्यष्टसु मुक्ताप्रकारेषु [मुक्ताकरेषु इति पाठः] वेणूनामपि रत्नशास्त्रे परिगणितत्वात् | अन्तर्हृदि मनसि स्थितौ आत्मसौख्यलाभेन कृतार्थायाम् || ११ || फलिते शीतलच्छाये सत्सङ्गसफलद्रुमे | स्रवत्यानन्दसुरसे समाधिसरलद्रुमे || १२ || सत्सङ्गो गुर्वादिसमागमः || १२ || मनो भवति निर्द्वन्द्वं निष्कामं निरुपद्रवम् | प्रशान्तचापलानर्थशोकमोहभयामयम् || १३ || क्षीणशास्त्रार्थसंदेहं विगताशेषकौतुकम् | निरस्तकल्पनाजालं मोहमुक्तमलेपकम् || १४ || कौतुकं विचित्रविषयदर्शनोत्कण्ठा || १४ || निरीहं निरुपाक्रोशं निरपेक्षं निराधिकम् | संशान्तशोकनीहारमसक्तं ग्रन्थिवर्जितम् || १५ || कामो [त्रयोदशे श्लोके निष्काममित्युक्त्यात्र च निरीहनिरपेक्षत्वप्रतिपादनात्प्राप्तं पौनश् *? यं परिहरति] बीजावस्था | अपेक्षा प्रवृत्त्युन्मुखावस्था | ईहा प्रवृत्त्यवस्थेति भेदान्न पौनरुक्त्यम् | ग्रन्थिभिरासङ्गैर्वर्जितं भवतीति सर्वत्रानुकृष्यते || १५ || संदेहोग्रसुतं साग्रं सतृष्णादारपञ्जरम् | नाशयित्वा स्वमात्मानं साधयत्यर्थमैश्वरम् || १६ || एवंभूतं मनः किं करोति तदाह - संदेहेति | क आत्मा कीदृशो वा कैः साधनैर्वा लभ्यः कर्मभिर्ज्ञानेन वा कीदृशं वा ज्ञानं साधनानि च तस्य कानि स्युर्नानावादिभिरन्यथान्यथा निरूपणादित्यादिबहुविधसंदेहा एव उग्राः सुता दुष्पुत्रा यस्य तथाविधम् | अग्रैः शाखाप्रायैर्नानामनोरथारम्भैः सहितम् | तृष्णालक्षणा ये दाराः पञ्जरं स्थूलशरीरं च तत्सहितं आत्मानं स्वं मनः स्वरूपं नाशयित्वा स्वस्येश्वरो यः प्रत्यगात्मा तत्संबन्धिनमर्थं जीवन्मुक्तिलक्षणं परमपुरुषार्थ साधयतीत्यर्थः || १६ || आत्मपीवरताहेतून्विकल्पांश्चायमुज्झति | संस्मृत्य प्रभुतामेषु जहाति तृणवत्तनुम् || १७ || मनः केन क्रमेण स्वात्मानं नाशयति तमाह - आत्मेति | प्रथममात्मनः स्वस्य पीवरता पुष्टिस्तद्धेतूनरिमित्रसाध्वसाध्वादिविकल्पानुज्झति | कथम् | एषु विकल्पेषु स्वस्य उत्पादन इव निग्रहेऽपि प्रभुतां समर्थतां संस्मृत्य विचिन्त्येत्यर्थः | ततस्तनुं देहाकारं स्वीयं कल्पितरूपं तृणवज्जहाति | यावदेव हि देहाहंभावेन वासितं मनो देहाकारं भवति तावदेव देहानुकूलप्रतिकूलविषयेषु रागद्वेषातिप्रभवैर्विकल्पसहस्रैर्वर्धते तस्मिंस्तु क्षीणे क्षीयत इति भावः || १७ || मनसोऽभ्युदयो नाशो मनोनाशो महोदयः | ज्ञमनो नाशमभ्येति मनोऽज्ञस्य विवर्धते || १८ || ननु स्वनाशस्याभ्युदयत्वाभावात्प्रत्युतानर्थरूपत्वात्तत्र मनः कथं प्रवर्ततां तत्राह - मनस इति | अयं भावः - नहि मनः स्वातन्त्र्येणाभ्युदयमिच्छति किंत्वात्मभूतत्वात् आत्मभूतस्य च मनोभावोऽनर्थस्तन्नाशस्तु सर्वानर्थप्रहाणरूपत्वान्निरतिशयानन्दस्वरूपपरिशेषाच्चाभ्युदय एवेति | प्रत्यगात्मनस्तु स्वरूपलाभान्महोदयत्वं निर्विवादमेवेत्याशयेनाह - मनोनाश इति | तर्हि देहाहंकारत्यागमात्रं कार्यं किं ब्रह्मात्मताज्ञानेन तत्राह - ज्ञमन इति | ज्ञस्य ब्रह्मात्मैक्यज्ञस्य | अज्ञस्येति | अज्ञानरूपे मलेऽनुच्छिन्ने मनो भूयः प्ररोहत्येवेति भावः || १८ || मनोमात्रं जगच्चक्रं मनः पर्वतमण्डलम् | मनो व्योम मनो देवो मनो मित्रं मनो रिपुः || १९ || प्ररोहतां का हानिस्तत्राह - मनोमात्रमिति | जगदनर्थप्राप्तिरेव हानिरिति भावः || १९ || विकल्पकलुषा या स्याच्चित्तत्त्वस्यात्मविस्मृतिः | मन इत्युच्यते सेयं वासना भवभागिनी || २० || तर्हि तस्य मनसः किं स्वरूपं यदवश्योच्छेद्यं तदाह - विकल्पेति | आत्माप्रतिसंधाननिमित्तनानाविकल्पवासना एव तत्स्वरूपमित्यर्थः || २० || चेत्यानुपातकलितचिन्मात्रे तिष्ठताभिधम् | मनाग्विकल्पकलुषं चित्तत्त्वं जीव उच्यते || २१ || अस्त्वेवेंविधं मनस्तेन बध्यो जीवः कस्तमाह - चेत्येति | मनसि चेत्यस्य विषयस्य योऽनुपातो वासनात्मना प्रवेशस्तेन कलिते परिच्छिन्ने चिन्मात्रे | तिष्ठतीति तिष्ठस्तद्भावस्तिष्ठता | व्यत्ययेन कर्तरि शः | स्थितिरित्यभिधाशब्दव्यवहारयोग्यता यस्मिंस्तथाविधं मनाग्विकल्पवासनाकलुषं ब्रह्म तदेव जीव इत्युच्यत इत्यर्थः || २१ || चेत्यप्रपतितं रूढसंज्ञमज्ञत्वमागतम् | तदेवाधिकनिःसारं कल्प्यतेऽन्तर्मनस्तया || २२ || यतश्चेत्ये प्रपतितं तत्रैव चिराभ्यासाद्रूढा संज्ञा आत्मत्वाभिमानो यस्य तथाविधं यदज्ञत्वं स्वरूपविस्मरणमागतं यज्जीवरूपं तदेव विकल्पसहस्रैर्मोमुह्यमानतया सारभूतसुखस्वभावतापहाराद्यदा अधिकनिःसारं भवति तदा जीवोपकरणमनस्तया भेदेन कल्प्यत इत्यर्थः || २२ || नात्मा संसारिपुरुषो न शरीरं न शोणितम् | जडं सर्वं शरीरादि देही खवदलेपकः || २३ || एवं जीवतदुपाधी प्रदर्श्य तद्विविक्तं शुद्धात्मस्वरूपं दर्शयति - नेत्यादिना | संसारिपुरुषो जीवस्वभावो वस्तुतो न भवतीत्यर्थः || २३ || शरीरे कणशः कृत्ते नास्त्यन्यद्रुधिरादिकात् | निर्भिन्ने कदलीस्तम्भे नास्त्यन्यत्पल्लवादृते || २४ || जडत्वमेव स्फुटयति - शरीरे इति | कृत्ते छिन्ने | पल्लवात्पल्लवप्रकृतित्वक्संघातात् || २४ || मनो जीवो नरं विद्धि तदेवाकारमागतम् | आत्मनात्मानमादत्ते स्वविकल्पात्मकल्पितम् || २५ || स्वविकल्पान्नरस्तत्र प्रसार्य रचयत्यलम् | जालमात्मनिबन्धाय कोशकारकृमिर्यथा || २६ || विकल्पान् विकल्पवासनाः | प्रसार्य उद्भाव्य | नरो जीवः || २६ || इमं देहभ्रमं त्यक्त्वा देशकालान्तरे पुनः | शरीरत्वमथादत्ते पल्लवत्वमिवाङ्कुरः || २७ || तद्देहात्मकत्वाभावे युक्तिमाह - इममिति | शरीरत्वं देहान्तरभावम् || २७ || यादृग्वासनमेतत्स्यान्मनस्तादृक्प्रजायते | जातं स्वपिति यच्चित्तं तत्स्वप्ने निशि तिष्ठति || २८ || शरीरस्य वासनामयत्वे युक्तिमाह - यादृगिति | चित्तं यज्जातं सत्स्वपिति स्वप्ने तदेव भूत्वा तिष्ठतीत्यन्वयः || २८ || अम्लं मधुरसासिक्तं मधुरं मधुरञ्जितम् | बीजं प्रतिविषाकल्कसिक्तं च कटु जायते || २९ || विषयस्य वासनाधायकत्वे दृष्टान्तमाह - अम्लमिति | अम्लं तिन्तिण्याद्यम्लं बीजं मधुरसासिक्तं चेदङ्कुरादिक्रमेण वृक्षीभूय फलकालेऽपि मधुरञ्जितं सत् मधुरं जायते तदेव बीजं प्रतिविषायाः विषप्रतिनिधिभूतधत्तूरकरञ्जादिवल्ल्याः कल्केन रसेन सिक्तं चेत् फलकालेऽपि कटु जायते इति लोके आरामशास्त्रे च प्रसिद्धमित्यर्थः || २९ || शुभवासनया चेतो महत्या जायते महत् | भवतीन्द्रमनोराज्य इन्द्रता स्वप्नभाङ्नरः [स्वप्नभाङ्कुरः इति क्वचित्] || ३० || क्षुद्रवासनया चेतःक्षुद्रतामपि पेलवाम् | पिशाचविभ्रमात्स्वप्ने पिशाचान्निशि पश्यति || ३१ || पेलवां पश्यतीत्यपकृष्यते || ३१ || सरसि स्फारनैर्मल्ये कालुष्यं याति न स्थितिम् | तथैव स्फारकालुष्ये प्रसादो याति न स्थितिम् || ३२ || नैर्मल्ये कृतेऽपि पुनर्व्युत्थाने द्वैतदर्शनात्कालुष्यप्रसक्तिमाशङ्क्याह - सरसीति | एतेनाल्पविवेकादिना नैर्मल्यस्थितिप्रसक्तिरपि वारितेत्याशयेनाह - तथैवेति || ३२ || मनसि स्फारकालुष्ये तद्रूपं जायते फलम् | तथैव स्फारनैर्मल्ये तद्रूपं जायते फलम् || ३३ || त्यजत्युदारां न गतिं क्षीणोऽप्यनिशमुत्तमः | उद्योगवानविरतं पूरणाशामिवोडुपः || ३४ || ननु तर्हि देशोपप्लवादिना चिरसमाधिभङ्गे पुनः कालुष्यं स्यादित्याशङ्क्याह - त्यजतीति | क्षीणो दारिद्र्याद्युपप्लुतोऽपि | उदारां शान्तिं समाधानादिचित्तप्रसादनगतिम् || ३४ || नेह बन्धो न मोक्षोऽस्ति नाबन्धोऽस्ति [न बोध्यो न च बन्धनं इति पाठः | आद्ये न बन्धतेत्यत्र बन्धशब्दादर्श आद्यत्वि बन्धवत्तेत्यर्थः] न बन्धता | मिथ्योत्थितैव मायेयमिन्द्रजाललता यथा || ३५ || अथवा तत्त्वबोधबाधितत्वादेव नोपप्लवसहस्रेऽपि कालुष्यप्रसक्तिरित्याशयेनाह - नेहेति || ३५ || गन्धर्वनगराकारा मृगतृष्णा इवोत्थिता | द्विचन्द्रविभ्रमाभासा द्वैतैकत्वविवर्जिता || ३६ || मायामेव विशिनष्टि - गन्धर्वेति | द्वैतैकत्वविवर्जितेत्युत्तरान्वयि || ३६ || सर्वैव ब्रह्मसत्तेयमित्येषा परमार्थता | परिस्फुरति निःसारः संसारोऽयमसन्मयः || ३७ || का तर्हि परमार्थता तामाह - सर्वैवेति || ३७ || नानन्तोऽहं वराकोऽहमिति दुर्निश्चयोदितः | अनन्तोऽस्मीश्वरोऽस्मीति निश्चयेन विलीयते || ३८ || अहमनन्तोऽपरिच्छिन्नो न | अत एव वराकः क्षुद्रः || ३८ || सर्वगे स्वात्मनि स्वच्छे एषोऽहमिति भावना | एतत्तद्बन्धनं लोके स्वविकल्पोपकल्पितम् || ३९ || एषः एतद्देहमात्रः || ३९ || बन्धमोक्षदशाहीना द्वित्वैकत्वविवर्जिता | सर्वैव ब्रह्मसत्तेयमित्येषा परमार्थता || ४० || नैर्मल्यप्राप्तमरणमसक्तं सर्वदृष्टिषु | अमनस्त्वमिहापन्नं ब्रह्म पश्यति नान्यथा || ४१ || नैर्मल्यातिशयेन प्राप्तं सन्निहितं मरणं स्वनाशो यस्य तथाविधं अत एवामनस्त्वमापन्नं मन इह अस्मिन्नधिकारिशरीर एव ब्रह्म पश्यति || ४१ || मनो निर्मलतां यातं शुभसंतानवारिभिः | ब्राह्मीं दृष्टिमुपादत्ते रागं शुक्लपटो यथा || ४२ || शुभसंतानं समाध्यभ्यासजन्यधर्मोपचयस्तल्लक्षणवारिभिः | ब्राह्मीं दृष्टिं सर्वत्र ब्रह्मदृष्टिम् | रागं रञ्जकद्रव्यवर्णम् || ४२ || सर्वमेव ममात्मेति सर्वभावनयानघ | हेयादेयबले क्षीणे बन्धमोक्षो विमुच्यताम् || ४३ || बन्धसापेक्षो मोक्षोऽपि विमुच्यताम् || ४३ || शुद्धस्य मनसः कायशास्त्रवैराग्यबुद्धिभिः | अभिजातोपलस्येव जगत्तस्येति [जगत्तस्यैवेति पाठः] विद्युतिः || ४४ || ननु कायादिबन्धः सत्यः किं न स्यादिति चेन्न | मनोविकारमात्रत्वान्मानोरथिकप्रासादादिवदित्याशयेनमाह - शुद्धस्येति | आदावनधिकार्यधिकारिशरीराभिमानात्कायात्मना ततः सच्छास्त्रश्रवणाभिमानाच्छास्त्रात्मना वैराग्यात्मना तत आत्मबोधाद्बोधात्मना च | शुद्धस्य मनस एव अभिजातोपलस्य स्फटिकस्येव इति विद्युतिर्विविधप्रतिभास एव जगत्संसार इत्यर्थः || ४४ || पदार्थेनैकतामेत्य मनसो नैकतानता | असत्यज्ञानदृष्टिं तां विद्धि क्षणविनाशिनीम् || ४५ || द्वैतदर्शनक्षण एव बन्धप्राप्तिमात्मदर्शनक्षण एव सद्योमोक्षप्राप्तिं च करतलामलकवद्विविच्य दर्शयति - पदार्थेनेति श्लोकद्वयेन || ४५ || सबाह्याभ्यन्तरं त्यक्त्वा सर्वां दृश्यदृशं यदा | मनस्तिष्ठति तल्लीनं संप्राप्तं तत्पदं तदा || ४६ || दृश्यदृष्टिः स्फुटा येयं सा ह्यवश्यमसन्मयी | तन्मयत्वं च मनसः स्वरूपं विद्धि नेतरत् || ४७ || तन्मयत्वं दृश्यदृष्टिप्रचुरत्वम् || ४७ || आद्यन्तयोर्विनाशित्वान्मध्येऽपि तदसन्मयम् | अज्ञातमनसस्तेन दुःखिता हस्तसंस्थिता || ४८ || दृश्यदृष्टेरसन्मयत्वं कुतस्तत्राह - आद्यन्तयोरिति | विनाशित्वात् असत्त्वात् | एवमसदित्यज्ञातं मनो येन तस्य हस्तसंस्थिता करप्राप्तेव न दुरन्वेषेत्यर्थः || ४८ || आत्मैवेदं जगदिति विना भावेन दुःखदा | दृश्यश्रीरन्यथा त्वेषा भोगमोक्षप्रदायिनी || ४९ || इति भावेन बोधेन विना दृश्यश्रीर्दुःखदा | अन्यथा तादृशबोधसत्त्वे तु भोगग्रहणमज्ञभोगवद्दुर्वासनाधानप्रयुक्तदुःखबीजत्वा##- द्यतनार्थम् || ४९ || जलमन्यत्तरङ्गोऽन्य इति नानातयाऽज्ञता | जलमेव तरङ्गोऽयमित्येकत्वात्किल ज्ञता || ५० || लोकवदेव शास्त्रेऽज्ञताज्ञते बोध्ये नापूर्वे इत्याह - जलमिति || ५० || दुःखमायात्यसदिति हेयोपादेयरूपि यत् | तदभावेन तु ज्ञानादानन्त्यमवशिष्यते || ५१ || नानाता कुतो हेया एकता च कुत उपादेया तत्राह - दुःखमिति | हेयोपादेयरूपि यन्नानात्वं तदसदविद्यमानमिति हेतोर्दुःखं जन्ममरणाद्यायाति अनुसरति अतो हेयम् | तदभावेन त्वात्मतत्त्वज्ञानादानन्त्यमपरिच्छिन्नात्मरूपमवशिष्यते अतस्तदुपादेयमित्यर्थः || ५१ || संकल्पकल्पितत्वाच्च मनोरूपमसन्मयम् | असन्मयविनाशे तु कः शोको वद राघव || ५२ || ननु प्रियतममनोबुद्ध्यादिद्वैतस्य सत्यत्वादात्मोपकरणत्वाच्च तन्नाशे धनादिनाश इव शोकः स्यात्तत्राह - संकल्पेति || ५२ || अवत्सलो यथा बन्धुररागद्वेषया धिया | दृश्यते पश्य तद्वत्त्वं तत्त्वं पञ्जरमात्मनः || ५३ || किंच रागद्वेषयोः सतोरिष्टहानादनिष्टप्राप्तेश्च शोकः स्यात्तौ त्यक्त्वा उदासीनदृशा देहत्रयपञ्जरं पश्यतो न शोकप्रसक्तिरित्याशयेनाह - अवत्सल इति | अवत्सलो निःस्नेहः | तत्त्वं पृथिव्यादिभूततत्त्वरूपम् || ५३ || अवत्सलाद्यथा बन्धोः सुखदुःखैर्न लिप्यते | तत्त्वेन [ज्ञानेनेति पाठान्तरम्] संपरिज्ञानात्तथा तत्त्वचयात्मनः || ५४ || तत्त्वचयात्मनो भूतराशिमात्रस्वभावाद्देहद्वयपञ्जरात् || ५४ || तदनादि शिवं ज्ञानं यन्मध्यं द्रष्टृदृश्ययोः | तस्मिन्सत्ये मनः शान्तं पांसुर्वायुक्षये यथा || ५५ || यस्मिन्नधिष्ठाने मनःक्षयस्तत्स्वरूपमाह - तदिति | शिवं नित्यनिरतिशयानन्दरूपम् | द्रष्टृदृश्ययोर्मध्यं दृग्रूपमित्यर्थः || ५५ || उपशान्ते मनोवायौ देहपांसुः प्रशाम्यति | पुनः संसारनगरे न नीहारः प्रवर्तते || ५६ || मनोनाशे स्थूलदेहोऽप्यसन्भवतीत्याह - उपशान्ते इति | संसारस्य नगरवदधिष्ठाने प्रतीचि नीहारो नीहारवदावरिका अविद्या क्षीणत्वान्न प्रवर्तते || ५६ || वासनाप्रावृषि क्षीणे संस्थितौ राममागते | जाड्ये जनितहृत्कम्पे पङ्के शोषमुपागते || ५७ || तत्क्षयप्रकारमेव शरत्कालत्वेनोपपादयति - वासनेत्यादिना | क्षीणे इति पदसंस्कारपक्षे सामान्ये नपुंसकम् | संस्थितौ स्वरूपस्थितौ रमणं रामो विहारस्तमागते प्राप्ते मनसीति शेषः | रागमिति पाठे ताद्रूप्यरञ्जनमित्यर्थः | जनितो हृत्कम्पो भयं येन तथाविधे जाड्ये मौढ्ये | पक्षान्तरे शैत्ये तद्रूपे पङ्के शोषमुपागते सति || ५७ || शुष्के तृष्नावटे शान्ते मन्दे हृदयकानने | क्षीणेष्वक्षकदम्बेषु मिथ्याज्ञानघने क्षते || ५८ || मन्दे रागादिगुल्मविरले | अक्षकदम्बेषु इन्द्रियसमूहलक्षणकदम्बवृक्षेषु क्षीणेषु क्षीणफलेषु || ५८ || क्षीयते मोहमिहिका प्रभात इव शर्वरी | क्वापि गच्छति तज्जाड्यं विषं मन्त्रहतं यथा || ५९ || देहाद्रौ न भयक्षुद्राः सरितः प्रसरन्त्यलम् | नोल्लसन्ति लसत्पक्षाः संकल्पोग्रकलापिनः || ६० || भयलक्षणाः क्षुद्राः सरितः कुल्याः | कलापिनो मयूराः || ६० || परां निर्मलतामेति संविदाकाशगोचरः | राजतेऽतितरामच्छो जीवादित्यो महोदयः || ६१ || स्वरूपसंविल्लक्षणे आकाशे गोचरः अपरोक्षं स्फुरन् || ६१ || घनमोहभरोन्मुक्ता विविक्तत्वं परं गताः | समये ह्यतिशोभन्ते धौता आशा महादिशः || ६२ || विविक्तत्वं विवेकितां विभक्ततां च | समये समाध्यादिकाले सूर्यचन्द्रोदयकाले च | धौता रजोभिरदूषिता आशास्तृष्णास्तल्लक्षणा महादिशः || ६२ || भृशमाभाति विमला मुदिताकाशमञ्जरी | शीतलीकृतदिक्चक्रा शरद्व्योम्नीव चन्द्रिका || ६३ || मुदिता पुण्यफलानुशायिनी चित्तवृत्तिस्तल्लक्षणा चित्ताकाशस्य मञ्जरी || ६३ || सर्वसंपत्प्रकाशेन परमानन्ददायिना | भृशं सफलतामेति सुविविक्ता विवेकभूः || ६४ || सर्वाः संपदो विषयानन्दलवान् स्वान्तर्भावेण प्रकाशयतीति सर्वसंपत्प्रकाश आत्मा तल्लक्षणेन फलेन सस्यस्फलपक्षे तु सर्वेषां कृषीवलादीनां भाविसंपदः प्रकाशयतीति तेनेति योज्यम् | सुविविक्ता सम्यक्परिशोधिता केदारभेदैर्विभक्ता च || ६४ || सपर्वतवनाभोगं परमालोकसुन्दरम् | अच्छाच्छं शितलच्छायं जायते भुवनान्तरम् || ६५ || परमालोकेनात्मप्रकाशेन सूर्यचन्द्रज्योतिषा च तत्त्वपक्षे शीतला त्रिविधतापशून्या छाया चिदाभासो यस्मिन्नित्यर्थः | शरत्पक्षे स्पष्टम् || ६५ || विस्तारितं सुसुमतां स्फारितं स्फटिकाकृतिम् | उपैति हृत्सरः स्वच्छं नीरजोम्बुजकोशकम् || ६६ || परिच्छेदापगमाद्विस्तारितम् | विवेकजलोपचयात्स्फारितम् | हृन्मनस्तल्लक्षणं सरः | निर्गतरजोगुणो हृदयाम्बुजकोशो यत्र | शरत्पक्षे स्पष्टम् || ६६ || हृत्पद्मकोशान्मलिनः स्वाहंकारमधुव्रतः | अपुनर्दर्शनायैव चञ्चलः क्वापि गच्छति || ६७ || नीरजस्त्वं कार्यतोऽप्याह - हृदिति || ६७ || भवत्यपगताक्षेपः सर्वगः सर्वनायकः | निर्वासनः शान्तमनाः स्वदेहनगरेश्वरः || ६८ || अपगत आक्षेपः संकोचो यस्य अत एव सर्वगः || ६८ || विचारणासमधिगतात्मदीपको मनस्यलं परिगलितेव धीरधीः | विलोकयन्क्ष्यभवनीरसा गती- र्गतज्वरो विलसति देहपत्तने || ६९ || एवं वासनाक्षयफलानि प्रपञ्च्य तैरेव जीवन्मुक्तस्थितिं दर्शयति - विचारणेति | अवमत्य स्वदोषान् धीरा धीर्यस्य तथाविधः सन् क्षयेषु मृत्युषु भवेषु जन्मसु च पारलौकिकीरैहलौकिकीश्च नीरसा गतीर्विलोकयन् विचारणासमधिगतात्मदीपको भूत्वा जीवन्मुक्तो गतज्वरः सन् नेहपत्तने स्वशरीरनगरे विलसति विराजते इत्यर्थः || ६९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपाये स्थितिप्रकरणे उपशमवर्णनं नाम पञ्चत्रिंशः सर्गः || ३५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे उपशमवर्णनं नाम पञ्चत्रिंशः सर्गः || ३५ || षट्त्रिंशः सर्गः ३६ श्रीराम उवाच | यथेदृशं स्थितं विश्वं विश्वातीते चिदात्मनि | तन्मे कथय हे ब्रह्मन् पुनर्बोधविवृद्धये || १ || स्वतः स्थिता ह्यसक्तैव चित्सर्वत्र स्थितोच्यते | चित्स्थित्या सर्वभावानां स्थितिर्न पृथगित्यपि || १ || इदानीं मुख्यं प्रकरणार्थ जगत्स्थितिस्वरूपं जिज्ञासुः श्रीरामः पृच्छति - यथेति | ईदृशं प्राग्वर्णितप्रकारम् || १ || श्रीवसिष्ठ उवाच | यथोर्मयोऽनभिव्यक्ता भाविनः पयसि स्थिताः | न स्थिताश्चात्मनोऽन्यत्वाच्चित्तत्वे सृष्टयस्तथा || २ || ब्रह्मसत्तयैव जगत्स्थितिर्न पृथक् | प्राणिनां पृथक्स्वसत्तया जगत्स्थितिप्रत्ययस्तु ब्रह्मास्वरूपस्थित्यबोधनिबन्धन इति समाधातुकामो वसिष्ठस्तदनुरूपं दृष्टान्तमाह - यथेत्यादिना | सद्रूपादात्मनोऽन्यत्वात्स्वतः सत्त्वशून्यत्वाच्च न स्थिताः || २ || यथा सर्वगतः सौक्ष्म्यादाकाशो नोपलक्ष्यते | तथा निरंशश्चिद्भावः सर्वगोऽपि न लक्ष्यते || ३ || यद्यात्मस्थित्यैव सर्वस्थितिस्तर्हि सर्वत्रात्मा कुतो न लक्ष्यते तत्राह - यथेति | निरंश इति सौक्ष्म्ये उपपत्तिः || ३ || सुस्थितेवास्थितेवान्तः प्रतिभास्ति मणौ यथा | न सत्यभूता नासत्या तथेयं सृष्टिरात्मनि || ४ || सुस्थिते निरावरणस्थिते आस्थिते आवृतस्थिते | प्रतिभा प्रतिबिम्बः | मणौ स्फटिकादौ | सुस्थिता इव आस्थिता इवेति प्रतिभाविशेषणे वा || ४ || स्वाधारैरम्बुदैः स्वस्थैर्न स्पृष्टं गगनं यथा | चित्स्थैः सर्गैश्चिदाधारैर्न स्पृष्टा चित्परा तथा || ५ || असङ्गत्वे दृष्टान्तमाह - स्वेति | अन्योन्यतादात्म्याध्यासाच्चित आधारैः || ५ || जलधिष्ठिततत्तेजो यथाङ्ग प्रतिबिम्बति | तथा पुर्यष्टकेष्वेव चिद्धि देहेषु लक्ष्यते || ६ || तर्हि सूक्ष्माच्चिद्घटादाविव देहेऽपि न लक्ष्येत लक्ष्यते तु तत्र को हेतुस्तत्राह - जलधिष्ठितेति | अङ्गेति संबोधने | यथा जले संयुक्ताः किरणाः संपृक्ततया स्फुटं न लक्ष्यन्ते प्रतिबिम्बात्मना तु स्फुटं लक्ष्यन्ते तद्वत्पुर्यष्टकात्मकेषु देहेष्वित्यर्थः || ६ || सर्वसंकल्परहिता सर्वसंज्ञाविवर्जिता | सैषा चिदविनाशात्मा तच्चेत्यादिकृताभिधा || ७ || तस्याः प्रतिबिम्बता तदधीनकामसंकल्पनामरूपभावत्वाच्च न वास्तवीत्याह - सर्वेति | किंकृता तर्हि जीवाद्यभिधा तदाह - तदिति | आदिपदादाभासग्रहः || ७ || आकाशशतभागाच्छा ज्ञेषु निष्कलरूपिणी | सकलाकलसंसारस्वरूपैकात्म्यदर्शिनी || ८ || चित्सौक्ष्म्यस्वाच्छ्यपर्यालोचने आकाशोऽपि शतगुणस्थूलोऽस्वच्छश्च स्यादिति विद्वदनुभवेनाह - आकाशेति | सकलमप्यकलं निष्कलं संसारस्वरूपं यत्र तथाविधैकात्म्यदर्शनशीलेति विद्वदनुभवाभिनयः | अमलेति पाठे मायामलरहितमित्यर्थः || ८ || तरङ्गादिमयी स्फारा नानाता सलिलार्णवे | तस्मान्न व्यतिरेकेण यथा भावविकारिणी || ९ || अत एव तत्र भ्रान्तिदृष्टा भावविकारास्तद्व्यतिरेकेण न सन्तीत्याह - तरङ्गेति द्वाभ्याम् || ९ || त्वत्तामत्तामयि स्फारा नानातेयं चिदर्णवे | चिन्मात्रव्यतिरेकेण तथा नैव प्रकाशते || १० || चिच्चिनोति चितं चेत्यं तेनेदं स्थितमात्मनि | अज्ञेऽज्ञे त्वन्यदायातमन्यदस्तीति कल्पना || ११ || यदि चित् चेत्यं चिनोति उपचिनोतीति मन्यसे तर्हि चिच्चितमेव चिनोतीति मन्यस्वनचेत्यमन्यदस्तीति | एवं मनने तेन चितः स्वात्मनि व्यापारायोगेन हेतुना इदं चित्स्वरूपमात्मन्येव स्थितं न किंचिच्चिनोतीति फलतीत्यर्थः | सेयं परमार्थदृष्टिः | यस्त्वज्ञ एव सन् ज्ञोऽस्मीत्यभिमन्यते तस्यैव चिद्व्यतिरिक्तं सर्गेष्वन्यदायातमस्तीति च कल्पनेत्यर्थः | अज्ञेऽज्ञे इति वीप्सा वा || ११ || अज्ञेष्वसत्स्वभावोग्रसंसारगणगर्भिणी | ज्ञेषु प्रकाशरूपैव सकलैकात्मिका सती || १२ || तामेव ज्ञाज्ञयोः कल्पनया चितं पुनर्विभज्याह - अज्ञेष्विति || १२ || अनुभूतिवशान्नित्यमर्कादीनां प्रकाशिनी | स्वादिनी सर्वभूतानां भाविनी भवभोगिनाम् || १३ || तस्या एव चितो जगत्प्रकाशभोगजन्मनिर्वाहकतामाह - अनुभूतीति | स्वादिनी विषयस्वादने निमित्तभूता | भवभोगिनां जीवानां भाविनी जन्मादौ निमित्तभूता च | आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते इति श्रुतेः || १३ || नास्तमेति न चोदेति नोत्तिष्ठति न तिष्ठति | न चायाति न वा याति न चेह नच नेह चित् || १४ || अज्ञानां जन्मादिनिमित्तभावेऽपि ज्ञदृशा कूटस्थापरिच्छिन्नैकरूपैव सेत्याह - नास्तमेतीति || १४ || सैषा चिदमलाकारा स्वयमात्मनि संस्थिता | राघवेत्थं प्रपञ्चेन जगन्नाम्ना विजृम्भते || १५ || विजृम्भते विवर्तते || १५ || तेजःपुञ्जैर्यथा तेजः पयःपूरैर्यथा पयः | परिस्फुरति संस्पन्दैस्तथा चित्सर्गविभ्रमैः || १६ || चिद्विवर्तोऽपि परमार्थदृशा चिदेवेत्याशयेन दृष्टान्तावाह - तेजःपुञ्जैरिति || १६ || तत्स्वभावेन चिन्नाम्ना सर्वगेनोदितात्मना | प्रकाशेनाप्रकाशेन निरंशेनांशधारिणा || १७ || स्वतःशुद्धस्याप्यविद्यया सर्गविभ्रमैः परिस्फुरणमेव सर्गकर्तृत्वं नान्यादृशमिति दर्शयितुं तदुपयोगिनी द्वे रूपे आह - तदिति | स्वभावेन चिन्नाम्ना | व्यवहारतः सर्वगेन | परमार्थतः प्रकाशेन | नाहं जानामीति व्यवहारादप्रकाशेन | एवमग्रेऽपि || १७ || स्वयं स्वकलनाभोगादनन्तं पदमुज्झता | अहमस्मीति भावेन गच्छता ज्ञपदं शनैः || १८ || स्वकलना अविद्यायां स्वप्रतिबिम्बस्तल्लक्षणादाभोगात्कृत्रिमवेषात् | अनन्तं पदमपरिच्छिन्नस्वरूपमुज्झतेवाप्रतिसंदधानेन | अज्ञपदं जीवताम् || १८ || नानातायां प्ररूढायामस्यां संसृतिपूर्वकम् | भावाभावग्रहोत्सर्गपदे स्थितिमुपागते || १९ || इदमस्ति इदं नास्तीति भावाभावौ | इदं ग्राह्यमिदं त्याज्यमितीष्टानिष्टयोर्ग्रहोत्सर्गौ च | तेषां पदे स्थाने देहात्मभावे || १९ || पुर्यष्टकस्पन्दशतैः करोति न करोति च | उत्सेधमेति भूकोशकोटरस्थोऽङ्कुरोत्करः || २० || अध्यस्तात्मभावपुर्यष्टकस्पन्दशतैर्विहितनिषिद्धकर्मभिर्भोग्यं जगत्करोति न करोतीति | वस्तुतः तत्तद्वस्तुभावेन करणप्रकाशने प्रपञ्चयति - उत्सेधमित्यादिना | उत्सेधमुपचयेनौन्नत्यम् || २० || व्योम सौषिर्यमादत्ते सर्वमूर्त्यविरोधि यत् | स्पन्दैकधर्मवान्वातो रसरूपतया जलम् || २१ || भुवोङ्कुरात्मनोत्सेधे भूतान्तरभावेन तदानुकूल्याचरणमाह - व्योमेति | यदि व्योम सौषिर्यं नादद्यान्निरवकाशोऽङ्कुरो न निर्गच्छेत् | एवं स्पन्दात्मको वायुराकर्षति येनाङ्कुरो निर्गच्छतीत्याह - स्पन्देति | एवं जलं स्वरसेनाङ्कुरं स्नेहयतीत्याशयेनाह - रसेति || २१ || दृढोर्वी प्रकटं तेजः स्थितिमन्ति जगन्ति च | प्रतिबन्धाभ्यनुज्ञासु कालः कलनया स्थितः || २२ || एवमुर्वी स्वदार्ढ्यदानेनाङ्कुरमनुगृह्णातीत्याशयेनाह - दृढेति | तेजश्च रूपदानेन प्रकटीकरोतीत्याशयेनाह - प्रकटमिति | एवं सर्वजगन्ति तत्तत्कार्याणां स्थित्यविघाताभ्यामनुग्राहकाणीत्याशयेनाह ##- यवाङ्कुरोद्गमाभ्यनुज्ञानेन चानुग्राहक इत्याह - प्रतिबन्धेति | कलनया परिणामकतया || २२ || पुष्पेषु गन्धतां याति शनैः संचितकेसरम् | मृत्कोटररसोल्लासः स्थाणुतामेति भूतले || २३ || पूर्वपुण्यादिभावापन्ना चिद्गन्धाद्यात्मना विवर्तत इत्याह - पुष्पेष्विति | मृदन्तर्गतरसभावापन्ना चित् स्थाणुतां तरूपचयेन तन्मूलदारुताम् || २३ || मूलस्थाः फलमायान्ति पेलवा रसलेशकाः | संनिवेशं व्रजन्त्येता रेखाः पल्लवपालिषु || २४ || मूलस्थरसभावापन्ना च फलभावं याति | त एव रसाः पल्लवपालिषु प्रविष्टा रेखाः शिरा भूत्वा पत्रादिसंनिवेशं व्रजन्ति || २४ || नवतामनुगृह्णाति शक्रबाणासनेन च | यो [योयो नूतनतासंपादनपूर्वकोऽनुग्रहः] यो भवत्यविरतं संस्थानेन वनेन च || २५ || शक्रबाणासनेनेन्द्रचापेन समामिति शेषः | नवतां वृक्षस्य नूतनतां च संपादयन्ननुगृह्णाति || २५ || वसन्तमुपतिष्ठन्ति पुष्पपल्लवराशयः | निदाघविधिमायान्ति दैवदाहविभूतयः || २६ || तस्या ऋतुरूपेणापि कार्यानुग्राहकत्वं प्रपञ्चयति - वसन्तमित्यादिना | दैवस्य सौरस्य तेजसो दाहविभूतयस्तापशक्तयः || २६ || प्रावृट्समयमीहन्ते नीला जलदराशयः | शरदं चानुधावन्ति समग्राः फलराशयः || २७ || समग्राः क्षेत्रेषु प्रचुरीभूता धान्यादिफलराशयः || २७ || हेमन्ते हिमहासिन्यो भवन्ति ककुभो दश | नयन्त्युपलतामम्बु शिशिरे शीतलानिलाः || २८ || न जहाति स्वमर्यादां कालो युगमयीमिमाम् | तरङ्गिणीतरङ्गौघलीलया यान्ति सृष्टयः || २९ || संवत्सरयुगादिकालात्मना च तस्याः सर्गादिमर्यादानुग्राहकत्वमाह - न जहातीति || २९ || नियतिः स्थितिमायाति स्थैर्यचातुर्यकारिणी | तिष्ठत्याप्रलयं धीरा धराधरणधर्मिणी || ३० || नियत्यादिरूपेणापि तस्या जगन्मर्यादाव्यवस्थापकत्वमाह - नियतिरिति | स्थैर्यचातुर्यकारित्वमेव धरादावुदाहृत्य दर्शयति - तिष्ठतीति - धरणधर्मिणी सर्वजनाधारस्वभावा || ३० || चतुर्दशविधानीह भूतानि भुवनान्तरे | नानाचारविहाराणि नानाविरचनानि च || ३१ || चतुर्दशलोकवासित्वाच्चतुर्दशविधानि भूतानि प्राणिनः || ३१ || पुनःपुनर्विलीयन्ते जायन्ते च पुनःपुनः | धारापरम्परा याति विना वारीव बुद्बुदाः || ३२ || भूतानां धारा परम्परा जन्ममरणप्रवाहपरम्परा यात्यपगच्छति तत्त्वज्ञानेनेति शेषः || ३२ || आयाति याति परितिष्ठति लीलयाटि- स्वार्थानुपार्जयति धावति जन्मनाशैः | उन्मत्तवद्विहितभावनमाहितेहा मुग्धा कृतान्तविवशा जनता वराकी || ३३ || उक्तमेवार्थं प्रपञ्चयन्नुपसंहरति - आयातीति | ब्रह्माण्डकोटिलक्षणा तदन्तर्गतप्राणिलक्षणा च शोच्यत्वाद्वराकी जनता विहितभावनं यथा स्यात्तथा | प्राक्तनसंकल्पवासनारागादिति यावत् | आहितेहा उद्भूतकामा स्वरूपविचारवार्तानभिज्ञत्वान्मुग्धा उन्मत्तवदिह लोके जन्मभिरायाति परलोकं याति परितश्च स्थावरादिजन्मभिस्तिष्ठति लीलया भोगकौतुकेन अतिशयितान् ऐहिकामुष्मिकभोगोपायधनधर्मादिलक्षणान्स्वार्थानुपार्जयति जन्मनाशैर्धावति संसारे इत्थं भ्रमतीत्यर्थः || ३३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे चिदादित्यस्वरूपवर्णनं नाम षट्त्रिंशः सर्गः || ३६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे चिदादित्यस्वरूपवर्णनं नाम षट्त्रिंशः सर्गः || ३६ || सप्तत्रिंशः सर्गः ३७ श्रीवसिष्ठ उवाच | इत्थं स्थिरतराकाराः संसारावलयोऽभितः | स्वभावाद्ब्रह्मणः सर्वाः पुनरायान्ति यान्ति च || १ || आत्मनोऽनात्मभावोऽयमविद्याकामकर्मभिः | बोधादकामान्नैष्कर्म्यात्स्वरूपावस्थितिस्ततः || १ || चित्स्वरूपस्थितिरेव जगत्स्थितिश्चित एव जगद्रूपेणावस्थानादिति वक्तुं प्रागुक्तमनुवदति - इत्थमिति || १ || स्वतः सर्वमिदं जातमन्योन्यं हेतुतां गतम् | अन्योन्यमभिनश्यत्तत्स्वत एव विलीयते || २ || अन्योन्यं हेतुतां गतमिदं जगत्स्वतः स्वाधिष्ठानचैतन्यादेव जातम् | एवमग्रेऽपि || २ || स्वतोऽस्पन्दोऽपि तु स्पन्दो यथाऽगाधजलोदरे | तथैवेयमसत्सच्च चिदेव परिदृश्यते || ३ || यथा अगाधजलोदरे जलाव्याप्तदेशाभावाज्जलस्य स्पन्दोऽप्यस्पन्दस्तथेत्यर्थः || ३ || व्योमन्येव निराकारे निदाघात्सरितो यथा | लक्ष्यन्ते तद्वदेवेमाश्चित्तत्त्वे सृष्टिदृष्टयः || ४ || सरितो मृगतृष्णाः || ४ || यथा मदवशादात्मा सोऽन्यवत्प्रतिभासते | तथैव चित्त्वाच्चिद्धातुः स एवाऽस इव स्थितः || ५ || स एव स्वात्मा अन्यवत् अघूर्णमानोऽपि घूर्णमान इव | चिद्धातुश्चित्सारः | असः अचिदिव || ५ || न चेदं सदसन्नेदं तत्स्थातत्स्थतया चितः | नातिरिक्तातिरिक्ता च कटकादिषु हेमता || ६ || उक्तार्थं स्थिरयितुं जगतोऽनिर्वचनीयस्वभावतां दर्शयति - न चेति | सतैव तद्वेषधारणादसत्त्वं दुर्वचनं बाध्यत्वाच्च सत्त्वं दुर्वचनमित्याशयेनाह - तत्स्थातत्स्थतयेति || ६ || येन शब्दं रसं रूपं गन्धं जानासि राघव | सोऽयमात्मा परं ब्रह्म सर्वमापूर्य संस्थितः || ७ || ननु ब्रह्मणो जगद्विवर्तः श्रूयते न प्रत्यक्चित इत्याशङ्क्य सैव ब्रह्मेति दर्शयति - येनेति | येन रूपं रसं गन्धं शब्दान्स्पर्शांश्च मैथुनान् | एतेनैव विजानाति किमत्र परिशिष्यत || एतद्वै तत् इति काठकश्रुतौ ब्रह्मण एव प्रत्यगात्मताभिधानादिति भावः || ७ || नानैकत्वादतीतात्तु सर्वगादमलात्मनः | द्वितीया कलना नास्ति काचिन्नेतरथा क्वचित् || ८ || ननु प्रतीचां नानात्वाद्ब्रह्मणश्चैकत्वात्कथमैक्यमित्याशङ्क्य नानैकत्वयोर्मिथ्यात्वान्नायं दोष इत्याशयेनाह - नानैकत्वादतीतादिति || ८ || राम भावनादन्यस्य भावाभावाः शुभाशुभाः | सृष्टयः परिकल्प्यन्तेऽनात्मन्येवाथवात्मनि || ९ || यतोऽन्यस्य वस्तुनो भावाः सद्भावा अभावाः शुभाशुभाः सृष्टयश्च भावनाद्वासनावशादेव परिकल्प्यन्ते | ताश्च मायिकदृशा अनात्मभूतमायायामेव | अथवा तत्त्वदृशा आत्ममात्रत्वादात्मन्येव || ९ || यस्मादात्मनो व्यतिरिक्ते वस्तुनि सिद्धे सति तत्रेच्छा प्रवर्तते | यत्र स्वात्मनो व्यतिरिक्तं न किंचिदपि संभवति तत्रात्मा किमिव वाञ्छन्किमनुस्मरन्धावतु किमुपैतु || १० || अथवात्मनीति यत्पद्ये पक्षान्तरमुक्तं तद्युक्तिप्रयोजनाभ्यां गद्यैरुपपादयति - यस्मादित्यादिना | यदा आत्मरूपा सृष्टिरात्मन्येवास्ते इति पक्षस्तदा आत्मान्या सृष्टिर्नास्त्येवेति फलितम् | इच्छापूर्विका हि सृष्टिः | सोऽकामयत बहु स्यां प्रजायेय इत्यादिश्रुतेः | नचात्मन आत्मनीच्छासिद्धत्वात् | नचात्मनोऽन्यत्प्रसिद्धमस्ति यदिच्छन्नात्मा स्रष्टुं प्रवर्तेत | नचाप्रवर्तमानः कश्चित्स्रष्टुं शक्नोतीत्याशयः | किमुपैतु धावनेन वा किं फलं प्राप्नोतु || १० || अत इदमीहितमिदमनीहितमित्यात्मानं न स्पृशन्ति विकल्पाः | अतो निरिच्छतायामात्मा न किंचिदपि करोति कर्तृकरणकर्मणामेकत्वात् न क्वचित्तिष्ठत्याधाराधेययोरेकत्वात् नच निरिच्छस्यात्मनो [१] नैष्कर्म्यमभिमतम् द्वितीयायाः कल्पनाया अभावात् || ११ || ननु नैष्कर्म्यसिद्धिस्तत्फलमस्तु तत्राह - नचेति | निरिच्छेति [निरिच्छति इति मूले टीकायां च निरिच्छति = अनिच्छे इति क्वचित्पठ्यते] | अनिच्छे कर्मप्रसिद्धौ नैष्कर्म्यफलं स्यान्नच सास्तीत्याशयेनाह - द्वितीयाया इति || ११ || नेतरा जानासि राम त्वमियं ब्रह्मसंस्थितिः | सर्वद्वन्द्वविनिर्मुक्तः कर्ता भव गतज्वरः || १२ || इतरा उक्तप्रकारेऽभ्योऽन्या साफल्यादिकल्पना न नास्त्येव | इयं हि ब्रह्मसंस्थितिः | यद्यत्र त्वमितरां जानासि तर्हि सर्वद्वन्द्वविनिर्मुक्तो गतज्वरोऽपि सन् कर्ता भव नाहं निवारयामीति भावः || १२ || अन्यच्च राघव पुनः पुनः कृत्वा कृत्वा बहुविधमिदं कर्म तरसा त्वया प्राप्यं किं तद्वद यदुचितं भूतकरणात् | अकर्तृत्वे वास्था भवतु तव चाप्यागमवतो भव स्वस्थः स्वच्छः स्तिमित इव निर्वातजलधिः || १३ || अज्ञतादशायामपि भौतिकशरीरपरिग्रहणकर्तृत्वे भूतैरेव भूतानि कृत्वा भौतिकानि फलानि प्राप्तानि नत्वसङ्गोदासीनेनात्मना किं वाच्यं तस्य प्रबोधदशायां क्रियातत्फलयोरसंभव इति न तत्रास्थोचितेत्याशयेन गद्योक्तार्थसमर्थनाय पद्यमवतारयति - अन्यच्चेति | द्वितीयं पुनःशब्दमारभ्य पद्यं बोध्यम् | हे राघव त्वया तरसा कर्तृत्वाभिनिवेशेन पुनःपुनः कृत्वा कृत्वा भूतकरणात् विषयभूतैर्देहभूतोपचयादेरन्यत्किं फलं प्राप्यं यत्ते तव नित्यनिरतिशयानन्दात्मन उचितं फलं स्यादित्यर्थः | अतः सर्वकर्तृत्वाभिनिवेशं हित्वा स्वस्वरूपोचिते अकर्तृत्व एवास्था भवतु | एवार्थे वाशब्दः | तदुपपत्तये हेतुगर्भ विशिनष्टि - आगमवत इति | श्रुतिगुरुवाक्यैरात्मप्रबोधवत इति यावत् | अपिशब्दान्मुख्याधिकारवत्तानुक्ता समुच्चीयते | अतः स्वच्छः स्वस्थो भवेत्यर्थः || १३ || गत्वा सुदूरमपि यत्नवता जवेन नासाद्यते तदिह येन सुपूर्णतैति | मत्वेति मा व्रज पदार्थगणान्धिया त्वं न त्वं त्वमेव परमार्थतया चिदात्मा || १४ || विस्तरोक्तमर्थ संक्षिप्योपसंहरति - गत्वेति | येन सुपूर्णता अपरिच्छिन्नसुखलाभेन पूर्णकामता एति तत्साधनं सुदूरं दिशामन्तमपि गत्वा भ्रमित्वा अत्यन्तयत्नवतापि नासाद्यत इति मत्वा निश्चित्य त्वं धिया मनसापि बाह्यपदार्थगणान्मा व्रज | इत्थं क्रियाः सर्वास्त्याजयित्वा स्वस्थान एव परमपुरुषार्थ दर्शयति - न त्वमिति | न त्वं निरस्तपराग्रूपस्त्वमेव परमार्थतया दृष्टः पूर्णानन्दचिदात्मा परमपुरुष इत्यर्थः || १४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे उपशमवर्णनं नाम सप्तत्रिंशः सर्गः || ३७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे उपशमवर्णनं नाम सप्तत्रिंशः सर्गः || ३७ || श्रीवसिष्ठ उवाच | एवं स्थिते तु तज्ज्ञानां यदेतत्कर्तृत्वं दृश्यते सुखदुःखादिषु योगादिषु वा तदसन्नतु मूर्खाणाम् || १ || असङ्गात्मानभिज्ञस्य मनःसङ्गेन कर्तृता | ज्ञस्याकर्तृरभोक्तृत्वान्न बन्धोऽस्तीत्युदीर्यते || १ || ननु तत्त्वविदामपि लौकिकेषु शास्त्रीयेषु च कर्मसु कर्तृत्वं दृश्यते तच्चावश्यमिष्टानिष्ठभोक्तृत्वं प्रापयिष्यतीत्यज्ञात्को विशेषस्तत्राह ##- समाध्यभ्यासपरिपाकभूमिकाभेदेषु वा तज्ज्ञानां तत्त्वविदां तद्दृश्यमानं कर्म असत् नास्त्येव नतु मूर्खाणां तत्तथेत्ययमेव विशेष इत्यर्थः || १ || यतः कर्तृत्वं नाम किमुच्यते | यो ह्यन्तस्थाया मनोवृत्तेर्निश्चय उपादेयताप्रत्ययो वासनाभिधानस्तत्कर्तृत्वशब्देनोच्यते || २ || तदुभयमुपपादयितुं कर्तृत्वरूपं विमृशति - यत इत्यादिना | यो हीति | शारीरक्रिया न कर्तृता | अबुद्धिपूर्वचेष्टायां करोमीति प्रत्ययादर्शनात् किंतु मानसी पूर्वपूर्वकर्तृता वासनारागात्मकमनोवृत्तेरुद्भूता कार्यमिदमिति निश्चयात्मकवृत्तिरूपेण परिणता क्रियाभिधानेत्यर्थः || २ || चेष्टावशात्तादृक्फलभोक्तृत्वं वासनानुरूपं स्पन्दते पुरुषः स्पन्दानुरूपं फलमनुभवति | फलभोक्तृत्वं नाम कर्तृत्वादिति सिद्धान्तः || ३ || भोक्तृत्वमपि तदधीनचेष्टावशात्तत्तद्वासनानुरूपफलास्वादगोचरोद्भूतवासनैवेत्याह - चेष्टावशादिति | यतो वासनानुरूपं स्पन्दते पुरुषः || ३ || तथाच | कुर्वतोऽकुर्वतो वापि स्वर्गेऽपि नरकेऽपि वा | यादृग्वासनमेतत्स्यान्मनस्तदनुभूयते || ४ || उक्तेऽर्थे श्लोकमुदाहरति - तथाचेति | स्वर्गे नरकेऽपि वा तदनुभूयत इति संबन्धः || ४ || तस्मादज्ञाततत्वानां पुंसां कुर्वतामकुर्वतां च कर्तृता नतु ज्ञाततत्त्वानामवासनत्वात् || ५ || अस्तु वासनैव कर्तृता भोक्तृता च तथापि कथं ज्ञाज्ञयोर्विशेषसिद्धिस्तत्राह - तस्मादिति || ५ || ज्ञाततत्त्वो हि शिथिलीभूतवासनः कुर्वन्नपि फलं नानुसंदधाति | अथच स्पन्दनमात्रं केवलं करोत्यसक्तबुद्धिः संप्राप्तमपि फलमात्मैवेदं सर्वमेव कर्मफलमनुभवत्यकुर्वन्नपि करोति मग्नमनाः || ६ || ज्ञे विशेषमुक्तमुपपादयति - ज्ञाततत्त्वो हीति | एवं तस्य भोक्तृत्वमप्यसदित्येतदुपपादयति - संप्राप्तमपीति | मग्नमना भोगासक्तचित्तोऽज्ञस्तु अकुर्वन्नपि करोति || ६ || मनो यत्करोति तत्कृतं भवति यन्न करोति तन्न कृतं भवति अतो मन एव कर्तृ न देहः || ७ || चित्तादेवायं संसार आगतश्चित्तमय एव चित्तमात्रं चित्त एव स्थित इति विज्ञातम् | विषयश्च सर्वमुपशान्तमभूद्वासनैवेति ज्ञ एवास्तीति || ८ || विज्ञातं विचार्य निर्धारितं प्रागिति शेषः | सर्वो विषयश्च वृत्तिभेदश्चेत्युभयमुपशान्तं सद्वासनैवाभूत्तदा तदुपहितो ज्ञो जीव एवास्ति || ८ || आत्मविदां हि तन्मनः परमुपशममागतं मृगतृणाजलमिव वर्षति जलदे हिमकण इव चण्डातपे विलीनं तुर्यदशामुपागतं स्थितम् || ९ || तेषु जीवेष्वात्मविदां तन्मनः वर्षति जलदे प्रावृषि मृगतृष्णाजलमिवोपशममागतं सत् चण्डातपे हिमकण इव निलीनं तुर्यदशामुपागतं सत्तद्भावेनैव स्थितमिति विशेष इत्यर्थः || ९ || नानन्दं न निरानन्दं न चलं नाचलं स्थिरम् | न सन्नासन्न चैतेषां मध्यं ज्ञानिमनो विदुः || १० || उक्तमनोदशावर्णनपरं श्लोकमुदाहरति - नानन्दमिति | आनन्दं विषयसुखविश्रान्तं न | नापि स्वरूपानन्दशून्यम् | अचलं शिलादिवज्जडावस्थं न | एतेषां उक्तानन्दनिरानन्दचलाचलसदसतां मध्यं संध्यवस्थारूपं च न किंतु परिशेषाद्भूमात्मसुखैकरसमित्यर्थः || १० || न वासनामये स्पन्दरसे गज इव पल्वले मज्जति तज्ज्ञो मूर्खमनोभोगभूमिमेव पश्यति न सत्तत्त्वं || ११ || ज्ञाज्ञयोर्विशेषान्तरमप्याह - न वासनेत्यादिना | न सत्तत्त्वं परमार्थतत्त्वम् || ११ || तथाचायमत्रापरो दृष्टान्तः | अकुर्वन्नपि श्वभ्रपतनं शययासनगतोऽपि श्वभ्रपातवासनावासिते चेतसि श्वभ्रपतनदुःखमनुभवति | अपरस्तु कुर्वन्नपि श्वभ्रपतनं परममुपशममुपगतवति मनसि शययासनसुखमनुभवति | एवमनयोः शययासनश्वभ्रपातयोरेकः श्वभ्रपतनस्याकर्तापि कर्ता संपन्नो द्वितीयश्च श्वभ्रपतनस्य कर्ताप्यकर्ता संपन्नश्चित्तवशात्तस्माद्यच्चित्तं तन्मयो भवति पुरुष इति सिद्धान्तः || १२ || अज्ञमनसो दुर्वासनादुःखमज्जने स्वप्नो दृष्टान्त इत्युक्त्वोपपादयति - तथाचेत्यादिना | तथाच श्रुतिरपि अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छादयति गर्तमिव पतति यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यते इति | अपरस्तत्त्वज्ञस्तु | उक्तमुपसंहृत्य प्रकृते योजयति - तस्मादिति || १२ || तेन तत्र कर्तुरकर्तुर्वा नित्यमसंसक्तं भवतु चेतो नहि किंचिदस्त्यात्मतत्त्वव्यतिरिक्तं यत्र संसक्तिर्भाव्यते | यत्किंचिदिदं जगद्गतं तत्सर्वं शुद्धचित्तत्वादाभासमवेहि || १३ || भवतु चेतः | तवेति शेषः | तत्त्वदृशस्तव यत्र संसक्तिः संभाव्यते तदात्मतत्त्वव्यतिरिक्तं नह्यस्ति || १३ || एवं चास्य ज्ञातज्ञेयस्य पुंसो नामात्मा सुखदुःखानां न गम्य इति निश्चये जाते नात्मव्यतिरिक्ता आधाराधेयदृष्टयो विद्यन्त इति निश्चये जाते कर्ता भोक्ता सर्वपदार्थव्यतिरिक्तो वालाग्रसहस्रभागोऽहमिति निश्चये जाते यत्किंचिदिदं तत्सर्वमहमेवेति वा निश्चये जाते सर्वसत्त्वावभासकः सर्वगस्तिष्ठाम्येवाहमिति निश्चये जाते नाहं सुखदुःखानां गम्य इति विगतज्वरतया चित्तवृत्तिर्लीलयैव तिष्ठते व्यवहारेषु || १४ || नामेत्यवधारणे निपातः | सुखदुःखानामगम्य एवेति निश्चये जाते इत्यस्योपपादक आधाराधेयदृष्ट्यसत्त्वनिश्चयस्तदुपपादको देहातिरिक्तवालाग्रमात्रात्मनिश्चयः सर्वाहंभावनिश्चयो वा तद्विशोधनफलभूतः सर्वगतात्मनिश्चयस्तद्द्वारा प्रागुक्तेनाहं सुखदुःखानां गम्य इति निश्चये जाते विगतेष्टानिष्टप्राप्तिपरिहारचिन्ताज्वरतया चित्तवृत्तिरात्मन्येव लीलया प्रारब्धभोगार्थ लीलां प्रकाशयन्ती व्यवहारेषु तिष्ठते | प्रकाशनस्थेयाख्ययोश्च इति तङ् || १४ || तज्ज्ञस्य संकटे च मुदितैव केवलं ज्योत्स्नेव भुवनभावमलंकरोति येन चित्तादृते तु ज्ञः कुर्वन्नप्यकर्ता संपन्नो मनसोऽलेपकत्वान्नासौ पादपाण्यादिविक्षेपस्य यत्नकृतस्यापि कर्मणः फलमनुभवति || १५ || अतस्तत्त्वज्ञस्य संकटेष्वपि न दुःखभोक्तृत्वं प्रत्युतानन्द एवेत्याह ##- एवं मनः सर्वकर्मणां सर्वेहितानां सर्वभावानां सर्वलोकानां सर्वगतीनां बीजं तस्मिन्परिहृते सर्वकर्माणि परिहृतानि भवन्ति सर्वदुःखानि क्षीयन्ते सर्वकर्माणि लयमुपयान्ति | मानसेनापि कर्मणा यत्कृतेनापि ज्ञो नाक्रम्यते न विवशीक्रियते न रञ्जनामुपैत्यव्यतिरिक्तात् || १६ || मनसः सर्वकार्यमनोबुद्धितद्विषयतद्गतीनां बीजत्वात्तत्त्यागे सर्वसंसारपरिहारः सिद्ध इत्याह - एवमिति | सर्वकर्माणि सर्वाश्चेष्टाः सर्वकर्माणि सर्वाणि पुण्यपापानि लयमुपयान्ति मानसेन सांकल्पिकेन कृते शारीरेणापि कर्मणा यद्यस्मात् ज्ञो नाक्रम्यते तत्र हेतुर्न वशीक्रियत इति | तत्र हेतुर्न रञ्जनामुपैतीति | तत्फले रक्तो हि तत्साधनक्रियया स्वसिद्ध्यै वशीकृत्य प्रवृर्त्यते | प्रवृत्तश्च तत्कृतगुणदोषैराक्रम्यते | कुतः | अव्यतिरिक्तात् परमार्थतः स्वव्यतिरिक्तस्याभावात् || १६ || यथा बालो मनसा नगरस्य निर्माणं निर्मृष्टं च कुर्वन्नगरनिर्माणं मनःकृतमकृतमिव लीलयानुभवति नोपादेयतयासुखदुःखमकृत्रिममिति पश्यति नगरनिर्मथनं च मनःकृतं कृतमिति पश्यतीति दुःखमपि लीलयानुभवन्नपि न दुःखमिति पश्यति | एवमसौ परमार्थतः कुर्वन्नपि न लिप्यत एवेति || १७ || कृतस्याप्यकृतत्वे दृष्टान्तमाह - यथेत्यादिना | निर्मृष्टं निर्मितस्य परिष्कारम् | नगरस्य निर्मथनं प्रविलापनप्रयुक्तां निवृत्तिम् | कृतं वास्तवम् | दार्ष्टान्तिके उक्तं योजयति - एवमिति || १७ || सर्वभावेषु हेयोपादेयताभ्यां जगति किं कारणं दुःखस्य न चोपादेये किंचिदपि संभवति यदविनाशं व्यतिरिक्तं चात्मनस्तस्मादयमात्माऽकर्ताऽभोक्ताऽतत्त्वतो यदेतत्कर्तृत्वं च स्वध्यारोप्यते || १८ || इत्थं कर्तृत्वं विचार्य दुःखकारणं विमृशति - सर्वभावेष्विति | जगति सर्वभावेषु हेयोपादेयताभ्यां व्यवह्रियमाणेषु दुःखस्य कारणं किम् | नच हेयं दुःखकारणम् | उपादानपूर्वकत्वाद्धानस्य | हेयस्योपादेयत्वाभावादेव ततो दुःखाप्रसक्तेरिति परिशेषादुपादेयं दुःखहेतुरिति स्यात् | नच तदपि संभवतीत्याह - नचोपादेय इति | नश्वरादुपादेयाद्दुःखमविनाशिनो विनाशिनो वा | नाद्यः | विनाशिनह् स्वरक्षणे असमर्थस्य क्वापि कारणत्वायोगात् | न द्वितीयोऽपि | नह्युपादेये जगति तादृशं किंचिदपि संभवति यदविनाशि | अतोऽन्यदार्तम् इति श्रुत्या आत्मव्यतिरिक्तस्य विनाशित्वोक्तेरित्याशयेन हानोपादानतायोग्यत्वादुपादेयस्य तद्व्यतिरिक्तस्य नश्वरत्वादित्यर्थः | एवं भोग्यदुःखस्य कारणानिरूपणादप्यात्मा अकर्ता अभोक्ता चेति सिद्धमित्याह - तस्मादिति | चकारो भिन्नक्रमः | एतच्च कर्तृत्वं यदनुभूयते तत् अतत्त्वतः सु अध्यारोप्यते इत्यन्वयः || १८ || आवश्यकं तत्सम्यग्दर्शनमोहान्न वस्तुत इति यथाभूतवस्तुविचारणात्कर्तृत्वभोक्तृत्वे न स्तः | इन्द्रियेन्द्रियार्थद्वेषाभिलाषादिका दृष्टयस्तद्दृष्टीनां दृश्यन्ते नातद्दृष्टीनाम् || १९ || आवश्यकं जीवता अनिवार्यम् | नहि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः इति न्यायादित्यर्थः | आवश्यकत्वं कुतस्तत्राह - इन्द्रियेति | इन्द्रियैरिन्द्रियार्थेषु द्वेषाभिलाषादिकैस्तन्निमित्तैः पुण्यपापादृष्टैश्चायस्ता विवशीक्कृता बुद्धिर्येषामज्ञानां [मूलस्थस्यैव दृष्टिपदस्यायं पर्यायार्थः] तेषामेवेत्यर्थः || १९ || मोक्षोऽस्ति न संसारे स्वसंसक्तमनसामिहासंसक्तमनसां त्वेतत्सर्वमेवास्ति || २० || अत एव तत्त्वविदां न मोक्षकल्पनाप्यस्तीत्याह - मोक्ष इति | स्वस्मिन्पूर्णात्मन्येव संसक्तं मनो येषाम् | इह स्वात्मन्यसंसक्तमनसामभ्यासदशापन्नानां तु दृष्त्या एतद्बन्धमोक्षादि सर्वमेवास्ति || २० || यथास्थितं ज्ञस्य केवलमात्मतत्त्वमेवोल्लसति तद्द्वित्वैकत्ववादिसिद्धे द्वित्वैकत्वे करोति सत्त्वासत्त्वे करोति शक्तिजालादभिन्नां सर्वशक्तितां च दर्शयति तस्य || २१ || ज्ञस्य दृशा तर्हि किमस्ति तदाह - यथास्थितमिति | कथं तर्हि तस्य व्यवहारसिद्धिरिति चेत्परदृष्टिप्रसिद्धद्वित्वैकत्वादेस्तात्कालिकेनाभ्युपगममात्रेणेत्याह - तद्द्वित्वैकत्वेति | तदात्मतत्त्वमेव तस्य तत्त्वज्ञस्य जीवनादिव्यवहारसिद्धये द्वित्वैकत्ववादिदृष्टिसिद्धे द्वित्वैकत्वे तत्कालं करोति || २१ || न बन्धोऽस्ति न मोक्षोऽस्ति नाबन्धोस्ति न बन्धनम् | अप्रबोधादिदं दुःखं प्रबोधात्प्रविलीयते || २२ || फलितार्थं पद्येनाह - न बन्ध इति | बन्धनं बन्धकारणं कामकर्मादि || २२ || संकल्पिता जगति मोक्षमतिर्मुधैव संकल्पिता जगति बन्धमतिर्मुधैव | संत्यज्य सर्वमनहंकृतिरात्मनिष्ठो धीरो धिया व्यवहरन्भुवि राम तिष्ठ || २३ || उक्तां पूर्णात्मनिष्ठामुपसंहरन् रामायोपदिशति - संकल्पितेति | स्पष्टोऽर्थः || २३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे उपशमवर्णनं नाम अष्टत्रिंशः सर्गः || ३८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे उपशमवर्णनं नाम अष्टत्रिंशः सर्गः || ३८ || एकोनचत्वारिंशः सर्गः ३९ श्रीराम उवाच | भगवन्नेवं स्थिते परे ब्रह्मण्येव विद्यमाने कुत एवाभित्तिचित्ररूपायाः सृष्टेरगम इति कथय महात्मन् || १ || ब्रह्मणः सर्वशक्तित्वं रामव्यामोहविस्तरः | तद्बोधाय वसिष्ठस्य विमर्शादीह कीर्त्यते || १ || अज्ञदृष्टावेव स्थितो रामो गुरुवचनविश्वासात्परोक्षतयैव पूर्णतास्थितिं पर्यालोच्य विरोधं मन्यमानः शङ्कते - भगवन्निति | एवं त्वदुक्तरीत्या बन्धमोक्षादेरसंभवे स्थिते सति || १ || श्रीवसिष्ठ उवाच राजपुत्र ब्रह्मतत्त्वमेवेदमावर्तते यस्मात्सर्वशक्ति तत्तस्मात्सर्वाः शक्तयो ब्रह्मणि दृश्यन्ते || २ || किमसावज्ञदृष्टाववस्थितः शङ्कते उताभिज्ञतां कांचित्प्राप्तोऽन्तरालवतीं सन्निति परीक्षितुं वसिष्ठः सर्वशक्तितावादाभ्युपगमेन परिहरति - राजपुत्रेत्यादिना | आवर्तते निवर्तते | दृश्यन्ते कार्यलिङ्गैरनुमीयन्ते || २ || सत्त्वमसत्त्वं द्वित्वमेकत्वमनेकत्वमाद्यत्वमन्तत्वमिति || ३ || तथाचाशक्तानामेव विरोधो न सर्वशक्तेरित्यभिप्रेत्योदाहरति - सत्त्वमसत्त्वमित्यादि || ३ || तच्च नान्यत् | यथा जलराशेर्जलाशय उल्लासप्रफुल्लासेन नानाकारतां [नानाकारतादिति पाठः] दर्शयन्प्रकटतां गच्छति || ४ || यथा जलराशेः समुद्रस्य जलाशयो जलपूर उल्लासेन चन्द्रोदयनिमित्तकेन स्वाविर्भाविण प्रफुल्लतीति प्रफुल् | फुल्ल विकसने क्विप् [संहितायां हलो यमाम् इत्यनेन मध्यवर्तिललोप इति ज्ञेयम्] | विकस्वरः सन् | लासेन तरङ्गनृत्येन || ४ || तथा चिद्धनश्चित्तं चित्त्वाच्च सर्वाः शक्तीः कर्ममयीर्वासनामयीर्मनोमयीश्चिनोति दर्शयति बिभर्ति जनयति क्षिपयति चेति || ५ || चित्तं चित्तोपाधिकं जीवभावम् | तस्यापि चिदाभासरूपस्य चित्त्वाच्च | चिनोत्येकैकशः संचिनोति | संचितांश्च फलमुखेन दर्शयति - उपभोगैर्बिभर्ति पुनस्तिरोभावेन क्षिपयति || ५ || सर्वेषामेव जीवानां सर्वासामभितो दृशाम् | समग्राणां पदार्थानामुत्पत्तिर्ब्रह्मणोऽनिशम् || ६ || उक्तेऽर्थे श्लोकावुदाहरति - सर्वेषामेवेति || ६ || लोकात्परादुपायान्ति तस्मिंश्चित्त्वाद्विशन्त्यलम् | तन्मया एव सततं तरङ्गा इव सागरे || ७ || पराल्लोकात्परमात्मनः || ७ || श्रीराम उवाच | भगवंस्तवातिगहनेयं वचनव्यक्तिर्न खल्वद्य वाक्यार्थमवगच्छामि || ८ || एवं शक्तिवादेन समाधीयमानोऽपि रामो वह्नौ शैत्यशक्तिमिव जले दहनशक्तिमिव विरुद्धां चिति जाड्यशक्तिं अदृश्ये दृश्यताशक्तिं नित्ये अनित्यताशक्तिं च ब्रह्मण्यसंभावयन् शङ्कते - भगवन्नित्यादिना | वचनव्यक्तिर्वाक्यार्थावगतिः | अतिगहना दुःसंपादा विरोधसत्त्वादित्यर्थः || ८ || क्व किलातीतमनःषष्ठेन्द्रियवृत्ति ब्रह्मतत्त्वं क्व भङ्गुरेयं तज्जा पदार्थश्रीरिति वचनरचना | यदि चायमारम्भो ब्रह्मण आपतितस्तदनेन तत्सदृशेनैव भवितव्यम् || ९ || विरोधानेव दर्शयति - क्व किलेति | वचनरचना नामसृष्टिः | आरम्भो रूपसृष्टिः | सदृशेनैव भवितव्यं नतु विरुद्धेनेत्यर्थः || ९ || यो यस्माज्जायते स तत्सदृश एव भवति || १० || भवति लोके इति शेषः || १० || यथा दीपाद्दीपः पुरुषात्पुरुषः सस्यात्सस्यम् || ११ || यतो निर्विकाराद्यदागतं निर्विकारेणैवानेन भवितव्यम् || १२ || अथैतद्व्यतिरिक्तं चिदात्मनस्तन्निष्कलङ्कस्य परमेश्वरस्य येयं कलङ्कापत्तिरित्याकर्ण्य भगवान् ब्रह्मर्षिरुवाच [एतदग्रे श्रीवसिष्ठ उवाचेति क्वचित् पठ्यते] || १३ || अथशब्दो यदीत्यर्थे | तत्तर्हि निष्कलङ्कस्य परमेश्वरस्य या जगद्भावापत्तिस्त्वयोक्ता इयं कलङ्कापत्तिरुक्ता स्यादित्यर्थः || १३ || ब्रह्मैवेदं स्थितं नाम मलमस्तीह नानघ | तरङ्गौघगणैरम्भः सिन्धौ स्फुरति नो रजः || १४ || तत्त्वदृशा वसिष्ठो जगतश्चिद्भावमेवमविकारतां च पश्यन्समाधत्ते - ब्रह्मैवेदमिति || १४ || द्वितीया कल्पनैवेह न रघूद्वह विद्यते | ब्रह्ममात्रादृते वह्वावौष्ण्यमात्रादृते यथा || १५ || श्रीराम उवाच | निर्दुःखं ब्रह्म निर्द्वन्द्वं तज्जं दुःखमयं जगत् | अस्पष्टार्थमिदं ब्रह्मन्न वेद्मि वचनं तव || १६ || अज्ञदृष्टावेव स्थितो रामः सर्वथा आनन्दैकरसस्वभावे तद्विरुद्धदुःखजगद्रूपता ब्रह्मणो दुर्वचैवेति प्रत्यवतिष्ठते - निर्दुःखमिति || १६ || श्रीवाल्मीकिरुवाच | इत्युक्ते तत्र रामेण चिन्तयामास चेतसा | वसिष्ठो मुनिशार्दूलो राघवस्योपदेशने || १७ || एवं निरुत्तरीकृतस्य वसिष्ठस्य रामप्रबोधनोपायचिन्तां वाल्मीकिर्दर्शयति - इत्युक्ते इत्यादिना || १७ || परं विकासमायाता नास्य तावदियं मतिः | किंचिन्निर्मलतां प्राप्ता प्रोह्यते चेह वस्तुनि || १८ || यो व्युत्पन्नमनास्तस्य ज्ञातज्ञेयस्य धीमतः | मोक्षोपायगिरां पारं प्रयातस्य विवेकतः || १९ || यः पुरुषो व्युत्पन्नमना जगतो जडभावं विहाय चिदेकरसतां द्रष्टुं समर्थ इति यावत् || १९ || न कश्चित्कस्यचिद्दोषो नास्ति विद्यात्मनि ह्यलम् | यावन्नोक्तं न विश्रान्तिं तावदेत्येष राघवः || २० || तस्य दृशा कस्यचिद्वस्तुनः कश्चिदपि दोषो विरोधो नास्ति | यतो जगद्विरुद्धरूपं विद्यात्मनि क्वचिदपि नास्ति | अलं सम्यक् यावन्नोक्तं नोपदिष्टमस्माभिस्तावदेव राघवो विश्रान्तिं नैति न प्राप्नोति | अतोऽवश्यमुपदेष्टव्य इत्यर्थः || २० || अर्धव्युत्पन्नबुद्धेस्तु नैतद्व्यक्तं हि शोभते | दृश्यानया भोगदृशा भावयन्नेष नश्यति || २१ || परंतु अर्धव्युत्पन्नदृष्टेरेतत् प्रागुक्तं सर्वं ब्रह्मेत्युपदेशनं न शोभते | कुतः | यत एषोऽर्धव्युत्पन्नो दृश्यान्यानयत्युपस्थापयति संजीवयतीति वा दृश्याना | अनितेः क्विपि आपं चैवं हलन्तानाम् इति टापू | तथाविधया भोगदृशा सदैव अर्थाद्दृश्यान्येव भावयन्सन्नश्यति | तत्त्वबोधाद्भ्रश्यतीति यावत् || २१ || परां दृष्टिं प्रयातस्य भोगेच्छा नाभिजायते | सर्वं ब्रह्मेति सिद्धान्तः काले नामास्य युज्यते || २२ || कस्य तर्हि तादृशोपदेशो युज्यते तमाह - परामिति | सिद्धान्तः परिनिष्ठितोपदेशः || २२ || आदौ शमदमप्रायैर्गुणैः शिष्यं विशोधयेत् | पश्चात्सर्वमिदं ब्रह्म शुद्धस्त्वमिति बोधयेत् || २३ || कथं तर्ह्यर्धव्युत्पन्न उपदेश्यस्तत्राह - आदाविति || २३ || अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् | महानरकजालेषु स तेन विनियोजितः || २४ || प्रबुद्धबुद्धेः प्रक्षीणभोगेच्छस्य निराशिषः | नास्त्यविद्यामलमिति युक्तं वक्तुं महात्मनः || २५ || अपरीक्ष्य च यः शिष्यं प्रशास्त्यतिविमूढधीः | स एव नरकं याति यावदाभूतसंप्लवम् || २६ || अत्त्वज्ञ एवानधिकार्युपदेशे प्रवर्तते तस्य शिष्यप्रतारकस्य युक्तो नरकपात इत्याशयेनाह - अपरीक्ष्येति | एवकारो भिन्नक्रमः | स यात्येवेति || २६ || इति संचिन्त्य भगवानज्ञानतिमिरापहः | तमुवाच मुनिश्रेष्ठो वसिष्ठो भूमिभास्करः || २७ || श्रीवसिष्ठ उवाच | कलङ्ककलना ब्रह्मण्यस्ति नास्तीति वानघ | सिद्धान्तकाले वक्तव्यं स्वयं ज्ञास्यसि राघव || २८ || स्वयमेव ज्ञास्यसि | यदि न ज्ञास्यसि तर्हि सिद्धान्तकाले वक्तव्यं नाधुनेत्यर्थः || २८ || ब्रह्म सर्वशक्ति सर्वव्यापि सर्वगतं सर्वोहमेवेति || २९ || सांप्रतमर्धव्युत्पन्नयोग्यं ब्रह्मणः प्रागुक्तसर्वशक्तित्वादि प्रतीचः सर्वाहंभावदर्शनं च प्रथममुपदिशति - ब्रह्म सर्वशक्तीति || २९ || यथेन्द्रजालिनः पश्यसि चित्रा मायया क्रिया जनयन्तः सदसत्तां नयन्त्यसच्च सत्तां नयन्ति तथैवात्मा अमायामयोऽपि मायामय इव परम ऐन्द्रजालिको घटं पटं करोति पटं च घटं करोति उपले लतां जनयति मेरौ कनकतटे नन्दनवनमिव लतायामुपलमुत्पादयति कल्पपादपेषु रत्नस्तबकमिव व्योम्नि काननमध्यारोपयति || ३० || माययैवास्य सर्वशक्तिता प्रतीचः सार्वात्म्यं चेति प्रपञ्चयति - यथेन्द्रजालिन इत्यादिना | असंभावितसंभावनाय लोकशास्त्रप्रसिद्धं दृष्टान्तमाह - कनकतटे इति | यद्वद्देवशक्त्या असंभावितान्यपि नन्दनवनरत्नस्तबकादीनि संभाव्यन्ते तद्वदात्मशक्त्यापि संभाव्यतामिति भावः || ३० || गन्धर्व उद्यानमिव तस्मिन् जगति भविष्यति गगने कल्पनया नगरतां जनयति नष्टच्छायाञ्जनमिव व्योम धरातलं नयतीति || ३१ || वस्तुव्यत्यय इव देशकालव्यत्ययोऽपि मायाशक्त्यैव संभावनीय इत्याशयेनाह - भविष्यति गगने इति | व्योम नष्टच्छायाञ्जनं निरस्तनैल्यकज्जलं कृत्वा धरातलं भूप्रदेशं नयति प्रापयति | इतिशब्दस्तत्राप्यसंभावितसहस्रसंभावनार्थः || ३१ || गन्धर्वनगरराजगृहे विपुलाङ्गनाजनमिव भूतले व्योम निवेशयति || ३२ || तर्हि किं गगनस्याधो निवेशाय भूतलमन्यतो नयति नेत्याह - गन्धर्वनगरेति || ३२ || रक्तकुट्टिमेष्वाकाशप्रतिबिम्बमिव किंचिदस्ति जगति भविष्यति वा बभूव || ३३ || जगति यत्किंचिदस्ति भविष्यति बभूव तत्सर्व रक्तकुट्टिमेषु पद्मरागमणिमयसौधभावेषु आकाशप्रतिबिम्बमिवाधिष्ठानरक्तिम्ना रक्तं स्वतोऽसदपि ब्रह्मसत्तया सदिव भवतीत्यर्थः || ३३ || यदीश्वरो व्यक्तरूपो विचित्रतामुपेत्य निदर्शयति || ३४ || तत्र हेतुमाह - यदीश्वर इति | निदर्शयति स्वात्मानमित्यर्थः || ३४ || सर्वमेव सर्वथा सर्वत्र यथा संभवत्येकमेवेह वस्तु विद्यत इति तस्माद्धर्षामर्षविस्मयानां क्व वाऽवसरो राम || ३५ || एवं चैकमेव वस्तु सर्वथा सर्वं भवतीति नासंभावना हर्षामर्षादयश्च युक्ता इत्याह - सर्वमेवेति || ३५ || समतयैव सततं धृतिमता स्थातव्यम् || ३६ || एवमसंभावनां रामस्य निरस्य प्रागुक्तसमतास्थितिमेव विधत्ते - समतयैवेति || ३६ || विस्मयस्मयसंमोहहर्षामर्षविकारिताम् | समतावलितस्तज्ज्ञो न कदाचन गच्छति || ३७ || तदैव हर्षादेरात्यन्तिकक्षय इत्याशयेन श्लोकमुदाहरति - विस्मयेति || ३७ || अपर्यवसाने देशकालवति चित्रा हि जगति युक्तयो दृश्यन्ते || ३८ || अपर्यवसाने समताया इति शेषः | युक्तयो दृश्यरजनात्मिका दृश्यन्ते || ३८ || एताश्च युक्तीर्नामासावात्मा यत्नेन रचनां करोति न चोत्पन्नां तिरस्कारोति सागर इव वीचीः || ३९ || सामग्रीयुक्तावस्थायुक्तिः फलावस्थारचनेति प्रवृत्तिनिमित्तभेदाद्युक्तिः रचनां करोतीति सामानाधिकरण्यम् | अयमात्मा न तिरस्करोति || ३९ || किं तर्हि क्षीर इव घृतं घट इव मृदि पट इव तन्तुषु वट इव धानायात्मन्येव स्थिताः शक्तयः प्रकटतामागता व्यवह्रियन्तेऽविरचितमेव तरङ्गवत् || ४० || किं तर्ह्यनेन प्रकटतामागताः शक्तयो व्यवह्रियन्ते इति कथंचिद्योज्यम् | इयं च व्यवहारदृष्टिः कल्पनैव परमार्थतस्तु अविरचितमेव जगत् || ४० || नात्र कश्चित्कर्ता न भोक्ता न विनाशमेति || ४१ || नात्र कर्तेत्यादि स्पष्टम् || ४१ || केवलमात्मतत्त्वे साक्षिणि निरामये समतयात्मनि नित्यमसंक्षुब्धे तिष्ठति सत्येवं संपद्यते || ४२ || तादृशेऽपि परमार्थे सति जगत्संपत्तौ दृष्टान्तप्रदर्शकौ श्लोकाववतारयति - सत्येव(?)संपद्यत इति || ४२ || सति दीप इवालोकः सत्यर्क इव वासरः | सति पुष्प इवामोदः स्वतः संपद्यते जगत् || ४३ || श्लोकौ स्पष्टौ || ४३ || आभासमात्रमेवेदं परिदृश्यत एव च | स्पन्दः समीरणस्येव न सन्नासदवस्थितम् || ४४ || न सन्नासदिति | अनिर्वचनीयमित्यर्थः || ४४ || निर्दोषवदेव जागतीनां दृष्टीनां परमार्थतो भगवान्स्थितो विनष्टानां पुनः कर्ता कृतानां वा नाशयिता स केवलं कदाचित्प्रकटाः कदाचिदल्पप्रकटाः कदाचिदप्रकटास्तारका इव कुसुमराशयः || ४५ || एवं च स्वसंनिधिमात्राज्जायमानजगद्दोषैरलिप्यमान एवात्मा जगतः कर्तेव हर्तेव नियन्तेव नभ इव तारकाकुसुमराशीनां भवतीत्याह - निर्दोषवदेवेत्यादिना | केवले नभसि तारकाः कुसुमराशय इव कदाचित्प्रकटास्तस्मिन्भवन्तीति सर्वत्र शेषः || ४५ || नश्यतीह हि तद्वस्तु नात्मभूतं यदात्मनः | कथं नश्यति तद्वस्तु स्वात्मभूतं यदात्मनः || ४६ || इत्थं चासतो जगतः असत्तात्मको नाशः स्वत एव सत्तात्मिका उत्पत्तिः स्थितिश्च ब्रह्मसत्तैवेति विभागे फलितमाह - नश्यतीत्याविसार्धश्लोकद्वयेन || ४६ || जायते नैव तद्वस्तु नात्मभूतं यदात्मनः | जायते चैव तद्वस्तु स्वात्मभूतं यदात्मनः || ४७ || जायत इत्येतत्स्थितेरप्युपलक्षणम् || ४७ || कथं तज्जायते तस्मात्स्वात्मभूतं यदात्मनः || ४८ || तर्हि किमात्मा जन्यो नेत्याह - कथमिति || ४८ || तस्मात्सम्यग्ज्ञानवशाद्ब्रह्मणः सर्वपदार्थानामागमः || ४९ || आत्मसत्ताया जगत्यध्यासो जगतो जन्म नात्मनो भेदाभावादित्याशयेनोक्तमुपसंहरति - तस्मादिति | सम्यग्ज्ञानवशात्परमार्थसत्यचित्स्वरूपबलात् | आगमोऽवतारः उत्पत्तिरिति यावत् || ४९ || अवतीर्णानां च तेषामवतरणसमकालमेवाविद्योदेति तत्त्वज्ञानं दृढतामेति तदनु शतसहस्रस्कन्धो विचित्रशुभाशुभफलभरफलितो भूरिशाखः स्फारतामेति संसारद्रुमः || ५० || अस्तु पदार्थानामवतारस्तैरात्मनः कथं संसारप्राप्तिरिति तद्दर्शयति - अथतीर्णानामिति | अविद्यात्र तदभिमानः | तत्तौ अज्ञानं अभिमानलक्षणं कालेन दृढतामेति || ५० || आशामञ्जरिताकृतिं विफलितं दुःखादिभिर्दारुणैर्भोगैः पल्लवितं जराकुसुमितं तृष्णालताभासुरम् | संसाराभिधवृक्षमात्मनिगडं छित्त्वा विवेकासिना मुक्तस्त्वं विहरेह वारणपतिः स्तम्भादिवोन्मोचितः || ५१ || संसारद्रुममेव निर्वर्ण्य तदुच्छेदोपायमाह - आशेति | आशाभिर्मञ्जरिता संजातमञ्जरीका आकृतिर्यस्य दुःखादिभिर्विविधं फलितम् | प्रकृत्या चारुरित्यादिवदभेदे प्रकृत्यादिभ्य उपसंख्यानम् इति तृतीया | लताः शाखाः वल्ल्यश्च | आत्मनो निगडं बन्धस्थानम् | शिष्टं स्पष्टम् || ५१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे सर्वैकत्वप्रतिपादनं नामैकोनचत्वारिंशः सर्गः || ३९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे सर्वैकत्वप्रतिपादनं नामैकोनचत्वारिंशः सर्गः || ३९ || चत्वारिंशः सर्गः ४० श्रीराम उवाच | उत्पत्तिः कथमेतेषां जीवानां ब्रह्मणः पदात् | कियती कीदृशी चेति विस्तरेण वद प्रभो || १ || वर्ण्यते जीवभेदानामिहोत्पत्तिरुपाधिभिः | तेषां तदुपधीनां च ब्रह्मभावश्च विस्तरात् || १ || प्रश्नः स्पष्टः | यद्यपि जीवभेदानामुत्पत्तिरुत्पत्तिप्रकरणे विस्तरेण वर्णितेति न पुनः प्रश्नार्हा तथापि करिष्यमाणस्याक्षेपस्योत्थानाय विशेषबुभुत्सया च पुनः प्रश्नो बोध्यः || १ || श्रीवसिष्ठ उवाच | उत्पद्यन्ते यथा चित्रा ब्रह्मणो भूतजातयः | यथा नाशं प्रयान्त्येता यथा मुक्ता भवन्ति हि || २ || अत एव वसिष्ठः स्ऽम्क्षिप्य तत्समाधिं प्रतिजानीते - उत्पद्यन्ते इत्यादिद्वाभ्याम् || २ || यथा च परिवर्धन्ते तिष्ठन्त्यन्तर्हिता यथा | संक्षेपेण महाबाणो शृणु वक्ष्यामि तेऽनघ || ३ || ब्राह्मी चिच्छक्तिरमला कल्पयन्ती यदृच्छया | सर्वशक्तिः स्वयं चेत्यं भवत्याकलनात्मकम् || ४ || कल्पनाबीजप्राक्तनवासनोद्बोधस्यानियतरूपताप्रदर्शनाय यदृच्छयेति | भाविदेहाद्याकारस्येवत्स्फुरणमाकलना तदात्मकम् || ४ || कलनाद्धनतामेत्य यत्किंचिदपि सा स्वयम् | संकल्पयति पश्चात्तत्तत्तामेति मनःपदम् || ५ || तस्यैव सम्यगहंभावेन स्फुरणं घनतामेत्य प्राप्य सा घनतैव मनो जीवोपाधिश्चेत्याशयेनाह - मन इति || ५ || मनःसंकल्पमात्रेण गन्धर्वपुरवत्क्षणात् | तनोतीदमसद्दृश्यं ब्राह्मीं स्थितिमिव त्यजत् || ६ || ब्राह्मीं स्थितिं दृग्रूपतां दृश्याहंकारादिकल्पनया त्यजदिव || ६ || चित्स्वरूपं परिकचच्छून्यमेवावतिष्ठते | यत्तद्दृश्यं स्थितं तत्स्याद्दृश्यमाकाशमेव तत् || ७ || ततः किं वृत्तं तदाह - चित्स्वरूपमिति | परितः कचत् स्वप्रकाशमपि चित्स्वरूपं पराग्दृष्ट्या दृश्यमानं शून्यं रिक्तघटोदरसदृशमेवावभासते | तदवस्थया स्थितं तादृग्रूपमेव सर्वजनदृश्यं तत्प्रसिद्धमाकाशमित्युच्यत इत्यर्थः || ७ || कृत्वा पद्मजसंकल्पं रूपं पश्यति पद्मजम् | ततो जगत्कल्पयति सप्रजापतिपूर्वकम् || ८ || तस्मिन्नाकाशे चतुर्मुखादिस्थूलदेहस्य भुवनानां च कल्पनां दर्शयति ##- चतुर्दशविधानन्तभूतजातसघुंघुमा | सृष्टिरेवमियं राम चित्तनिर्मितिमागता || ९ || चित्तमात्रमयी शून्या व्योममात्रशरीरिका | संकल्पमात्रनगरी भ्रान्तिमात्रात्मिका सती || १० || इत्थं चोपाध्युत्पत्तेर्मिथ्यात्वे तत्प्रयुक्ता जीवोत्पत्तिः सुतरां मिथ्येत्याशयेनाह - चित्तमात्रेति || १० || इह काश्चिन्महामोहा भूतानां जातयः स्थिताः | काश्चिदभ्युदितज्ञानाः काश्चिन्मध्ये स्खलन्ति हि || ११ || तत्र शास्त्राधिकारिदौर्लभ्यप्रदर्शनाय जीवांस्त्रिधा विभजते - इहेति | इह भुवनेषु | अभ्युदितज्ञानाः सनकादयः | मध्ये आन्तरालिकदशायां स्थिता मोक्षाय यतमाना अपि पुनःपुनर्विघ्नैः स्खलन्ति | वैराग्यदार्ढ्याभावादित्यर्थः || ११ || भुवि संबध्यमानानां यान्त्येनामुपदेश्यताम् | सर्वासां भूतजातीनां या एता नरजातयः || १२ || क्व तर्हि शास्त्राधिकारप्रयोजकं वैराग्यं सुलभं तानाह - भुवीति | निर्धारणे षष्ठ्यः | एता भरतखण्डस्थाः || १२ || बह्वाधयो दुःखमया मोहद्वेषभयातुराः | तासां सम्यक्प्रवक्ष्यामि तावद्राजससात्त्विकीः || १३ || तासां वैराग्यसंभवे हेतूनाह - वह्वाधय इति | तासां नरजातीनां मध्ये तामसीनां शास्त्रानधिकारादुपदेशयोग्या राजससात्त्विकीर्द्विचत्वारिंशे सर्गे जीवावतरणक्रमवर्णने प्रवक्ष्यामीत्यर्थः || १३ || यत्तदप्यमृतं ब्रह्म सर्वव्यापि निरामयम् | चिदाभासमनन्ताख्यमनादि विगतभ्रमम् || १४ || यदमृतं ब्रह्म तच्चिदाभासं जीवरूपं यथा जातं तदपि तत्रैव वक्ष्यामीत्यर्थः || १४ || निस्पन्दवपुषस्तस्य स्पन्दः सत्तैकदेशतः | घनतामेति सौम्येऽब्धौ चलता चलतामिव || १५ || निस्पन्दवपुषस्तस्य परमात्मनः | सौम्ये निश्चलेऽब्धौ चलतां तरङ्गाणां चलता चाञ्चल्यमिव सत्तैकदेशतो जीवभावेन स्पन्दो यथा घनतामेति तथा तदपि तत्रैव प्रवक्ष्यामीत्यर्थः || १५ || श्रीराम उवाच | अनन्तस्यात्मतत्त्वस्य एकदेशः क उच्यते | कथं विकारिता वा स्यात्कथं वा द्वयविक्रमः || १६ || स्पन्दः सत्तैकदेशत इति यदुक्तं तदयुक्तम् | अखण्डपूर्णसत्तैकरसे ब्रह्मणि सत्तैकदेशस्य स्पन्दस्य चासंभाव्यत्वादिति रामः शङ्कते - अनन्तस्येति || १६ || श्रीवसिष्ठ उवाच | तेन जातं ततो जातमितीयं रचना गिराम् | शास्त्रसंव्यवहारार्थं न राम परमार्थतः || १७ || जीवब्रह्मैक्यस्य वास्तवस्य व्युत्पादनायायमुत्पत्त्येकदेशस्पन्दादिव्यवहारः शास्त्रे कल्पितः अतो न वस्तुवृत्त्याश्रयेण तस्यां विरोध उद्भावनीय इत्याशयेन वसिष्ठ उत्तरमाह - तेन जातमित्यादिना | तेन निमित्तेन | तत उपादानात् || १७ || विकारितावयवितादिक्सत्तादेशतादयः | क्रमा न संभवन्तीशे दृश्यमानोदया अपि || १८ || कुतो न परमार्थतस्तत्राह - विकारितेति | देशता एकदेशता | दृश्यमानोदयाः प्रत्यक्षेणोत्पद्यमानतया दृश्यमाना अपि || १८ || तं विना कल्पनैवान्या नास्ति नापि भविष्यति | कुतस्त्यौ क्रमशब्दार्थावुक्तयो व्यवहारजाः || १९ || यदि तत्र न संभवन्ति तर्हि जगतामन्यदेव मूलं कल्प्यतां तत्राह - तं विनेति | अन्यकल्पनाया अपि चित्प्रकाशं विनाऽयोगादित्यर्थः | हेतुकार्ये क्रमशब्दार्थौ व्यवहारजा उक्तयश्च कुतस्त्या इति विपरिणम्यते || १९ || या येह कलना योऽर्थो यः शब्दो यो गिरां गणः | तज्जत्वात्तन्मयत्वाच्च तत्तत्पदमिवेष्यते || २० || शब्दो नामानि | गिरां गणो वाक्यानि | तन्मयत्वात्सन्मयत्वात् | पदं सद्वस्त्विव || २० || तज्जः स एव भवति वह्नेर्वह्निरिवोत्थितः | जन्योऽयं जनकश्चायमित्युक्ता भेदकल्पना || २१ || एवंच सत्ताभेदाभावाद्भेदप्रत्ययो मिथ्यैवेत्याह - तज्ज इत्यादिना || २१ || अयमस्मात्समुत्पन्न इतीयं या जगत्स्थितिः | आधिक्यं तत्क्रियाशक्तौ जन्यं जनकमेव वा || २२ || कथं तर्हि दीपाद्दीपान्तरमिदमुत्पन्नमिति व्यवहारस्तत्राह - अयमिति | एकस्यैव दीपस्य मायया द्विधा स्वरूपनिर्माणक्रियाशक्तौ यदाधिक्यमतिशयस्तदेव जन्यं जनकमिति द्विधा भासत इत्यर्थः || २२ || इदमन्यदिदं चान्यदिति शब्दार्थविक्लवः | उक्तावेव न देवेऽस्ति प्रमितौ भिन्नता यतः || २३ || शब्दार्थविक्लवो नामरूपव्यवहारश्रमः उक्तौ वाङ्मात्रेऽस्ति न देवे परमात्मन्यस्ति | वाचारम्भणं विकारो नामधेयम् इति श्रुतेः | यतः प्रमितौ परिच्छेदे सति भिन्नता स्यादित्यर्थः || २३ || तज्जयैव मनःशक्त्या स्वतः संज्ञा प्रवर्तते | दृढभावनया तस्मादिष्टोऽर्थः प्रतिपद्यते || २४ || तज्जया क्रियाशक्तिजन्ययैव मनःशक्त्या स्वतः स्वभावत एव संज्ञा नामविभागोऽपि प्रवर्तते | इष्टोऽर्थो व्यवहारः प्रतिपद्यते संपद्यते || २४ || अग्नेः शिखाया एकस्या द्वितीया जनकेति या | उक्तिवैचित्र्यमेवैतन्नोक्त्यर्थेऽत्रास्ति सत्यता || २५ || उक्तमेवार्थमुदाहृत्य दर्शयति - अग्नेरिति || २५ || न जन्यजनकाद्यास्ताः संभवन्त्युक्तयः परे | एकमेव ह्यनन्तत्वात्किं कथं जनयिष्यति || २६ || उक्तेरेव स्वभावोऽयमुक्तेरुक्तिरनन्तरम् | प्रतियोगिव्यवच्छेदसंख्याद्यर्थे न युज्यते || २७ || प्रतियोगी स्वाश्रयतादात्म्यविरोधी | व्यवच्छेदो भेदः | संख्याद्वित्वादिः || २७ || ऊर्मिजालमिवाम्भोधौ परे यः परिदृश्यते | शब्दोऽर्थकलनाकारस्तद्ब्रह्मैव विदुर्बुधाः || २८ || ब्रह्म चिद्ब्रह्म च मनो ब्रह्म विज्ञानवस्तु च | ब्रह्मार्थो ब्रह्म शब्दश्च ब्रह्म चिद्ब्रह्म धातवः || २९ || कस्तर्हि सिद्धान्तस्तमाह - ब्रह्मेत्यादिना | चित्प्रत्यगात्मा विज्ञानवस्तु बुद्धिवृत्तिभेदाः | चित् ईश्वरः साक्षी अर्थप्रथा वा || २९ || ब्रह्म सर्वमिदं विश्वं विश्वातीतं च तत्पदम् | वस्तुतस्तु जगन्नास्ति सर्वं ब्रह्मैव केवलम् || ३० || अयमन्योऽयमन्योऽयं भाग इत्यम्बरात्मनि | मिथ्याज्ञानविकल्पोक्तिर्वाचि सत्यार्थतात्र का || ३१ || वह्नेः शिखेव जातेयं शिखेति मनसोऽभिधा | चापलोत्थविकल्पश्रीर्वस्तुतः स्यान्न सिद्ध्यति || ३२ || सिद्ध्यति नित्यसिद्धकूटस्थे || ३२ || असत्यैव विकल्पोक्तिः सत्यभावो विकल्पते | तमोपहतदृष्टित्वाद्द्विचन्द्रज्ञानदोषवत् || ३३ || विकल्पते भ्रान्त्या प्रथते || ३३ || सर्वस्मात्सर्वगात्तस्मादनन्ताद्ब्रह्मणः पदात् | नान्यत्किंचित्संभवति तदुत्थं यत्तदेव तत् || ३४ || ब्रह्मतत्त्वं विना नेह किंचिदेवोपपद्यते | सर्वं च खल्विदं ब्रह्मेत्येषैव परमार्थता || ३५ || एवंप्रायश्च हे प्राज्ञ सिद्धान्तस्ते भविष्यति | तत्रैवोदाहरिष्यापः सिद्धान्तार्थोक्तिपञ्जरम् || ३६ || भविष्यति बुद्धौ प्रतिष्ठास्यति | तत्रैव तदैव | उदाहरिष्यामो निर्वाणप्रकरणे || ३६ || इहाविद्यादिकाः केचिद्विद्यन्ते नेतरक्रमाः | ज्ञास्यस्यलमशेषार्थांस्तत्तदज्ञानसंक्षये || ३७ || इह अस्यां परमार्थतायाम् | अलं पूर्णब्रह्मभावेन | एकस्याप्यज्ञानस्य संशयभेदैः सह बहुत्वविवक्षया तत्तदज्ञानसंक्षये इति वीप्सोक्तिः || ३७ || अवस्तुसंक्षये वस्तु यथावस्तु प्रसीदति | यथा च दृश्यते दृश्यं जगन्नैशतमःक्षये || ३८ || दृश्यं चक्षुषा दर्शनार्हम् | जगत्स्थाण्वादि || ३८ || यदिदमखिलमाततं कुदृष्ट्या तदुपशमे तव राम निर्मलाभे | अवितथपदनिर्मले भविष्य- त्यवितथमेव न संशयोऽत्र कश्चित् || ३९ || उक्तं सर्वमुपसंहरति - यदिति | कुदृष्ट्या अज्ञानदूषितदृष्ट्या यदिदमखिलं जगदाततं सर्वतो विस्तृतं भाति तस्य सर्वस्य सहाज्ञानेन नाशे सति निर्मलदर्पणाभे अवितथे परमार्थभूते परमपदे निर्मले अवितथं तदेव भविष्यति स्थास्यति || ३९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे ब्रह्मैवेदं सर्वं जगदिति प्रतिपादनं नाम चत्वारिंशः सर्गः || ४० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे ब्रह्मैवेदं सर्व जगदिति प्रतिपादनं नाम चत्वारिंशः सर्गः || ४० || एकचत्वारिंशः सर्गः ४१ श्रीराम उवाच | क्षीरोदकुक्षितुल्याभिः शीतलामलदीप्तिभिः | तवोक्तिभिर्विचित्राभिर्गम्भीराभिरिवाभितः || १ || कलनादिविशेषाणां माया मूलमिहोच्यते | दुर्वचा सा चिकित्स्यैव न विचिन्त्या मृषेत्यपि || १ || पूर्व सर्वत्र कलनैव मन आदिद्वैतकल्पनाया मूलमित्युक्तम् इदानीं निर्विकारेऽद्वये कलनाया निमित्तमसंभावयंस्तत्प्रष्टुकामो रामो गुरोरादराय प्राक्तनोक्तीः प्रशंसमानः प्रथमं स्वव्यामोहमुद्गिरति ##- चन्द्रतुल्याभिरित्यर्थः | अत एव शीतलामलदीप्तिभिरिति विशेषणम् | आन्ध्यं व्यामोहतमः | प्रावृषि लोलान्यभ्राणि यस्मिन् || १ || क्षणमान्ध्यमिवाप्नोमि क्षणं यामि प्रकाशताम् | शान्तातपलवः प्रावृड्लोलाभ्र इव वासरः || २ || अनन्तस्याप्रमेयस्य सर्वस्यैकस्य भास्वतः | अनस्तमितसारस्य कलना कथमागता || ३ || अनन्तत्वादेवाप्रमेयस्य प्रमाणापरिच्छेद्यस्य | सर्वस्य पूर्णस्य | भास्वतः स्वतः सदा प्रथमानस्य | न अस्तमितः सारः परमार्थस्वरूपप्रथा यस्य | तथाच प्रथमानेऽद्वितीयपूर्णस्वभावे परिच्छिन्नकलनात्मको विकारो वस्तुतः कल्पनया वा न संभाव्य इति तत्र हेतुर्वाच्य इत्यर्थः || ३ || श्रीवसिष्ठ उवाच | यथाभूतार्थवाक्यार्थाः सर्वा एव ममोक्तयः | नासमर्था विरूपार्थाः पूर्वापरविरोधदाः || ४ || तवायं व्यामोहो न मद्वाक्यदोषात्किंतु ते तात्पर्यानवधानदोषादेवेति दर्शयन्वसिष्ठः समाधत्ते - यथाभूतेत्यादिना | यथाभूतो यथास्थितोऽर्थ एव वाक्यार्थो यासाम् | असामर्थ्य पदानामाकाङ्क्षायोग्यतासत्तिराहित्यम् | वैरूप्यं तु अवान्तरवाक्यानां महावाक्यार्थापर्यवसानम् | विरोध उपक्रमोपसंहारयोः परस्परव्याघातस्तैर्वर्जिता इत्यर्थः || ४ || ज्ञानदृष्टौ प्रसन्नायां प्रबोधे विततोदये | यथावज्ज्ञास्यसि स्वस्थो मद्वाग्दृष्टिबलाबलम् || ५ || कदा तर्हि मम तात्पर्यावधानं स्यात्तत्राह - ज्ञानदृष्टाविति | मद्वाचां तत्प्रयुक्ततत्त्वदृष्टेश्च इतरवाग्दृष्ट्यपेक्षया बलाबलं प्राबल्यम् || ५ || उपदेश्योपदेशार्थं शास्त्रार्थप्रतिपत्तये | शब्दार्थवाक्यरचनाभ्रमो मा तन्मयो भव || ६ || ननु यथा स्वमाता वन्ध्या स्वमुखे जिह्वा नास्ति मूकोऽहमिति वाक्यं हेतुस्वसत्ताबाधितार्थकं तथा नेह नानास्ति किंचन एकमेवाद्वितीयम् इत्यादिश्रुतिशास्त्रं तद्वाक्यानि चेति कथं विरोधपरिहार इति चेत्तत्राह - उपदेश्येति | असत्यस्यापि स्वप्नादेः सत्यार्थप्रतिपत्त्युपायतादर्शनान्मिथ्याभूतशब्दार्थवाक्यरचनाभ्रमोऽपि सत्यशास्त्रार्थप्रतिपत्तिहेतुः संभवतीति व्यामूढतया तन्मयो भ्रममयो मा भवेत्यर्थः || ६ || यदा पुरा ज्ञास्यसि तत्सत्यमत्यन्तनिर्मलम् | वाच्यवाचकशब्दार्थभेदं त्यक्ष्यसि वै तदा || ७ || कियत्कालं तर्हि शब्दार्थवाक्यरचनाभ्रमोऽनुसर्तव्यस्तत्राह - यदेति | यावद्वाक्यार्थापरोक्षोदयमिति भावः || ७ || भेदकृद्वाक्प्रपञ्चोऽयमुपदेश्येषु कल्पितः | उपदेश्योपदेशार्थं शास्त्रार्थप्रतिपत्तये || ८ || तत्कुतस्तत्राह - भेदेति द्वाभ्याम् || ८ || शब्दार्थवाक्प्रपञ्चोऽयमुपदेशेषु कल्पितः | सदाऽज्ञेषु न तज्ज्ञेषु विद्यते पारमार्थिकः || ९ || कलनामलमोहादि किंचिन्नात्मनि विद्यते | नीरागं ब्रह्म परमं तदेवेदं जगत्स्थितम् || १० || प्रागुक्ता कलना चितश्चेत्योन्मुखता | तन्निमित्ते मले पूर्वसंस्कारकर्मणी | मोहोऽविद्या || १० || एतद्विचित्ररूपाभिर्युक्तिभिर्बहुशः पुनः | विस्तरेणैव वक्तव्यं सिद्धान्तावसरेऽनघ || ११ || सिद्धान्तावसरे असंभावनोच्छेदानन्तरं निर्वाणप्रकरणे || ११ || वाक्प्रपञ्चं विना त्वेतदज्ञानमतुलं तमः | भेत्तुमन्योन्यमुदितं यत्नं कर्तुं न शक्यते || १२ || तर्हीदानींतनो वाक्प्रपञ्चस्ते किमर्थस्तत्राह - वाक्प्रपञ्चमिति | अज्ञानं साधनाज्ञानं अतुलं तमोमूलाज्ञानं चान्योन्यं परस्परसहायेन भ्रान्तिसहस्रशाखाप्ररोहैरुदितं प्ररूढं भेत्तुं तत्साधनेषु यत्नं कर्तुं च न शक्यत इत्यर्थः || १२ || अविद्ययैवोत्तमया स्वात्मनाशोद्यमेच्छया | विद्या सा प्रार्थ्यते राम सर्वदोषापहारिणी || १३ || तर्हि उपदेशवाक्प्रपञ्चस्य तज्जन्यविद्यायाश्चाविद्याकार्यत्वाविशेषात्कथमविद्याविरोधिता स्वविरोधिविद्यां वा कथमविद्या प्रार्थयेदिति चेत्तत्राह - अविद्ययैवेति | उत्तमया बहुजन्मसंचितसुकृतविशुद्धान्तःकरणाकारपरिणतया | तथाच स्वशरीरविरोधेऽपि स्वात्महितत्वाद्विवेकिन्याः पतिव्रतायाः पतिचितारोहणेनेव तत्प्रार्थनोपपत्तिरिति भावः || १३ || शाम्यति ह्यस्त्रमस्त्रेण मलेन क्षाल्यते मलः | शमं विषं विषेणैति रिपुणा हन्यते रिपुः || १४ || विरोधितामुपपादयति - शाम्यतीति | मलेन क्षारेण || १४ || ईदृशी राम मायेयं यां स्वनाशेन हर्षदा | न लक्ष्यते स्वभावोऽस्याः प्रेक्ष्यमाणैव नश्यति || १५ || तस्याः स्वनाशकत्वे कर्मकर्तृताविरोधमाशङ्क्य क्रियायां स विरोधो न ज्ञानेनाज्ञानबाधे इत्याशयेनाह - ईदृशीति || १५ || विवेकमाच्छादयति जगन्ति जनयत्यलम् | नच विज्ञायते कैषा पश्याश्चर्यमिदं जगत् || १६ || तस्या असंभावितानन्तकार्यदर्शनादपि न विरोधसंभावनेत्याशयेनाह ##- अप्रेक्ष्यमाणा स्फुरति प्रेक्षिता तु विनश्यति | मायेयमपरिज्ञायमानरूपैव वल्गति || १७ || अहो नु खलु चित्रेयं माया संसारबन्धनी | असत्येवातिसत्येव स्वज्ञानं विहितं तया || १८ || अत्यभिन्नपदे तस्मिंस्तन्वाना भेदमाततम् | संसारमाया येनासौ तेनासौ पुरुषोत्तमः || १९ || येन हेतुना असौ अक्षराख्या माया तस्मिन् अत्यभिन्नपदे आत्मनि क्षरात्मकं आततं सर्वतो विस्तृतं तन्वाना आस्ते तेन हेतुना असौ क्षराक्षरलक्षणपुरुषातीत आत्मा पुरुषोत्तम इत्यर्थः || १९ || नास्त्येषा परमार्थे न त्वेवं भावनयेद्धया | ज्ञो भूत्वा ज्ञेयसंप्राप्तो ज्ञास्यस्यस्यास्त्वमाशयम् || २० || एषा माया परमार्थे न वस्तुवृत्या तु नास्ति एवं भावनया इद्धया आचार्यश्रुतितर्कस्वानुभवाभ्यासप्रदीपितया त्वं ज्ञस्तत्त्वविद्भूत्वा ज्ञेयं स्वात्मवास्तवरूपं विस्मृतकण्ठचामीकरवत् संप्राप्तः सन्नस्या मदुक्तेराशयं ज्ञास्यसि संभावयिष्यसि || २० || यावत्तु न प्रबुद्धस्त्वं तावन्मद्वचसैव ते | निश्चयो भवतूद्दामो नास्त्यविद्येति निश्चलः || २१ || इदानीं तु मद्वचनविश्वासात्परोक्षकल्प एव मदुक्तोऽर्थो ग्राह्य इत्याह - यावदिति || २१ || यदिदं दृश्यतां यातं मानसं मननं महत् | असन्मात्रमिदं यस्मान्मनोमात्रविजृम्भितम् || २२ || निश्चयस्य निश्चलतासंपादने उपायमाह - यदिदमिति || २२ || सत्तद्ब्रह्मेति यस्यान्तर्निश्चयः सोऽपि मोक्षभाक् | चलाचलाकृतिर्या या दृष्टिराबद्धभावना || २३ || मानसं मनोवृत्तिरूपं यदिदं दृश्यतां साक्षिप्रत्ययवेद्यतां यातं सर्वव्यवहारबीजत्वान्महत् मननं अतीतानागतानेकार्थप्रतिसंधानं इदं असन्मात्रं असदेवेत्यर्थः | तत्र हेतुमाह - यस्मादिति | मनननिरासे मनो निरिन्धनाग्निवत्स्वयमेव शाम्यतीति ब्रह्मसन्मात्रपरिशेषे प्रागुक्तनिश्चयनैश्चल्यात्पुरुषार्थसिद्धिरित्याशयेनाह - सत्तदिति | उक्तमर्थं स्थिरिकर्तुं बाह्यार्थमननदृष्टीनां बन्धहेतुतामाह - चलाचलेति || २३ || सा समग्रजगद्भूतखगबन्धनवागुरा | यः स्वप्नभूमिवद्भ्रान्तमसत्सद्व्येकनिश्चयः || २४ || समस्ते जगति भूतखगानां जीवपक्षिणाम् | असति अनागतातीते सति वर्तमाने चेति द्विरूपेऽपि मननविषये सदेवेदमसदेवेदमिति वा एकरूपो दृढनिश्चयो यस्य तथाविधो योऽधिकारी जगत्स्वप्नभूमिवद्भ्रान्तिमात्रमिति पश्यति स न निमज्जतीत्यर्थः || २४ || जगत्पश्यत्यसक्तात्मा न स दुःखे निमज्जति | यस्यैतास्वस्वरूपासु भावना स्वात्मभावना || २५ || कस्तर्हि निमज्जति तमाह - यस्येति | अस्वरूपासु मिथ्याभृतासु देहेन्द्रियादिद्वैतभावनासु आत्मभावना अहमिति बुद्धिः || २५ || अस्वरूपस्य तस्यापि सा ह्यविद्यैव विद्यते | विकारितादयो दोषा न केचन महात्मनि || २६ || मिथ्यात्मदर्शिनस्तस्य अविद्यामज्जनमेव दण्ड इत्याशयेनाह - अस्वरूपस्येति || २६ || परमात्मनि विद्यन्ते पयसीवेह पांसवः | भावनाशब्दशब्दार्थरञ्जनेयं जगद्गता || २७ || तर्हि तत्त्वविदां पूर्वापरार्थभावनाभावाद्व्यवहारासिद्धिरित्याशङ्क्याह - भावनेति | शब्देषु नामसु शब्दार्थेषु रूपेषु च स्फटिकवद्रञ्जना तात्कालिकानुषङ्गः || २७ || व्यवहारार्थमुत्पन्ना व्यतिरिक्ता च नात्मनः | अनेन व्यवहारेण विनैताः शास्त्रदृष्टयः || २८ || संस्थितिं नाधिगच्छन्ति पटा इव वितन्तवः | उह्यमानो ह्यविद्यायामात्मा नेहोपलक्ष्यते || २९ || यद्यविद्यादि नास्त्येव तर्हि किमर्थं शास्त्रमिति चेत्तत्राह - उह्यमान इति | अविद्यानद्यां उह्यमानः प्रवाह्यमाण आत्मा आत्मज्ञानादृते नैवोपलक्ष्यते अनुभूयते || २९ || आत्मज्ञानादृते तच्च शास्त्रार्थात्समवाप्यते | अविद्यासरितः पारमात्मलाभादृते किल || ३० || तच्च आत्मज्ञानं तु || ३० || राम नासाद्यते तद्धि पदमक्षयमुच्यते | यतःकुतश्चिज्जातेयमविद्या मलदायिनी || ३१ || नन्वियमविद्या परमात्मनि कुतो जाता तत्राह - यतःकुतश्चिदिति || ३१ || नूनं स्थितिमुपायाता समासाद्य पदं स्थिता | कुतो जातेयमिति ते राम मास्तु विचारणा || ३२ || इमां कथमहं हन्मीत्येषा तेऽस्तु विचारणा | अस्तं गतायां क्षीणायामस्यां ज्ञास्यसि राघव || ३३ || तर्हीयमनादिरुत सादिः | आद्ये आत्मवन्नित्या स्यात् द्वितीये तु हेतुर्वाच्यः | एवं किं सत्या उतासत्या | आद्येऽज्ञानादनिवृत्तिः द्वितीये संवादिव्यवहारहेतुत्वानुपपत्तिरित्याद्याशङ्कासहस्रस्यापि तन्नाशादेव निवृत्तिरित्याशयेनाह - अस्तं गतायामिति || ३३ || यत एषा यथा चैषा यथा नष्टेत्यखण्डितम् | वस्तुतः किल नास्त्येषा विभात्येषा न वेक्षिता || ३४ || असतो भ्रान्ततां सत्यरूपां जानातु कः कुतः | जातेयं प्रौढिमापन्ना दोषायैवातताकृतिः || ३५ || असतः सत्यवद्विमर्शः स्वाप्नपुरुषगोत्रचिन्तावद्वृथैवेत्याशयेनाह - असत इति || ३५ || बलात्प्रणाशय त्वेनां परिज्ञास्यसि वै ततः | अपि शूरा अतिप्राज्ञास्ते न सन्ति जगत्त्रये || ३६ || तर्हि स्वाप्नपुरुषवधोद्योगवत्तन्निवृत्तौ यत्नातिशयो वृथेत्याशङ्क्य तद्विलक्षणमनर्थप्राबल्यमाह - अपीति || ३६ || अविद्यया ये पुरुषा न नाम विवशीकृताः | तदस्या रोगशीलाया यत्नं कुरु विनाशने || ३७ || यथैषा जन्मदुःखेषु न भूयस्त्वां नियोक्ष्यति | सर्वापदामेकसखीमज्ञानतरुमञ्जरीम् | अनर्थसार्थजननीमविद्यामलमुद्धर || ३८ || भयविषाददुराधिविपत्प्रदां हृदयमोहमहापटलाङ्कुराम् | भृशमपास्य कुदृष्टिमिमां बला- द्भव भवार्णवपारमुपागतः || ३९ || उपसंहरति - भयेति | हृदयपदेन तत्स्था आत्मदृष्टिरुपलक्ष्यते | तस्या मोहलक्षणान्ध्यहेतूनां महतां पटलत्वक्स्थानीयानां स्थूलदेहादीनामङ्कुरवत्कारणभूतां कुदृष्टिमविद्याम् || ३९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे अविद्याकथनं नामैकचत्वारिंशः सर्गः || ४१ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे अविद्याकथनं नामैकचत्वारिंशः सर्गः || ४१ || द्विचत्वारिंशः सर्गः ४२ श्रीवसिष्ठ उवाच | कुपितस्यासतोऽप्यस्य प्रेक्षामात्रविनाशिनः | अविद्याविततव्याधेरौषधं शृणु राघव || १ || अनन्तशक्तेश्चिद्भूम्नो वासनाघनताक्रमात् | वर्ण्यते विस्तरेणात्र जीवावतरणक्रमः || १ || एवमविद्याव्याधिमुपवर्ण्य तच्चिकित्सोपायं बहुभिः सर्गैर्वक्तुं प्रतिजानीते - कुपितस्येति || १ || यां तां कथयितुं जातिं राम राजससात्त्विकीम् | मनोवीर्यविचारार्थं प्रस्तुतोऽस्मीह तां शृणु || २ || तदर्थं जीवावतरणक्रमं वर्णयितुं चत्वारिंशे सर्गे तासां सम्यक्प्रवक्ष्यामि तावद्राजससात्त्विकीः इति यत्प्रतिज्ञातं तच्छेषवर्णनमिति स्मारयति - यां तामिति || २ || यत्तदप्यमृतं ब्रह्म सर्वव्यापि निरामयम् | चिदाभासमनन्ताख्यमनादि विगतभ्रमम् || ३ || यत्तदपीति श्लोकस्तत्रैव व्याख्यातः || ३ || चित्स्पन्दवपुषस्तस्य [अत्र निस्पन्दवपुष इति पाठो युक्तः स्यात्] स्पन्दस्तस्माच्चिदेव हि | प्रदेशाद्धनतामेति सौम्योऽब्धिश्चलनादिव || ४ || स्पन्दत इति स्पन्दश्चिदाभासः | प्रदेशादौपाधिकैकदेशात् | यथा सौम्य एवाब्धिश्चलनात्तरङ्गादिघनतामेति तद्वत् || ४ || अन्तरब्धेर्जलं यद्वत्स्पन्दास्पन्दवदीहते | सर्वशक्तिस्तथैकत्र गच्छति स्पन्दशक्तिताम् || ५ || शक्तिवैचित्र्याणां सत्त्वादिगुणोपचयापचयमिश्रणतारतम्यकृतत्वादुपचयादेश्च राजसक्रियाशक्तिमूलकत्वात्प्रथमं क्रियाशक्त्युद्भवं दर्शयति - अन्तरब्धेरिति || ५ || आत्मन्येवात्मना व्योम्नि यथा सरति मारुतः | तथेहात्मात्मशक्त्यैव स्वात्मन्येवैति लोलताम् || ६ || स्वतः कूटस्थेऽप्याध्यासिकचलनाविरोधमाह - आत्मन्येवेति || ६ || स्वशिखास्पन्दशक्त्यैव दीपः सौम्यो यथोन्नतम् | एति तद्वदसावात्मा तत्स्वे वपुषि वल्गति || ७ || स्पन्दशक्तेरस्पन्दप्रकाशशक्त्याप्यविरोधे दृष्टान्तमाह - दीप इति | सौम्यो वायवाद्यविक्षिप्तः उन्नतमूर्ध्वदेशमेति | वल्गति चलति प्रकाशयतीति यावत् || ७ || जलान्तरेऽम्बुधिर्यद्वल्लसद्वारीव चञ्चलः | सर्वशक्तिर्वपुष्येव तथा स्पन्दविलासवान् || ८ || शरदातपादिसंपर्काल्लसति स्फुरति वारिप्रदेशे चञ्चल इव न सर्वतस्तद्वदिति कल्पितैकदेशे चलनारोपे दृष्टान्तः || ८ || यथोल्लसति भाश्चक्रैः कचन्कनकसागरः | तथात्मनि परिस्पन्दैः स्फुरत्यक्षैश्चिदर्णवः || ९ || परमार्थतोऽन्यथैव सतः कल्पितरूपान्तरेण स्फुरणेऽप्ययमेव दृष्टान्त इत्याशयेनाह - यथेति | भासां शरदातपानां चक्रैः समूहैः कचन् दीप्यन् द्रवीभूतकनकमिव सागरः स्फुरति | अक्षैरैन्द्रियकप्रकाशैः || ९ || लक्ष्यते मौक्तिकस्पन्दो यथा व्योम्नि दृशोऽदृशि | तथा भाति लसद्रूपा चिच्छक्तिश्चिन्महाम्बरे || १० || अतीन्द्रिये ऐन्द्रियकरूपस्फुरणेऽपि तमाह - लक्ष्यत इति | अदृशि अतीन्द्रिये || १० || किंचित्क्षुभितरूपा सा चिच्छक्तिश्चिन्महार्णवे | तन्मयी चित्स्फुरत्यच्छा तत्रैवोर्मिरिवार्णवे || ११ || आत्मनोऽव्यतिरिक्तैव व्यतिरिक्तेव तिष्ठति | आलोकश्रीरिवालोककोटरे यत्ततां गता || १२ || ऐन्द्रियकचिच्छक्तिः परमार्थचिदेव जन्यतारोप एव केवलमौपाधिक इत्याशयेनाह - आत्मन इति | अव्यतिरिक्तैवेति च्छेदः | आलोककोटरे सूचीपाशादिकल्पितालोकच्छिद्रे | यत्ततां उपाधिपारवश्यम् || १२ || क्षणं स्फुरति सा देवी सर्वशक्तितया तया | चेतति स्वां स्वयं शक्तिं कलेन्दोः शीततामिव || १३ || अत एव तस्याः कालिकपरिच्छेदः शक्तिशक्तिमत्तादिभेदविभावनं चोपपन्नमित्याशयेनाह - क्षणमिति || १३ || उदितैषा प्रकाशाख्या चिच्छक्तिः परमात्मनः | देशकालक्रियाशक्तिर्वयस्याः संप्रकर्षति || १४ || शक्त्यन्तराणां चिच्छक्त्युदयाधीनैव प्रवृत्तिर्न स्वातन्त्र्येणेत्याह - उदितेति | वयस्याः सखीः || १४ || स्वस्वभावं विदित्वैवमनाद्यन्तपदे स्थिता | रूपं परिमितेवासौ भावयत्यविभाविता || १५ || एवं स्वस्वभावं विदित्वा अनाद्यन्तपदे स्थिता भवति | अविभाविता सती एवमुक्तलक्षणं कल्पितरूपं भ्रान्त्या स्वस्वभावं गृहीत्वा परिमिता परिच्छिन्नास्मीति स्वात्मानं भावयति | दृढं वासयतीत्यर्थः || १५ || यदैवंभावितं रूपं तया परमसत्तया | तदैवैनामनुगता नामसंख्यादिका दृशः || १६ || नामेति | तथाच श्रुतिः प्राणन्नेव प्राणो नाम भवति वदन्वाक्पश्यंश्चक्षुः इति | संख्या रूपभेदाः | आदिपदादिष्टानिष्टादिसर्वजगत्कल्पना गृह्यन्ते || १६ || चिदेवैतदवस्त्वेव व्यतिरिक्ता तथात्मनः | अनन्ता तद्गतैवाशु लहरीव महार्णवात् || १७ || एवंच चिति कल्पितस्य सर्वस्य चिन्मात्रतैव परमार्थरूपमिति फलितमित्याह ##- शेषः || १७ || यथा कटककेयूरैर्भेदो हेम्नो विलक्षणः | तथात्मनश्चितो रूपं भावयन्त्याः स्वमांशिकम् || १८ || आंशिकं अंशकल्पनाधीनं सर्वजगद्रूपमित्यर्थः || १८ || यथा दीपेन दीपानां जातानामात्मनां तथा | देशकालकलामात्रभेदः स्वाभाविकश्चितेः || १९ || वर्तिकाद्युपाधिदेशेन देशः तत्कालेन कालस्तत्कलाभिस्तदवयवैः कलाश्चेति तन्मात्रयुक्तो भेदो न दीपाग्निस्वरूपे तथा चितेरपि उपाधिस्वभावादागतः स्वाभाविकः || १९ || देशकालपरिस्पन्दशक्तिसन्दीपिताथ चित् | संकल्पमनुधावन्ती प्रयाति कलनापदम् || २० || दृष्टान्तोक्तं चित्युपपादयति - देशेति || २० || विकल्पकलिताकारं देशकालक्रियास्पदम् | चितो रूपं महाबाहो क्षेत्रज्ञ इति कथ्यते || २१ || अत एव क्षेत्रोपाधिकल्पनाधीनं चितः क्षेत्रज्ञत्वं प्रसिद्धमित्याह - विकल्पेति || २१ || क्षेत्रं शरीरमित्याहुस्तदसौ वेत्त्यखण्डितम् | सबाह्याभ्यन्तरं तेन क्षेत्रज्ञ इति कथ्यते || २२ || वासनां कलयन्सोऽपि यात्यहंकारतां पुनः | अहंकारोऽपि निर्णेता कलङ्की बुद्धिरुच्यते || २३ || क्षेत्रकल्पनाक्रमं दर्शयति - वासनामित्यादिना | निर्णेता अध्यवसाता | अत एव कल्पनान्तरकलङ्की || २३ || बुद्धिः संकल्पकलिता प्रयाति मनसः पदम् | मनो घनविकल्पं तु गच्छतीन्द्रियतां शनैः || २४ || पाणिपादमयं देहमिन्द्रियाणि विदुर्बुधाः | देहोऽसौ ज्ञायते लोके सूयतेऽपि च जीवति || २५ || देहं देहतां गच्छन्तीति विपरिणम्यानुषज्जते || २५ || एवं जीवो हि संकल्पवासनारज्जुवेष्टितः | दुःखजालपरीतात्मा क्रमादायाति चित्तताम् || २६ || चित्ततां बाह्यार्थचेतनसमर्थताम् || २६ || क्रमेण पाकवशतः फलमेति यथान्यताम् | अवस्थयैव नाकृत्या जीवो मलवशात्तथा || २७ || फलं बदरादि | अन्यतां वैलक्षण्यम् | अवस्थया रूपरसपरिणामादिगुणपरावृत्त्यैव न त्वाकृत्या बदरत्वादिजात्या तथा जीवः क्षेत्रज्ञोऽप्यविद्यामलपरिणामवशाद्वैलक्षण्यं याति नापरिणामिचित्स्वभावेनेत्यर्थः || २७ || जीवोऽहंकारतां प्राप्तस्त्वहंकारश्च बुद्धिताम् | संकल्पजालकलितां मनस्तां बुद्धिरागता || २८ || एवं क्षेत्रसिद्धिमुपवर्ण्य जीवस्याहंकारादिक्षेत्रे तादात्म्यसंसर्गाध्यासलक्षणं बन्धं क्रमेणाह - जीव इत्यादिना || २८ || मनो हि संकल्पमयं संस्थाग्रहणतत्परम् | प्रतियोगिव्यवच्छिन्नप्राप्तिसत्यैरपीहितैः || २९ || संस्थानं संस्था स्त्रीपुत्रादिशरीराकारस्तस्य ग्रहणे तदाकारवृत्तिद्वारा संस्कारात्मना धारणे तत्परम् | सत्यैः सफलैः अपिशब्दाद्विफलैरपि ईहितैर्मनोरथैः प्रतियोगिभ्यो वस्त्वन्तरेभ्यो व्यवच्छिन्ना व्यावृत्ता प्राप्तिरर्थग्रहो यस्य | परिच्छिन्नतुच्छविषयासक्तं भवतीत्यर्थः || २९ || इच्छाद्याः शक्तयश्चेतो गावो वृषमिवोन्मदम् | तदासक्तौ तान्विषयान्पुनःपुनः स्मरच्चित्तभावापन्नं रागद्वेषादिदोषैरास्कन्द्यत इत्याह - इच्छाद्या इति | अनुधावन्त्यनुसरन्ति || ३० || इति शक्तिमयं चेतो घनाहंकारतां गतम् | कोशकारक्रिमिरिव स्वेच्छया याति बन्धनम् || ३१ || इति उक्तक्रमेण रागद्वेषादिशक्तिप्रचुरं चेतः शाखाप्ररोहशतकोटिभिरभिमानवृद्ध्या घनाहंकारतां गतं सत् || ३१ || स्वसंकल्पानुसंधानात्पाशैरिव नयन्वपुः | कष्टमस्मिन्स्वयं बन्धमेत्यात्मा परितप्यते || ३२ || पाशैर्बडिशजालादिपाशैः स्ववपुर्मृत्यवे नयन्मत्स्यादिरिव एत्य प्राप्य | आत्मा मनः प्रकृतत्वात् || ३२ || बद्धमस्मीति कल्यद्विद्यातत्त्वं जहच्छनैः | अविद्यां जनयत्यन्तर्जगज्जङ्गलराक्षसीम् || ३३ || अस्मीति कलयत् परमार्थसत्यमिति पश्यत् | विद्यातत्त्वं पारमार्थिकमात्मरूपं जहत् त्यजत् | स्वप्नेऽप्यविचारयदिति यावत् | अविद्यां जन्ममरणादिभ्रान्तिपरम्पराम् || ३३ || स्वसंकल्पिततन्मात्रज्वालाभ्यन्तरवर्ति च | परां विवशतामेति शृङ्खलाबद्धसिंहवत् || ३४ || तन्मात्राणि शब्दादिविषयास्तदिन्धना रागादिज्वालास्तदभ्यन्तरवर्ति मनः | चकारः पूर्वोक्ताविद्यान्तसमुच्चयार्थः || ३४ || विचित्रकार्यकर्तृत्वमाहरद्वासनावशात् | स्वेच्छामात्रानुरचिता दशाश्चानुपतत्तथा || ३५ || विचित्राणां विहितनिषिद्धनानारूपाणां कार्याणां कर्मणां कर्तृत्वमाहरद्यत्नैः संपादयत् | दशाः नानायोनिनरकादिदुर्दशाः वक्ष्यमाणमननादिदशाश्च अनुपतद्विवशतामेतीति प्राक्तनेनान्वयः || ३५ || क्वचिन्मनः क्वचिद्बुद्धिः क्वचिज्ज्ञानं क्वचित्क्रियाः | क्वचिदेतदहंकारः क्वचित्पुर्यष्टकं स्मृतम् || ३६ || तस्यैव मननादिवृत्तिभेदैर्मन आदिशब्दभाक्त्वं नान्यस्येत्याह - क्वचिदित्यादिना || ३६ || क्वचित्प्रकृतिरित्युक्तं क्वचिन्मायेति कल्पितम् | क्वचिन्मलमिति प्रोक्तं क्वचित्कर्मेति संस्थितम् || ३७ || क्वचिद्बन्धमिति ख्यातं क्वचिच्चित्तमिति स्फुटम् | प्रोक्तं क्वचिदविद्येति क्वचिदिच्छेति संस्थितम् || ३८ || तदेतदाबद्धमिह चित्तं राघव दुःखितम् | तृष्णाशोकसमाविष्टं रागायतनमाततम् || ३९ || तथाच बद्धत्वमपि तस्यैव नात्मन इति प्रपञ्चयति - तदेतदित्यादिना || ३९ || जरामरणमोहान्तर्भवभावनयाहतम् | ईहितानीहितैर्ग्रस्तमविद्यारागरञ्जितम् || ४० || इच्छासंक्षुभिताकारं कर्मवृक्षवनाङ्कुरम् | सुविस्मृतोत्पत्तिपदं कल्पितानर्थकल्पितम् || ४१ || सुष्ठु विस्मृतं स्वोत्पत्तिनिमित्तं परमात्मपदं येन || ४१ || कोशकारवदाबद्धं शोकाकारपदं गतम् | तन्मात्रवृन्दावयवमनन्तनरकातपम् || ४२ || स्वदृश्यमपि शैलेन्द्रसमभारभयावहम् | जरामरणशाखाढ्यं संसारविषदुर्द्रुमम् || ४३ || स्वस्यात्मनो दृश्यमपि अनात्मत्वेन ज्ञातुं योग्यमपि दुर्विवेकत्वेन दुरुद्धरत्वाच्छैलेन्द्रसमेन भारेण गौरवेण भयावहम् | विषमयं दुर्द्रुमं दुष्टवृक्षम् || ४३ || इमं संसारमखिलमाशापाशविधायकम् | दधदन्तः फलैर्हीनं वटधाना वटं यथा || ४४ || फलैः पुरुषार्थैर्हीनम् || ४४ || चिन्तानलशिखादग्धं कोपाजगरचर्वितम् | कामाब्धिकल्लोलहतं विस्मृतात्मपितामहम् || ४५ || विस्मृतः आत्मस्वरूपः पितामहो मूलकारणं येन || ४५ || मृगं यूथादिव भ्रष्टं शोकोपहतचेतनम् | पतङ्गकमिव ज्वालादग्धं विषयपावके || ४६ || छिन्नमूलमिवाम्भोजं परमां म्लानिमागतम् | छिन्नाङ्गमात्मनः स्थानाद्विशेषासङ्गदुःस्थितम् || ४७ || आत्मनः स्वस्य स्थानान्निवासभूताद्देहभेदान्मृत्युनापनयने तत्तद्देहाभिमानविच्छेदाच्छिन्नाङ्गम् | अत एव तत्तद्देहविशेषासङ्गाद्दुःस्थितम् || ४७ || विषयादिषु मध्यस्थं चित्ररूपेषु शत्रुषु | दशास्वेतास्वनन्तासु लुठितं संकटास्विति || ४८ || विषयेन्द्रियदेहादिलक्षणेषु चित्ररूपेषु नानावैचित्र्यैः स्ववधोद्यतेषु शत्रुषु तद्विश्वासेन तन्मध्यस्थम् | इति प्रपञ्चितप्रकारास्वित्यर्थः || ४८ || दुःखे निपतितं घोरे विहङ्गः सागरे यथा | स्वबन्धास्थं जगज्जाले शून्ये गन्धर्वपत्तने || ४९ || स्वस्य बन्धे बन्धनहेतौ तत्साधनदेहादौ च आस्था स्नेहातिशयो यस्य तत् || ४९ || उह्यमानमनास्थाब्धौ मनो विषयविद्रुतम् | उद्धरामरसंकाश मातङ्गमिव कर्दमात् || ५० || तत्त्वज्ञानतत्साधनादावनास्थानादरस्तद्रूपेऽब्धावुह्यमानं प्लवमानं मनस्तदास्थोपोद्बलनेनोद्धर || ५० || बलीवर्दवदामग्नं मनो मदनपल्वले | आलूनशीर्णावयवं बलाद्राम समुद्धर || ५१ || चिरविषयभोगप्रयुक्तपुण्यक्षये परलोकगतिसाधनाभावादालूनशीर्णपादाद्यवयवप्रायम् | बलीवर्दपक्षे स्पष्टम् || ५१ || शुभाशुभप्रसरपराहताकृतौ ज्वलज्जरामरणविषादमूर्च्छिते | व्यथेह यस्य मनसि भो न जायते नराकृतिर्जगति स राम राक्षसः || ५२ || प्रागुक्तानास्था परनिन्दनेनोपसंहरति - शुभाशुभेति | शुभानां काम्यसुकृतानामशुभानां निषिद्धकर्मणां च प्रसरैः पराहता मलिनीकृता आकृतिर्यस्य | ज्वलद्भिर्जरामरणविषादैर्मूर्च्छिते ईदृशे स्वमनसि सति यस्य व्यथा तदुद्धारफलचिन्ताप्रयुक्तपीडा न जायते स पुमान् नराकृतिप्रतिच्छन्नो राक्षस एवेत्यर्थः || ५२ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे जीवावतरणं नाम द्विचत्वारिंशः सर्गः || ४२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे जीवावतरणं नाम द्विचत्वारिंशः सर्गः || ४२ || त्रिचत्वारिंशः सर्गः ४३ श्रीवसिष्ठ उवाच | एवं जीवाश्चितो भावा भवभावनयोहिताः | ब्रह्मणः कल्पिताकाराल्लक्षशोऽप्यथ कोटिशः || १ || जीवानां कर्मगतयः प्रपञ्च्यन्तेऽत्र विस्तरात् | विवेकादेः सुदौर्लभ्यान्मुक्तिः केषांचिदित्यपि || १ || एवं मनसः स्वबन्धकत्वप्रकारमुपवर्ण्य तदुपहितचिद्रूपजीवानामामोक्षं संसारस्थितिप्रकारवैचित्र्यं वर्णयिष्यंस्तत्संगतिप्रदर्शनाय प्रागुक्तजीवोत्पत्तिं प्रकारभेदैरनुवदति - एवमित्यादिना | चितः भावा औपाधिका विभावरूपा जीवा भवभावनया संसारवासनया ऊहिताः प्रवाहिताः | इट् छान्दसः | पूर्ववासनानुसारेण कल्पिताकाराद्ब्रह्मणः सकाशाज्जाता इत्यादिपरेणान्वयः || १ || असंख्याताः पुरा जाता जायन्ते चापि वाद्य भोः | उत्पतिष्यन्ति चैवाम्बुकणौघा इव निर्झरात् || २ || अद्य संप्रति जायन्ते | भो इति रामसंबोधनम् || २ || स्ववासनादशावेशादाशाविवशतां गता | दशास्वतिविचित्रासु स्वयं निगडिताशयाः || ३ || अनारतं प्रतिदिशं देशे देशे जले स्थले | जायन्ते वा म्रियन्ते वा बुद्बुदा इव वारिणि || ४ || अनारतं सततम् | वाशब्दौ पर्यायार्थौ || ४ || केचित्प्रथमजन्मानः केचिज्जन्मशताधिकाः | केचिद्वाऽज्न्मसंख्याकाः केचिद्द्वित्रिभवान्तराः || ५ || प्रथमजन्मानः अस्मिन्कल्पे एकमेव जन्म प्राप्ताः | न विद्यते जन्मसंख्या येषां ते अजन्मसंख्याकाः || ५ || भविष्यज्जातयः केचित्केचिद्भूतभवोद्भवाः | वर्तमानभवाः केचित्केचित्त्वभवतां गताः || ६ || भविष्यन्ती जातिर्जन्म येषां ते भविष्यज्जातयः | अस्मिन् कल्पे अद्याप्यनुत्पन्ना इत्यर्थः | भूता अतीता भवोद्भवा येषां जीवन्मुक्ता इति यावत् | अभवतां विदेहमुक्तिम् || ६ || केचित्कल्पसहस्राणि जायमानाः पुनः पुनः | एकामेवास्थिता योनिं केचिद्योन्यन्तरं श्रिताः || ७ || योनिं देहजातिम् || ७ || केचिन्महादुःखसहाः केचिदल्पोदयाः स्थिताः | केचिदत्यन्तमुदिताः केचिदर्कादिवोदिताः || ८ || महादुःखसहा नारकाः | अल्पोदया अल्पसुखा मर्त्याः | अत्यन्तमुदिता देवाः | अर्कादिवोदिताः सत्यलोकगाः || ८ || केचित्किंनरगन्धर्वविद्याधरमहोरगाः | केचिदर्केन्द्रवरुणास्त्र्यक्षाधोक्षजपद्मजाः || ९ || त्र्यक्षादिग्रहणं त्र्यक्षादिसारूप्यप्राप्तजीवाभिप्रायम् || ९ || केचित्कूश्माण्डवेतालयक्षरक्षःपिशाचकाः | केचिद्ब्राह्मणभूपाला वैश्यशूद्रगणाः स्थिताः || १० || केचिच्छ्वपचचाण्डालकिरातावेशपुष्कसाः | केचित्तृणौषधी केचित्फलमूलपतङ्गकाः || ११ || किरातावेशाः किरातयोनिप्रविष्टास्त एव | तृणौषधी इति जात्योर्द्विवचनम् | फलमूलग्रहणं तदन्तर्गतबीजावस्थजीवाभिप्रायेण || ११ || केचिच्चित्रलतागुल्मतृणोपलदृशोऽभितः | केचित्कदम्बजम्बीरशालतालतमालकाः || १२ || पुनस्तृणग्रहणं तदवान्तरजातिप्रपञ्चार्थम् | उपलं पश्यन्ति स्वदेहतयेत्युपलदृशः पर्वतादयः || १२ || केचिद्विभवसंसारमन्त्रिसामन्तभूमिपाः | केचिच्चीराम्बराच्छन्ना मुनिमौनमुपस्थिताः || १३ || विभवैः संसरन्ति भ्रमन्तीति विभवसंसाराः | अम्बरदौर्लभ्यात्तपोर्थं वा चीराम्बराच्छनाअः || १३ || केचिद्भुजङ्गगोनासकृमिकीटपिपीलिकाः | केचिन्मृगेन्द्रमहिषमृगाजचमरैणकाः || १४ || गोनासा अजगराः || १४ || केचित्सारसचक्राह्वबलाकाबककोकिलाः | केचित्कमलकह्लारकुमुदोत्पलतां गताः || १५ || केचित्कलभमातङ्गवराहवृषगर्दभाः | केचिद्द्विरेफमशकाः पुत्तिकादंशवंशजाः || १६ || कलभः करिशावः | पुत्तिका पतङ्गिका || १६ || केचिदापद्बलाक्रान्ताः केचित्संपदमागताः | केचित्स्थिताः स्वर्गपुरे केचिन्नरकमास्थिताः || १७ || ऋक्षचक्रगताः केचिद्वृक्षरन्ध्रगताः परे | वातभूताः स्थिताः केचित्केचिद्व्योमपदे स्थिताः || १८ || ऋक्षचक्रं नक्षत्रचक्रं तद्गताः | वातभूता आवहप्रवहादिवायवधिकारं प्राप्ताः | व्योमपदे आकाशाधिकारे || १८ || सूर्यांशुषु स्थिताः केचित्केचिदिन्द्वंशुषु स्थिताः | केचित्तृणलतागुल्मरसस्वादुष्ववस्थिताः || १९ || सूर्यांशुषु रसादानाद्यधिकारे | इन्द्वंशुषु ओषध्याद्याप्यायनाधिकारे | तृणादीनां रसः स्वादुर्यत्र पश्वादियोग्ये विषयलांपठ्ये इति यावत् || १९ || जीवन्मुक्ता भ्रमन्तीह केचित्कल्याणभाजनाः | चिरमुक्ताः स्थिताः केचिन्नूनं परिणताः परे || २० || परे परमात्मनि परिणतास्तद्भावं प्राप्ता विदेहमुक्ताः || २० || केचिच्चिरेण कालेन भविष्यन्मुक्तयः शिवाः | केचिद्द्विषन्ति चिद्भावाः केवलीभावमात्मनः || २१ || चिद्भावा जीवा भोगलम्पटाः सन्तः केवलीभावं कैवल्यं द्विषन्ति || २१ || केचिद्विशालाः ककुभः केचिन्नद्यो महारयाः | केचित्स्त्रियः कान्तदृशः केचित्पण्डनपुंसकाः || २२ || ककुभो दिग्देवताः || २२ || केचित्प्रबुद्धमतयः केचिज्जडतराशयाः | केचिज्ज्ञानोपदेष्टारः केचिदात्तसमाधयः || २३ || एते सर्वेऽपि संसरणानर्थवासनावशादेवेति सैव समूलमुच्छेद्येत्याशयेनोपसंहरति - जीवा इति | उक्तानुक्तसर्वसंग्रहार्थमेतास्वेतास्विति वीप्सा || २४ || जीवाः स्ववासनावेशविवशाशयतां गताः | एतास्वेतास्ववस्थासु संस्थिता बद्धभावनाः || २४ || विहरन्ति भुवि | निपतन्ति नरके | उत्पतन्ति स्वर्गे | अत एव कन्दुका इव || २५ || विहरन्ति जगत्केचिन्निपतन्त्युत्पतन्ति च | कन्दुका इव हस्तेन मृत्युनाऽविरतं हताः || २५ || विहरन्ति भुवि | निपतन्ति नरके | उत्पतन्ति स्वर्गे | अत एव कन्दुका इव || २५ || आशापाशशताबद्धा वासनाभावधारिणः | कायात्कायमुपायान्ति वृक्षाद्वृक्षमिवाण्डजाः || २६ || वासनारूपान्भावान्भाविदेहादीन्धारयन्ति तच्छीलाः || २६ || अनन्तानन्तसंकल्पकल्पनोत्पादमायया | इन्द्रजालं वितन्वाना जगन्मयमिदं महत् || २७ || अनन्तेषु विषयेषु अनन्तसंकल्पकल्पनोत्पादनहेतुभूतया मायया अविद्यया || २७ || तावद्भ्रमन्ति संसारे वारिण्यावर्तराशयः | यावन्मूढा न पश्यन्ति स्वमात्मानमनिन्दितम् || २८ || आवर्तराशय इवेति शेषः || २८ || दृष्ट्वात्मानमसत्त्यक्त्वा सत्यामासाद्य संविदम् | कालेन पदमागत्य जायन्ते नेह ते पुनः || २९ || विवेकिनां तर्ह्यात्मदर्शनात्को लाभस्तमाह - दृष्ट्वेति | कालेन भूमिकादार्ढ्यक्रमेण || २९ || भुक्त्वा जन्मसहस्राणि भूयः संसारसंकटे | पतन्ति केचिदबुधाः संप्राप्यापि विवेकिताम् || ३० || विवेकभ्रष्टानां या गतिस्तामाह - भुक्त्वेति || ३० || केचिच्छक्तत्वमप्युच्चैः प्राप्य तुच्छतया धिया | पुनस्तिर्यक्त्वमायान्ति तिर्यक्त्वान्नरकानपि || ३१ || शक्तत्वं प्रशस्तजन्मदेशकालप्रतिभाविनयसत्समागमादिसंपन्नताम् | उच्चैर्देवगन्धर्वब्राह्मणाद्युत्कृष्टसंपद्रूपम् | तुच्छतया तुच्छविषयलंपटतया धिया स्वबुद्ध्यैव | शक्रत्वम् इति पाठे नहुषः उदाहार्यः || ३१ || केचिन्महाधियः सन्त उत्पद्य ब्रह्मणः पदात् | तदैव जन्मनैकेन तत्रैवाशु विशन्त्यलम् || ३२ || महाधियः सनकादयः | तदैव तस्मिन्नेव कल्पे | तत्र मोक्षाख्ये ब्रह्मपदे || ३२ || ब्रह्माण्डेष्वितरेष्वन्ये तेष्वन्ये जीवराशयः | प्रयान्ति पद्मोद्भवतामन्ये च हरतामपि || ३३ || इतरेषु स्वोत्पत्तिब्रह्माण्डान्तरेषु यथैन्दवाः | तेषु स्वोत्पत्तिस्थानब्रह्माण्डेषु | हरतां हरसारूप्यम् || ३३ || अन्ये प्रयान्ति तिर्यक्त्वमन्ये च सुरतामपि | अन्येऽपि जागतां राम यथैवेह तथैव हि || ३४ || नागतां सर्पतां जगतां वा | यथैवेह ब्रह्माण्डे तथैव ब्रह्माण्डान्तरेऽपीति शेषः || ३४ || यथेदं हि जगत्स्फारं तथान्यानि जगन्त्यपि | विद्यन्ते समतीतानि भविष्यन्ति च भूरिशः || ३५ || इदं जगत् ब्रह्माण्डम् | जगन्ति ब्रह्माण्डानि || ३५ || अन्येनान्येन चित्रेण क्रमेणान्येन हेतुना | विचित्राः सृष्टयस्तेषामापतन्ति पतन्ति च || ३६ || आपतन्त्याविर्भवन्ति पतन्ति तिरोभवन्ति च || ३६ || कश्चिद्गन्धर्वतां याति कश्चिद्गच्छति यक्षताम् | कश्चित्प्रयाति सुरतां कश्चिदायाति दैत्यताम् || ३७ || अत्रैव ब्रह्माण्डान्तरेष्वपि कर्मवैचित्र्याज्जीवगतिर्विचित्रैवेत्याशयेनाह - कश्चिदिति || ३७ || येनैव व्यवहारेण ब्रह्माण्डेऽस्मिन्जनाः स्थिताः | तेनैवान्येषु तिष्ठन्ति सन्निवेशविलक्षणाः || ३८ || येनैव मनुष्यादियोग्यव्यवहारेण | द्वीपान्तरीयजनवत्सन्निवेशेन संस्थानभेदेन परं विलक्षणाः || ३८ || स्वस्वभाववशावेशादन्योन्यपरिघट्टनैः | सृष्टयः परिवर्तन्ते तरङ्गिण्या इवोर्मयः || ३९ || अस्त्वेवं तथापि कथं तेषामुत्तमाधमादिभावेन परस्परस्नेहविरोधादिना च सृष्टिपरिवृत्तिस्तत्राह - स्वस्वभावेति | सात्त्विकराजसतामसादिस्वस्वभाववशात्तत्तदनुकूलव्यवहाराभिनिवेशात्प्रवृ ^इत्तानामेकविषये स्पर्धया अन्योन्यपरिघट्टनैः सृष्टिपरिवृत्तिरित्यर्थः || ३९ || आविर्भावतिरोभावैरुन्मज्जननिमज्जनैः | सृष्टयः परिवर्तन्ते तरङ्गिण्या इवोर्मयः || ४० || तत्रापि तेहुमाह - आविर्भावेति | रजस आविर्भावे सृष्टेरुन्मज्जनं सत्त्वतमसोर्निमज्जनं तमस आविर्भावेन रजसस्तिरोभावे सृष्टेर्निमज्जनमन्तरा सत्त्वाविर्भावे तावत्कालं पालनमिति हेतुपरिवृत्त्या परिवर्तन्त इत्यर्थः || ४० || निर्यान्त्यविरतं तस्मात्परस्माज्जिवराशयः | अनिर्देश्याः स्वसंवेद्यास्तत्रैवाशु स्फुरन्ति च || ४१ || गुणाधीनान्तःकरणादिषृष्ट्या तदुपाधिकजीवनिर्मगमप्रसिद्धिरित्याशयेनाह - निर्यान्तीति | तत्र परस्मिन्नेव स्फुरन्ति स्फुटं व्यवहरन्ति च || ४१ || दीपादिवालोकदृशः सूर्यादिव मरीचयः | कणास्तप्तायस इव स्फुलिङ्गा इव पावकात् || ४२ || तत्र श्रुत्यादिप्रसिद्धदृष्टान्तमाह - दीपादिति || ४२ || कालादिवर्तवश्चित्रा आमोदाः कुसुमादिव | शीतला इव वर्षाणुपूरादब्धेरिवोर्मयः || ४३ || शीतलास्तुषारा इव || ४३ || उत्पत्त्योत्पत्त्य कालेन भुक्त्वा देहपरम्पराम् | स्वत एव पदे यान्ति निलयं जीवराशयः || ४४ || प्रलये शान्ते पदे बीजभूते | निलयं निलीनताम् || ४४ || अविरतमियमातता तथोच्चै- र्भवति विनश्यति वर्धते मुधैव | त्रिभुवनरचनादिमोहमाया परमपदे लहरीव वारिराशौ || ४५ || उक्तं जीवजगत्सर्गं संक्षिप्योपसंहरति - अविरतमिति | इयं त्रिभुवनरचनाभ्रान्तिलक्षणा माया परमपदे अविरतं संततं मुधैव आतता सर्गेण विस्तृता वर्धते तथा उच्चैर्भवति विपरिणमते विनश्यति च | वारिराशौ लहरीवेति मुधात्वे दृष्टान्तः || ४५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे जीवनिचयस्थानोपदेशो नाम त्रिचत्वारिंशः सर्गः || ४३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे जीवनिचयस्थानोपदेशो नाम त्रिचत्वारिंशः सर्गः || ४३ || चतुश्चत्वारिंशः सर्गः ४४ श्रीराम उवाच | क्रमेणानेन येनाप्ता जीवेन स्थितिरात्मनः | स कथं भगवन्देहं समाधत्तेऽस्थिपञ्जरम् || १ || मुक्तिप्रलयसाम्येऽपि विशेषोऽत्र प्रकीर्त्यते | तथा विरिञ्चिजीवस्य शरीरग्रहणक्रमः || १ || प्रलये स्वत एव प्रदेशान्ते जीवराशयो विलयं यान्तीति यदुक्तं तत्र रामः शङ्कते - क्रमेणेति | अनेन उत्पत्त्योत्पत्त्य कालेन भुक्त्वा देहपरम्परामिति त्वदुक्तेन क्रमेण येन जीवेन प्रलये स्वत एव परमपदे आत्मनः स्थितिराप्ता स मुक्त एवेति पुनः कथं देहमादत्ते | परमपदं प्राप्तस्य पुनरावृत्तौ मुक्तावप्यनाश्वासप्रसङ्गात् | न चाज्ञानावृतस्य बीजभावकृतो विशेषः | अबीजस्य शिलाशकलादेरज्ञानमात्रावरणेनाङ्कुरादिबीजत्वादर्शनादित्यर्थः || १ || श्रीवसिष्ठ उवाच | पूर्वमेव मया प्रोक्तं राम किं नावबुध्यसे | पूर्वापरविचारार्हा शेमुषी क्व गता तव || २ || स्वसमसत्ताकं बीजत्वादर्शनेऽपि आवरणसमसत्ताकसर्पादिकं प्रति आवृतरज्ज्वादेर्बीजत्वदर्शनान्मिथ्याबीजत्वमावरणमात्रकृतं विशेषेणानुक्तमपि स्वबुद्ध्यैव त्वयोहितुं शक्यमिति न प्रश्नार्हमेतदित्याशयेन परिहारमाह - पूर्वमेवेति || २ || यदिदं हि शरीरादि जगत्स्थावरजङ्गमम् | आभासमात्रमेवैतदसत्स्वप्नमिवोत्थितम् || ३ || आभासो विवर्तस्तावन्मात्रम् || ३ || दीर्घस्वप्नो ह्ययं राम मिथ्यैवानघ दृश्यते | द्विचन्द्रविभ्रमाकारं भ्रमान्तर्भ्रान्तशैलवत् || ४ || चिरस्थायिनां ब्रह्माण्डभुवनादीनां कथमाभासमात्रता तत्राह - दीर्घेति || ४ || प्रशान्ताज्ञाननिद्रस्तु नूनं गलितभावनः | प्रबुद्धचेताः संसारस्वप्नं पश्यन्न पश्यति || ५ || अज्ञानात्मनो बीजभावात्पुनः संसारस्वप्नदर्शनेऽपि ज्ञस्य न तत्प्रसक्तिरित्याशयेनाह - प्रशान्तेति | जीवन्मुक्तव्यवहारार्ह पश्यन्नपि परमार्थदृशा न पश्यति || ५ || स्वभावकल्पितो राम जीवानां सर्वदैव हि | आमोक्षपदसंपाप्ति संसारोऽस्त्यात्मनोऽन्तरे || ६ || बीजभूते अज्ञानात्मनि भाविसंसारस्यामोक्षं सूक्ष्मरूपेण सत्त्वादपि पुनर्जन्मोपपत्तिरित्याशयेनाह - स्वभावेति || ६ || जीवस्य तरलः काय आवर्तः पयसो यथा | यथा बीजेऽङ्कुरः स्फारः पल्लवः स्वाङ्कुरे यथा || ७ || जीवस्यान्तरे तरलः कायोऽस्ति यथा पयसोऽन्तरे आवर्त इत्यादिदृष्टान्ताः || ७ || पल्लवे च यथा पुष्पं पुष्पकोशे फलं यथा | यतः स कल्पनारूपो देहोऽस्ति मनसोऽन्तरे || ८ || कुतो जीवान्तः कायोऽस्ति तत्राह - यत इति | अन्तरे मध्ये || ८ || बहूरूपतया राम यतोऽस्त्येकतमः स्फुटः | स एव प्रतिभासोऽस्य मनसः किल जायते || ९ || तत्रापि देहः कथं संभाव्यते तत्राह - बहुरूपतयेति | मनसो बहुरूपतया प्रसिद्धेर्देहरूपस्यापि वासनात्मना तत्र संभवादित्यर्थः | तर्हि बहूनि शरीराणि युगपत्कुतो न जायन्ते तत्राह - यत इति | यतो बहुषु वासनात्मना स्थितेषु य एवैकतमः परिपक्वैः कर्मभिः स्फुटोऽभिव्यक्तः क्रियते स एव प्रतिभासोऽस्य प्रायेण काले जायते न सर्व इत्यर्थः || ९ || स एवाशु भवत्येतन्मृत्पिण्डो घटकोपमः | आदिसर्गे पुरा कायः प्रतिभासोऽस्य चोत्तमः || १० || एतन्मनः स एव देहो भवति | तत्रोत्तमकर्मपरिपाके उत्तम एव देहो भवतीत्येतदादिसर्गमारभ्य दर्शयति - आदिसर्ग इति || १० || यस्मादेष विभुर्ब्रह्मा पद्मकोशगृहस्थितः | तत्संकल्पक्रमेणैव ततः स्थितिमुपागता || ११ || इत्यं सृष्टिरपर्यन्ता मायेव घनमायया | श्रीराम उवाच | जीवो मनःपदं प्राप्य वैरिञ्चं पदमागतः || १२ || यथा ब्रह्मंस्तथा सर्वं विस्तरेण वदाशु मे | श्रीवसिष्ठ उवाच | ब्रह्मे शृणु महाबाहो शरीरग्रहणे क्रमम् || १३ || निदर्शनेन तेनैव जागतीं ज्ञास्यसि स्थितिम् | दिक्कालाद्यनवच्छिन्नमात्मतत्त्वं स्वशक्तितः || १४ || लीलयैव यदादत्ते दिक्कालकलितं वपुः | तदैव जीवपर्यायं वासनावेशतत्परम् || १५ || मनः संपद्यते लोलं कलनाकलनोन्मुखम् | मलयन्ती मनःशक्तिरादौ भावयति क्षणात् || १६ || कलनाकलनोन्मुखमिति यदुक्तं तद्विवृणोति - कलयन्तीत्यादिना | पूर्वसर्गे आकाशादिक्रमाविर्भूतहिरण्यगर्भाहंग्रहोपासनसंस्कृतं मनस्तथैवाव्याकृते लीनं मनः शक्तिरित्युच्यते सा तेनैव क्रमेण स्वाविर्भावं कल्पयन्ती सतीत्यर्थः || १६ || आकाशभावनामच्छां शब्दबीजरसोन्मुखीम् | ततस्तां घनतां यातं घनस्पन्दक्रमान्मनः || १७ || शब्दानां बीजं शब्दतन्मात्रं रसः श्रोत्रेन्द्रियम् | तां तादृशाकाशभावनां प्राप्य घनतामुपचयं यातं मनः || १७ || भावयत्यनिलस्पन्दं स्पर्शबीजरसोन्मुखम् | ताभ्यामाकाशवाताभ्यामदृष्टाभ्यां मनोदृशा || १८ || अनिलात्मना स्पन्दमीषच्चलनम् | स्पर्शबीजेत्यादि प्राग्वत् | अपञ्चीकृतत्वेन सूक्ष्मतमत्वान्मनोदृशा मनोवच्छिन्न चैतन्यात्मना जीवेनादृष्टाभ्याम् || १८ || शब्दस्पर्शस्वरूपाभ्यां संघाताज्जन्यतेऽनलः | मनस्तद्घन्तां प्राप्य ततो भावयति क्षणात् || १९ || संघातात् उपचयादभिघाताच्च | अनलो रूपबीजरसात्मकः || १९ || प्राकाश्यममलालोकमालोकस्तेन वर्धते | मनस्तावद्गुणगतं रसतन्मात्रवेदनम् || २० || तावद्गुणगतं तावद्भिराकाशवायुतेजोभिर्गुणनं गुण उपचयस्तं गतं प्राप्तम् || २० || क्षणार्धेन त्वपां शैत्यं जलसंवित्ततो भवेत् | ततस्तादृग्गुणगतं मनो भावयति क्षणात् || २१ || अपां शैत्यं रसतन्मात्रं प्राप्य जलमिति संवेद्यत इति संवित्प्रतीत्यर्हं भवेदित्यर्थः | तादृशामुक्तप्रकाराणां चतुर्णां गुणं संघातभावं गतम् || २१ || स्वरूपं गन्धवत्स्थूलं येनोदेष्यति मेदिनी | अथेत्थंभूततन्मात्रवेष्टितं तनुतां जहत् || २२ || उदेष्यतीति पूर्वभूतजन्मकालमपेक्ष्य भविष्यत्त्वविवक्षणालॢट् | भूततन्मात्रवेष्टितमिदं पञ्चकं मिलितं सत्तनुतां सौक्ष्म्यं जहत्त्यजत् || २२ || वपुर्वह्निकणाकारं स्फुरितं व्योम्नि पश्यति | अहंकारकलायुक्तं बुद्धिबीजसमन्वितम् || २३ || यद्वपुः पश्यति तल्लिङ्गाख्यं पुर्यष्टकमित्यन्वयः || २३ || तत्पुर्यष्टकमित्युक्तं भूतहृत्पद्मषट्पदम् | तस्मिंस्तु तीव्रसंवेगाद्भावयद्भास्वरं वपुः || २४ || कर्मज्ञानेन्द्रियगणौ भूतप्राणमनोगणाः | अविद्याकामकर्माणि लिङ्गैः [लिङ्गं इति पाठः] पुर्यष्टकं विदु | वक्ष्यमाणदेहभावनया लिङ्गस्यैव हि पञ्चीकरणेन घनत्वे स्थूलदेहताविभावनमित्याह - तस्मिंस्त्विति || २४ || स्थूलतामेति पाकेन मनो बिल्वफलं यथा | मूषास्थद्रुतहेमाभं स्फुरितं विमलाम्बरे || २५ || मूषा प्रतिमाकारनभोगर्भमृत्पिण्डस्तदन्तर्निषिक्तद्रुतहेमाभं बहिः स्थूलभास्वरमन्तः सूक्ष्मभास्वरं स्थूलदेहसंवलितं वक्ष्यमाणसंनिवेशमुपादत्ते तत्तेजो लिङ्गं कर्तृ || २५ || सन्निवेशमुपादत्ते तत्तेजः स्वस्वभावतः | तस्मिन्स्वसन्निवेशे च तेजःपुञ्जमये पुनः [मन इत्यपि पाठः] || २६ || तत्र मनसो विशेषकल्पनाभिनिवेशशाखोपशाखाप्रचय इत्याह - तस्मिन्नित्यादिना || २६ || भजते भावनां स्फारां निश्चितामातताम्बराम् | ऊर्ध्वं शिरःपीठमयीमधःपादमयीं तथा || २७ || आतताम्बरां व्याप्ताकाशां भूयुअसीमिति यावत् | तत्र क्रमाच्छिर आद्यवयवकल्पनामाह - ऊर्ध्वमिति || २७ || पार्श्वयोर्हस्तसंस्थानां मध्ये चोदरधर्मिणीम् | प्रकटावयवो बालो ज्वालामालामलाकृतिः || २८ || अङ्गुल्यादिनिष्पत्त्या प्रकटावयवः || २८ || मनोरथवशोपात्तवपुस्तिष्ठत्यसावथ | एवं स्ववासनावेशात्कलिताङ्गो मनोमुनिः || २९ || असौ ब्रह्मा | मुनिः पूर्वोपासितप्रकारमननशीलः || २९ || नयत्युपचयं देहं स्वस्वभावमृतुर्यथा | कालेन स्फुटतामेति भवत्यमलविग्रहः || ३० || बुद्धिसत्त्वबलोत्साहविज्ञानैश्वर्यसंस्थितः | स एव भगवान्ब्रह्मा सर्वलोकपितामहः || ३१ || ज्ञानमप्रतिमं यस्य वैराग्यं च जगत्पतेः | ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम् || इति स्मृतिप्रसिद्धविशेषणसिद्धिं तस्य दर्शयति ##- द्रवत्कनकसंकाशः परमाकाशसंभवः | यथासौ परमाकाशे तिष्ठत्यपररूपवान् || ३२ || परमाकाशे ब्रह्मण्यसौ यथा यादृश्या स्वसत्तया तिष्ठति तथा तादृश्यैव व्यवहारक्षमसत्तया आत्मनो मोहमज्ञानमेव चित्तलीलया पञ्चीकृतस्थूलव्योमादिवक्ष्यमाणरूपेण जनयतीत्यर्थः || ३२ || जनयत्यात्मनो मोहमात्मस्थं चित्तलीलया | कदाचित्केवलं व्योम परमं पारवर्जितम् || ३३ || तस्य कालभेदेन नानाविधाः कल्पना दर्शयति - कदाचिदिति | पारं परावधिः आदिः पूर्वावधिः पर्यन्तौ पार्श्वतोऽवधिस्तदभावादेव मध्यमावधिरहितं च केवलं व्योम कल्पयतीत्यर्थः || ३३ || अनादिमध्यपर्यन्तं कदाचिदमलं पयः | कदाचित्कल्पकालाग्निज्वालाभास्वरमण्डकम् || ३४ || दैनंदिनप्रलयकाले तु अमलं पय एव कल्पयति | कदाचित्कल्पान्ते दाहकाले || ३४ || कदाचित्काननं कार्ष्ण्यं कालं कमलकुड्मलम् | अन्यान्यन्यान्यनेकानि प्रतिजन्मावधिः प्रभुः || ३५ || कदाचित्पृथिवीसर्गोत्तरं भूतसर्गात्प्राक्काले कृष्णमेव कार्ष्ण्यम् | चातुर्वर्ण्यमितिवत्स्वार्थे ष्यञ् | हरितवर्णं काननं वृक्षव्याप्तां कृत्स्नां भुवमित्यर्थः | कदाचित्पाद्मे कल्पे श्यामभूपद्मप्रकृतित्वात्कालं श्यामं विष्णुनाभ्युत्थं कमलकुड्मलम् | अन्यान्यन्यानि भुवनार्णवजनादिरूपाण्यनेकानि संस्थानानि कल्पयन्विष्ण्वादिरूपेण स्वयमेव पालयति || ३५ || कल्पयन्पालयत्येष नानारूपाणि हेलया | तत्रेदंप्रथमत्वेन यदैष ब्रह्मणः पदात् || ३६ || तस्य प्रथमकल्पमारभ्य प्रतिदिनं सुप्तोत्थितस्य स्वदेहकल्पनाक्रमं दर्शयति - तत्रेत्यादिना | सर्वेषां ब्रह्माण्डानां तदभिमानिब्रह्मणां च कालानवच्छिन्नब्रह्मपदादेवाविर्भावात्तद्दृशा न पौर्वापर्यमस्तीति प्राथम्यमेवेत्यभिप्रेत्येदंप्रथमत्वेनेत्युच्यते || ३६ || अवतीर्णस्तदाऽज्ञानात्तथैव सुखमस्मृतम् | गर्भनिद्राव्यपगमे वपुः पश्यति भास्वरम् || ३७ || यदावतीर्णस्तदाप्रभृति ब्रह्माण्डगर्भे विष्णुकुक्षिगर्भे वा सुखं सौषुप्तसुखोपलक्षितमस्मृतं प्राक्तनवास्तवरूपस्य देहव्यवहारादेश्चास्मरणरूपं सुषुप्तमभूदिति शेषः || ३७ || प्राणापानप्रवाहाढ्यं द्रव्यैरिव विनिर्मितम् | रोमकोटिभिराकीर्णं द्वात्रिंशद्दशनान्वितम् || ३८ || द्रव्यैः पञ्चभूतस्वच्छभागैः || ३८ || त्रिस्थूणं पञ्चदैवत्यमधश्चरणलाञ्छितम् | पञ्चभागं नवद्वारं त्वग्लेपमसृणाङ्गकम् || ३९ || सक्थिपृष्ठास्थिभिस्त्रिस्थूणम् | पञ्चभिः प्राणैः पञ्चदैवस्यम् | पाणिपादशिरोवक्षःकुक्षिणा पञ्चभागम् || ३९ || युक्तमङ्गुलिर्विशत्या नखविंशतिलाञ्छितम् | द्विबाहुं द्विस्तनं द्व्यक्षं बह्वक्षिभुजमेव च || ४० || इच्छया कदाचिद्बह्वक्षिभुजमपि || ४० || नीडं चित्तविहङ्गस्य नीडं मन्मथभोगिनः | तृष्णापिशाच्या निलयं जीवकेसरिकन्दरम् || ४१ || अभिमानगजालानं मानसाम्भोजशोभितम् | अथालोच्य वपुर्ब्रह्मा कान्तमात्मीयमुत्तमम् || ४२ || चिन्तयामास भगवांस्त्रिकालामलदर्शनः | अस्मिन्नाकाशकुहरे तते मधुपलाञ्छिते || ४३ || मधुपपदेन तत्सदृशश्यामता लक्ष्यते तया लाञ्छिते || ४३ || अदृष्टपारपर्यन्ते प्रथमं किमभूदिति | इति चिन्तितवान्ब्रह्मा सद्यो जातोऽमलात्मदृक् || ४४ || प्रथमं मदुत्पत्तेः पूर्वम् | इतिशब्दद्वयं वीप्सया सर्वपूर्वविशेषचिन्तालाभार्थम् | अमला निर्मलत्वादतीतानागतदर्शने क्षमा आत्मदृग् यस्य || ४४ || अपश्यत्सर्गवृन्दानि समतीतान्यनेकशः | अथ सस्मार सकलान्सर्वान्धर्मगणान्क्रमात् || ४५ || अथ तत्कारणचिन्तानन्तरम् | सकलान् साङ्गोपाङ्गान् | धर्मगणग्रहणमधर्माणामप्युपलक्षणम् || ४५ || वसन्तः कुसुमानीव वेदानादाय संस्तुतान् | लीलया कल्पयामास चित्रसंकल्पजाः प्रजाः || ४६ || अत एव तस्योत्तरकाले सर्गोऽपि वेदोक्तक्रमेणैव सुकरोऽभूदित्याशयेनाह - लीलयेति || ४६ || नानाचारसमाचारं गन्धर्वनगरे यथा | तासां स्वर्गापवर्गार्थं धर्मकामार्थसिद्धये || ४७ || अनन्तानि विचित्राणि शास्त्राणि समकल्पयत् | दृष्टिरेवमियं राम सर्गेऽस्मिन्स्थितिमागता | विरिञ्चिरूपान्मनसः पुष्पलक्ष्मीर्मधोरिव || ४८ || मनस एव सर्वसृष्टिरिति यत्प्रतिज्ञातं तदेवंरीत्या समर्थितमित्युपसंहरति - दृष्टिरिति || ४८ || विविधविरचनैः क्रियाविलासैः कमलजरूपधरेण चेतसैव | रघुसुत परिकल्पनेन नीता स्थितिमतुलां जगतीह सर्गलक्ष्मीः || ४९ || हे रघुसुत रघुसंतते परिदृश्यमाना सर्गलक्ष्मीः कमलजरूपधरेण चेतसा मनसैव स्वपरिकल्पनेन अतुलां सत्यतुच्छविलक्षणत्वादसदृशीं स्थितिं नीतेत्यर्थः || ४९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे संसारावतरणप्रतिपादनोपदेशो नाम चतुश्चत्वारिंशः सर्गः || ४४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे संसारावतरणप्रतिपादनोपदेशो चतुश्चत्वारिंशः सर्गः || ४४ || पञ्चचत्वारिंशः सर्गः ४५ श्रीवसिष्ठ उवाच | जगत्संपन्नमेवेदं संपन्नं किंचिदेव न | शून्यमेव च भामात्रं मनोविलसितं स्थितम् || १ || मनोरथादौ दृष्टत्वान्मनः कार्यं न सत्क्वचित् | असत्तस्माज्जगद्रूपं सत्सदेवेति वर्ण्यते || १ || संपन्नं परिनिष्ठितमेव सन्न किंचिदेव संपन्नम् | यतो मनोविलसितं सर्वं भामात्रं प्रतिभासमात्रं स्थितम् | तद्व्यतिरेकेण शून्यमेवेत्यर्थः || १ || न देशकालावेतेन ब्रह्माण्डेनावृतौ स्थितौ | मनागपि महारूपवताप्याकाशरूपिणा || २ || कुतश्च प्रतिभासव्यतिरेकेण शून्यता तस्येति तत्राह - नेति | यतः प्रतिभासदेशकालौ एतेन परिच्छिन्नेन ब्रह्माण्डेन नावृतौ न व्याप्तौ | अतीतानागतबहिःस्थितब्रह्माण्डकोटीनामपि त्रसरेणूनामातपान्तरिव प्रतिभासान्तःस्फुरणदर्शनात् | किं बहुना | महारूपवता परममहत्त्वेन प्रसिद्धेनाप्याकाशरूपिणा प्रथमभूतेन तस्य तौ न व्याप्तौ | ज्यायानाकाशात् इति श्रुतेः अप्रतिभासमाने आकाशे ज्यायस्त्वे मानाभावेन प्रतिभासान्तरेव तस्य भानस्यावश्यवाच्यत्वे प्रतिभासमानानन्तकोटिष्वेकतमभूतस्य तस्य निरस्ता प्रतिभासदेशकालव्यापकतेति सूचनाय मनागपीत्युक्तिरिति बोध्यम् || २ || एतत्संकल्पमात्रात्म स्वप्नदृष्टपुरोपमम् | यत्रैव तत्र तच्छून्यं केवलं व्योम संस्थितम् || ३ || पूर्वोत्तरदेशकालाव्याप्तिरास्तां नाम स्वाश्रययोर्देशकालयोरपि अध्यस्तेनाधिष्ठानासंस्पर्शान्न प्रतिभासव्याप्तिप्रसक्तिरित्याशयेनाह - एतदिति | यत्रैव देशे काले च जगच्चिति भासति तत्रैव तदधिष्ठानं चित् जगच्छून्यं केवलं व्योमेव संस्थितमित्यर्थः || ३ || अभित्तिरागरचनमपि दृष्टमसन्मयम् | अकृतं कृतमेवैतद्व्योम्नि चित्रं विचित्रकम् || ४ || अत एवेदं गन्धर्वनगरचित्रवदिति प्रागुक्तमित्याह - अभित्तीति || ४ || मनसा कल्पितं सर्वं देहादिभुवनत्रयम् | संस्मृतौ कारणं चैतच्चक्षुरालोकने यथा || ५ || किंच मनसः स्मृतिमात्रे हेतुत्वात्तद्रचितमिदं स्मृतितुल्यमिति न स्वकालेऽर्थरूपं सदित्याह - मनसेति | एतत् मनः || ५ || आभासमात्रं हि जगद्घटावटपटभ्रमैः | आवर्तते न सद्रूपात्पृथक्कुड्यादयः स्थिताः || ६ || कुड्यादिजगतः सतः पृथक्कृत्य दर्शयितुमशक्यत्वादपि सद्व्यतिरेकेणासत्त्वमित्याह - आभासेति || ६ || मनसेदं शरीरं हि वासनार्थं प्रकल्पितम् | कृमिकोशप्रकारेण स्वात्मकोश इव स्वयम् || ७ || यथा स्वात्मनः स्वयं कोश इव प्रकल्पितं तथैव इदं शरीरं स्वस्य वासनार्थं स्थित्यर्थं कृमिकोशप्रकारेण नीडभूतं कल्पितमित्यर्थः || ७ || न तदस्ति च यन्नाम चेतःसंकल्पमम्बरम् | न करोति न चाप्नोति दुर्गमप्यतिदुष्करम् || ८ || चेतसः संकल्पमात्रेणासद्रचनाप्राप्तिशक्तिप्रसिद्धेरप्युक्तार्थोपपत्तिरित्याह - न तदिति | यदिति सामान्ये नपुंसकम् | अम्बरमर्थशून्यं संकल्पं संकल्परूपं यन्न करोति नाप्नोति चेत्यन्वयः | दुर्गं दुरापम् || ८ || सर्वशक्तिधरे देवे का नाम ननु शक्तयः | न संभवन्त्याश्रियन्ते याभिरन्तर्मनोगुहाः || ९ || याभिः शक्तिभिर्मनोगुहा अन्तर्नाश्रियन्ते ताः शक्तयो देवे जगदीश्वरेऽपि का नाम संभवन्तीत्यन्वयः || ९ || सत्तासत्ते पदार्थानां सर्वेषां सर्वदैव हि | महाबाहो संभवतः सर्वशक्तौ विभौ सति || १० || यदि सदैव जगदसद्ब्रह्म सदैव सत्परस्परं च तयोः सदैवासंस्पर्शस्तर्हि कथं जगति कादाचित्के सत्तासत्ते तत्राह - सत्तासत्ते इति | न कादाचित्के अपि तु सदातने | तयोः परस्पराभिभवेन पर्यायेणावेशकल्पनमेवाचिन्त्यं मायाशक्तिकृतमिति भावः || १० || पश्य भावनया प्राप्तं मनसैवात्मजं वपुः | तस्मात्तत्कलनां राम सर्वशक्तियुतां विदुः || ११ || सेयमैश्वरी सर्वशक्तिः स्वमनस्येव प्रत्यक्षं दृश्यतामित्याह - पश्येति | जगति विचित्रपदार्थशक्तयोऽपि सर्वशक्तिमन्मनःकल्पनादेवेत्याह ##- स्वसंकल्पकृताः सर्वे देवासुरनरादयः | स्वसंकल्पोपशमने शाम्यन्त्यस्नेहदीपवत् || १२ || अत एव न देवादिशक्तिभिरपि मुक्तिः प्रतिबद्धुं शक्येत्याशयेनाह - स्वसंकल्पेति || १२ || आकाशसदृशं सर्वं कलनामात्रजृम्भितम् | जगत्पश्य महाबुद्धे सुदीर्घं स्वप्नमुत्थितम् || १३ || न जायते न म्रियते इह किंचित्कदाचन | परमार्थेन सुमते मिथ्या सर्वं तु विद्यते || १४ || न वृद्धिमेति नो ह्रासं यन्न किंचित्कदाचन | किं वा तनु भवेत्तत्र कस्य का नाम खण्डना || १५ || नतु खण्डनेनाल्पीकृतम् | नह्यखण्डे खण्डनमतरेण परिच्छेदप्रसक्तिः नच खण्डनं वा संभवतीत्यर्थः || १५ || भूमभूतं स्वकायोत्थमपश्यन्निपुणं दृशा | राघवाऽमहता स्वान्तः किमज्ञ इव मुह्यसि || १६ || बहोर्भावो भूमा तथाभूतम् | अपरिच्छिन्नमिति यावत् | स्वकायादुत्थं मुञ्जेषीकावत् पृथक्कृतमपश्यन् अमहता परिच्छिन्नात्मदर्शनेन किं मुह्यसि || १६ || मृगतृष्णा यथा तापान्मनसो निश्चयात्तथा | असन्त इव दृश्यन्ते सर्वे ब्रह्मादयोऽप्यमी || १७ || तापात् मरुमयूखात् | निश्चयात् संकल्पात् || १७ || द्विचन्द्रविभ्रमप्रख्या मनोरथवदुत्थिताः | मिथ्याज्ञानघनाः सर्वे जगत्याकारराशयः || १८ || आकारराशयो दृश्याकारसमूहाः || १८ || यथा नौयायिनो मिथ्या स्थाणुस्पन्दमतिस्तथा | असत्यैवोत्थिता नित्यमाकाराणां परम्परा || १९ || इन्द्रजालमिदं विद्धि मायारचितपञ्जरम् | मनोमनननिर्माणं न सन्नासदिव स्थितम् || २० || नासदिव सत्यमिव || २० || ब्रह्मैवेदं जगत्सर्वमन्यतायास्ततः कुतः | प्रसङ्गः कीदृशः कोऽसौ क्व वा सा परितिष्ठति || २१ || अन्यतायाः भेदस्य | चतुर्भिः किंवृत्तैः प्रमाणप्रकारस्वरूपाधाराणां निषेधः | सा अन्यता || २१ || अयं गिरिरयं स्थाणुरित्याडम्बरविभ्रमः | मनसो भावनादार्ढ्यादसन्सन्निव लक्ष्यते || २२ || उपचयावधिर्गिरिरपचयावधिः स्थाणुस्ताभ्यां सर्वे तदान्तरालिकपरिच्छेदाडम्बरविभ्रमा अप्युपलक्ष्यन्ते || २२ || प्रपञ्चपतनारम्भं प्रमत्तस्य इदं जगत् | सकामतृष्नामननं त्यक्त्वान्यद्राम भावय || २३ || प्रमत्तस्य विचारहीनस्य पुंसः सकामतृष्नामननमिदं जगत् प्रपञ्चे स्वर्गनरकतिर्यगादिजन्मसु पतनमारभत इति प्रपञ्चपतनारम्भं भवतीति शेषः | अतस्त्वं विवेकेन जगत्त्यक्त्वा अन्यत् निष्प्रपञ्चमात्मानं भावयेत्यर्थः || २३ || यथा स्वप्नो महारम्भो भ्रान्तिरेव न वस्तुतः | दीर्घस्वप्नं तथैवेदं विद्धि चित्तोपपादितम् || २४ || दृश्यमानमहाभोगं गृह्यमाणमवस्तुकम् | कोशमाशाभुजङ्गानां संसाराडम्बरं त्यज || २५ || दृश्यमानावस्थं महाभोगं बहुविस्तीर्णं रमणीयमिव | तेषु कतिपयानामेव ग्रहीतुं शक्यत्वाद्गृहीतेष्वपि कदाचित्कस्यचिदेवोपभोगात्तदुत्तरक्षण एव क्षयाच्च अवस्तुकं तुच्छम् | अभुक्तेषु पूर्वदृष्टेष्वदृष्टेषु च विषयेषु तृष्णाविषोत्कटानामाशाभुजङ्गानां कोशं वल्मीकमिव स्थितम् || २५ || असदेतदिति ज्ञात्वा माऽत्र भावं निवेशय | अनुधावति न प्राज्ञो विज्ञाय मृगत्ष्णिकाम् || २६ || कथं त्याज्यं तत्राह - असदिति | भावं रागम् || २६ || स्वसंकल्पात्स्वरूपाढ्यां मनोरथमयीं श्रियम् | योऽनुगच्छति मूढात्मा दुःखस्यैव स भाजनम् || २७ || तदनुधावनेऽनर्थमाह -स्वसंकल्पेति || २७ || वस्तुन्यसति लोकोऽयं यातु काममवस्तुनि | यस्तु वस्तु परित्यज्य यात्यवस्तु स नश्यति || २८ || न केवलमनर्थप्राप्तिरेव किंत्वर्थनाशोऽपि तस्यास्तीत्याह - यस्त्विति | नश्यति परमपुरुषार्थाद्भ्रश्यति || २८ || मनोव्यामोह एवेदं रज्ज्वामहिभयं यथा | भावनामात्रवैचित्र्याच्चिरमावर्तते जगत् || २९ || असद्भ्युदितैर्भावैर्जलान्तश्चन्द्रवच्चलैः | वञ्चयते बाल एवेह न तत्त्वज्ञो भवादृशः || ३० || य इमं गुणसंघातं भावयन्सुखमीहते | प्रमार्ष्टि स जडो जाड्यं वह्निभावनया स्वया || ३१ || गुणानां शब्दादीनां संघातं देहादि भावयन् अहंममेत्यभिमन्यमानः | जाड्यं शीतम् | वह्निभावनया | मनोरथकल्पितवह्निनेति यावत् || ३१ || असदेवेदमाभोगि दृश्यते जलपञ्जरम् | मनोमनननिर्माणहृदये नगरं यथा || ३२ || जलपञ्जरं लडयोरभेदाज्जडसंघातभूतं देहादि || ३२ || इदं चित्तेच्छयोदेति लीयते तदनिच्छया | मिथ्यैवं दृश्यते स्फीतं गन्धर्वनगरं यथा || ३३ || यदीदमैच्छिकसंकल्पवशादुदितं तर्हि ऐच्छिकनिवृत्तिसंकल्पादेव कुतो न निवर्तते तत्राह - लीयत इति | तस्य चित्रस्यानिच्छया रागक्षयमात्रेण | एवंविधं लोके मिथ्यैव दृश्यते | गन्धर्वनगरग्रहणं मनोरथकल्पितनगरोपलक्षणम् || ३३ || राम नष्टे जगत्यस्मिन्न किंचिदपि नश्यति | युक्तेऽपि च जगत्यस्मिन्न किंचिदपि युज्यते || ३४ || अतो नास्य नाशे समृद्धौ वा शोकहर्षौ कार्यावित्याशयेनाह - रामेत्यादिना | युक्ते समृद्धे || ३४ || मनःप्रकल्पिते भग्ने हृदि विस्तीर्णपत्तने | वृद्धिं चोपगते ब्रूहि किं वृद्धं कस्य किं क्षतम् || ३५ || क्रीडार्थेन यथोदेति बालानां हृदि वर्तनम् | मनसा तद्वदेवेदमुदेत्यविरतं जगत् || ३६ || क्रीडार्थेन पुत्रिकादिना वर्तनं पुत्रपश्वादिव्यवहाराभासकल्पनं यथा न शोच्यते इति शेषः || ३६ || न किंचित्कस्यचिन्नष्टमिन्द्रजालजले यथा | भ्रष्टे नष्टे तथैवास्मिन्संसारे वितथोत्थिते || ३७ || यदसत्तदसत्स्याच्चेन्न किं कस्य किल क्षतम् | ततो हर्षविषादानां संसारे नाम नास्पदम् || ३८ || यदसदलीकं तदसदविद्यमानमेव चेत्स्यात् कस्य किं क्षतम् | न किंचिदिति शेषः | इवार्थे वा नकारः | अतः संसारे हर्षविषादानामास्पदं न किंचिन्नामेत्यन्वयः || ३८ || असदेव यदत्यन्तं तस्मात्किं नाम नश्यति | नाशाभावे हि दुःखस्य कः प्रसङ्गो महामते || ३९ || इत्थं नाशाभ्युपगमेन शोकानर्हतामुक्त्वा वस्तुतो नाश एव कस्यचिन्नास्तीति तामाह - असदेवेति | यद्यतोऽसदेव तस्मात्ततः || ३९ || सदेव वा यदत्यन्तं तस्य किं नाम नश्यति | ब्रह्मैवेदं जगत्सर्वं सुखदुःखे किमुत्थिते || ४० || अध्यस्तदृष्ट्या नाशासंभवमुपपाद्य अधिष्ठानदृष्ट्यापि तमुपपादयति - सदेवेति | सुखदुःखे किंनिमित्तमुत्थिते | नोत्थिते एवेत्यर्थः || ४० || असद्वापि यदत्यन्तं वृद्धिः स्यात्तस्य कीदृशी | वृद्धेरभावे हर्षस्य कः प्रसङ्गो महामते || ४१ || उत्पत्तिनिरासादेव वृद्ध्यादिविकारा अपि निरस्ता एवेति तन्निमित्तहर्षस्याप्ययुक्ततेत्याह [प्युक्तता इति पाठः] - असदिति | वापी अवधारणे || ४१ || सर्वत्रासत्यभूतेऽस्मिन्प्रपञ्चैकान्तकारिणि | संसारे किमुपादेयं प्राज्ञो यदभिवाञ्छतु || ४२ || इष्टप्राप्तौ हि हर्षः स्यादिष्टमेव मायामये नास्तीत्याह - सर्वत्रेति || ४२ || सर्वत्र सत्यभूतेऽस्मिन्ब्रह्मतत्त्वमयेऽपि च | किं स्यात्त्रिभुवने हेयं प्राज्ञाः परिहरन्तु यत् || ४३ || एवं सर्वमानन्दैकरस्येन पश्यतो हेयमपि नास्तीत्याह - सर्वत्रेति | ब्रह्मतत्त्वमये | स्वार्थे मयट् | परिहरन्तु त्यजन्तु || ४३ || असत्सद्वा जगद्व्यस्य तेनासौ सुखदुःखयोः | अगम्य एव मूर्खस्तु तद्विनाशेन दुःखितः || ४४ || तस्य पक्षद्वयेऽपि विनाशानर्हस्य पुत्रमित्रादेर्विनाशेन स्वभ्रान्तिकल्पितेन दुःखितः || ४४ || आदावन्ते च यन्नासित् वर्तमानेऽपि तत्तथा | योऽभिवाञ्छत्यसद्राम तस्यासत्तैव दृश्यते || ४५ || इदानीमसत्सत्पक्षयोस्तुल्ये उपपत्ति दर्शयति - आदाविति द्वाभ्याम् | असद्वा इदमग्र आसीत् नैवेह किंचनाग्र आसीत् इत्यादिश्रुतिभिर्गगनपवनभुवनादीनामाद्यन्तयोरसत्त्वं श्रूयते घटादेश्च प्रत्यक्षमनुभूयते चिरं चोभयतश्चासत्त्वमचिरं सकृच्च सत्त्वं प्रतिव्यक्ति प्रसिद्धम् | ते च परस्परोच्छित्तिस्वभावेन सत्त्वासत्त्वेनैकवस्तुन्येकतरप्रहाणमन्तरेण निविशेते इत्यवश्यमेकतरस्मिन्प्रहातव्ये आद्यन्तयोश्चिरतरमसत्त्वप्रसिद्धेर्वर्तमानदशायामप्यसत्त्वमेव सर्वव्यक्तीनामिति असत्त्वपक्षेच्छुना असत्त्वमेव श्रुतियुक्त्यनुभवैर्दृश्यत इत्यर्थः || ४५ || आदावन्ते च यत्सत्यं वर्तमाने सदेव तत् | यस्य सर्वं सदेव स्यात्तस्य सत्तैव दृश्यते || ४६ || सदेव सोम्येदमग्र आसीत् कथमसतः सज्जायेत इत्यादिश्रुतिभिः सत्सदित्येव प्रमाणप्रवृत्तिकाले सर्ववस्त्वनुभवादाद्यन्तकालयोः सत्तानभिव्यक्तितिरोधानमात्रकल्पनेनापि असद्वा इदमग्र आसीत् इत्यादिश्रुतियुक्त्योरुपपत्तेः सत्त्वश्रुतियुक्त्योरन्यथोपपादयितुमशक्यत्वाच्च सदातनी सार्वत्रिकी च सर्ववस्तूनां सत्ता लाघवादेकैव युक्तेति सत्तैक्ये सिद्धे आदावन्ते च कारणब्रह्मसत्तयैव सर्वस्य सत्यत्वाद्वर्तमानकाले तत्तथैवेति सद्वादिना अखण्डब्रह्मसत्तैव सर्वत्र दृश्यत इत्यर्थः || ४६ || असत्यभूतं तोयान्तश्चन्द्रव्योमतलादिकम् | बाला एवाभिवाञ्छन्ति मनोमोहाय नोत्तमाः || ४७ || देशकालपरिच्छिन्नसत्ताकल्पनं पक्षद्वयबहिष्कृतं सर्वश्रुतियुक्तिविरुद्धं मूर्खसहस्रैरन्धपरम्परया परिकल्पितं सर्वानर्थकारीति बालिशानां तेषामेवोचितं न तवेत्याशयेनाह - असत्यभूतमित्यादिना || ४७ || बालो हि वितताकारैर्वस्तुरिक्तैः प्रयोजनैः | संतोषमेत्यनन्ताय दुःखाय न सुखाय तु || ४८ || वस्तुरिक्तैरर्थशून्यैः | प्रयोजनैः सुखाभासैः || ४८ || तस्मान्मा त्वं भवो बालो राम राजीवलोचन | अविनाशमिहालोक्य नित्यमाश्रय सुस्थिरम् || ४९ || मा भवः मा भूः | लुङ्विषये व्यत्ययेन लङ् || ४९ || असदिदमखिलं मया समेतं त्विति विगणयय विषादितास्तु मा ते | सदिह हि सकलं मया समेतं त्विति च विलोक्य विषादितास्तु मा ते || ५० || इदानीं दर्शितयोः सदसत्पक्षयोर्द्वारभेदेनैकप्रयोजनावसाने फलतः समुच्चयं दर्शयन्नुपसंहरति - असदिति | मायामूढैरात्मत्वेन कल्पितेनाहंकारेण समेतं सहितमिदमखिलं जगदसदेवेति मत्त्वा श्रुतिगुरुयुक्तिस्वानुभवैरवधार्य पुत्रमित्रधनादिनाशे विषादिता शोकः | विषमिव परिणामदुःखदान्विषयानत्तुं भोक्तुं शीलमस्येति विषादी रागी तद्भावो विषादिता रागश्च मास्तु | तथाच शोकरागादिनिरासद्वारा ऐकात्म्यदर्शने प्रपञ्चासत्त्ववाद उपयुज्यत इति भावः | एवमन्यार्थेनासद्वादप्रस्तावेन निस्तत्त्वमेव जगदिति न मन्तव्यं किंतु सकलं सदेव | सत्त्वस्याप्रसिद्धौ तत्प्रतिक्षेपकस्यासत्त्वस्याप्रसिद्धेः | प्रसिद्धौ च तत्प्रतिक्षिप्तत्वादेवासत्त्वासिद्धेः | एवं सर्वत्र सत्तया प्रतिक्षिप्तमसत्त्वं निरास्पदं न क्वचित्कस्यचित्परिच्छेदाय प्रभवतित्यपरिच्छिन्नसदैकरस्ये सिद्धे घटपटादिपरिच्छेदकाकारस्य पृथगनवशेषान्मया शोधितचिन्मात्रैकरसेन प्रतीचा अखण्डैक्येन समेतं सदेव भूमाख्यमहमिति विलोक्य स्वात्मप्रतिष्ठस्य ते तव विषादिता पुनःसांसारिकजन्ममरणादिविषादावाप्तिर्मास्तु | कालत्रयेऽपि न संभावितेत्यर्थः || ५० || श्रीवाल्मीकिरुवाच | इत्युक्तवत्यथ मुनौ दिवसो जगाम सायंतनाय विधयेऽस्तमिनो जगाम | स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश्च सहाजगाम || ५१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे यथाभूतार्थयोगोपदेशो नाम पञ्चचत्वारिंशः सर्गः || ४५ || इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे स्थितिप्रकरणे यथाभूतार्थयोगोपदेशो नाम पञ्चचत्वारिंशः सर्गः || ४५ || || नवमो दिवसः || षट्चत्वारिंशः सर्गः ४६ श्रीवसिष्ठ उवाच | रम्ये धनेषु दारादौ शोकस्यावसरो [मूले हर्षस्यावसरो हि कः इति पाठः | टीकायां च उभयान्वयीत्यस्यानन्तरं - दारादाविन्द्रजाले क्षणा दुष्टे सति हर्षस्यावसरः कः तस्मिन्नष्टे वा का परिदेवनेत्यन्वयः इति पाठोऽधिकः क्वचित्] हि कः | इन्द्रजालेक्षणाद्दृष्टे नष्टे का परिदेवना || १ || विहरन्नपि संसारे यैर्गुणैर्न निमज्जति | ते रामायात्र कीर्त्यन्ते जीवन्मुक्तेषु ये स्थिताः || १ || तत्र सर्ववस्तुष्वनास्थया नष्टोपेक्षणानागतावाञ्छनलक्षणौ गुणौ प्रथममुपदिदिक्षु पूर्वप्रस्तावस्य तदुपयोगं दर्शयितुमाह - रम्ये इत्यादिना | रम्ये इति पदसंस्कारपक्षे एकवचनं वचनसर्वनामेत्यनुशासनादेकवचनं आवृत्त्योभयान्वयि || १ || गन्धर्वनगरस्यार्थे दूषिते भूषिते तथा | अविद्यांशे सुतादौ वा कः क्रमः सुखदुःखयोः || २ || क्रमणं क्रमः प्रसरः || २ || रम्ये धनेऽथ दारादौ हर्षस्यावसरो हि कः | वृद्धायां मृगतृष्णायां किमानन्दो जलार्थिनाम् || ३ || धनदारादौ च समृद्धे सतीति शेषः | आनन्दो जलक्रीडादिसुखाधिक्यं किम् || ३ || धनदारेषु वृद्धेषु दुःखं युक्तं न तुष्टयः | वृद्धायं मोहमायायां कः समाश्वासवानिह || ४ || तद्वृद्धौ संसाररोगवृद्धिसंभावनया दुःखमेव कर्तुमुचितं न हर्ष इत्याह - धनेति || ४ || यैरेव जायते रागो मूर्खस्याधिकतागतैः | तैरेव भोगैः प्राज्ञस्य विराग उपजायते || ५ || अधिकतां अभिवृद्धिं आगतैः || ५ || नष्टे धनेऽथ दारादौ हर्षस्यावसरो हि कः | पारावलोकिनस्त्वेतैर्विरागं यान्ति साधवः || ६ || नष्टे नश्वरस्वभावे | पारावलोकिनः नश्वरतानरकहेतुत्वाद्युदर्ककटुकतादर्शिनः || ६ || अतो राघव तत्त्वज्ञो व्यवहारेषु संसृतेः | नष्टं नष्टमुपेक्षस्व प्राप्तं प्राप्तमुपाहर || ७ || यदर्थमयं प्रस्तावस्तं दर्शयति - अत इति | उपाहर उपयुंक्ष्व | प्राप्तोपयोगोऽर्थप्राप्तत्वान्न विधेयो गुणः || ७ || अनागतानां भोगानामवाञ्छनमकृत्रिमम् | आगतानां च संभोग इति पण्डितलक्षणम् || ८ || गुणान्तरमाह - अनागतानामिति || ८ || संसारसंभ्रमे ह्यसिंश्छन्नात्मन्याततायिनि | तथा विहर संबुद्धो यथा नायासि मूढताम् || ९ || अप्रमादलक्षणं गुणान्तरमुपदिशति - संसारेति | संसारे संभ्रमयतीति संसारसंभ्रमः कामस्तल्लक्षणे च्छन्नात्मनि जिघांसया प्रच्छन्ने आततेन विषशस्त्राग्न्यादिना हन्तुं अयते उपगच्छतीत्याततायी शत्रुस्तस्मिन् | तदुक्तम् उद्यतासिं विषाग्निं च शापोद्यतकरं तथा | आथर्वणेन हन्तारं पिशुनं राजसद्मसु | भार्यातिक्रमिणं चैव विद्यात्सप्ताततायिनः || इति | संबुद्धः प्रबोधे अप्रमत्तः || ९ || संसाराडम्बरस्यास्य प्रपञ्चरहिते क्रमे | सम्यग्ज्ञा नानुपश्यन्ति ये हतास्ते कुबुद्धयः || १० || प्रपञ्चरहिते क्रम्यत इति क्रमः परमपदं तस्मिन्सम्यग्ज्ञा अपि ये प्रमादादस्य संसाराडम्बरस्य वञ्चनां नानुपश्यन्ति ते कुबुद्धयः | प्रमादेन हता इत्यर्थः | अथवा प्रपञ्चरहिते ब्रह्मणि विवेकवैराग्यप्रबोधाप्रमादादिगुणार्जनक्रमे ये सम्यग्ज्ञास्तेऽस्य संसाराडम्बररस्य | कर्मण एव शेषात्वविवक्षया षष्ठी | इमं संसाराडम्बरं नानुपश्यन्ति | ये तु कुबुद्धय उक्तगुणहीनास्ते हता इत्यर्थः || १० || यया कयाचिद्युक्त्यैव दृश्याद्यस्य गता रतिः | परिमज्जति तस्यास्था न क्वचिद्विमला मतिः || ११ || दृश्यदर्शनारतिलक्षणमपरं गुणमुपदिशति - ययेति | चित्तरञ्जनद्वैतवासनाधानस्वरूपप्रच्यावननरकाद्यनर्थहेतुत्वमिथ्यात्व् आनामन्यतमोपपादिकया यया कयाचिद्युक्त्या | गता निवृत्ता आस्था परमार्थाभिनिविष्टा विमला विपापा मतिर्न परिमज्जति मोहाब्धौ || ११ || यस्यासदिदमित्यास्था निवृत्ता सर्ववस्तुषु | क्रोडीकरोति सर्वज्ञं नाविद्या तमवास्तवी || १२ || एवं बाह्यार्थाभिनिवेशत्यागोऽपि गुण इत्याशयेनाह - यस्येति | असदिदमिति निश्चयेनेति शेषः | आस्था अभिनिवेशः || १२ || अहं जगच्चैकमिदं सर्वमेवेति यस्य धीः | आस्थानास्थे परित्यज्य संस्थिता स न मज्जति || १३ || ऐक्यात्मदर्शनमपि गुण इत्याह - अहमिति | अनास्थापरित्यागो यथाप्राप्तानुवर्तनम् || १३ || शुद्धं सदसतोर्मध्यं पदं बुद्ध्याऽवलम्ब्य च | सबाह्याभ्यन्तरं दृश्यं मा गृहाण विमुञ्च मा || १४ || उक्तमेव विवृणोति - शुद्धमिति | सदसतोर्व्यक्ताव्यक्तयोर्मध्यमनुगतम् | शुद्धं सत्तामात्रम् | पदं तदेव प्रत्यगात्मेत्यवलम्ब्य || १४ || अत्यन्तविरतः स्वस्थः सर्ववासविवर्जितः | व्योमवत्तिष्ठ नीरागो राम कार्यपरोऽपि सन् || १५ || उपरतिसंतोषानिकेतनत्वासङ्गत्वगुणानुपदिशति - अत्यन्तेति || १५ || यस्य नेच्छा न वानिच्छा ज्ञस्य कर्मणि तिष्ठतः | न तस्य लिप्यते प्रज्ञा पद्मपत्रमिवाम्बुभिः || १६ || कथं नीरागः स्यात्कथं वा असङ्गस्तत्राह - यस्येति || १६ || दर्शनस्पर्शनादीनि मा करोतु करोतु च | तवेन्द्रियमनो गौणं त्वमनिच्छो भवात्मवान् || १७ || बाधितानुवृत्तिमात्रत्वेनामुख्यत्वाद्गौणं तव इन्द्रियसहितं मनो दर्शनादीनि करोतु न करोतु वा || १७ || ममेदमित्यसद्भूतमिन्द्रियार्थे भवन्मनः | मा निमज्जत्वमग्नः सन्मा करोतु करोतु वा || १८ || इन्द्रियार्थे ममतात्यागलक्षणं गुणमुपदिशन्ननास्थामुपपादयति - ममेति | अमग्नः सन्निति पुंस्त्वं छान्दसम् | त्वमज्ञः सन्निति पाठे तु त्वं मनः मा निमज्जयेत्यर्थः || १८ || यदा ते नेन्द्रियार्थश्रीः स्वदते हृदि राघव | तदा विज्ञातविज्ञानः समुत्तीर्णभवार्णवः || १९ || स्वस्य जीवन्मुक्तताप्राप्तिप्रत्यये लिङ्गमाह - यदेति | न स्वदते अनर्थहेतुत्वाप्रतिसंधानेऽपि स्वत एव न रोचते || १९ || आस्वादितेन्द्रियार्थस्य सतनोरतनोरपि | अनिच्छतोऽपि संपन्ना मुक्तिरर्थवशात्तव || २० || आ अस्वादितेति च्छेदः | आसमन्तात् ऐहलौकिकाः पारलौकिकाश्च अस्वादिताः अरुचिविषयीकृता इन्द्रियार्था विषया यस्य धीरस्य | सतनोर्व्युत्थाने देहभानवतः | अतनोः समाधिना तद्रहितस्यापि | अर्थवशात् अनायासेनेति यावत् || २० || उच्चैःपदाय परया प्रज्ञया वासनागणात् | पुष्पाद्गन्धमिवोदारं चेतो राम पृथक्कुरु || २१ || तस्यां जीवन्मुक्तौ वासनाभ्यश्चित्तस्य निष्कर्ष एव मुख्यं साधनमित्याह - उच्चैःपदायेति | उदारं विवेकवैराग्योत्कृष्टं चेतो मनः || २१ || संसाराम्बुनिधावस्मिन्वासनाम्बुपरिप्लुते | ये प्रज्ञा नावमारूढास्ते तीर्णा ब्रुडिताः परे || २२ || ब्रुडिता निमग्नाः || २२ || क्षुरधाराप्रमितया धिया परमधीरया | प्रविचार्यात्मनस्तत्त्वं ततः स्वपदमाविश || २३ || कीदृशी सा प्रज्ञानौस्तां दर्शयति - क्षुरधारेति | विवेकवैराग्यादितीक्ष्णीकृतयेत्यर्थः | धीरया द्वन्द्वसहने धैर्यवत्या || २३ || यथा तत्त्वविदः प्राज्ञा ज्ञानबृंहितचेतसः | विहरन्ति तथा राम विहर्तव्यं न मूढवत् || २४ || जीवन्मुक्ता महात्मानो नित्यतृप्ता महाधियः | आचारैरनुगन्तव्या न भोगकृपणाः शठाः || २५ || शठाः स्वपरवञ्चकाः || २५ || न त्यजन्ति न वाञ्छन्ति व्यवहारं जगद्गतम् | सर्वमेवानुवर्तन्ते पारावारविदो जनाः || २६ || पारं ब्रह्मतत्त्वमवारं जगत्तत्त्वं तद्विदः || २६ || प्रभावस्याभिमानस्य गुणानां यशसः श्रियः | न क्वचित्कृपणा लोके महान्तस्तत्त्वदर्शिनः || २७ || ननु विदुषामपि क्वचित्कार्पण्यं स्यान्नेत्याह - प्रभावस्येति | प्रभावो विद्यातपःपराक्रमाद्युत्कर्षः | गुणा दाक्ष्यकुलशीलादयः | श्रियः संपदः | एतेषां हि विषये लोके कार्पण्यं प्रसिद्धम् | तत्त्वदर्शिनः प्रभावादीनां मिथयत्वादपुरुषार्थतादर्शिनः || २७ || सुशून्येऽपि न खिद्यन्ते देवोद्याने नसङ्गिनः | नियतिं च न मुञ्चन्ति महान्तो भास्करा इव || २८ || सुशून्ये सर्वनाशेऽपि | देवोद्याने सर्वकामसमृद्धनन्दनादावपि नसङ्गिनो नासक्ताः | नियतिं शास्त्रमर्यादाम् | भास्करपक्षे सुशून्ये आकाशे | नियतिं स्वमार्गमर्यादाम् || २८ || विगतेच्छा यथाप्राप्तव्यवहारानुवर्तिनः | विचरन्ति समुन्नद्धाः स्वस्था देहरथे स्थिताः || २९ || समुन्नद्धाः विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः इत्यादिशुत्युक्तसाधनसन्नद्धाः || २९ || त्वमपि प्राप्तवान् राम विवेकमिममाततम् | प्रज्ञाबलेन चानेन ज्ञाने स्वस्थोऽसि सुन्दर || ३० || मयि तर्हि ते गुणाः सन्ति न वेति सदेहकातरं राममाश्वासयति - त्वमपीति || ३० || स्पष्टां दृष्टिमवष्टभ्य निर्मानो गतमत्सरः | विहरास्मिन्भुवः पीठे परां सिद्धिमवाप्स्यसि || ३१ || स्वस्थः सर्वेहितत्यागी दूरालोकनवाञ्छनः | परां शीतलतामन्तरादाय विहरानघ || ३२ || दूराः आलोकनवासनाविषयकौतुकदर्शनेच्छा यस्य तथाविधो भूत्वेत्यर्थः || ३२ || श्रीवाल्मीकिरुवाच | इत्थं गिरा विमलया विमलाशयस्य रामो मुनेः सपदि मृष्ट इवाबभासे | ज्ञानामृतेन मधुरेण विराजितान्तः पूर्णः शशाङ्क इव शीतलतां जगाम || ३३ || उपदिष्टार्थरहस्यानां रामस्यान्तरुन्मेषादाविर्भावं वाल्मीकिराह - इत्थमिति | विमलाशयस्य मुनेर्वसिष्ठस्येत्थमुक्तप्रकारया गिरा रामो मृष्टः परिमार्जितो दर्पण इव आबभासे | ज्ञानामृतेन विराजितान्तःकरणः सन् [संपूर्ण इति पाठः] पूर्णः शशाङ्क इव शीतलतां तापत्रयोपशान्तिं जगाम प्राप || ३३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे जीवन्मुक्तस्थितगुणवर्णनं नाम षट्चत्वारिंशः सर्गः || ४६ || इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे स्थितिप्रकरणे जीवन्मुक्तस्थितगुणवर्णनं नाम षट्चत्वारिंशः सर्गः || ४६ || सप्तचत्वारिंशः सर्गः ४७ श्रीराम उवाच | भगवन्सर्वधर्मज्ञ सर्ववेदाङ्गपारग [वेदवेदाङ्गपारग इति पाठः] | आश्वस्त इव तिष्ठामि शुद्धाभिर्भवदुक्तिभिः || १ || अतीता भाविनः सन्तो ब्रह्म ब्रह्माण्डकोटयः | देवाद्याश्चात्र वर्ण्यन्ते नियतानियतक्रमाः || १ || आश्वस्तः अपनीतभाराध्वक्षुच्छ्रमः पुरुष इव || १ || उदाराणि विविक्तानि पेशलान्युदितानि च | श्रोतुं तृप्तिं न गच्छामि वचांसि वदतस्तव || २ || उदाराण्युत्तमभूर्यर्थप्रदानि | विविक्तानि वर्णपदवाक्यप्रकरणभेदैर्व्यक्तानि | पेशलानि विचित्रकथायुक्तिसंदर्भचतुराणि | उदितानि आत्मतत्त्वप्रकाशकत्वेन हृदयपद्मविकासत्वेन च सूर्यादिवदुद्गतानि || २ || जात्या राजससात्त्विक्याः कथनावसरान्तरे | उत्पत्तिर्भवता प्रोक्ता शास्त्रैः कमलजन्मनः || ३ || एवं प्रशंसया गुरुमुत्साह्य प्रासङ्गिकं ब्रह्मादिदेवतैश्वर्यतत्त्वं जिज्ञासुः पृच्छति - जात्या इति | राजससात्त्विक्या जात्याः जीवजातेः कथनावसरे भवता शास्त्रैर्नानाविधसृष्टिप्रतिपादकश्रुतिपुराणादिप्रमाणैः कमलजन्मन उत्पत्तिर्या प्रोक्ता प्रस्तुता तां स्फुटं वर्णयेति शेषः || ३ || श्रीवसिष्ठ उवाच | बहूनि ब्रह्मलक्षाणि शंकरेन्द्रशतानि च | नारायणसहस्राणि समतीतानि राघव || ४ || बहूनीत्यस्य सर्वत्र संबन्धाच्छतसहस्रादिपदान्यप्यनन्तपराणि || ४ || अन्येषु च विचित्रेषु ब्रह्माण्डेषु च भूरिशः | नानाचारविहाराणि विहरन्ति सहस्रशः || ५ || अन्येषु ब्रह्माण्डेषु चदस्मिन्नपि नानाचारविहाराणि सुरासुरादिशरीराणीति शेषः || ५ || तुल्यकालमनन्तेषु कालान्तरभवेषु च | जगत्सु प्रोद्भविष्यन्ति बहून्यन्यानि भूरिशः || ६ || तेषामब्जोद्भवादीनां ब्रह्माण्डेषु दिवौकसाम् | उत्पत्तयो महाबाहो विचित्राभ्युत्थिता इव || ७ || विचित्रे इन्द्रजाले अभ्युत्थिता इव || ७ || कचाचित्सृष्टयः शार्व्यः कदाचित्पद्मजोद्भवाः | कदाचिदपि वैष्णव्यः कदाचिन्मुनिनिर्मिताः || ८ || शार्व्यो रुद्रपूर्वाः | पद्मजादेव प्रथमजादुद्भवो यासां ताः | वैष्णव्यो विष्णुपूर्वाः | तथाचोक्तं पुराणे तपसा तोषयित्वेशं ब्रह्मविष्णुमहेश्वराः | परस्परस्माज्जायन्ते परस्परजयैषिणः || इति मुनिनिर्मिता इत्यवान्तरसर्गाभिप्रायम् || ८ || कदाचित्पद्मजो ब्रह्मा कदाचित्सलिलोद्भवः | अण्डोद्भवः कदाचित्तु कदाचिज्जायतेऽम्बरात् || ९ || ब्रह्मादीनामाविर्भावस्थानान्यप्यनियतानीत्याह - कदाचिदिति | पाद्मकल्पे पद्मजः सलिलोद्भव आपवाख्यः अण्डोद्भवः प्रसिद्धः | अम्बरादिति | तथाच आकाशप्रभवो ब्रह्मा इति सूर्यवंशादिप्रस्तावे पूर्वरामायणे उक्तम् || ९ || कस्मिंश्चिदण्डे त्र्यक्षोऽर्कः कस्मिंश्चिदपि वासवः | कस्मिंश्चित्पुण्डरीकाक्षः कस्मिंश्चित्त्र्यक्ष एव हि || १० || एवमर्कादिपदाधिकारिष्वप्यनियम इत्याह - कस्मिंश्चिदिति | त्र्यक्ष एव सर्वदेवताधिकारेष्विति एवकारबलाल्लभ्यते | हिशब्दस्तस्यैवान्यत्रापि देवतान्तरभावकल्पना नान्यस्येति द्योतनार्थः || १० || कस्यांचिद्भूरभूत्सृष्टौ नीरन्ध्रतरुसंकटा | कस्यांचिन्नरनीरन्ध्रा कस्यांचिद्भूधरावृता || ११ || नीरन्ध्रतरुसंकटा प्रथममिति सर्वत्र शेषः || ११ || भूरभून्मृन्मयी काचित्काचिदासीद्दृषन्मयी | आसीद्धेममयी काचित्काचित्ताम्रमयी तथा || १२ || प्राचुर्ये मयट् || १२ || इहैव कानि चित्राणि जगन्त्यन्यान्यथान्यथा | अन्यान्येकैकलोकानि निर्महांस्यापि कानिचित् || १३ || इहास्मिन्ब्रह्माण्डे एव कानि कियन्ति चित्राण्याश्चर्याणि | अथ अन्यान्यपि जगन्ति ब्रह्माण्डानि | अन्यथा अन्यैः प्रकारैः | बह्वाश्चर्याणीत्यर्थः | एकैक एव सूर्यादिवल्लोकः आलोकः प्रकाशात्मा येषु निर्महांसि निष्प्रकाशानि || १३ || अनन्तानि जगन्त्यस्मिन्ब्रह्मतत्त्वमहाम्बरे | अम्भोधिवीचिजलवन्निमज्जन्त्युद्भवन्ति च || १४ || निमज्जन्ति लीयन्ते || १४ || यथा तरङ्गा जलधौ मृगतृष्णा मरौ यथा | कुसुमानि यथा चूते तथा विश्वश्रियः परे || १५ || भानोर्गणयितुं शक्या रश्मिषु त्रसरेणवः | आलोलवपुषो ब्रह्म तत्त्वेन जगतां गणाः || १६ || आलोल वपुषश्चञ्चलाः || १६ || यथा मशकजालानि वर्षादिष्वाकुलानि तु | उत्पत्त्योत्पत्त्य नश्यन्ति तथेमा लोकसृष्टयः || १७ || नच विज्ञायते कस्मात्कालात्प्रभृति चागताः | नित्यागमापायपरा एताः सर्गपरम्पराः || १८ || तेषां सर्गाणां प्रवाहानादितामाह - नचेत्यादिना | नित्यमेव आगमापायावाविर्भावतिरोभावौ तत्पराः || १८ || अनादिमत्योऽविरतं प्रस्फुरन्ति तरङ्गवत् | पूर्वात्पूर्वं किलाभूवंस्ततः पूर्वतरं यथा || १९ || भूत्वा भूत्वा प्रलीयन्ते ससुरासुरमानवाः | सरित्तरङ्गभङ्ग्यैव समस्ता भूतजातयः || २० || सरित्तरङ्गाणां भङ्ग्या रीत्या || २० || यथेदमण्डं वैरिञ्चं तथा ब्रह्माण्डपङ्क्तयः | याः सहस्राः परिक्षीणा नाडिका वत्सरेष्विव || २१ || सहस्राः सहस्रशः | नाडिका घटिकाः || २१ || अन्याः संप्रति विद्यन्ते वर्तमानशरीरकाः | प्रान्ते ब्रह्मपुरस्यास्य वितते ब्रह्मणः पदे || २२ || सर्वेषां ब्रह्माण्डानां लीलोपाख्यानोक्तरीत्या हृदयाकाशस्थे ब्रह्मण्येव कल्पनमित्याह - अन्या इति | अन्या ब्रह्माण्डपङ्क्तयः | संप्रति इदानीमपि | अस्य ब्रह्मोपलब्धिस्थानत्वाद्ब्रह्मपुरस्य शरीरस्य प्रान्ते हृदयपुण्डरीकदेशे स्थिते वितते अत्यन्तविस्तीर्णे ब्रह्मणः पदे ब्रह्मणि वर्तमानशरीरकाः परिवर्तमानमूर्तयः सत्यो विद्यन्ते | अस्मिन्द्यावापृथिवी अन्तरेव समाहिते इति श्रुतेरिति भावः || २२ || ब्रह्मण्यन्या भविष्यन्ति ब्राह्यो ब्रह्मपुरश्रियः | पुनस्ताश्च विनङ्क्ष्यन्ति भूत्वा भूत्वा यथा गिरः || २३ || ब्रह्मपुरोपलक्षितहृदयाकाशस्य श्रियः शोभाभूताः ब्राह्म्यो ब्रह्मनिर्मिता ब्रह्माण्डपङ्क्तयः | यथा गिरो ध्वनिभेदा आकाशे भूत्वा भूत्वा नश्यन्ति तद्वत् || २३ || ब्रह्मण्यन्या भविष्यन्त्यः स्थिताः सर्गपरम्पराः | घटा इव मृदो राशावङ्कुरे पल्लवा इव || २४ || दृष्टान्तान्तरोक्त्यर्थमुक्तमेवाह - ब्रह्मणीति || २४ || यावद्ब्रह्म चिदाकाशे तथा त्रिभुवनश्रियः | स्फाराकारविकाराढ्याः प्रेक्ष्यमाणा न किंचन || २५ || यावत्तत्त्वज्ञानेन प्रेक्ष्यमाणा न किंचनेति बाधस्तावत्कालं भविष्यन्तीत्यर्थः || २५ || उन्मज्जन्त्यो निमज्जन्त्यो न सत्या नाप्यसच्छ्रियः | जडारम्भा वितन्वन्त्यस्ता एव खलता इव || २६ || जडारम्भाः मूर्खैरध्यस्ताः | वितन्वन्त्यो विस्तीर्यमाणाः खलता व्योमलता इव || २६ || तरङ्गसमधर्मिण्यो दृष्टनष्टशरीरकाः | सर्वासां सृष्टिराशीनां चित्राकारविचेष्टिताः || २७ || सृष्टिराशीनां स्वान्तर्गतसृष्टिसमष्टिभूतानां ब्रह्माण्डानां सृष्टयश्चित्राकाराणि विचेष्टितानि तदन्तर्गतप्राणिचेष्टा यासां ताः || २७ || चित्राकारविकाराश्च चित्ररूपा हि सृष्टयः | व्यतिरिक्ता न सर्वेषां समस्ताः सृष्टिदृष्टयः || २८ || सर्वेषां ब्रह्माण्डानां समस्ताः सृष्टिदृष्टयस्तत्त्वज्ञविषये सलिलाद्वृष्टय इव न व्यतिरिक्ता इति परेणान्वयः || २८ || तत्त्वज्ञविषये राम सलिलादिव वृष्टयः | आयान्ति सृष्टयो देवाज्जलदादिव वृष्टयः || २९ || अतत्त्वज्ञदृष्ट्या तु जलदाद्वृष्टय इव देवात्तटस्थेश्वरादायान्ति || २९ || व्यतिरिक्ता न सर्वेषां समस्ताः सृष्टिदृष्टयः | व्यतिरिक्ता द्रवाम्भोधिस्वाष्ठीलाः शाल्मलेरिव || ३० || परमार्थतस्तु अज्ञानां तत्त्वविदां च सर्वेषां न व्यतिरिक्ताः | मूलकृष्टानि द्रवरूपाणि भूमेरम्भासि धारयन्तीति द्रवाम्भोधयः शिरास्ताश्च स्वाः स्वीयास्त्वक्कीनाटपत्रादयश्च अष्ठीलादारुबीजादिग्रन्थयश्च शाल्मलेर्वृक्षाद्यथा न व्यतिरिक्तास्तद्वत् || ३० || इह सृष्टिषु पुष्टासु निकृष्टासु च राघव | परमान्नभसो जातास्तन्मात्रमलमालिका || ३१ || पुष्टासु स्थूलभूतारब्धासु देहादिषु निकृष्टासु सूक्ष्मभूतारब्धास्विन्द्रियादिषु च परमान्नभसः अव्याकृताकाशाज्जाताः भूतसूक्ष्माख्यपञ्चतन्मात्रलक्षणस्य मायामलस्य सूत्रस्थानीयस्य स्फटिकरुद्राक्षग्रथिता मालिका इव सर्वभावा इत्यर्थः || ३१ || कदाचित्प्रथमं व्योम पतिष्ठामधिगच्छति | ततः प्रजायते ब्रह्मा व्योमजोऽसौ प्रजापतिः || ३२ || कदाचित्पद्मजो ब्रह्मेति यदुक्तं तत्र यथायोगं पञ्चीकरणोत्तरभाविस्थूलव्योमादीनां प्रथमाविर्भावक्रमो नियामक इत्याह - कदाचिदित्यादिना | प्रतिष्ठां स्थूलीभावेन स्थितिम् | एवं सर्वत्र || ३२ || कदाचित्प्रथमं वायुः प्रतिष्ठामधिगच्छति | ततः प्रजायते ब्रह्मा वायुजोऽसौ प्रजापतिः || ३३ || कदाचित्प्रथमं तेजः प्रतिष्ठामधिगच्छति | ततः प्रजायते कर्ता तेजसोऽसौ प्रजापतिः || ३४ || कदाचित्प्रथमं वारि प्रतिष्ठामधिगच्छति | ततः प्रजायते ब्रह्मा वारिजोऽसौ प्रजापतिः || ३५ || कदाचित्प्रथमं पृथ्वी स्फारतामधिगच्छति | ततः प्रजायते ब्रह्मा पार्थिवोऽसौ प्रजापतिः || ३६ || इदं चत्वारि संपीड्य पञ्चमं वर्धते यदा | तदा तज्जात एवैष कुरुते जागतीं क्रियाम् || ३७ || इदानीमेकैकस्योक्तव्योमादेः प्रथममाविर्भावे युक्तिमाह - इदमिति | इदं स्वातिरिक्तं चत्वारि भूतचतुष्टयं संपीड्य स्वांशोपबृंहणेन तिरोभूतमिव कृत्वा पञ्चमं यदेव भूतं यदा वर्धते तदा तज्जात एवैष ब्रह्मा जागतीं तदुत्तरसृष्ट्यादिक्रियां कुरुत इत्यर्थः || ३७ || कदाचिदप्सु वायौ वा सुस्फारे वापि तेजसि | स्वयं संपद्यतेऽकस्मात्पुमान्प्रकृतिभावितः || ३८ || सर्वेषां पञ्चभूतकार्यतया पञ्चात्मकत्वे सति तदुद्भवस्य प्रजापतेः कथमेकैकजत्वव्यपदेश इति चेद्वैशेष्यादिति न्यायेनेत्याह - कदाचिदिति | सुस्फारे अधिकभागवति सति तदुपाधिः पुमान्प्रजापतिः प्रकृत्या पूर्वोपासनक्रमानुसारिस्वभावेन भावितो वासितः स्वयमेव आपवो वायुजस्तैजस इत्याद्याकारेणाकस्मात्संपद्यत इत्यर्थः || ३८ || तस्याथ शब्दो वदनात्कदाचिज्जायते पदात् | कदाचिदंशात्पृष्ठाद्वा कदाचिल्लोचनात्करात् || ३९ || तस्य देहावयवेभ्यः सर्गप्रवृत्तिं दर्शयति - तस्येति | अथानन्तरम् | शब्दो नामरूपयोरप्युपलक्षणम् | तथाच मुखाद्यवयवेभ्यो ब्राह्मणादिशब्दाः सहार्थैर्यथायोगं जायन्ते | ब्राह्मणोऽस्य मुखमासीत् इत्यादिश्रुतेरित्यर्थः | अंशात्पुरोभागात् | पृष्ठात्पश्चाद्भागात् || ३९ || कदाचित्पुरुषस्यास्य नाभौ पद्मं प्रजायते | तस्मिन्संवर्धते ब्रह्मा पद्मजोऽसौ प्रकीर्तितः || ४० || अस्यैव नारायणाख्यस्य पुरुषस्य | तत्र तस्यैव पद्मे जन्मवशात्पद्मजाख्येत्याह - तस्मिन्निति || ४० || मायेयं स्वप्नवद्भ्रान्तिर्मिथ्यारचितचक्रिका | मनोराज्यमिवालोलसलिलावर्तसुन्दरी || ४१ || सतस्तत एव तस्य कथं जन्म घटतामिति पर्यनुजुञ्जानं रामं प्रत्याह ##- किमिवास्यां वद ज्ञप्तौ कथं संभवतीह ते | क्वचिद्बालमनोराज्यमिदं पर्यनुयुज्यते || ४२ || यदि सतः पुरुषस्य स्वनाभिपद्मे जन्म न संभवति तर्हि अस्यां असङ्गाद्वितीयायां ज्ञप्तौ ब्रह्मणि ते तव किमिव द्वितीयं जगद्रूपं संभवति कथं च संभवति तद्वदेत्यर्थः | तथाच तव पर्यनुयोगो बालमनोराज्यपर्यनुयोगसम एवेत्याह - क्वचिदिति | काकुः || ४२ || कदाचिदम्बरे शुद्धे मनस्तत्त्वानुरञ्जनात् | सौवर्णं ब्रह्मगर्भं च स्वयमण्डं प्रवर्तते || ४३ || पद्मजोत्पत्तिवद्व्योमजोत्पत्तिमपि मनसोऽचिन्त्यरचनाशक्तिमवलम्ब्य समर्थयति - कदाचिदिति || ४३ || कदाचिदेव [एष इति पाठः] पुरुषो वीर्यं सृजति वारिणि | तस्मात्प्रजायते पद्मं ब्रह्माण्डमथवा महत् || ४४ || पद्मं भूपद्मम् || ४४ || तस्मात्प्रजायते ब्रह्मा कदाचिद्भास्करोऽप्यसौ | कदाचिद्वरुणो ब्रह्मा कदाचिद्वायुरण्डजः || ४५ || भास्करः प्राक्कल्पे सूर्याधिकारस्थोऽस्मिन्कल्पे ब्रह्मा भवति | एवं वरुणादयोऽपि || ४५ || एवमन्तर्विहीनासु विचित्रास्विह सृष्टिषु | विचित्रोत्पत्तयो राम ब्रह्मणो विविधा गताः || ४६ || अन्तः प्रत्यगात्मनि विहीनासु असतीषु | ब्रह्मणः प्रस्तुतहिरण्यगर्भस्य विचित्रा उत्पत्तयो गताः | ब्रह्माणः इति पाठः स्पष्टः || ४६ || निदर्शनार्थं सृष्टेस्तु मयैकस्य प्रजापतेः | भवते कथितोत्पत्तिर्न तत्र नियमः क्वचित् || ४७ || एकस्येदं वर्णनमन्येषामपि स्थालीपुलाकन्यायेन निदर्शनार्थमित्याह - निदर्शनेति || ४७ || मनोविजृम्भणमिदं संसार इति संमतम् | संबोधनाय भवतः सृष्टिक्रम उदाहृतः || ४८ || संमतं सिद्धन्तः | तस्य सम्यग्बोधनाय || ४८ || सात्त्विकीप्रभृतयो याश्च जातयश्चेत्थमागताः | इति ते कथनायैष सृष्टिक्रम उदाहृतः || ४९ || पूर्ववर्णिता जीवजातिभेदा अपि निदर्शनार्थमेवेत्याह - सात्त्विकीति | सृष्टिक्रमवर्णनमपि एतदर्थमेवेत्याह - इतीति || ४९ || पुनः सृष्टिः पुनर्नाशः पुनर्दुःखं पुनः सुखम् | पुनरज्ञः पुनस्तज्ज्ञो बन्धमोक्षदृशः पुनः || ५० || यावदेतन्मनः समूलं नोन्मूल्यते तावत्संसारपरम्परायाः कदाप्यनुपरम इति दर्शयति - पुनः सृष्टिरित्यादिना | मोक्षदृशो मोक्षास्तित्वकल्पनाः || ५० || पुनः सृष्टिकराऽवीतवीतस्नेहदृशः पुनः | दीपा इव कृतालोकाः प्रशाम्यन्त्युद्भवन्ति च || ५१ || अवीतेषु वर्तमानागामिप्रियेषु वीतेष्वतीतप्रियेषु स्नेहदृशः || ५१ || देहोत्पत्तौ विनाशे च दीपानां ब्रह्मणामपि | कालेनाधिकतां त्यक्त्वा नाशे भेदो न कश्चन || ५२ || ननु दीपा अल्पकालस्थायिनो द्विपरार्धायुषां ब्रह्मादिशरीराणां कथमुपमास्तत्राह - देहोत्पत्ताविति | दीपपक्षे देहोत्पत्तिश्चम्पककलिकाकारसंस्थाननिष्पत्तिः | उत्पत्तिनाशौ आद्यन्तक्षणिकभावविकारौ नाशस्त्वनाद्यन्तयोः पूर्वोत्तरकालयोरसत्त्वमिति न पौनरुक्त्यम् || ५२ || पुनः कृतं पुनस्त्रेता पुनः स द्वापरः कलिः | पुनरावर्तते सर्वं चक्रावर्ततया जगत् || ५३ || चक्रमिवावर्तत इति चक्रावर्तस्तद्भावेन || ५३ || पुनर्मन्वन्तरारम्भाः पुनः कल्पपरम्पराः | पुनः पुनः कार्यदशाः प्रातः प्रातरहो यथा || ५४ || लोकालोककलाकालकलनाकलितान्तरम् | पुनःपुनरिदं सर्वं न किंचन पुनःपुनः || ५५ || लोकालोकौ दिनरात्री कलास्त्रिंशत्काष्ठात्मको मुहूर्तद्वादशभागस्य क्षणस्य त्रिंशो भगस्तद्घटिताभिः प्राण्यायुःकालकलनाभिः कलिताः परिच्छिन्ना आन्तराः सर्वपदार्था यस्मिन् || ५५ || अनाहते प्रतप्तेऽयःपिण्डेऽनलकणा इव | इमे भावाः स्थिता नित्यं चिदाकाशे स्वभावतः || ५६ || अनाहते शिलाद्याघातरहिते | स्वभावतो मायाबीजस्वभावात् || ५६ || कदाचिदनभिव्यक्तं कदाचिद्व्यक्तिमागतम् | इदमस्ति परे तत्त्वे सर्वं वृक्ष इवार्तवम् || ५७ || आर्तवं तत्तदृतुभवं फलपुष्पादीव || ५७ || चित्स्पन्द एव सर्वात्मा सर्वदैवेदृशाकृतिः | यदस्माज्जायते सर्गो द्विन्दुत्वमिव लोचनात् || ५८ || चित्स्पन्दश्चिद्विवर्तः | द्विन्दुत्वमिन्दुद्वित्वम् || ५८ || चितः सर्वाः समायान्ति संतताः सृष्टिदृष्टयः | तत्स्था एवाप्यतत्स्थाभाश्चन्द्रादिव मरीचयः || ५९ || न कदाचन संसारः किलायं राम सत्सदा | सर्वशक्तावसंसारशक्तिता विद्यते यतः || ६० || असंसारशक्तिता असंसारस्वभावता | असङ्गाद्वितीयस्वभावतेति यावत् | विद्यते परमार्थत इति शेषः || ६० || न चैवेदं कदाचित्तु साधो जगदनीदृशम् | सर्वशक्तौ हि संसारशक्तिता विद्यते यतः || ६१ || संसारशक्तिता जगद्बीजमर्यादा || ६१ || महाकल्पावधिः कालेन संसारितयेद्धया | न भविष्यति संसार इदानीमिति युज्यते || ६२ || इद्धया अधिष्ठानचैतन्यदीप्तया संसारितया कालेन चोपलक्षितः संसारो महाकल्पो वैज्ञानिको मोक्षाख्यः प्रलयस्तदवधिर्विद्यते अग्रे न भविष्यतीति व्यवहार इदानीं युज्यत इत्यन्वयः || ६२ || ज्ञदृष्ट्या सर्वमेवेदं ब्रह्मैवेति महामते | नास्ति संसार इत्येतदुपपद्यत एव च || ६३ || संसारासत्त्वसत्त्वयोर्विरोधमाशङ्क्य दृष्टिभेदेन विरोधमाह - ज्ञदृष्ट्येत्यादिना || ६३ || अज्ञदृष्ट्या त्वविच्छिन्नसंसारत्वादनारतम् | नित्या संसारमायेयं मिथ्यापीहोपपद्यते || ६४ || पुनःपुनश्च भावित्वान्न कदाचिदनीदृशम् | जगदित्येतदित्युक्तं न मृषा रघुनन्दन || ६५ || अत एव कर्ममीमांसकानां न कदाचिदनीदृशं जगदिति जगत्प्रवाहनित्यव्यवहारोऽप्युपपन्न इत्याह - पुनरिति | इति अनया दृष्ट्या न मृषा | तदीप्सितकर्मकाण्डप्रामाण्योपपादकत्वादित्यर्थः || ६५ || अनारतपतद्रूपा दिशो दृष्टा विनश्वराः | विनाशीदं जगत्सर्वमिति किं नोपपद्यते || ६६ || अज्ञदृष्टीनां विचित्रत्वाद्बुद्धादिभिः स्वस्वप्रक्रियानिर्वाहाय कल्पिताः क्षणिकपरमाण्वादिव्यवहारा अपि तद्दृष्ट्या उपपद्यन्त एवेत्याह - अनारतेति | दिशो दिक्षूदिता विद्युदादयः अनारतं सदा पतद्रूपाः क्षणप्रध्वंसिस्वभावा दृष्टाः | तथैव सर्वत्र कल्पनादित्यर्थः | किमिति काकुः || ६६ || सर्वत्रोदितचन्द्रार्का दिशो दृष्टाः स्थिराचलाः | अविनाशि जगत्सर्वमित्यप्यवितथोपमम् || ६७ || एवं चन्द्रार्कादिस्फीतालोकासु दिक्षु पर्वतभूम्यब्धीनां स्थिरतादर्शनात्सदैव स्वसत्तया सदेव जगदिति सांख्यादिकल्पनाप्युपपद्यत एवेत्याह - सर्वत्रेति || ६७ || न तदस्ति न यत्तस्मिन्नेकस्मिन्विततात्मनि | संकल्पकलनाजालमनाख्ये नोपपद्यते || ६८ || तथाच ब्रह्मणि तत्तत्संकल्पितेष्वर्थेष्वनुपपन्नं किमपि नास्ति संकल्पकलनाजालमेव परं नोपपद्यत इत्याह - न तदस्तीति || ६८ || पुनःपुनरिदं सर्वं पुनर्मरणजन्मनी | पुनः सुखं पुनर्दुःखं पुनः करणकर्मणी || ६९ || प्रासङ्गिकं सर्वसंभवमुपपाद्य प्रस्तुतं सर्गपौनःपुन्यमेव वर्णयति - पुनरित्यादिना || ६९ || पुनराशाः पुनर्व्योम पुनरम्भोधयोऽद्रयः | अभ्युदेति पुनः सृष्टिः खवदर्कप्रभा यथा || ७० || स्ववत्सु गवाक्षच्छिद्रवत्सु गृहेषु एकैवार्कप्रभा यथा नानात्वेनोदेति तथा || ७० || पुनर्दैत्याः पुनर्देवाः पुनर्लोकान्तरक्रमाः | पुनः स्वर्गापवर्गेहाः पुनरिन्द्रः पुनः शशी || ७१ || पुनर्नारायणो देवः पुनर्दनुसुतादयः | पुनराशाचलच्चारुचन्द्रार्कवरुणानिलाः [आशाश्चलत् इति पाठः] || ७२ || सुमेरुकर्णिकाकान्ता सह्यकेसरशालिनी | पूर्णा स्फीतोदरोदेति रोदसी नलिनी पुनः || ७३ || पूर्णा प्राणिपुण्यामोदैर्भोगमकरन्दैश्च स्फीतोदरा विशालकुक्षिः | द्यावापृथिव्यौ रोदस्यौ तल्लक्षणा नलिनी || ७३ || व्योमकाननमाक्रम्य वल्गत्यंशुनखोत्करैः | तमःकरिघटा भेत्तुं पुनर्भास्करकेसरी || ७४ || वल्गत्युद्रच्छति || ७४ || पुनरिन्दुश्चलत्स्वच्छमञ्जरीसुन्दरैः करैः | करोत्यमृतमाह्लादि दिग्वधूमुखमण्डनम् || ७५ || आह्लादि सर्वप्राणिसुखकरं अमृतं करोत्युपचिनोति || ७५ || पुनः स्वर्गतरोः पुण्यक्षयवातसमीरिताः | पतन्तीह विनुन्नाङ्गाः पुण्यकृत्पुष्पराशयः || ७६ || पुण्यानि कृन्तन्ति भोगैश्छिन्दन्तीति पुण्यकृतः स्वर्गिणस्तल्लक्षणाः पुष्पराशयः || ७६ || पुनः कार्यक्रियापक्षैः संसारारम्भनामकम् | किंचित्पटपटं कृत्वा याति कालकपिञ्जलः || ७७ || पटपटं कृत्वा | ननु अनुकरणं चानितिपरम् इति गतिसंज्ञायां कुगतिप्रादयः इति नित्यं समासे ल्यपा भाव्यम् | सत्यम् | किंचिदिति विशेषणदर्शनात् सविशेषणानां वृत्तिर्न इति महाभाष्योक्तेर्न समासः | कालः सृष्टिकालस्तल्लक्षणः कपिञ्जलः पक्षिविशेषः || ७७ || पुनरिन्द्रादिके याते सज्जमास्थाय केवलम् | आयात्यपरदेवेन्द्रषट्पदः स्वर्गपङ्कजम् || ७८ || पूर्वेन्द्रलक्षणे अलिके क्षुद्रभ्रमरे याते निवृत्ताधिकारे सति | सज्जं नूतनतत्तन्मन्वन्तराधिकारिदेवतागणान्तरसन्नद्धमैरावताद्यास्थाय | राज्यम् इति पाठे स्पष्टम् | केवलं पूर्वदेवगणशून्यम् || ७८ || पुनः कालं कृतापूतं [कृपापूतं इति क्वचित्] कलुषीकुरुते कलिः | सचक्रिणमिवाम्भोधिं प्रवृद्धोऽवकरानिलः || ७९ || कृतेन युगेन आपूतं सर्वतः पूतम् | कलिरधर्मः | सचक्रिणं स्वान्तःशयानविष्णुसहितम् | अवकिरति पांसूनित्यवकरोऽनिलः प्रलयवायुः || ७९ || पुनः कालकुलालेन कृतभूतशरावकम् | चक्रमावर्त्यते वेगादजस्रं कल्पनामकम् || ८० || कृताः प्राणिशरावा यस्मिन् || ८० || पुनर्नीरसतामेति जगदस्तशुभस्थिति | अभ्यासीभूतसंकल्पं संशुष्कमिव काननम् || ८१ || नीरसतां धर्मरसहीनताम् | अभ्यासीभूतसंकल्पं यस्य यद्विषये पूर्वाभ्यासस्तदनुगुणीभूताः संकल्पा यस्मिन् || ८१ || पुनरर्कगणेष्वग्निदग्धानन्तकलेवरम् | सर्वभूतास्थिसंपूर्णं जगदेति श्मशानताम् || ८२ || पुनः कुलाचलाकारपुष्करावर्तवर्षणैः | नृत्यद्भववृहत्फेनां यात्येकार्णवतां जगत् || ८३ || नृत्यन् भवः संहाररुद्र एव शुभ्रत्वाद्वृहन् फेनो यस्याम् || ८३ || पुनः संशान्तवायवम्बुरिक्तं सकलवस्तुभिः | तदपूर्वमिवाकाशं जगदायाति शून्यताम् || ८४ || पुनः कतिपया भुक्त्वा समाः समरसाशयः | जीवितं जीर्णया तन्वा पुनः स्वात्मनि लीयते || ८५ || जीवितं भुक्त्वा अनुभूय || ८५ || पुनरन्येन कालेन तथैव जगतां गणान् | मनस्तनोति वै शून्ये गन्धर्वनगरं यथा || ८६ || पुनः सर्मसमारम्भः प्रलये सर्वसंभवः | सर्वं पुनरिदं राम चक्रवत्परिवर्तते || ८७ || पुनः प्रलये सति सर्गसमारम्भः [सर्वसमारंभः इति पाठः] || ८७ || किमेतस्मिन्महामायाडम्बरे दीर्घशम्बरे | राम सत्यमसत्यं वा निर्णेयं यदिहोच्यते || ८८ || दीर्घशम्बरे दीर्घभ्रमे किं निर्णेयं विचार्येत्थमिति निश्चेयं न किंचिदित्यर्थः | निर्णयम् इति पाठे निर्युक्तिकमित्यर्थः || ८८ || दाशूराख्यायिकेवेयं राम संसारचक्रिका | कल्पनारचिताकारा वस्तुशून्या न वस्तुतः || ८९ || उक्तेऽर्थे दाशूराख्यायिकामुदाहरिष्यामीत्याशयेनाह - दाशूरेति || ८९ || अविरलमिदमाततं विकल्पै- रसदुदितैरपि तैर्द्विचन्द्रकल्पैः | विरचितमसतानुपन्नसत्यं जगदिह तेन विमूढता किमुत्था || ९० || येन हेतुना इदं जगदसतोऽज्ञानादुदितैर्विकल्पैरविरलमविच्छिन्नप्रवाहं यथा स्यात्तथा आततं तथा असता अविद्यमानेनैव कर्त्रा विरचितमनुत्पन्नमनुसृतमधिष्ठानब्रह्म सत्यं येन तथाविधं तेन हेतुना ते विमूढता किमुत्था कस्मान्निमित्ताजाता | यन्निमित्तं त्वं पश्यसि तन्नास्त्येव यत्त्वस्ति परमार्थतस्तदभयं ब्रह्मैवेति न ते निर्निमित्तो मोहोऽयं युक्त इत्युपसंहारः || ९० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे जगद्वासनिर्णययोगोपदेशो नाम सप्तचत्वारिंशः सर्गः || ४७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे जगद्वासनिर्णययोगोपदेशो नाम सप्तचत्वारिंशः सर्गः || ४७ || अष्टचत्वारिंशः सर्गः ४८ श्रीवसिष्ठ उवाच | क्रियाविशेषबहुला भोगैश्वर्यहताशयाः | नापेक्षन्ते यदा सत्यं न पश्यन्ति शठास्तदा || १ || भोगादिलिप्सा कुत्सात्र दाशूरस्याथ संभवः | प्रसन्नाच्चानलात्तस्य वरप्राप्त्यन्तमीर्यते [प्राप्त्यर्थं इति पाठः] || १ || यदि इयं संसारचक्रिका कल्पनामात्रम् यदि च ब्रह्मैव तत्त्वतोऽस्ति तर्हि तथा किमिति मेधाप्रतिभाकौशलशालिष्वपि महाजनेषु कोऽपि न पश्यति तत्र को हेतुरिति चेत्तदनपेक्षा तद्विरुद्धभोगैश्वर्याद्यभिनिवेशश्च हेतुरित्याह - क्रियाविशेषेति | ऐहिकामुष्मिकभोगैश्वर्योपायभूतैर्लौकिकैर्वैदिकैश्च क्रियाविशेषैर्बहुला उपचितकामाः शठाः स्वपरवञ्चकाः || १ || ये तु पारं गता बुद्धेरिन्द्रियैर्न वशीकृताः | त एनां जागतीं मायां पश्यन्ति करबिल्ववत् || २ || तर्हि के पश्यन्ति तानाह - ये त्विति | मायाग्रहणं सत्यस्याप्युपलक्षणम् || २ || तुच्छां तां जागतीं मायां दृष्ट्वा जीवो विचारवान् | अहंकारमयीं मायां त्यजत्यहिरिव त्वचम् || ३ || जागतीं बाह्यां ममेत्यभिनिवेशहेतुभूताम् | अहंकारमयीमान्तरीमहमित्यभिनिवेशहेतुभूताम् || ३ || असक्ततां ततोऽभ्येत्य पुना राम न जायते | क्षेत्रेष्वपि चिरं तिष्ठन्बीजं दग्धमिवाग्निना || ४ || आधिव्याधिपरीताय प्रातर्वाद्य विनाशिने | प्रयतन्ते शरीराय हितमज्ञास्तु नात्मने || ५ || भोगैश्वर्यप्रसक्तस्य कारागृहदार्ढ्यायेव देहरक्षणाय वृथानर्थाय च प्रयासं परमपुरुषार्थोपेक्षां चात्यन्तानुचितां दृष्ट्वा तमनुशोचति - आधीति | प्रातः अद्य वा विनाशिने | चतुर्थी तदर्थार्थ - इति हितशब्दयोगे चतुर्थी || ५ || त्वमप्यज्ञवदज्ञस्य शरीरस्य समीहितम् | मा संपादय दुःखाय भवात्मैकपरायणः || ६ || श्रीराम उवाच | दाशूराख्यायिकेवेयं सुखसंसारचक्रिका | कल्पनारचिताकारा वस्तुशून्येति किं प्रभो || ७ || प्राक् प्रस्तुतां दाशूराख्यायिकां शुश्रूषू रामः पृच्छति - दाशूरेति | विषयसुखार्था संसारचक्रिका वस्तुशून्या इति यत्त्वयोक्तं तत्किं कीदृशम् | यादृशं तथा वर्णयेत्यर्थः || ७ || श्रीवसिष्ठ उवाच | जगन्मायास्वरूपस्य वर्णनाव्यपदेशतः | दाशूराख्यायिकां राम वर्ण्यमानां मया शृणु || ८ || वर्णनाया व्यपदेशतः | उदाहरणतयेत्यर्थः || ८ || अस्त्यस्मिन्वसुधापीठे विचित्रकुसुमद्रुमः | मागधो नाम विख्यातः श्रीमाञ्जनपदो महान् || ९ || मगधानां निवासो जनपदो मागधः | तस्य निवासः इत्यण् || ९ || कदम्बवनविस्तारलीलावलितजङ्गलः | विचित्रविहगव्यूहसर्वाश्चर्यमनोहरः || १० || सस्यसंकटसीमान्तः पुरोपवनमण्डितः | कमलोत्पलकह्लारपूर्णसर्वसरित्तटः || ११ || सस्यैः संकटा निबिडिताः सीमान्ता ग्रामसीमावधयो यस्मिन् || ११ || उद्यानदोलाविलसल्ललनागेयघुंघुमः | निशोपभुक्तकुसुमनीरन्ध्रविशिखावनिः || १२ || निशया उपभुक्तैरिव म्लानोत्सृष्टैः कुसुमैर्नीरन्ध्रा विशिखा मन्मथशरा यस्यां तथाविधा अवनिर्यस्मिन् || १२ || तत्रैकस्मिन्गिरितटे कर्णिकारसमाकुले | कदलीखण्डनीरन्ध्रनीपगुल्मविराजिते || १३ || तत्र तस्मिन् जनपदे | नीपैः कदम्बैरन्यश्च गुल्मैर्विराजिते || १३ || पुष्पौघस्फूर्जदनिले केसरारुणधूलिनि | कारण्डवकृतारावे रसत्सरससारसे || १४ || पुष्पेषु ओघैः प्रवाहैः स्फूर्जन्तो ध्वनन्तोऽनिला यस्मिन् | रसन्तः सरसाः सानुरागाः सारसा यस्मिन् || १४ || तस्मिन्नगवरे पुण्ये विचित्रविहगद्रुमे | कश्चित्परमधर्मात्मा मुनिरासीन्महातपाः || १५ || दाशूरनामा महता तपोयोगेन संयुतः | कदम्बपृष्ठवास्तव्यो वीतरागो महामतिः || १६ || तपःसहितेन योगेन | कदम्बपृष्ठे कदम्बाग्रे वसतीति वास्तव्यः | वसेस्तव्यत्कर्तरि णिच्च इत्यनुशासनात् || १६ || श्रीराम उवाच | असौ तपस्वी भगवन्विपिने केन हेतुना | कथं चाप्यवसत्पृष्ठे कदम्बस्य महातरोः || १७ || कथं केन प्रभावेन प्रकारेण च || १७ || श्रीवसिष्ठ उवाच | शरलोमेति विख्यातः पिता तस्य बभूव ह | रामाऽपर इव ब्रह्मा तस्मिन्नेवावसद्गिरौ || १८ || तस्यासावेकपुत्रोऽभूत्कचो देवगुरोरिव | तेन सार्धं स पुत्रेण नीतवाञ्जीवितं वने || १९ || जीवितमायुर्नीतवान् || १९ || अथासौ शरलोमात्र भुक्त्वा युगगणं ययौ | त्यक्तदेहः सुरागारं मुक्तनीडः खगो यथा || २० || युगगणं अयनयुगलात्मकवत्सरगणं सुखदुःखादिद्वन्द्वगणं वा भुक्त्वा अनुभूय || २० || एक एव वने तस्मिन्दाशूरः प्ररुरोद ह | दशापनीतपितृकः करुणं कुररो यथा || २१ || एक एवेत्युक्त्या मातापितरमन्वगादिति गम्यते | दशया चरमभावविकारेण ग्रहदशाविशेषेण वा अपनीतः पिता यस्य दशभिः प्राणैर्वा देहादपसृत्य नीतः परलोकाय पिता यस्य | कुररः पक्षिभेदः || २१ || मातापितृवियोगेन शोकसंतापिताशयः | म्लानिमभ्याययौ नूनं हेमन्त इव पङ्कजम् || २२ || बालोऽसावतिदीनात्मा वनदेवतया वने | इत्थमाश्वासितो राम तदाऽदृश्यशरीरया || २३ || इत्थं वक्ष्यमाणप्रकारेण | अदृश्यशरीरया अन्तर्हितयेति यावत् || २३ || ऋषिपुत्र महाप्राज्ञ किमज्ञ इव रोदिषि | संसारस्य न कस्मात्त्वं स्वरूपं वेत्सि चञ्चलम् || २४ || चञ्चलमशाश्वतम् || २४ || सर्वदैवेदृशी साधो संसारे संसृतिश्चला | जायते जीव्यते पश्चादवश्यं च विनश्यति || २५ || जीव्यते जीवति | विकरणपदव्यत्ययश्छान्दसः || २५ || यद्यत्किंचिद्दृश्यदृशि ब्रह्मादिकमिदं मुने | गन्तव्यस्तेन सर्वेण विनाशो नात्र संशयः || २६ || दृश्यदृशि व्यवहारदृष्टौ यद्यत्किंचित्प्रसिद्धमिति शेषः | गन्तव्यः प्राप्तव्यः || २६ || तदर्थं मा कृथा व्यर्थं विषादं मरणे पितुः | अवश्यभाव्यस्तमयो जातस्याहर्पतेरिव || २७ || तदर्थं तस्माद्धेतोः | अहर्पतेः सूर्यस्य | अहरादीनां पत्यादिषु वा रेफो वक्तव्यः इति रत्वम् || २७ || अशरीरामिति श्रुत्वा गिरमारक्तलोचनः | धैर्यमासादयामास शिखण्डी स्तनितादिव || २८ || स्तनितात् मेघगर्जितात् || २८ || उत्थायावश्यकं कृत्वा पाश्चात्यं पितुरादरात् | चकार तपसे बुद्धिं दृढामुत्तमसिद्धये || २९ || आवश्यकं पुत्रेणावश्यं कर्तव्यं पितुरौर्ध्वदेहिकम् || २९ || ब्राह्मेण कर्मणा तस्य विपिने चरतस्तपः | अनन्तसंकल्पमयं श्रोत्रियत्वं बभूव ह || ३० || अनन्तसंकल्पमयं बहुतरशुद्ध्यशुद्ध्यादिकल्पनाप्रचुरम् | श्रोत्रियत्वं वेदाध्ययनतदर्थविचारानुष्ठाननिष्ठत्वम् || ३० || अज्ञातज्ञेयबुद्धेअस्तु श्रोत्रियस्य तया तया | न विशश्राम चेतोऽस्य पवित्रेऽपि धरातले || ३१ || न ज्ञातमवश्यज्ञेयं ब्रह्म यया तथाविधा बुद्धिर्यस्य | तया तया शुद्ध्यशुद्ध्यादिकल्पनया || ३१ || केवलं सर्वमेवेदमपि शुद्धं धरातलम् | अशुद्धमिव पश्यन्स न रेमे क्वचिदेव हि || ३२ || क्वचिदेवेत्यप्यर्थे एवकारः || ३२ || अथ संकल्पयामास स्वसंकल्पनयैव सः | वृक्षाग्रमेव संशुद्धं स्थितिस्तत्रोचिता मम || ३३ || तदिदानीं तपस्तप्स्ये तपसा येन शाखिषु | स्वगवत्स्थितिमाप्नोमि शाखासु च दलेषु च || ३४ || तत् तदर्थम् | खगवत्पक्षिवद्देववद्वा स्थितिमवस्थानसामर्थ्यम् || ३४ || इति संचिन्त्य संज्वाल्य हुताशमतिभास्वरम् | जुहाव तस्मिन्प्रोत्कृत्त्य मांसं स्वस्कन्धभित्तितः || ३५ || तपस्तप्स्ये इति संकल्पदर्शनात्तपोनन्तरं ततः शीघ्रं सिद्ध्यदर्शनादयं होमसाहसारम्भ इति गम्यते || ३५ || अथ गीर्वाणवृन्दस्य समग्रा गलभित्तयः | मन्मुखत्वेन मा यान्तु विप्रमांसेन भस्मताम् || ३६ || अथ भगवान्सप्तार्चिः इति संचिन्त्येति परेणान्वयः | चिन्ताप्रकारमेव दर्शयति - गीर्वाणवृन्दस्येत्यादिना | मन्मुखत्वेन अग्निमुखत्वेन | अग्निमुखा वै देवाः इति श्रुतेः | समग्रा ग्लभित्तयः कण्ठदेशा विप्रमांसेन जग्धेन भस्मतां मा यान्तु न प्राप्नुवन्त्विति संचिन्त्येत्यन्वयः || ३६ || इति संचिन्त्य भगवान्सप्तार्चिस्तस्य देवता | पुरो बभूव दीप्तांशुर्दीप्तांशुर्वाक्पतेरिव || ३७ || दीप्तांशुर्भास्वरप्रभो दीप्तांशुः सूर्योवाक्पतेर्बृहस्पतेरिव || ३७ || उवाच वचनं धीरं [धीरं इति द्वितीयैकवचनस्थाने धीर इति संबुद्धिष्टीकाकृतोररीकरणात्सुस्वारस्याच्च स एव पाठः समीचीनः] कुमाराभिमतं वरम् | गृहाण स्थापितं साधो कोशाकाशान्मणिं यथा || ३८ || धीरेति साहसानुरूपं संबोधनम् | स्थापितं त्वत्संकल्पसिद्धं त्वयि स्थितमेव गृहाण | कोशाकाशात्कोशोदरान्मणिं यथा तत्स्वामी गृह्णाति तद्वत् || ३८ || इत्युक्तवन्तमनलमर्घपुष्पेण शोभिना | संपूज्य स्तुतिवादेन प्राह विप्रकुमारकः || ३९ || भगवन् भूतपूर्णाया भुवः पावनमण्डलम् | नाप्नोमि तेन वृक्षाणामुपरि स्थितिरस्तु मे || ४० || विशुद्धिदूषकैः शूद्रचाण्डालश्वमार्जारादिभूतैः पूर्णायाः | पावनमण्डलं पवित्रप्रदेशम् || ४० || इत्युक्ते मुनिपुत्रेण सर्वदेवमुखं शिखी | एवमस्तु तवेत्युक्त्वा जगामान्तर्द्धिमीश्वरः || ४१ || शिखी अग्निदेवः || ४१ || तस्मिन्नन्तर्हिते देवे क्षणात्सान्ध्य इवाम्बुजे | पूर्णकामः कुमारोऽसौ पूर्णेन्दुरिव चाबभौ || ४२ || अधिगताभिमताननमण्डल- द्युतिभरेण जहास स तुष्टिमान् | शशिनमाप्तकलाकुलमम्बुजं विकसितं च सितस्मितशोभिना || ४३ || तन्मुखशोभामेव वर्णयति - अधिगतेति | अधिगतेन प्राप्तेनाभिमतेन वरेण प्रयुक्तेनाननमण्डलद्युतिभरेण स दाशूरः शशिनमम्बुजं च जहासेत्युत्प्रेक्षा || ४३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे दाशूरो० दाशूरवरप्रदानवर्णनं नामाष्टचत्वारिंशः सर्गः || ४८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे दाशूरवरप्रदानवर्णनं नामास्टचत्वारिंशः सर्गः || ४८ || एकोनपञ्चाशः सर्गः ४९ श्रीवसिष्ठ उवाच | अथ काननमध्यस्थं चुम्बिताम्बुदमण्डलम् | मध्याह्नखिन्नसूर्याश्वसेवितस्कन्धमण्डलम् || १ || शाखापल्लवपुष्पौघफलपक्षिमनोहरः | इहोत्प्रेक्षाद्यलङ्कारैः कदम्ब उपवर्ण्यते || १ || मध्याह्ने खिन्नैरिव सूर्याश्वैः सेवितानि स्कन्धमण्डलानि यस्य || १ || वितानमिव दिक्कुक्षिदीर्घं विटपबाहुभिः | आलोकयन्तं ककुभो विकासिकुसुमेक्षणैः || २ || वितानमिव कुर्वाणमिति शेषः | विटपवितानानावृतो देशः परिशिष्टोऽन्योऽस्ति न वेति परितः ककुभो दिश आलोकयन्तम् || २ || वातावधूलितानल्पभ्रमद्भ्रमरकुन्तलम् | प्रमार्जयन्तमाशानां मुखं पल्लवपाणिभिः || ३ || वातैरवधूलिता निष्परागीकृता अनल्पा भ्रमद्भ्रमरा एव कुन्तलाः केशा यस्य | आशानां दिक्कान्तानाम् || ३ || कच्छैरुरुगुडुच्छाच्छमञ्जरीपुञ्जकञ्जरैः | आस्यैरिव सताम्बूलैर्हसन्तं वनमालिकाः || ४ || कं हिमजलं छयन्ति बिन्दुभावेन परिच्छिन्दन्तीति कच्छाः पल्लवप्रदेशास्तैः उरुभिर्गुडुच्छानां लताविशेषाणां अच्छैर्दन्तपङ्क्तिवत्स्थितैर्मञ्जरीपुञ्जैः कञ्जरैः केसरितैः || ४ || लताविलसितोल्लासैः पुष्पकेसरधूलिभिः | आबद्धमण्डलाभोगं पूर्णेन्दुमिव दीप्तिभिः || ५ || लतानां विलसितेन शोभातिशयेन उल्लासैरुल्लसद्भिः पुष्पकेसरनिविष्टपरागैराबद्धो मण्डलाकारवेषो येन || ५ || संकटं विटपावल्या कुञ्जकूजच्चकोरया | छन्नया सिद्धवीथ्येव जगदुच्चतया श्रितम् || ६ || कुञ्जेषु लतापिहितप्रदेशेषु कूजन्तश्चकोरा यस्यां तथाविधया | विटपानां शाखानामावल्या पङ्क्त्या संकटं निबिडितम् | ग्रहनक्षत्रताराविमानादिच्छन्नया सिद्धवीथ्या स्वातीपथवीथ्या उच्चतया ऊर्ध्वभावेन श्रितं जगद्ब्रह्माण्डमिव स्थितमित्यर्थः || ६ || स्कन्धपीठोपविष्टानां लम्बमानैः कलापिनाम् | कलापैः शोभितं व्योम सेन्द्रचापैरिवाम्बुदैः || ७ || कलापिनां मयूराणां कलापैर्वर्हैः || ७ || मग्नोन्मग्नैः प्रतिस्कन्धमाश्रितैश्चमरैः सितैः | पूर्णं मुहुर्दृष्टनष्टैः संवत्सरमिवेन्दुभिः || ८ || प्रतिस्कन्धं प्रतिस्कन्धकोटरमाश्रितैर्विश्रान्तैरन्तर्गतकायार्धेन मग्नैर्बहिर्निःसृतकायार्धेनोन्मग्नैः कैश्चित्प्रविष्टैः कैश्चिद्बहिष्ठैर्वा | अत एव दृष्टनष्टैर्दृष्टादृष्टैश्चमरैर्मृगभेदैः | एतेन परितोऽधः स्कन्धानां बृहत्त्वं भूसंलग्नता च गम्यते | इन्दुपक्षे मग्नोन्मग्नैरस्तमितोदितैरत एव दृष्टनष्टैः || ८ || कपिञ्जलकुलालापैः कलकोकिलकूजितैः | जीवंजीवविरावैश्च प्रगायन्तमिवोच्छ्रितैः || ९ || जीवंजीवाश्चकोराः || ९ || कादम्बककदम्बैश्च कुलायकृतकेलिभिः | स्वर्गकोटरविश्रान्तैः सिद्धैर्जगदिवावृतम् || १० || कादम्बकाः कलहंसाः | कुलायेषु नीडेषु कृतकेलिभिः क्रीडाद्भिः सिद्धैर्देवैरावृतं जगद्ब्रह्माण्डमिव स्थितम् || १० || प्रवालचलहस्ताभिरलिनेत्राभिराश्रितम् | अप्सरोभिरिव स्वर्गं मञ्जरीभिरितस्ततः || ११ || प्रवालेत्यादिविशेषणे अप्सरसां मञ्जरीणां च श्लेषात्साधारणे योज्ये || ११ || सेन्द्रचापविलासेन कुमुदोत्कररेणुना | मञ्जरीपिञ्जराश्यामं विद्युत्वन्तमिवाम्बुदम् || १२ || कुमुदग्रहणं कुमुदनीलोत्पलकोकनदादिसदृशनानावर्णलतापुष्पोपलक्षणम् | अत एवेन्द्रचापविलाससहितेन तद्रेणुना उपलक्षितं स्वमञ्जरीभिश्च पिञ्जरं आसमन्तात् पत्रैः श्यामम् | विद्युत्वन्तमिति तसौ मत्वर्थे इति भत्वान्न जश् || १२ || सहस्रभुजशाखाढ्यं पूरिताकाशकोटरम् | विश्वरूपमिवोन्नृत्तं चन्द्रार्ककृतकुण्डलम् || १३ || स्वं विश्वरूपं दर्शयन्तं विष्णुमिव स्थितमित्यर्थः | अथवा विश्वरूपं जगत्स्वरूपमिव स्थितमित्यर्थः || १३ || प्. ५२३) तले निषण्णनागेन्द्रं व्योम्नि तारागणाकुलम् | लतापुष्पमयं मध्ये खमण्डलमिवापरम् || १४ || खमण्डलं ब्रह्माण्डोदराकाशम् | तदपि हि तले भूमेरधो निषण्णा निविष्टा नागेन्द्राः शेषादयो दिग्गजाश्च यस्मिंस्तत् | शिष्टं स्पष्टम् || १४ || पितामहमिवाशेषशैलकाननशालिनम् | फलपल्लवपुष्पाणां कोशमेकमिवावनौ || १५ || पितामहपक्षे स्वसृष्टैरशेषैः प्राणिभिः शैलैः काननैश्च शालिनं शोभमानम् | कदम्बपक्षे अशेषैः शैलस्य काननैः शोभमानमित्यर्थः || १५ || दधानं कलिकाजालं स्थगितं पुष्पधूलिभिः | कच्छेष्वर्ककरच्छन्नताराजालमिवाम्बरम् || १६ || प्रागुक्तेषु कच्छेषु पुष्पधूलिभिः स्थगितमाच्छादितं कलिकाजालं कोरकसमूहं दधानम् || १६ || विलोलविहगैः स्कन्धैः कुलायकुलसंकुलैः | वलितं भूतलं लोके पूर्णैर्जनपदैरिव || १७ || वलितं व्याप्तम् || १७ || मञ्जरीसुपताकाढ्यं लतामण्डलमण्डितम् | पुष्पमङ्कोलधवलं पुष्पप्रकरपूरितम् || १८ || अन्तह्पुरसाम्यमाह - मञ्जरीत्यादित्रिभिः | मङ्कोलं गृहलेपनचूर्णम् || १८ || कूजच्चकोरभ्रमरशुककोकिलसारिकम् | घनस्तबकसंछन्नकुहरोग्रगवाक्षकम् || १९ || अन्तःपुरपक्षे घनैर्बहुभिः रत्नादिस्तबकैः संछन्नकुहराः पूरितगर्भाः | लोहार्गलवर्षवरगुप्तत्वादुग्रा अप्रधृष्या गवाक्षाः कुड्यापवरकाणि यत्र | वृक्षपक्षे सर्पगर्भत्वादुग्राः || १९ || संचरत्पक्षिबहुलं जनमन्थरकोटरम् | सर्वासां वनदेवीनामन्तःपुरमिवोत्तमम् || २० || वृक्षपक्षे छायोपसेविभिर्जनैर्मन्थरकोटरं विलोडिततलम् || २० || कूलद्भृङ्गतरङ्गौघैः पुष्पकेसरराजिभिः | राजमानं पतन्तीभिः सरिद्भिरिव पर्वतम् || २१ || भ्रमद्भिः पुष्पपत्रौघैर्मन्दवातविलासिभिः | वर्धमानैर्वृतस्कन्धं शुभ्राभ्रैरिव भूधरम् || २२ || वर्धमानैः प्रत्यहमुपचीयमानैः || २२ || मातङ्गकटघृष्टेन जानुस्तब्धेन पीठिना | आभोगिना बद्धपदं तरुणेव महाचलम् || २३ || इदानीं मूलबन्धं वर्णयति - मातङ्गेति | मातङ्गकठघृष्टेनेत्यनेन मूलबन्धस्य तावदौन्नत्यं गम्यते | ऊर्ध्वज्ञुजानुवत्स्तब्धेन पीठिना पीठवत्प्रसृतेन आभोगिना विस्तीर्णेन मूलबन्धेन बद्धपदं अवष्टब्धस्थानम् | तरुणा उपत्यकाप्ररूढतरुवृन्देन || २३ || विचित्रवर्णपक्षाणां स्कन्धकोटरच्चरिणाम् | वृतं खगानां वृन्देन भूतानामिव शार्ङ्गिणम् || २४ || भूतानां पार्षदानां वृन्देनेव || २४ || स्तबकाङ्गुलिजालेन लोलेनाभिनयक्रियाम् | दिशन्तमिव वल्लीनां प्रनृत्तानां वनानिलैः || २५ || अभिनया नाट्यशास्त्रप्रसिद्धा भावव्यञ्जककरनेत्रादिचेष्टाविशेषास्तेषां किर्यां निष्पादनप्रकारं दिशन्तमुपदिशन्तमिव || २५ || कश्चिदेव निवासो मे नार्थिनामिति तुष्टितः | नृत्यन्तमिव बह्नाढ्यलतावलयवल्गनैः || २६ || मूलकोटरस्कन्धशाखापत्रपुष्पादिप्रदेशानां मध्ये मे मम कश्चिदेक एव अर्थिनां मनुष्यमृगपक्ष्यादीनां निवासो न | अन्यः सर्वोऽपि निवासत्वेनोपयुक्तः कदाचित्कश्चिदेकः परिशिष्यते | अहो मे परोपकारे सर्वाङ्गसाफल्यमिति तुष्टितो हर्षपारवश्येन हेतुना || २६ || लताकान्तैककान्तत्वाच्छृङ्गाररसनिर्भरम् | काकल्येव प्रगायन्तं मत्तालिनिजनिःस्वनैः || २७ || लतालक्षणानां वह्वीनां कान्तानामेककान्तत्वाद्धेतोः | काकल्या कलध्वनिना || २७ || आदरोन्मुक्तकुसुमं सिद्धानां व्योमचारिणाम् | स्वागतानीव कुर्वाणं कोकिलालिकुलारवैः || २८ || आदरोन्मुक्तकुसुमं यथा स्यात्तथा || २८ || लतापुष्पफलोल्लासं प्रान्तपञ्चमहीरुहाम् | विहसन्तमिवाच्छाभिः पुष्पकुड्मलदीप्तिभिः || २९ || प्रान्तस्थानां पञ्चमहीरुहां वटोदुम्बरप्लक्षाम्रपलाशाख्यानां पञ्चपुण्यवृक्षाणाम् | उत्तरप्रान्तस्थानां मन्दारादिपञ्चकल्पतरूणां वा | लताद्युल्लासं हसन्तमिव || २९ || पारिजातमिवाजेतुमूर्ध्वगैः खगमण्डलैः | व्योमान्तराभिधावन्तमलमुद्धतकन्धरम् || ३० || अलमत्यर्थमुद्धतकन्धरमुन्नमितग्रीवं यथा स्यात्तथा व्योमान्तरा आकाशोदरे अभिधावन्तमिव || ३० || मध्यभागस्फुरत्तुङ्गैः [स्फुरद्भृङ्गैः इति पाठः] स्तबकैर्घनपङ्क्तिभिः | सहस्राक्षत्वमतुलैर्जेतुमिन्द्रमिवोद्यतम् || ३१ || घनपङ्क्तिभिर्निबिडश्रेणिभिः | सहस्राक्षत्वं असंख्यनेत्रत्वं प्राप्येति [प्राप्तैः इति पाठः] शेषः | अतुलैः शोभया संख्यया चेन्द्रनेत्रेभ्योऽधिकत्वात्तैस्तुलयितुमशक्यैः || ३१ || क्वचित्कुसुमगुच्छाच्छफणामणिगणावृतम् | पातालादुत्थितं शेषमिव व्योमदिदृक्षया || ३२ || कुसुमगुच्छलक्षणैः कुसुमगुच्छसदृशैश्च अच्छफणामणिभिर्व्योमदिदृक्षया हेतुना पातालादुत्थितं शेषमिव स्थितम् || ३२ || रजसोद्धूलिताकारं द्वितीयमिव शंकरम् | छायया फलशालिन्या समस्तजनशंकरम् || ३३ || भगवांस्तु भक्तानामेव शंकरः अयं तु समस्तजनशंकर इत्यतिशयः || ३३ || निबिडदलनिवाहभिन्नकोशैः कुसुमलतानवमण्डपैरुपेतम् | पुरमिव गगने कदम्बवृक्षं खगकुलनागरसंकुलं ददर्श || ३४ || निबिडानां दलानां निवाहा निवहास्तेषु भिन्नकोशैर्विकासितमुकुलैर्निबिडदलनिवहभेदेन भिन्नसंस्थानैश्च कुसुमलतानां नवमण्डपैरुपेतं घटितम् | खगकुलक्षणैर्नागरैर्जनैः संकुलम् गगने रचितं पुरमिव स्थितं कदम्बवृक्षं ददर्शेत्यर्थः || ३४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे दाशूरो० दाशूरकदम्बवर्णनं नामैकोनपञ्चाशः सर्गः || ४९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे दाशूर्कदंबवर्णनं नामैकोनपञ्चाशः सर्गः || ४९ || पञ्चाशः सर्गः ५० श्रीवसिष्ठ उवाच | तमथासौ तथा बुद्धिफलपल्लवशालिनम् | आनन्दमन्थरमनाः पुष्परूपाचलोपमम् || १ || तत्कदम्बाग्रसंस्थेन दाशूरेण विलोकिताः | दिशोऽत्र वनिताकारा वर्ण्यन्ते गुणविस्तरैः || १ || असौ दाशूरः | तथा प्रागुक्तप्रकारा भूम्यपवित्रताबुद्धिर्यस्य || १ || कदम्बं रोदसीस्तम्भमारुरोह वनस्थितम् | एकार्णवगतं शौरिर्वटवृक्षमिवोन्नतम् || २ || रोदस्योर्द्यावापृथिव्योः स्तम्भमिव वने स्थितम् || २ || तत्रासौ व्योमलग्नायाः शाखायाः प्रान्तपल्लवे | विवेश विगताशङ्कमेकाग्रं तप आस्थितः || ३ || विगतापावित्र्यविक्षेपाशङ्कं यथा स्यात्तथा || ३ || अथोपविश्य मृदुनि नवपल्लवविष्टरे | क्षणमालोकितास्तेन दिशः कौतुकचञ्चलम् || ४ || नवपल्लवकल्पिते विष्टर आसने | कौतुकेन चञ्चलं चपलेक्षणं यथा स्यात्तथा || ४ || सरिदेकावलीरम्याः शैलेन्द्रस्तनकुड्मलाः | निर्मलाकाशकबरा लोलनीलाम्बुदालकाः || ५ || अत्र सर्वत्र विशेषणान्युभयत्र योज्यानि | सरिल्लक्षणाभिरेकावलीभिर्हारभेदैः रम्याः || ५ || नीलपल्लववसनाः पुष्पपूरावतंसिकाः | गृहीतसागरापूर्णकलशाः पुरुभूषणाः || ६ || पुरुभूषणा बहुभूषणाः || ६ || धृतप्रफुल्लपद्मिन्यः सुगन्धिमुखमारुताः | नीलघुंघुमकाकल्यो निर्झरारावनूपुराः || ७ || नीलानां भ्रमरकोकिलादीनां घुंघुमा ध्वनय एव काकल्यो मधुराव्यक्तभाषितानि यासां ताः || ७ || द्युमूर्धानो महीपादा वनालीरोमराजयः | जङ्गलोरुनितम्बिन्यश्चन्द्रार्ककृतकुण्डलाः || ८ || शालिसंसारकेदाराश्चन्दनस्थालिकान्विताः | शिखरोरसिजालग्नहिमशुभ्राम्बुदांशुकाः || ९ || शाल्यादिसस्यकम्पैः संसाराः स्पन्दमानाः केदाराः क्षत्रङ्गभक्तयो यासाम् | चन्दनस्थैश्चन्दनाश्रितैरलिकैर्ललाटैरन्विताः | पर्वतशिखरलक्षणेषूरसिजेषु स्तनेष्वासमन्ताल्लग्नानि हिममिव शुभ्राण्यम्बुदांशुकानि यासाम् || ९ || महार्णवपयःपूरनवमण्डनदर्पणाः | ऋक्षौघघर्मपुलका भुवनान्तःपुरान्तराः || १० || महार्णवानां पयःपूरा एव नवमण्डनदर्शनार्था दर्पणा यासाम् | ऋक्षौघा नक्षत्रपङ्क्तय एव घर्मपुलकाः स्वेदबिन्दवो यासाम् || १० || आर्तवस्तनधारिण्यो लग्नसूर्यांशुकुङ्कुमाः | विचित्रकुसुमोपेताश्चन्द्रांशुसितचन्दनाः || ११ || आर्तवानि तत्तदृतूत्पन्नकुसुमपल्लवादीन्येव स्तनधारिण्यः कूर्पासका यासाम् || ११ || गगनगतलतादलोपविष्टः प्रसृतवनावनिवारिवाहवेषाः | त्रिभुवनवनिता ददर्श हृष्टः कुसुमनिरन्तरमण्डिता दशाशाः || १२ || गगनगताया लतायाः शाखाया दलेषूपविष्टः सन् प्रसृता विस्तीर्णा वनानि अवनयो वारिवाहाश्च वेषाः कृत्रिमाकारभेदकालंकारा यासां तथाविधास्त्रिभुवनस्थजनोपभोग्यत्वात्त्रिभुवनवनिताः दश आशा दिशो ददर्शेत्यर्थः || १२ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे दा० दाशूरदिगवलोकनं नाम पञ्चाशः सर्गः || ५० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे दाशूरदिगवलोकनं नाम पञ्चाशः सर्गः || ५० || एकपञ्चाशः सर्गः ५१ श्रीवसिष्ठ उवाच | ततःप्रभृति तत्रासौ प्रसिद्धस्तापसाश्रमे | कदम्बदाशूर इति शूरस्तपसि दारुणे || १ || मनोयज्ञैरात्मबोधो वनदेव्यां सुतोद्भवः | दाशूरस्यात्र पुत्राय ज्ञानदानं च कीर्त्यते || १ || दारुणे तपसि शूरः अपराङ्मुखः | अदोद्युक्त इति यावत् || १ || तस्म्ंल्लतादले स्थित्वा विलोक्य ककुभः क्षणात् | दृढपद्मासनं बद्ध्वा दिग्भ्यः प्रत्याहृतात्मना || २ || ककुभो दिशः | प्रत्याहृतात्मना परावर्तितेन || २ || अज्ञातपरमार्थेन क्रियामात्रे च तिष्ठता | फलकार्पण्ययुक्तेन मनसा सोऽकरोन्मखम् || ३ || नभोगतलतापत्रसंस्थितेनान्तरात्मना | सर्वाः स्वमनसा तेन कृता यज्ञक्रियाः क्रमात् || ४ || नभोगताया लतायाः शाखायाः पत्रेषु स्थितेन तेन सर्वा आधानाद्यश्वमेधान्ताः || ४ || तत्रासौ दश वर्षाणि मनसैवायजत्सुरान् | गवाश्वनरमेधाद्यैर्यज्ञैर्विपुलदक्षिणैः || ५ || कालेनामलतां याते वितते तस्य चेतसि | बलादवततारान्तर्ज्ञानमात्मप्रसादजम् || ६ || अमलतां रागादिदोषशून्यताम् | एवं प्रतिबन्धक्षये सति बलात् प्राग्जन्मकृतश्रवणसंस्कारोद्बोधबलात् || ६ || ततो विशीर्णावरणो विगलद्वासनामलः | स ददर्शिकदा तस्यां लतायामग्रतः स्थिताम् || ७ || ततो ज्ञानाद्विशीर्णाज्ञानावरणः | तदभ्यासाच्च विगलद्वासनामलो जीवन्मुक्तः सन्नित्यर्थः || ७ || वनदेवीं विशालाक्षीमालोककुसुमाम्बराम् | कामिनीं कान्तवदनां मदगूर्णितलोचनाम् || ८ || नीलोत्पलामोदवतीमतीव सुमनोहराम् | तामुवाचानवद्याङ्गीं स मुनिर्विनताननाम् || ९ || भक्तिप्रणामलज्जाभिर्विनताननाम् || ९ || कोकिलाकुसुमापूरनतां वनलतामिव | का त्वमुत्पलपत्राक्षि कान्तिविक्षोभितस्मरा || १० || कोकिलया कुसुमापूरैश्च नताम् || १० || वयस्यामिव पुष्पाढ्यां लतां किमिव तिष्ठसि | इत्युक्ते मृगशावाक्षी गौरपीनपयोधरा || ११ || लतां अवष्टभ्येति शेषः || ११ || मुनिमाह मनोहारि मुग्धाक्षरमिदं वचः | यानि यानि दुरापानि वाञ्छितानि महीतले || १२ || प्राप्यन्ते तान्ति तान्याशु महतामेव याच्ञया | अहमस्मिंल्लताकीर्णे त्वत्कदम्बाभ्यलंकृते || १३ || याञ्चया प्रार्थनया || १३ || लतालीलालया ब्रह्मन्विपिने वनदेवता | यश्चैत्रसितपक्षस्य त्रयोदश्यां स्मरोत्सवे || १४ || लताकुञ्जा एव लीलार्था आलया यस्याः | का त्वमिति प्रश्नस्योत्तरमुक्त्वा स्वागमनप्रयोजनमाह - य इत्यादिना | स्मराराधनाय प्रवर्तिते गीतवादित्रनाट्यबलिभोज्याद्युत्सवे || १४ || बभूव वनदेवीनां समाजो नन्दने वने | तत्राहमगमं नाथ त्रैलोक्यललनासदः || १५ || त्रैलोक्यस्थानां ललनानां वनदेवीनां सदः समाजम् || १५ || तत्र दृष्टा मया सर्वा वयस्या मदनोत्सवे | अपुत्रया पुत्रयुतास्तेनाहं दुःखिता भृशम् || १६ || तेनापुत्रत्वेन || १६ || त्वयि सर्वार्थसार्थस्य बृहत्कल्पतरौ स्थिते | अनाथेव कथं नाथ किल शोचाम्यपुत्रिका || १७ || सर्वेषामर्थानां पुरुषार्थानां सार्थस्य सङ्घस्य | अजन्तुसंघे सार्थशब्दो गौणः || १७ || देहि मे भगवन्पुत्र नो देद्देहमिहाग्नये | प्रकरोम्याहुतिं पुत्र दुःखदाहोपशान्तये || १८ || दाहोपशान्तयैति मानसदाहापेक्षया शरीरदाहः [दाहदुःखमल्पमिति पाठः] सुखायत इति भावः || १८ || तामित्युक्तवतीं तन्वीं विहस्य मुनिपुङ्गवः | प्राह हस्तगतं पुष्पं तस्यै दत्त्वा दयान्वितः || १९ || दयान्वितो नतु धैर्याच्च्युत इति भावः || १९ || गच्छ तन्वङ्गि मासेन पूजार्हमलिलोचनम् | प्रसोष्यसे सुतं कान्तं प्रसूनमिव सल्लता || २० || पूजार्हं जगत्पूज्यम् || २० || किंत्वसौ मरणावेशयायिन्या नस्त्वया सुतः | याचितः कृच्छ्रं संप्राप्य ज्ञाता तेन भविष्यति || २१ || कृच्छ्रं प्राणसंकटं संप्राप्य मरणावेश आत्मघातसंकल्पस्तेन यायिन्या आगतया त्वया नः अस्मत्तो याचितस्तेन हेतुना ज्ञाता तत्त्वज्ञः | नत्वन्यवनदेवीपुत्रवदसौ भोगलम्पट इत्यर्थः || २१ || इत्युक्त्वा स मुनिस्तन्वीं प्रसन्नमुखमण्डलाम् | परिचर्यां करोमीति प्रार्थनोत्कां व्यसर्जयत् || २२ || परिचर्यां संगमसेवाद्युपचारम् || २२ || सा जगामात्मसदनं सोऽतिष्ठत्स्वात्मना सह | अवहत्क्रमशः काल ऋतुसंवत्सराङ्कितः || २३ || स्वात्मना सहेत्यसहाय इति यावत् | अवहत् अतिचक्रमे || २३ || अथ दीर्घेण कालेन सैवोत्पलविलोचना | द्वादशाब्दमुपादाय सुतं मुनिमुपाययौ || २४ || सा प्रणम्योपविश्याग्रे मुनिमिन्दुसमाननम् | उवाच कलया वाचा चूतद्रुममिवालिनी || २५ || अलिनी भ्रमरी || २५ || अयं स भगवन्भव्यः कुमारः पुत्र आवयोः | कृतो मया समग्राणां कलानां किल कोविदः || २६ || कलानां वेदादिसर्वविद्यानाम् || २६ || प्रभो केवलमेतेन ज्ञानं नाधिगतं शुभम् | येन संसारचक्रेऽस्मिन्न पुनः परिपीड्यते || २७ || ज्ञानं ब्रह्मविद्या || २७ || ज्ञानं त्वमेवास्य विभो कृपयोपदिशाधुना | को हि नाम कुले जातं पुत्रं मौर्ख्येण योजयेत् || २८ || मौर्ख्येणेति | इतरविद्यानामतत्त्वविषयत्वादविद्यात्वमेवेति न मौर्ख्यनिस्तारस्ताभिरिति भावः || २८ || एवं वदन्तीं स मुनिः सच्छिष्यमबले सुतम् | इहैव स्थापयैनं त्वमित्युक्त्वा तां व्यसर्जयत् || २९ || सच्छिष्यमुत्तमशिष्यगुणसंपन्नम् || २९ || तस्यां गतायां स पितुरन्तेवासितया तया | अतिष्ठत्संयतो धीमानर्कस्येवारुणः पुरः || ३० || अन्तेवासितया गुरुशुश्रूषणव्रतेन संयतः स्थिरनियमः सन् | अरुणो गरुडाग्रजः || ३० || कदर्थः प्राप्य विज्ञानं ततश्चित्राभिरुक्तिभिः | चिरकालमसौ तत्र मुनिः पुत्रमबोधयत् || ३१ || कदर्थः शुश्रूषाव्रतचर्यादिक्लेशैः कदर्थितः सन् विज्ञानं उपायभूतशास्त्रजन्यं परोक्षज्ञानं प्राप्य स्थित इति शेषः | ततस्तदनन्तरं तं पुत्रं चिरकालं अबोधयत् | अपरोक्षीभावायोपदिदेशेत्यर्थः | अथवा पिता प्राक्तपःकदर्थितः सन् विज्ञानं प्राप्य पुत्रोऽप्येवं कदर्थितो माभूदिति स्वयमबोधयदित्यर्थः || ३१ || आख्यायिकाख्यानशतैर्दृष्टान्तैर्दृष्टिकल्पितैः | तथेतिहासवृत्तान्तैर्वेदवेदान्तनिश्चयैः || ३२ || स्वोपलब्धार्थकथानिबन्धा आख्यायिकाः | पराख्यानादिकथानिबन्धा आख्यानानि | तेषां शतैः | दृष्टिकल्पितैः साम्यदर्शनकल्पितैर्भारतादीतिहासप्रसिद्धैर्वृत्तान्तैः निश्चयैः सिद्धान्तैः || ३२ || अनुद्वेगितया नित्यं विस्तरेण कथाक्रमैः | अनुभूतिमुपारूढै रूढिमेति यथा मयि || ३३ || मयि प्रत्यगात्मनि रूढिं व्युत्पत्तिदार्ढ्यं यथा धिया पुत्र एति प्राप्नोति तथा इतिहासदृष्टान्तादिभिरबोधयदिति पूर्वत्रान्वयः || ३३ || अनुभववशतो रसातिरिक्तै- रलमुचितार्थवचोगणैर्महात्मा | जलद इव शिखण्डिनं पुरःस्थं तनयमबोधयदम्बरे महर्षिः || ३४ || अनुभवः स्वात्मबोधचमत्कारस्तद्वशतः सर्वरसेभ्योऽतिरिक्तैरतिशयितैः | उचितः परमपुरुषार्थरूपत्वादवश्यबोधार्हः अर्थो येषां तथाविधैर्वचोगणैः | जलदपक्षे अनुभववशतः श्रवणमात्रेण शिखण्डिनां प्रीतिजननादन्यरसाधिकैः | उचितः शिखण्डिनीसहनृत्याद्यर्थो येभ्यस्तथाविधैर्वचोगणैर्गर्जितसमूहैः | अम्बरे वृक्षाग्रे अन्तरिक्षे च || ३४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे दाशूरो० दाशूरसुतानुबोधनं नामैकपञ्चाशः सर्गः || ५१ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे दाशूरसुतानुबोधनं नामैकपञ्चाशत्तमः सर्गः || ५१ || द्विपञ्चाशः सर्गः ५२ श्रीवसिष्ठ उवाच | कदाचिदथ मार्गेण तेन कैलासवासिनीम् | अहं स्नातुमदृश्यात्मा व्योमवीथीगतोऽगमम् || १ || खोत्थस्य राज्ञश्चरितं कल्पयित्वेह वर्ण्यते | संकल्पकल्पितं विश्वं मिथ्यैवेति विवक्षया || १ || तेन दाशूरकदम्बोपलक्षितेन मार्गेण | कैलासवासिनीं मन्दाकिनीमिति शेषः || १ || निर्गत्य नभसः सप्तमुनिमण्डलकोटरात् | रात्रौ प्राप्तोऽस्मि सुमते दाशूरतरुमुन्नतम् [मूलतः इति पाठः तत्र सार्वविभक्तिकस्तसिः] || २ || सप्तर्षिमण्डलं कोटरमिवैकदेशो यस्य तथाविधान्नभसो द्युलोकाकाशात् || २ || यावच्छृणोमि विटपकुहरात्कानने वचः | कुड्मलाम्भोजलग्नस्य षट्पदस्येव निःस्वनम् || ३ || यावदिति साकल्ये निपातः || ३ || शृणु पुत्र महाबुद्धे वस्तुतोऽस्य समामिमाम् | वर्णयामि महाश्चर्यामेकामाख्यायिकां तव || ४ || यद्वचः श्रुतं तदेवाह - शृणु पुत्रेत्यादिना | अस्य संसारस्य समामुपमानभूताम् || ४ || अस्ति राजा महावीर्यो विख्यातो भुवनत्रये | नाम्ना खोत्थ इति श्रीमाञ्जगदाक्रमणक्षमः || ५ || खात् अव्याकृताकाशात् कालत्रयेऽपि जगच्छून्याद्ब्रह्माकाशाद्वा उत्थः उत्तरसर्गेऽस्य व्याख्या मूले स्पष्टेति न विस्तरेणात्र व्याख्यायते || ५ || अस्यानुशासनं सर्वे भुवनेष्वपि नायकाः | शिरोभिर्धारयन्त्युच्चैश्चडामणिमिवार्थिनः || ६ || नायका ईश्वरा ब्रह्मादयोऽपि | अर्थिनो धनिनः || ६ || यः साहसैकरसिको नानाश्चर्यविहारवान् | केनचित्त्रिषु लोकेषु न महात्मा वशीकृतः || ७ || यस्यारम्भसहस्राणि सुखदुःखप्रदान्यलम् | संख्यातुं केन शक्यन्ते कल्लोला जलधेरिव || ८ || यस्य वीर्यं सुवीर्यस्य न शस्त्रैर्न च पावकैः | केनचिद्भुवने क्रान्तमाकाशमिव मुष्टिना || ९ || क्रान्तमभिभूतमनुसृतं वा || ९ || यदीयां विततारम्भां लीलां निर्माणभासुराम् | न मनागनुवर्तन्ते शक्रोपेन्द्रहरा अपि || १० || अल्पेऽपि प्रयोजने बहुतरकल्पनासहस्रसंकुलत्वाद्विततारम्भाम् | स्वप्नमनोरथादिनिर्माणैर्भासुराम् | अनुवर्तन्ते अनुकर्तुं शक्नुवन्तीति यावत् || १० || त्रयस्तस्य महाबाहो देहा विहरणक्षमाः | जगदाक्रम्य तिष्ठन्ति ह्युत्तमाधममध्यमाः || ११ || सात्त्विकराजसताअमसभेदात्त्रयः | विहरणक्षमाः सर्वव्यवहारक्रीडासमर्थाः || ११ || व्योमन्येवातिवितते जातोऽसौ त्रिशरीरकः | तत्रैव च स्थितिं यातः शब्दपातश्च पक्षिवत् || १२ || व्योमन्यव्याकृताकाशे | यथा पक्षी व्योमन्येवाण्डपिण्डगरुन्मयदेहत्रयात्मकः क्रमाज्जातः सर्वतः परिभवशङ्की निःसारपिप्पलादिफलास्वादलोलुपः शब्दमात्रादुत्पतति नत्वर्थतत्त्वं विमृशति तद्वदयमपि स्थूलसूक्ष्मकारणात्मकत्रिशरीरको व्योमनि ब्रह्माकाशे जातः सन् सर्वतो भीतस्तुच्छविषयासक्तो विधिनिषेधशब्दानुपाती भ्रमतीत्यर्थः || १२ || तत्रैवापारगगने नगरं तेन निर्मितम् | चतुर्दशमहारथ्यं विभागत्रयभूषितम् || १३ || नगरं ब्रह्माण्डरूपं चतुर्दशलोकात्मकमहारथ्यं चतुर्दशविद्यात्मकरथ्यामार्गविभक्तं च | एवं कर्मकरणव्युत्पत्तिभ्यां विभागत्रयेण त्रिलोकात्मना त्रययात्मना च भूषितम् || १३ || वनोपवनमालाढ्यं क्रीडाशिखरिसुन्दरम् | मुक्तालताविवलितवापीसप्तकभूषितम् [विगलित इति पाठः] || १४ || वनानां नन्दनादीनाम् | शिखरिभिर्मेर्वादिभिः | वापीसप्तकं समुद्राः || १४ || शीतलोष्णात्मकाक्षीणदीपद्वयविराजितम् | ऊर्ध्वाधोगतिरूपेण वणिङ्मार्गेण संकुलम् || १५ || दीपद्वयं चन्द्रसूर्यौ | शास्त्रीयैः कर्मभिरूर्ध्वगतिरशास्त्रीयैरधोगतिरित्येवंरूपेण || १५ || तस्मिन्नेवातिविपुले पत्तने तेन भूभृता | संसारिणो विरचिता मुग्धापवरका गणाः || १६ || संसारिणो जङ्गमाः | मुग्धा विषयव्यामूढा अपवरकवदात्माकाशपरिच्छेदकत्वादपवरका देवमानुषादिदेहगणाः || १६ || ऊर्ध्वं केचिदधः केचित्केचिन्मध्ये नियोजिताः | केचिच्चिरेण नश्यन्तः केचिच्छीघ्रविनाशिनः || १७ || असितच्छादनच्छन्ना नवद्वारविभूषिताः | अनारतवहद्वाता बहुवातायनान्विताः || १८ || असितैश्छादनैः केशतृणैश्छन्नाः | बहुभिर्वातायनैरूर्ध्वच्छिद्रैः || १८ || दीपपञ्चकसालोकास्त्रिस्थूणाः शुक्लदारवः | मसृणालेपमृदवः प्रतोलीभुजसंकुलाः || १९ || दीपपञ्चकैर्ज्ञानेन्द्रियैः सालोकाः सप्रकाशाः - ऊरू कसेरुका [कसेरुका = पृष्ठास्थि] चेति तिस्रः स्थूणाः स्तम्भा येषाम् | शुक्लान्यस्थीन्येव वंशदारुस्थानीयानि येषु | मसृणैः स्निघैरालेपमृत्तिकास्थानीयैश्चर्मभिः | प्रतोल्यो रथ्यास्तद्रूपैर्भुजैः संकुलाः || १९ || मायया रचितास्तेन राज्ञा तेषु महात्मना | रक्षितारो महायक्षा नित्यमालोकभीरवः || २० || तेषां अपवरकाणां अभिमानेन रक्षितारो यक्षाः कार्यकरणैः पूज्याः स्वामिभूता अहंकाराः | आलोकादात्मविवेकाद्भीरवः | ततस्तत्क्षयादित्यर्थः || २० || अथापवरकौघेषु चलत्सु स महीपतिः | करोति विविधां क्रीडां नीडेष्विव विहङ्गमः || २१ || चलत्सु व्यवहारवत्सु स महीपतिः संकल्पात्मा जीवः || २१ || त्रिशरीरशतेष्वन्तस्तैर्यक्षैः सह पुत्रक | लीलावशमुषित्वा तु पुनर्निर्गम्य गच्छति || २२ || लीलाभिरवशमस्वाधीनं यथा स्यात्तथेत्युषित्वा निर्गम्य चेत्युभयान्वयि || २२ || तस्येच्छा जायते वत्स कदाचिच्चलचेतसः | पुरं भविष्यन्निर्माणं किंचिद्यामीति निश्चला || २३ || भविष्यन्निर्माणं अविद्यमानं स्वप्नादिजगत् | निश्चला यावत्तद्भोगं स्थिरा || २३ || भूताविष्ट इवावेगात्तत उथाय धावति | पुरं तदप्यथाप्नोति [तदायमाप्नोति इति पाठः] गन्धर्वैरिव निर्मितम् || २४ || आवेगान्निद्राद्यावेशात् उत्थाय जाग्रद्देहाद्यभिमानं त्यक्त्वा धावति | स तत्र बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव इति श्रुतेः गन्धर्वैर्निर्मितं पुरं गन्धर्वनगरमिव मिथ्याभूतमित्यर्थः || २४ || तस्येच्छा जायते पुत्र कदाचिच्चलचेतसः | विनाशं संप्रयामीति तेनाशु स विनश्यति || २५ || विनाशं संकल्पलयावस्थां सुषुप्तिम् | विनश्यति कारणाविद्यायां कर्मबीजसंस्कारशेषं करकवद्विलीयते || २५ || पुनरुत्पद्यते तूर्णं [पुर्णं इति पाठः] स्वात्मनोर्मिरिवाम्भसः | व्यवहारं तनोत्युच्चैः पुनरारम्भमन्थरम् || २६ || स्वात्मना पूर्वस्वभावेनैव | स एवाहमिति सुषुप्तोत्थितस्य प्रत्यभिज्ञानुभवादिति भावः || २६ || स्वयैव व्यवहृत्याथ कदाचित्परिभूयते | किंकरोस्म्यहमज्ञओऽस्मि दुःखितोऽस्मीति शोचति || २७ || परिभूयते शत्रुरोगदारिद्र्यादिभिः || २७ || मुदमेत्य कदाचिच्च स्वयमायाति दीनताम् | प्रावृड्वर्षकलोल्लासपूरादिव नदीरयः || २८ || मुदं पूर्वानुभूतसुखमेत्य अतिक्रम्य स्मृत्वा वा || २८ || जयति गच्छति वल्गति जृम्भते स्फुरति भाति न भाति च भासुरः | सुत महामहिमा स महीपतिः पतिरपामिव वातरयाकुलः || २९ || हे सुत महात्मा स पूर्वोक्तो महीपतिः सति पराभिभवसामर्थ्ये परान् गच्छति जयति च संपदः प्राप्य जृम्भत्ते स्फुरति संचलति भाति च जाग्रत्स्वप्नयोः सुषुप्तिप्रलयसमाधिमुक्तिषु न भाति च | अन्तर्गतेनात्मज्योतिषा भासुरः अत एव महामहिमा अपां पतिः समुद्र इव || २९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे दाशूरो० खोत्थविभववर्णनं नाम द्विपञ्चाशः सर्गः || ५२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे खोत्थविभववर्णनं नाम द्विपञ्चाशः सर्गः || ५२ || त्रिपञ्चाशः सर्गः ५३ श्रीवसिष्ठ उवाच | अथापृच्छत्सुतस्तत्र जम्बूद्वीपे महानिशि | कदम्बाग्रावचूडस्थं पितरं पावनाशयम् || १ || खोत्थाख्यानस्य तात्पर्यं विस्तरेणेह वर्ण्यते | संकल्पकथितं विश्वमित्युक्तार्थे निदर्शनम् || १ || कदम्बस्याग्रे अवचूड उत्तंस इव स्थितमित्युपमितसमासः || १ || पुत्र उवाच | कोऽसौ खोत्थ इति ख्यातो भूपस्तातोत्तमाकृतिः | कथितं च किमेतन्मे त्वयेति ब्रूहि तत्त्वतः || २ || क्व भविष्यति निर्माणं वर्तमाने क्व गम्यता | उभयार्थविरुद्धत्वान्मन्मोहाय वचस्तव || ३ || यथाश्रुतार्थे तात्पर्यं नास्ति किंतु अन्यत्र तात्पर्यमिति त्वया कुतो ज्ञातमिति चेत् पुरं भविष्यन्निर्माणं किंचिद्यामीति निश्चला इत्याद्युक्तौ भविष्यत्त्ववर्तमानत्वयोर्यौगपद्यविरोधाद्यनन्वितार्थकत्व##- दाशूर उवाच | शृणु पुत्र यथाभूतमेतत्ते कथयाम्यहम् | येन संसारचक्रस्य तत्त्वमस्यावबुध्यसे || ४ || अवबुध्यसे अवभोत्स्यसे || ४ || असदप्युत्थितारम्भमवस्तुमयमाततम् | संसारसंस्थानमिदमेवमाकथितं मया || ५ || असतः परमार्थसत्ताशून्यादेवाज्ञानादभ्युद्यतारम्भं अत एवावस्तु माया तन्मयम् | एवमस्यार्थस्य बोधनाय आकथितं पारोक्ष्येण वर्णितम् || ५ || परमान्नभसो जातः संकल्पः खोत्थ उच्यते | जायते स्वयमेवासौ स्वयमेव विलीयते || ६ || संकल्पः संकल्पप्रधानं मनः | समष्टिव्यष्टिमनसोरेकीकारेण खादव्यक्ताकाशादुत्थ इति व्युत्पत्त्या खोत्थ उच्यत इत्यर्थः | स्वयमेव स्वसंकल्पजन्यप्रवृत्तिवासनोद्भवादेव जायते निवृत्तिवासनादार्ढ्याच्च स्वयमेव लीयत इत्यर्थः || ६ || तत्स्वरूपमिदं सर्वं जगदाभोगि विद्यते | जायते तत्र जाते तु तस्मिन्नष्टे विनश्यति || ७ || तत्स्वरूपं तत्परिणामः | उक्तार्थं तदन्वयव्यतिरेकानुविधानप्रदर्शनेन द्रढयति - जायत इति || ७ || ब्रह्मविष्ण्विन्द्ररुद्राद्यांस्तस्यैवावयवान्विदुः | विटपानिव वृक्षस्य शृङ्गाणीव महीभृतः || ८ || ननु ब्रह्मविष्ण्वादिभ्यः सकाशाज्जगदुत्पन्नमिति श्रुतं तत्कथमन्यस्मादुच्यते तत्राह - ब्रह्मेति | विटपान्स्कन्धान् || ८ || शून्ये व्योमनि तेनेदं निर्मितं त्रिजगत्पुरम् | प्रतिभासानुसंधानमात्रेणैत्य विरिञ्चिताम् || ९ || शून्ये त्रैकालिकजगदभाववति व्योमनि ब्रह्मणि | अचेतनस्यास्य कुतो निर्माणशक्तिरिति चेदधिष्ठानचैतन्यानुग्रहेण चेतनविरिञ्च्याकारताप्राप्तेरित्याह - प्रतिभासेति || ९ || यत्रेमे विततालोका लोककोशाश्चतुर्दश | वनोपवनमालाश्च यत्रोद्यानपरम्पराः || १० || तदेव त्रिजगत्पुरं प्राग्वर्णितमित्याह - यत्रेत्यादिना | विततालोकाः सूर्यादिप्रभादीप्ताः | प्रसिद्धवनोपवनमाला यत्र उद्यानपरम्परा वर्णिता इत्यर्थः || १० || क्रीडाशिखरिणो यत्र सह्यमन्दरमेरवः | शीतोष्णदीप्ती चन्द्रार्कौ दीपौ यत्रानलाकृती || ११ || अनलाकृती दीप्यमानौ | अनिलाक्षतौ इति पाठे स्पष्टम् || ११ || सूर्यांशुकचदालोलतरङ्गोत्तुङ्गमौक्तिकाः | वहन्ति सरितो यत्र सन्मुक्तावलयश्चलाः || १२ || मुक्तालताविवलितवापीसप्तकभूषितमित्युक्तेरर्थमाह [विगलित इति पाठः] - सूर्येति | तरङ्गाणां मुक्तासाम्ये उपपत्तिः सूर्यांशुकचदालोलत्वम् || १२ || इक्षुक्षीरादिसलिला मणिरत्नविसाङ्कुराः | और्वानलाम्बुजा यत्र वाप्यः सप्त महार्णवाः || १३ || मणिरत्नानि मणिश्रेष्ठा एव बिसाङ्कुरा यासु | और्वानला वडवाग्नय एव अम्बुजानि यासु | यत्र नगरे || १३ || अध उर्व्यां तथोर्ध्वे खे पुण्यापुण्यधनश्रियः | नरामरकिराटानां यत्रान्तः क्रयविक्रयौ || १४ || ऊर्ध्वाधोगतिरूपेण वणिज्मार्गेण संकुलमिति यदुक्तं तस्यार्थमाह - अध इति | पुण्यान्यपुण्यानि पापानि च धनश्रियो येषां तेषां नराणां कर्मोपासनाधिकारिणामार्याणाममराणां च देवान् भावयतानेन ते देव भावयन्तु वः इति भगवदुक्तन्यायेन पुण्यतत्फलक्रयविक्रयौ | किराटानां प्रत्यन्तदेशवासिनां कर्माधिकारबहिष्कृतानां पापतत्फलस्थावरतिर्यगादिभिः परस्परोपकारबाहुल्यात्क्रयविक्रयौ बोध्यौ || १४ || तस्मिन्नेव जगत्यस्मिन्पुरे संकल्पभूभृता | क्रीडार्थमात्मनश्चित्रा देहापवरकाः कृताः || १५ || संसारिणो विरचिता मुग्धापवरका गणा इत्युक्तेस्तात्पर्यमाह - तस्मिन्नेवेत्यादिना || १५ || केचिद्गीर्वाणनामान ऊर्ध्व एव नियोजिताः | नरनागादयः केचिदध एव नियोजिताः || १६ || वातयन्त्रप्रवाहेण चलन्तो मांसमृन्मयाः | सितास्थिदारवश्चित्रास्त्वग्लेपमसृणामलाः || १७ || वातयन्त्राणि प्राणास्तत्प्रवाहेण | मांसान्येव मृदस्तद्विकाराः | सितान्यस्थीन्येव दारूणि यत्र | त्वचो लिप्यन्ते यैस्तैलोद्वर्तनादिभिस्ते त्वग्लेपास्तैर्मसृणाश्चिक्कणा अमलाश्च || १७ || केचिच्चिरेण नश्यन्ति केचिच्छीघ्रविनाशिनः | केचित्केशोलपोल्लासरचिताच्छादनश्रियः || १८ || केशलक्षणानां उलपानां तृणविशेषाणां उल्लासेन रचिता आच्छादनश्रीर्येषामिति असितच्छादनच्छन्ना इत्युक्तेर्विवरणम् || १८ || कर्णाक्षिनासाप्रमुखैर्द्वारैर्नवभिरन्विताः | अनारतवहत्प्राणपवनेनोष्णशीतलाः || १९ || नवद्वारविभूषिता इत्युक्तिं विवृणोति - कर्णेति | अनारतवहद्वाता इत्युक्तिं विवृणोति - अनारतेति | प्राणस्योष्णत्वमपानस्य च शीतत्वं प्रत्यक्षसिद्धम् || १९ || कर्णनासास्यताल्वादिवातायनगणान्विताः | भुजाद्यङ्गप्रतोलीकाः पञ्चेन्द्रियकुदीपकाः || २० || बहुवातायनान्विता इत्यादि विवृणोति - कर्णनासेत्यादिना | कुदीपकेति विवरणेन दीपपञ्चकेत्यत्र संघार्थे जातः कन् तन्त्रेण कुत्सामपि द्योतयतीति तात्पर्यं सूचितम् || २० || मायया रचितास्तेषु संकल्पेन महामते | अहङ्कारमहायक्षाः परमालोकभीरवः || २१ || रक्षितारो महायक्षा इत्येतद्विवृणोति - माययेति | परमालोकभीरव इत्यस्य परमात्मदर्शनेन हृदयग्रन्थ्यात्मकाहङ्कारक्षयश्रुतेः परमस्यालोकनाद्भीरवो बिभ्यत इति तात्पर्यमित्यर्थः || २१ || देहापवरकेष्वन्तर्महाहङ्कारयक्षकैः | सह संक्रीडतेऽत्यर्थं स सदैवासदुत्थितैः || २२ || यथा कुसूले मार्जारो भस्त्रायां भुजगो यथा | मुक्ताफलं यथा वेणावहङ्कारस्तथा तनौ || २३ || ननु देह एवाहङ्कारो नान्यो नेत्याह - यथेति || २३ || क्षणमभ्युदयं यान्ति क्षणं शाम्यन्ति दीपवत् | देहगेहेषु संकल्पतरङ्गाः सागरेष्विव || २४ || संक्रीडनप्रकारमाह - क्षणमिति | संकल्पस्य तरङ्गा वृत्तयः || २४ || भविष्यन्नवनिर्माणं स व्याप्नोति तदा पुरम् | यदा संकल्पितं वस्तु क्षणादेव प्रपश्यति || २५ || तस्येच्छा जायते इत्यादेस्तात्पर्यं पुत्रोक्तविरोधपरिहारेण वर्णयति - भविष्यदिति || २५ || असंकल्पनमात्रेण स्वेनैवाशु विनश्यति | श्रेयसे परमायस्य नाशत्वेन तु संभवः || २६ || तेनाशु स विनश्यतीत्यस्य तात्पर्यमाह - असंकल्पनेति | जाग्रत्स्वप्नावस्थयोः परं अत्यन्तं आयस्य भ्रमणप्रयुक्तमायासं प्राप्य श्रेयसे विश्रान्तिसुखाय असंकल्पनमात्रेण सुषुप्तौ नाशत्वेन प्रविलयेन कारणीभूताविद्यामात्रभावेन संभवः सत्तेत्यर्थः | अथवा नानाजन्मकोटिष्वायस्य दैवान्निर्विण्णः शास्त्राचार्यसमाध्यभ्यासादिबलादात्मतत्त्वसाक्षात्कारे सति संकल्पमूलोच्छेदादेवासंकल्पनमात्रेण श्रेयसे मोक्षाय संभवो निर्वृतिः | परमायास्य इति पाठे तु अस्य संकल्पस्य नाशत्वेन वासनाक्षयप्रयुक्तशून्यभावेन संभवः अभिनिष्पत्तिः परमाय श्रेयसे भवतीति सर्वत्र शेषः || २६ || स्वयं संकल्पनामात्रं जायते बालयक्षवत् | अनन्तायात्मदुःखाय नानन्दाय कदाचन || २७ || पुनरुत्पद्यते इत्युक्तेस्तात्पर्यमाह - स्वयमिति || २७ || इदं स्फारं जगद्दुःखं प्रतनोत्यात्मसत्तया | असत्तया नाशयति घनमान्ध्यं यथा तमः || २८ || स्वयैव दुःखदायिन्या चेष्टया परिरोदिति | काष्ठावष्टब्धवृषणः कीलोत्पाटी कपिर्यथा || २९ || किं करोमित्यादिशोकोक्तेर्बीजमाह - स्वयैवेति | दुःखदायिन्यां निषिद्धाचरणाभिमानादिरूपया | काष्ठावष्टब्धेत्युत्पत्तिप्रकरणे व्याख्यातम् || २९ || संकल्पितानन्दलवस्तिष्ठत्युद्धरकन्धरम् | अकस्मात्प्रच्युतमधुबिन्दुभुक्करभो यथा || ३० || करभो गर्दभः | अनेन विषयसुखमपि रासभस्य मधुलेहनवदतिदुर्लभं किं पुनर्मोक्षसुखमिति ध्वनितम् || ३० || क्षणं विरतिमायाति रतिमेति क्षणं स्वयम् | क्षणं विकारमायाति संकल्पेनैव बालवत् || ३१ || एनं सकलभावेभ्यः कृत्वा निर्मूलमादरात् | मतिरन्तःपदं याति यथा पुत्र तथा कुरु || ३२ || खोत्थाख्यायिकावर्णनप्रयोजनमाह - एनमिति | सकलभावेभ्यः सर्वबाह्यवस्तुभ्यः परावृत्त्य समाध्यभ्यासेन तत्त्वज्ञानेन च निर्मूलं निर्वासनाऽज्ञानं कृत्वा मतिः अन्तःपदं प्रत्यग्भूतं ब्रह्म यथा यात्यवलम्ब्य विश्राम्यति तथा कुर्वित्यर्थः || ३२ || त्रयस्तस्या मतेर्देहा अधमोत्तममध्यमाः | तमःसत्त्वरजःसंज्ञाः कारणं जगतः स्थितेः || ३३ || प्राग्ये त्रयो देहा उक्तास्तान्प्रपञ्चयति - त्रय इति | मतेः संकल्पात्मनो मनसः || ३३ || तमोरूपो हि संकल्पो नित्यं प्राकृतचेष्टया | परां कृपणतामेत्य प्रयाति कृमिकीटताम् || ३४ || प्राकृतचेष्टया स्वाभाविकप्रवृत्त्या परां कृपणतां नरकेषु प्रसिद्धम् | कृमिकीटग्रहणं स्थावरादीनामप्युपलक्षणम् || ३४ || सत्त्वरूपो हि संकल्पो धर्मज्ञानपरायणः | अदूरकेवलीभावं स्वाराज्यमधितिष्ठति || ३५ || ज्ञानमत्रोपासनं शास्त्रीयप्रवृत्तिनियम इति यावत् | अदूरकेवलीभावं संनिहितमोक्षं स्वाराज्यं हैरण्यगर्भभावान्तदेवतापदम् || ३५ || रजोरूपो हि संकल्पो लोकसंव्यवहारवान् | परितिष्ठति संसारे पुत्रदारानुरञ्जितः || ३६ || लोकसंव्यवहारो मनुष्यजन्मना तद्योग्यव्यवहारस्तद्वान् || ३६ || त्रिविधं तु परित्यज्य रूपमेतन्महामते | संकल्पः परमायाति पदमात्मपरिक्षये || ३७ || परं पदं मोक्षम् | आत्मपरिक्षये आत्यन्तिकसंकल्पोच्छेदे सति || ३७ || सर्वा दृष्टीः परित्यज्य नियम्य मनसा मनः | सबाह्याभ्यन्तरार्थस्य संकल्पस्य क्षयं कुरु || ३८ || तर्हि संकल्पक्षये क उपायस्तमाह - सर्वा इति | दृष्टीर्बाह्यार्थदर्शनानि बाह्येन्द्रियाणि वैराग्येण निरुध्येति यावत् || ३८ || यदि वर्षसहस्राणि तपश्चरसि दारुणम् | यदि वा विलयात्मानं शिलायां चूर्णयस्यलम् || ३९ || ननु संकल्पक्षयो दुष्करः अन्य एवोपायो मोक्षार्थमुपदिश्यतां नेत्याह ##- यदि वाग्निं प्रविशसि वडवाग्निमथापि वा | यदि वा पतसि श्वभ्रे खड्गधाराजवे तथा || ४० || हरो यद्युपदेष्टा ते हरिः कमलजोऽपि वा | अत्यन्तकरुणाक्रान्तो लोकनाथोऽथवा यतिः || ४१ || लोकनाथो यतिः श्रीदत्तात्रेयो दुर्वासा वा अत्यन्तकरुणाक्रान्तः सन्नुपदेष्टा स्यात् | अथवा अत्यन्तकरुणाक्रान्त इति विशेषणस्वारस्यादात्यन्तिकाहिंसोपदेष्टा बुद्धोऽत्र यतिः | तस्यात्र ग्रहणं त्ववैदिकमार्गेष्वपि मोक्षप्रत्याशावारणार्थम् || ४१ || पातालस्थस्य भूस्थस्य स्वर्गस्थस्यापि तत्तव | नान्यः कश्चिदुपायोऽस्ति संकल्पोपशमादृते || ४२ || अनाबाधेऽविकारे च सुखे परमपावने | संकल्पोपशमे यत्नं पौरुषेण परं कुरु || ४३ || सच संकल्पोपशमो ब्रह्मस्वरूप एवेत्याशयेन विशिनष्टि - अनाभाध इत्यादि | परं यत्नं साधनचतुष्टयसंपत्तिश्रवणमनननिदिध्यासनलक्षणम् || ४३ || संकल्पतन्तावखिला भावाः प्रोताः किलानघ | छिन्ने तन्तौ न जाने ते क्व यान्ति विशरारवः || ४४ || ननु संकल्पमात्रोच्छेदेन सर्वजगद्बन्धनिवृत्तिः कुतस्तत्राह - संकल्पेति | तर्हि ते नष्टा भावाः क्व यान्ति तत्राह - न जाने इति | आरोपितभावानामधिष्ठाने बाधेऽन्यत्र [बोधे इति क्वचित्पठ्यते] गमनाप्रसिद्धेरिति भावः || ४४ || असत्सत्सदसत्सर्वं संकल्पादेव नान्यतः | संकल्पं सदसच्चैवमिह सत्यं किमुच्यताम् || ४५ || नन्वियं संकल्पादिसर्वभावनिवृत्तिरसती सती सदसती वा | आद्ये मोक्षासिद्धिर्द्वितीये मोक्षेऽपि द्वैतापत्तिस्तृतीये पाक्षिकबन्धद्वैतयोरवारणमिति न मोक्षे निर्व्रणतासिद्धिरित्यादिदोषगणानेकोक्त्या परिहरति - असदिति | सदसत्त्वादयः सर्वे विकल्पाः संकल्पादेव सहभावैरुत्पन्नाः संकल्पमेव सदसच्चेत्येवं विकल्पितुं न शक्नुवन्ति इह परमार्थसत्यसंकल्पं ब्रह्म न स्पृशन्तीति किं वाच्यम् | कार्याणां यत्र स्वसङ्गिनि कारणेऽप्यान्तरे कुण्ठीभावस्तत्र किं वाच्यमसङ्गे परमात्मनीति भावः || ४५ || संकल्प्यते यथा यद्यत्तत्तथा भवति क्षणात् | मा किंचिदपि तत्त्वज्ञ संकल्पय कदाचन || ४६ || निःसंकल्पो यथाप्राप्तव्यवहारपरो भव | चिदचेत्योन्मुखत्वं हि याति संकल्पसंक्षये || ४७ || उत्थाय सत्त्वरूपेण योन्या सत्यमयात्मकम् | न तज्जगद्दुःखमिदं व्यर्थं सदृशमात्मनः || ४८ || ननु मोक्षसंपादने का क्षतिस्तत्राह - उत्थायेति | सत्यमयात्मकं सत्यैकस्वभावं ब्रह्म असत्यमायावशात् योन्या सुरनरतिर्यगादिचतुरशीतियोनिद्वारेण सत्त्वरूपेण तत्तत्प्राणिभेदरूपेणोत्थाय व्यर्थमेव जगद्दुःखमनुभवति इदमात्मनः स्वस्य न सदृशं न युक्तमित्यर्थः || ४८ || तेन दुःखाय महते किं मृतेन तवानघ | यददुःखाय तत्प्राज्ञाः संश्रयन्तीह नेतरत् || ४९ || तेन नानायोनिजन्मना निमित्तेन दुःखाय दुःखार्थं मृतेन पुनःपुनर्मरणेन च तव किं फलम् || ४९ || अधिगतपरमार्थतामुपेत्य प्रसभमपास्य विकल्पजालमुच्चैः | अधिगमय पदं तदद्वितीयं विततसुखाय सुषुप्तचित्तवृत्तिः || ५० || तर्हि मया किं कार्यं तत्राह - अधिगतेति | त्वं अधिगतपरमार्थतां तत्त्वज्ञतामुपेत्य प्राप्य प्रसभं मूलोच्छेदबलाद्विकल्पजालमपास्य यदद्वितीयं पदं मोक्षाख्यं तद्विततसुखाय निरतिशयानन्दावाप्तये अधिगमय स्वप्रयत्नेन साधयेत्यर्थः | मुखं व्यादाय स्वपितीतिवत्पूर्वकालत्वारोपेण ल्यप् || ५० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थिति० दाशूरो० संसारनगरविकल्पयोगविचारो नाम त्रिपञ्चाशः सर्गः || ५३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे संसारनगरविकल्पयोगविचारो नाम त्रिपञ्चाशत्तमः सर्गः || ५३ || चतुःपञ्चाशः सर्गः ५४ पुत्र उवाच | कीदृशस्तात संकल्पः कथमुत्पद्यते प्रभो | कथं च वृद्धिमाप्नोति कथं चैष विनश्यति || १ || संकल्पस्य यथोत्पत्तिर्यद्रूपं घनता यथा | येनोपायेन चोच्छेदस्तत्सर्वमिह कीर्त्यते || १ || प्रश्नः स्पष्टः || १ || दाशूर उवाच | अनन्तस्यात्मतत्त्वस्य सत्तासामान्यरूपिणः | चितश्चेत्योन्मुखत्वं यत्तत्संकल्पाङ्कुरं विदुः || २ || लेशतः प्राप्तसत्ताकः स एव घनतां शनैः | याति चित्तखमापूर्य दृढजाड्याय मेघवत् || ३ || चेत्योन्मुखत्वं यत्प्राङ्मन इति व्याख्यातं तदेव संकल्पवृक्षस्याविद्याबीजोद्भवं [बीजोद्भेदं इत्यपि पाठः] प्रथमाङ्कुरं विदुरित्यर्थः | चित्तखं तमेव चित्ताकाशं आपूर्य सर्वतो व्याप्य दृढजाड्याय अधिष्ठानचितश्चित्स्वभावतातिरोधानेन जडप्रपञ्चाकारसंपत्तये इति यावत् || ३ || भावयन्ती चितिश्चेत्यं व्यतिरिक्तमिवात्मनः | संकल्पतामुपायाति बीजमङ्कुरतामिव || ४ || एवं समष्टिसंकल्पाज्जगदुद्भवमुक्त्वा तथैव बुद्ध्यहंकारप्राणेन्द्रियदेहाद्याकारव्यष्टिसंकल्पोत्पत्तिमाह - भावयन्तीति || ४ || संकल्पेन हि संकल्पः स्वयमेव प्रजायते | वर्धते स्वयमेवाशु दुःखाय न सुखाय तु || ५ || ततो मूलाङ्कुराच्छाखाङ्कुराणामिव बाह्यविषयाकारसंकल्पपरमपराभिर्वृद्धिं दुःखान्तामाह - संकल्पेनेति || ५ || संकल्पमात्रं हि जगज्जलमात्रं यथार्णवः | ऋते संकल्पमन्या ते नास्ति संसारदुःखिता || ६ || काकतालीययोगेन संजातोऽस्ति मुधैव हि | मृगतृष्णाद्विचन्द्रत्वमिवासत्यं च वर्धते || ७ || ननु निर्विकाराद्वये वस्तुनि कथं निर्बीजजगदुद्भवस्तत्राह - काकतालीयेति | विवर्तवादाश्रयेण चायं दोषः परिहार्य इत्याशयेनाह - मृगतृष्णेति || ७ || निगीर्णमातुलिङ्गस्य कनकप्रत्ययो यथा | स्वयमभ्येत्यसत्योऽन्तः संकल्पस्ते तथा हृदि || ८ || पूर्वानुभूतविषयवासनोद्बोधाद्धेया जगद्भ्रान्तिरित्याशयेनाह - निगीर्णेति | मातुलिङ्गं फलविशेषः | तद्धि चाक्षुषं पित्तमुद्दीपयच्छुक्ले पीतभ्रमं जनयति || ८ || असत्यमेव जातस्त्वमसत्यमपि वर्तसे | अस्मिञ्ज्ञाते च विज्ञाने ह्यसत्यं संविलीयते || ९ || अस्मिन्मदुपदेशात्मके विज्ञायते अनेनेति विज्ञाने शास्त्रे || ९ || असौ सोऽहमिमे भावाः सुखदुःखमया मम | व्यर्थमेवेति नानास्था येनान्तः परितप्यसे || १० || असौ यो वेदान्तेषु प्रसिद्धः पूर्णात्मा सः अहमेव मम इमे सुखदुःखमया जन्मादिभावा व्यर्थं मिथ्यैव इत्यनास्था येनाज्ञानेन हेतुना नास्ति तेन परितप्यसे || १० || असन्नेवास्य जातोऽसि कुतो जन्मविलासतः | व्यर्थमेवावमूढोऽसि संकल्पवशतः स्वतः || ११ || अस्य जन्मादेः संबन्धी कदाप्यसन्नेव भ्रान्त्या जातोऽसि | विलासतस्तात्त्विकपूर्णतालक्षणस्वविलसनात्तु कुतो जन्म || ११ || मा संकल्पय संकल्पं भावं भावय मा स्थितौ | एतावतैव भावेन भव्यो भवति भूतये || १२ || तर्ह्यस्य भ्रमस्य निवृत्तौ क उपायस्तमाह - मा संकल्पयेति | पूर्वानुभूतं सुखदुःखादिभावं सांप्रतिकस्थितौ मा भावय मा स्मर | स्मृतेर्हि पूर्वभावे तदुपादानहानाद्यर्थसंकल्पोदयः स्यादेवेति भावः || १२ || संकल्पनाशयत्नेन न भयान्यनुगच्छति | भावनाभावमात्रेण संकल्पः क्षीयते स्वयम् || १३ || तथाच संकल्पक्षयात्सर्वभयक्षयः | पूर्वभावाभावनाच्च संकल्पक्षय इति क्रमः सिद्ध इत्याह - संकल्पेति || १३ || सुमनःपल्लवामर्दे किंचिद्व्यतिकरो भवेत् | सुसाध्यो भावमात्रेण नतु संकल्पनाशने || १४ || अयमुपायोऽत्यन्तसुकर इति प्रशंसति - सुमन इत्यादिना | सुमनसां शिरीषादिपुष्पाणां पल्लवस्य दलस्यामर्दने कश्चिच्चासौ व्यतिकरश्च किंचिद्व्यतिकरः प्रयत्नः सुसाध्यः सुकरोऽपि भवेत् संभावितो नतु अभावोऽभावना तन्मात्रेण साध्ये संकल्पनाशने तत्संभावनेत्यर्थः || १४ || पुष्पाक्रान्तौ करस्पन्दयत्नः पुत्रोपयुज्यते | तदप्युपकरोत्यस्मिन्न संकल्पपरिक्षये || १५ || उक्तमेव व्याचष्टे - पुष्पेति | तदपि सोऽपि तावानपीति यावत् | नोपकरोति || १५ || संकल्पो येन हन्तव्यस्तेन भावविपर्ययात् | अप्यर्धेन निमेषेण लीलयैव निहन्यते || १६ || भावो भावना स्मृतिस्तस्य विपर्ययादस्मरणात् || १६ || भावमात्रोपसंपन्ने स्वात्मनि स्थितिमागते | साध्यते यदसाध्यं तत्कस्य स्यात्किमिवाङ्ग ते || १७ || ननु संकल्पक्षयाद्दुःखक्षयेऽपि निरतिशयानन्दावाप्तिः केनोपायेन साध्या तत्राह - भावेति | भावो भावना निरन्तरं स्वपूर्णानन्दात्मताचिन्तनं तन्मात्रेणोपसंपन्ने प्राप्ते स्वात्मनि स्थितिं स्वरूपाप्रच्युतिमागते सति यदसाध्यं तदपि साध्यते | नन्वसाध्यं साध्यत इति विप्रतिषिद्धं तत्राह - कस्येति | स्वतःसिद्धं तन्नापैतीत्याशयेन साध्यं स्यादित्युक्तं नतूत्पद्यत इत्याशयेन | भावानां ह्यपगमो द्वेधा | परेणापहारे वा नाशेन भावान्तरप्राप्तौ वा | हे अङ्ग ते तव आत्मा अन्येनापह्रियमाणः कस्य स्यात् | नह्यद्वितीयात्मनोऽन्यः प्रसिद्धः विनश्यन्वा किमिव स्यात् | घटो हि विनश्यन् कपालं भवति | आत्मा तु किं स्यात् | यत्स्यात्तन्न नष्टेन द्रष्टुं शक्यम् | नचात्मान्यो द्रष्टास्ति | तस्मादात्मनाशो निःसाक्षिको न सिद्ध्यत्येवेत्यात्मरूपो मोक्षः स्वतः सिद्धो नापैष्यतीत्यर्थः || १७ || संकल्पेनैव संकल्पं मनसा स्वमनो मुने | छित्त्वा स्वात्मनि तिष्ठ त्वं किमेतावति दुष्करम् || १८ || असंकल्पनसंकल्पेनैव सर्वसंकल्पं आत्मतत्त्वमननरूपेण मनसैव स्वमनश्छित्त्वेत्यर्थः || १८ || उपशान्ते हि संकल्पे उपशान्तमिदं भवेत् | संसारदुःखमखिलं मूलादपि महामते || १९ || उक्तोपायद्वयेन मूलादप्युपशान्ते सति दुःखमपि मूलादुपशान्तं भवेदित्यर्थः || १९ || संकल्पो हि मनो जीवश्चित्तं बुद्धिः सवासना | नाम्नैवान्यत्वमेतेषां नार्थेनार्थविदां वर || २० || ननु संकल्पे उपशान्तेऽपि जीवचित्तवासनादिवशाद्दुःखं स्यादेवेत्याशङ्क्य तेषां संकल्पेऽन्तर्भावमाह - संकल्प इति || २० || संकल्पनादृते नेह किंचिदेवास्ति कुत्रचित् | तमेव हृदयाच्छिन्धि किमेतत्परिशोचसि [किमन्यत् इति पाठः] || २१ || यथैवेदं नभः शून्यं जगच्छून्यं तथैव हि | असन्मयविकल्पोत्थे उभे एते तते यतः || २२ || ननु संकल्पस्यैव जीवजगदात्मकत्वे तत्क्षये नैरात्म्यलक्षणशून्यतापत्तिः नहि जीवान्य आत्मा नामास्तीत्याशङ्क्याह - यथैवेति | मरुमरीचिकाच्छेदेऽपि न मरुभूः शून्यात्मिका यथेदं निदर्शनं तथा जगज्जीवादिदृश्यमात्रबाधेऽपि न दृग्रूप आत्मा शून्यात्मकः | एते मरीचिकाजगती उभे समे तते आरोपणविस्तृते || २२ || असिद्धं सर्वमेवैतदसिद्धेनैव साधितम् | संकल्पेन जगद्यस्माद्भावना क्वावतिष्ठताम् || २३ || ननु बाधितमपि भावनया पुनः स्यादित्याशङ्क्याह - असिद्धमिति बाधितेऽर्थे भावनैव नावतरतीत्यर्थः || २३ || (सत्यास्थायामसत्यां [इदमर्धमधिकं क्वचित्] तु किंनिष्ठा वासना भवेत् |) भावनाक्षयतः सिद्धिस्ततः प्राप्यं न शिष्यते | तस्मादसदिदं सर्वं विज्ञेयं हेलयेद्धया || २४ || तस्माज्जगन्मिथ्यात्वदर्शनं भावनोच्छेदार्थिना प्रथमं साध्यमित्याशयेनाह - भावनेति | इद्धया अभ्यासदृढीकृतया | हेलया दृश्यावहेलनया || २४ || तनुभावनया तेन सुखदुःखैर्न लिप्यते | अवस्त्विति च निर्णीय स्नेहास्था न प्रवर्तते || २५ || तेन दृश्यावहेलनेन तनुभावनया देहात्मताप्रतिसंधानेन प्रागुक्तैः सुखदुःखैः | तनुसंबन्धिपुत्रमित्राद्यप्यवस्त्विति विज्ञाय तेषु स्नेहास्था च न प्रवर्तत इत्यर्थः || २५ || आस्थाक्षये न जायेते हर्षामर्षौ भवाभवौ | तस्मादसदिदं सर्वं सुखदुःखादिविभ्रमैः || २६ || मनो जीवः स्फुरत्युच्चैर्मानसं नगरं जगत् | भविष्यद्वर्तमानं च भूतं च परिवर्तयन् || २७ || मन एव चित्प्रतिबिम्बाज्जीवः सन् जगल्लक्षणं मानसं नगरं परिवर्तयन् रचयन् परिणमयन् विनाशयंश्च स्फुरतीत्यर्थः || २७ || वासनावलितं लोके स्फुरच्छक्ति मनः स्थितम् | करोति स्वाशयेनेमां व्यवस्थां मलिनश्चलः || २८ || कुतस्तथा परिवर्तयन्स्फुरति तत्राह - वासनेति | यतोऽस्य मनोविषयसंबन्धात्तत्तद्वासनाभिरावलितमधिष्ठानचित्संबन्धा##- प्रागुक्तां रचनादिव्यवस्थां करोतीत्यर्थः || २८ || आत्मनः सदृशीं लीलां जीवो हृद्वनमर्कटः | दीर्घमाकारमादाय निमेषाद्याति ह्रस्वताम् || २९ || तर्हिष्टमेव कुतो न करोति अनिष्टं च कुतः करोति तत्राह - आत्मन इति || २९ || ग्रहीतुं च न शक्यन्ते संकल्पजलवीचयः | मनाग्दृष्टा विवर्धन्ते ह्रसन्ति सपरिच्छदाः || ३० || कुतोऽस्य वृद्धिह्रासौ तत्राह - ग्रहीतुमिति | नियन्तुमित्यर्थः | दृष्टाः विषयदर्शनोद्बुद्धः | विषयदर्शनस्मरणत्यागे तु सपरिवारा ह्रसन्ति || ३० || तृणमात्रेण दीप्यन्ते संकल्पा वह्निशेषवत् | जगत्यप्रकटाकाराः प्रदीप्ताः क्षणभङ्गुराः || ३१ || तृणमात्रेण तृणसदृशेनाल्पेनापि विषयेणेति यावत् | वह्निशेषोऽग्निकणः | जगतीत्याद्युत्तरान्वयि || ३१ || भ्रमदा जडसंस्थानाः संकल्पास्तडिदग्नयः | यदेवासन्मयं पुत्र तदेवाशु चिकित्सितुम् || ३२ || भ्रमदाः स्थाण्वादौ चोरादिभ्रान्तिहेतवः जडेषु विषयेषु लडयोरभेदान्मेघजलेषु च संस्थानं येषाम् | इत्थं कीदृशस्तात संकल्पः इत्यादिप्रश्नानामुत्तरमुपवर्ण्य कथं चैष विनश्यति इति चरमप्रश्नस्योत्तरं विवक्षुर्वर्णितस्य संकल्पस्य सुचिकित्स्यतामाह - यदेवेत्यादिना | असन्मयं असत्याज्ञानविकारभूतम् || ३२ || शक्यते नात्र संदेहो नासत्सद्भवति क्वचित् | संस्थितो यदि संकल्पो दुश्चिकित्स्यः स्वतो भवेत् || ३३ || शक्यते ज्ञानेनेति शेषः | संस्थितः परमार्थभूतो यदि भवेत् || ३३ || किंत्वसद्भूत एवैष सुचिकित्स्यस्तदा भवेत् | अकृत्रिमं चेत्संसारमलमङ्गारकार्ष्ण्यवत् || ३४ || जगत्सत्यतापक्षे तु आत्मनोऽपि जगदविशेषान्मलिनस्वभावत्वापत्तौ ज्ञानेन सत्यनिरास एव सर्वप्रमाणविरुद्ध इत्यनिर्मोक्षप्रसङ्गः | विरुद्धस्याप्यभ्युपगमे अङ्गारकार्ष्ण्यस्य सशेषक्षालने मलिनस्यैव परिशेषो निःशेषक्षालने तु शून्यावसानतेतिवत्पुरुषार्थो परिशेषश्चेत्याशयेनाह - अकृत्रिममिति | कृतिर्मिथ्याकल्पना तया निर्वृत्तं कृत्रिमं तद्भिन्नमकृत्रिमं सत्यम् || ३४ || तदेतत्क्षालने साधो कः प्रवर्तेत दुर्मतिः | किंत्वेतत्तण्डुलेष्वेव तुषकञ्चुकवत्स्थितम् || ३५ || तुषकञ्चुकं यथा अतण्डुलभूतमेव तण्डुले निरस्यते तद्वदसदेव सति निरस्यमित्यर्थः || ३५ || यतस्ततः प्रयत्नेन पौरुषेण विनश्यति | अकृत्रिममपि प्राप्तं भृशं पुत्र तथा पुनः || ३६ || कृतिः कारणव्यापारस्तया निर्वृत्तं कृत्रिमं तद्भिन्नं अनादिभूतमपीत्यर्थः | डुकृञो ङ्वितः क्रिः क्रेर्मम्नित्यम् इति निर्वृत्तार्थे मप् || ३६ || सुखोच्छेद्यतया ज्ञस्य संसारमलमाततम् | तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिमा || ३७ || ज्ञस्य तत्त्वविदः सुखेन अनायासेनैव उच्छेद्यतया उच्छेदार्हतया आततं विस्तीर्णम् | अनाद्यज्ञानजस्यातिविस्तीर्णस्य च रजतस्वप्नादिविभ्रमस्य प्रबोधमात्रेणोच्छेददर्शनादिति भावः | असंभावनाविपरीतभावनादिमलं तु ज्ञानभूमिकाभ्यासलक्षणपुरुषप्रत्यत्नेनापि नश्यतीत्याशयेनाह - तण्डुलस्येत्यादिना || ३७ || नश्यति क्रियया पुत्र पुरुषस्य तथा मलम् | नश्यत्येव न संदेहस्तस्मादुद्यमवान्भव || ३८ || असत्कल्पैर्विकल्पैर्यत्संसारो न जितो मुधा | स्तोकेनाशु लयं याति क्वासद्वस्तु चिरं स्थितम् || ३९ || असत्कल्पैर्विकल्पैरुपलक्षितः संसारो यदेतावन्तं कालं त्वया न जितस्तन्मुधैवोपायापरिज्ञानादित्यर्थः || ३९ || असत्यामेति संसारः स्वव्यवस्थां विचारतः | दीपालोकादिबान्धस्य द्विन्दुत्वं स्वीक्षितादिव || ४० || असत्यां स्वव्यवस्थां स्वनिष्ठां बाधामिति यावत् | अन्धस्य तमस्तिरोभूतचक्षुषो दीपालोके सति आन्ध्यमिवेति शेषः || ४० || नासौ तव न चास्य त्वं भ्रान्तिं पुत्र परित्यज | असत्ये सत्यवद्दृष्टे भावना मा स्म हीदृशः || ४१ || असौ संसारः | हि यस्मादसत्ये सत्यवद्दृष्टे सति ईदृशः एतादृशस्य भावना पुनश्चिन्ता मा स्म न खलु युक्तेति शेषः || ४१ || मम गुरुविभवोज्ज्वला विलासा इति तव मास्तु वृथैव विभ्रमोऽन्तः | त्वमपि च वितताश्च ते विलासा विलसति सर्वमिदं तदात्मतत्त्वम् || ४२ || मम संसारिस्वभावस्य एते गुरुभिर्महद्भिर्विभवैः संपद्भिरुज्ज्वला दीप्यमाना भोगविलासाः सत्याः शाश्वताश्चेति विभ्रमस्तव मास्तु | त्वं संसारी अपि च ते विलासाश्चकारादन्यदपि जननमरणादिदृश्यमात्रं तदात्मतत्त्वमेव तथा विलसति न दृश्यरूपं सदन्यदस्तीत्यर्थः || ४२ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे दाशूरो० संकल्पचिकित्सा नाम चतुःपञ्चाशः सर्गः || ५४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे संकल्पचिकित्सा नाम चतुःपञ्चाशः सर्गः || ५४ || पञ्चपञ्चाशः सर्गः ५५ श्रीवसिष्ठ उवाच | इत्याकर्ण्य तदा तत्र रात्रावालपनं द्वयोः | अहं रघुकुलाकाशशशाङ्क रघुनन्दन || १ || दाशूरेण वसिष्ठस्य पूजितस्य मिथः कथाः | कदम्बशोभावीक्षात्र प्रातर्यानं च वर्ण्यते || १ || आलपनं व्यक्तसंभाषणम् || १ || पतितः खात्कदम्बाग्रे पत्रपुष्पफलाकुले | तूष्णीं निर्वृष्टमुक्तात्मा शृङ्गाग्र इव तोयदः || २ || स्वात्तूष्णीं निःशब्दं पतितोऽवतीर्णः | निर्वृष्टेन वृष्टिजलवेषेऽन मुक्तः अधोवतारित आत्मा येन तोयदेन || २ || अपश्यं तत्र दाशूरं शूरमिन्द्रियनिग्रहे | परेण तपसा युक्तं तेजसेव हुताशनम् || ३ || तेजोभिर्देहनिष्क्रान्तैः काञ्चनीकृतभूतलम् | तापयन्तं प्रदेशं तं भुवनं भास्करो यथा || ४ || तापयन्तं भासयन्तम् [त्रासयन्तं इति पाठः] || ४ || मामथालोक्य संप्राप्तं दाशूरोऽर्घसपर्यया | वितीर्णविष्टरं पत्रपूजया पर्यपूजयत् || ५ || वितीर्णो विष्टर आसनं यस्मै तम् | पत्रग्रहणं पुष्पफलादीनामप्युपलक्षणम् || ५ || ततः पूर्वकथास्तेन सह दाशूर भास्वता | कृतास्तनयसंबोधाः संसारोत्तरणक्षमाः || ६ || पूर्वकथाः प्राक्प्रसुतब्रह्मचर्चाः | तनयं सम्यग्बोधयन्तीति तनयसंबोहाः | कर्मण्यण् | गतिकारकोपपदानां कृद्भिः सह समासवचने कृद्ग्रहणे गतिपूर्वकस्यापि ग्रहणात्सोपसर्गेण सह समासः || ६ || दृष्टवांस्तमहं वृक्षं कोरकोत्तरकोटरम् | दाशूरस्येच्छया सर्वैरयतद्भिर्मृगव्रजैः || ७ || अयतद्भिः अव्याकुलयद्भिरिति यावत् || ७ || सेव्यमानं वनमिव लतामण्डलमण्डितम् | स्मितेन विस्फुटमिव श्वसनस्फुरितच्छदम् || ८ || तं कदम्बं वधूश्लिष्टवरवेषेण वर्णयति - स्मितेनेत्यादिना | यतः कोरकोत्तरकोटरं श्वसनस्फुरितपल्लवं च अत एव स्मितेन स्फुटमिव स्थितम् || ८ || लताकोटिगतैर्भ्रान्तैश्चामरैरिन्दुसुन्दरैः | शुभ्राभ्रखण्डनिकरैः शरन्नभ इवावृतम् || ९ || लतानां कोटिषु शाखाग्रेषु गतैः संक्रान्तैश्चामरैश्चमरपुच्छैः || ९ || प्रालेयकणपद्धत्या मुक्तावल्याभ्यलंकृतम् | सर्वावयवमेवाच्छपुष्पपूरैः प्रपूरितम् || १० || सर्वावयवं अभिव्याप्येति शेषः || १० || स्वरेणुचन्दनालेपैः समालब्धमखण्डितम् | स्वच्छदाभोगविपुलरक्ताम्बरपरिच्छदम् || ११ || समालब्धं लिप्तम् | स्वस्य च्छदाभोगैः पल्लवविस्तारैर्विपुला रक्ताः शोणा अम्बरपरिच्छदा अन्तरीयोत्तरीयकञ्चुकोष्णीषादयो यस्य || ११ || विवाहायेव वेषेण पुष्पभारातिभारिणा | लताङ्गनानुषक्तेन नागरेण कृतोपमम् || १२ || मुनिबद्धोटजाकारलतामण्डपमण्डितम् | मञ्जरीभिः पताकाभिर्युक्तं पुरमहोत्सवे || १३ || मुनिभिर्बद्धानामुटजानामाकार इवाकारो येषां तैर्लतामण्डपैर्मण्डितम् | पुरमहोत्सवे पताकाभिर्युक्तं अर्थात्पुरमिवेत्यनुषज्यते | पुरमिवोत्सवे इति पाठः साधुः || १३ || मृगकण्डूयनध्वस्तपुष्पधूलिविधूसरम् | प्रोत्सारितोपान्तवनं वृषमल्लमिवोत्थितम् || १४ || मृगकण्डूयनकम्पेन ध्वस्तैः स्खलितैः पुष्पधूलिभिर्विधूसरम् | प्रोत्सारितं स्वोत्कर्षेण न्यग्भावितं उपान्तवनं येन | वृषमल्लं वृषश्रेष्ठम् || १४ || बर्हिभिः कुसुमोद्वान्तपरागपरिपाटलैः | निक्षेपक्षिप्तसंध्याभ्रबालवालमिवाचलैः || १५ || बर्हिभिर्मयूरैः | अचलैः पर्वतैर्निक्षेपभूताः क्षिप्ताः स्थापिताः संध्याभ्रपोतलक्षणा वालाः स्वकेशा यस्मिंस्तथाविधमिवेत्युत्प्रेक्षा || १५ || प्रवालारुणहस्तेन कुसुमस्मितशोभिना | मधुना घूर्णमानेन प्रान्तेन पुलकत्विषा || १६ || इदानीमलिनेत्रेण भासिनेत्यन्तैः साधारणैर्विशेषणैर्विलासिपुरुषरूपेण कदम्बं वसन्तं वनदेवीवृन्दं वा वर्णयंस्तदालयत्वेन तं वर्णयति - प्रवालेत्यादिना | तत्राद्यकल्पे स्वेन स्वदेहेनेति वा विशेष्यमन्तेऽध्याहार्यम् | मधुना श्लेषान्मकरन्देन मद्येन च मदेनेव घूर्णमानेन | प्रान्तेनार्थात्केसरपूर्णेन हेतुना पुलकशोभावता || १६ || नीरन्ध्रपुष्पपूर्णेन घूर्णितेन वनानिलैः | निद्रालुकुड्मलदृशा स्तबकस्तनधारिणा || १७ || नीरन्ध्रं निरन्तरं पुष्पैः पूर्णेन | लतास्तबकस्तनान्धारिणा पल्लवकरैः परामृशता || १७ || पुष्पजालरजःपुञ्जकुङ्कुमारुणवाससा | लताविताननिलयवातायननिषङ्गिणा || १८ || लतारचितवितानलक्षणानां निलयानां गृहाणां वातायनेषु प्रासादगवाक्षद्वारकेषु निषङ्गिणा अनुरक्तेन || १८ || नीलपुष्पलतादोलालीलालास्यविलासिना | आपादमस्तकप्रान्तं सर्वतो निर्मितालयम् || १९ || नीलासु स्निग्धहरितच्छदासु पुष्पयुक्तलतादोल्सासु लीलालास्ये कौतुकान्दोलनविषये विलासिपुरुषभूतेन | कोकिलालापशालिना वनदेवीनां वृन्देन वृतेनेति वा पाठयोरन्यतरदध्याहार्यम् | ईदृशेन स्वेन स्वदेहेन वा आपादमस्तकप्रान्तं सर्वतः सर्वेऽवयवाः निर्मिता आलयाः पुष्पफलपक्ष्यादिभूषणाश्रया येन तम् | द्वितीये उक्तविशेषणगणवता मधुना वसन्तेन सर्वतः सर्वदा सर्वाङ्गे निर्मितालयमिति योज्यम् | तृतीयेऽपि उक्तविशेषणगणवता वनदेवीनां वृन्देन सर्वतो निर्मितालयमिति परेण सह योज्यमिति || १९ || वृन्देन वनदेवीनां कोकिलालापशालिना | संदिग्धमञ्जरीजालमलिनेत्रेण भासिना || २० || अलीनां पर्यायेण लताकदम्बमञ्जरीषूपवेशनात्किमेतानि लतानेत्राणि उत कदमनेत्राणीति संदेहास्पदीभूतमञ्जरीजालयुक्तमित्यर्थः | अथवा वनदेवीनामलिसदृशनेत्रेण वृन्देन किमेतानि वनदेवीनां नेत्राण्युत भ्रमरयुता मञ्जर्य इति संदिग्धमञ्जरीजालमिति योज्यम् || २० || अवश्यायोपशमितरतिखेदैर्मदालसैः | पुष्पधूलिसमालब्धैराश्लिष्टैर्निबिडं मिथः || २१ || पुष्पधूलिभिः समालब्धैर्लिप्तैः | मिथः अन्योन्यं रहसि च निबिडमाश्लिष्टैः || २१ || पुष्पान्तरान्तःपुरगैः किमपि प्रणयोचितम् | ध्वनद्भिरभितः स्वच्छमत्तालियुगलैर्वृतम् || २२ || पुष्पस्यान्तरो गर्भ एवान्तःपुरम् | मत्तालीनां युगलैर्मिथुनैः || २२ || काननोपान्तनगरीगुंगुमाकर्णनेच्छया | क्षणमुत्कर्णमाशान्तचारुवर्वणटांकृतैः || २३ || आशान्तेषु दिक्प्रदेशेषु चारुभिर्मधुरैर्वर्वणानां नीलमक्षिकाणां निवेदकपुरुषस्थानीयानां टांकृतैर्ध्वनिभिः काननोपान्तलक्षणायाः स्वनगर्या घुंघुमस्य मृगपक्ष्याद्याक्रोशस्याकर्णनेच्छया क्षणं उत्कर्णमूर्ध्वीकृतकर्णमिव स्थितमित्यर्थः || २३ || क्षणं दलाग्रविश्रान्तमुग्धमुग्धशिरस्तया | पश्यद्भिरिन्द्वंशुकवज्जालामर्णवमेखलाम् || २४ || दलाग्रेषु पल्लवेषु उपधानस्थानीयेषु निद्रावेशाच्चापलाच्च क्षणं विश्रान्तानि मुघ्दमुग्धानि दर्शनीयतमानि शिरांसि येषां तद्भावेन | इन्दुना अंशुकवन्ति किरणपटैराच्छादितानि वनाद्यवयवजालानि यस्यास्तथाविधामर्णवमेखलां भूमिं निशापगमप्रतीक्षया पश्यद्भिः || २४ || वनस्थलीनां तनयैर्नयैर्मूर्तिमिवास्थितैः | शुभैः पत्रपुटेष्वन्तर्मृगैः सारतलान्तरम् || २५ || वनस्थलीनां तनयैः पुत्रभूतैर्मुनिप्रभावान्मूर्तिमाश्रितैर्नयैर्विनयैरिव स्थितैः पत्रपुटेषु पर्णजालोदरेषु अन्तर्लीनैर्मृगैः शाखामृगादिभिः साराः शोभमानाः सार्थकीभूताश्च तलमधोभूभाग आन्तराः शाखाद्यवयवाश्च यस्य तम् || २५ || नीडश्वसत्सुविश्वस्तसुप्तमात्रकपक्षिणम् | पाकच्युतफलोपान्तभूतकञ्चुकमण्डली || २६ || नीडेषु श्वसन्तः मुनिप्रभावनिर्भयत्वात्सुविश्वस्तं यथा स्यात्तथा सुप्तमात्रकाः | अज्ञातेकन् | सुप्तत्वादलक्ष्यमाणा इति यावत् | पक्षिणो यत्र तम् | पूर्वं भ्रमराविष्टेषु दैवात्पाकवशादधश्च्युतेषु फलेषु उपान्तस्थितमृगादिभूतैः कञ्चुकवत्सर्वतो व्याप्तमण्डलीभ्यो भक्षणोपमर्दादिशङ्कया संदिग्धाः भयान्मूकाश्च भ्रमरकीटा यस्य तमित्युत्तरेण सह समासः || २६ || संदिग्धमूकभ्रमरं गुच्छैः पूजाक्षसूत्रकैः | श्यामलीकृतपर्यन्तं नीडैः पल्लवमण्डितैः || २७ || पूजापदेन तत्कालिको जपो लक्ष्यते | तत्राक्षसूत्रकल्पैः लम्बमानलतागुच्छैः सुगन्धितं अशेषं वनं येन || २७ || सुगन्धिताशेषवनं पुष्पमेघीकृताम्बरम् | धूलीकदम्बशबलफलौघवलितं तले || २८ || तले मूलभुवि धूलीकदम्बशबलैः फलौघैर्वलितं व्याप्तम् || २८ || बहुनात्र किमुक्तेन न किंचिदपि विद्यते | पत्रं यत्र तरौ यत्र नोष्यते वा न युज्यते || २९ || यत्र तरौ यत्र यस्मिन्पत्रे प्राणिभिर्नोष्यते न युज्यते नोपयुज्यते वा तादृशं पत्रमपि किंचिन्न विद्यते किं वाच्यं शाखाफलपुष्पादीत्यहोऽस्य सर्वथा परोपकारेण जन्मसार्थक्यमिति भावः || २९ || पत्रे पत्रे मृगाः सुप्ता विश्रान्ताश्च पदे पदे | कच्छे कच्छे खगा लीनास्तस्य भूरुहभूपतेः || ३० || पत्रे पत्रे | अधोगलितपत्रेषु सर्वेष्वित्यर्थः | कं अवश्यायजलं छयति छिनत्तीति कच्छः पत्राद्यधोदेशः | छो छेदने इत्यस्मादातोऽनुपसर्गे कः || ३० || एवंगुणविशिष्टं तं समालोकयतो मम | महोत्सवेन सदृशी सा बभूव तमस्विनी || ३१ || दिव्यदृशा समालोकयतः | तमस्विनीति | यद्यपि प्रागिन्द्वंशुकवज्जालामित्युक्तत्वाज्ज्योत्स्नावत्येव तथापि रात्रित्वमात्रविवक्षयैवमुक्तम् || ३१ || ततः कथाभी रम्याभिः स तस्य तनयो मया | विज्ञानालोकरम्याभिर्नीतो बोधं परं पुनः || ३२ || आवयोस्तत्र चित्राभिः कथाभिरितरेतरम् | शर्वरी सा व्यतीयाय मुहूर्त इव कान्तयोः || ३३ || मम तस्य च आवयोः | त्यदादीनि सर्वैर्नित्यम् इत्यस्मच्छब्दशेषः || ३३ || प्रातः प्रतनुतां याते पुष्पर्द्धिघनजालके | स्वर्गाङ्गनाङ्गभोगाभे तारकानिकरे शनैः || ३४ || पुष्पर्द्धिघनजालप्रतिकृतौ तारकानिकरे | इवे प्रतिकृतौ इति कन् || ३४ || आकदम्बनभोभागमुपयातं [मार्गम् इति पाठः] सुतान्वितम् | अहं विसृज्य दाशुरं ततोऽमरनदीं गतः || ३५ || उपयातमनुयातम् | ओदकान्तात्प्रियं पान्थमनुव्रजेत् इति स्मृतेः | गृहं प्रति विसृज्य निवर्त्य || ३५ || तत्राभिमतमासाद्य स्थानमेत्य नभस्तलम् | प्रविश्य खं मुनीनां च मध्यं स्वस्थ इव स्थितः || ३६ || दाशूराख्यायिकैषा ते कथिता रघुनन्दन | जगतः प्रतिबिम्बाभा सत्याकाराप्यसन्मयी || ३७ || दाशूराख्यायिकेवेयमित्येतत्कथितं मया | तुभ्यं राघव बोधाय जगद्रूपनिरूपणे || ३८ || आख्यायिकायाः प्रागुक्तां संगतिं स्मारयति - दाशूरेति || ३८ || तस्मादवास्तवीं त्यक्त्वा वास्तवीमपि रञ्जनाम् | दाशूरसिद्धान्तदृशा सदोदारो भवात्मवान् || ३९ || दाशूरोपदिष्टसिद्धान्तदृशा || ३९ || तस्माद्विकल्पं मलमात्मनस्त्वं निर्धूय पश्यामलमात्मतत्त्वम् | आसादयिष्यस्यचिरात्पदं त- द्भविष्यसीज्यो भुवनेषु येन || ४० || विकल्पं तद्धर्मिमनस्तद्धेतुभूतं मलमज्ञानं च निर्धूय | येन आसादनेन इज्यः पूज्यो भविष्यसि || ४० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे दाशूरो० वसिष्ठदाशूरमेलनं नाम पञ्चपञ्चाशः सर्गः || ५५ || इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे स्थितिप्रकरणे वसिष्ठदाशूरमेलनं नाम पञ्चपञ्चाशः सर्गः || ५५ || दाशूरोपाख्यानं समाप्तम् | षट्पञ्चाशः सर्गः ५६ श्रीवसिष्ठ उवाच | नास्तीदमिति निर्णीय सर्वतस्त्यज रञ्जनाम् | यन्नास्ति तत्प्रति किल केवास्थेह विचारिणाम् || १ || सत्तासत्ते जडस्यात्र कर्तृताकर्तृते चितः | विमृश्य सर्वथा दृश्ये रञ्जनास्था निवार्यते || १ || इदं जडं जगत् | रञ्जनामहंममेतिसंसर्गतादात्म्याध्यासलक्षणामास्थाम् | विचारिणां विवेकिनां || १ || दृश्यमानमथेदं चेदस्ति सत्तामुपागतम् | तिष्ठ स्वात्मनि बध्नासि त्वं किमत्र किलात्मताम् || २ || किं दृश्यं सदथ-सदसत् उतासदेव | पक्षत्रयेपि तत्राहंतादिरञ्जनं नोचितमित्याह - दृश्यमानमिति त्रिभिः | इदं देहादि त्वत्सत्तानिर्पएक्षसत्तामुपागतं यद्यस्तीति मन्यसे तर्हि त्वमपि तत्सत्तानिरपेक्षे असङ्गोदासीनचिद्रूपे स्वात्मनि तिष्ठ | अत्र त्वं निरपेक्षे देहादौ अधयसेनात्मतां किं बध्नासि | नचेदं तवोचितमित्यर्थः | तिष्ठत्वात्मनि इति पाठे तु यदि सत्तामुपागतमस्ति तर्हि आत्मनि स्वीयजडस्वभावे तिष्ठतु नाम | त्वमत्रेत्यादि प्राग्वत् || २ || अथ चेदस्ति नास्तीदमिति निश्चयवानसि | तथापि भावनासङ्गः कथं युक्तश्चलाचले || ३ || भावनासङ्गः प्रागुक्ताध्यासः | चलाचले सत्त्वासत्त्वयोः परस्परोच्छित्तिरूपत्वादनियतस्वभावे || ३ || नेदमस्ति जगद्राम तव नास्ति महामते | केवलं स्वच्छमेवेत्थमाततं मितमीदृशम् || ४ || अथ चेदित्यनुकृष्यते | अथ चेन्नेदं जगदस्ति तर्हि तव बन्धो नास्त्येव केवलं स्वच्छमेवात्मतत्त्वमित्थंरीत्या आततं सर्वतो विस्तीर्ण मितं प्रमितमिति नान्यरञ्जनावकाश इत्यर्थः || ४ || नेदं कर्तृकृतं किंचिन्न वा कर्तृकृतक्रमम् | स्वयमाभासते चेदं कर्त्रकर्तृपदं गतम् || ५ || किंचेदं जगत्सकर्तृकमुताकर्तृकमथ कर्त्रकर्तृसाधारणं उदासीनात्मसंनिधिमात्रलब्धस्वरूपम् | त्रिष्वपि पक्षेषु तव तद्रञ्जना न युक्तेत्याह - नेदमिति द्वाभ्याम् || ५ || अकर्तृकं जगज्जालं भवत्वथ सकर्तृकम् | मा त्वमेतेन शबलं भावयन्नास्व चेतसि || ६ || शबलं अन्योन्यतादात्म्याध्यासादैक्यमिवापन्नं भावयन् देहाद्यात्मभावं पश्यंश्चेतसि बुद्ध्युपाधिपरिच्छेदे मा आस्व न तिष्ठेत्यर्थः || ६ || सर्वेन्द्रियविहीनात्मा कर्तेव स जडोपमः | अकर्तृ च तदा मन्ये काकतालीयवज्जगत् || ७ || ननु यतो वा इमानि भूतानि जायन्ते विश्वस्य कर्ता भुवनस्य गोप्ता इत्यादिश्रुतिविरुद्धोऽयमकर्तृकत्वपक्षः कथमुत्थितः किमर्थं वा त्वयोपन्यस्तस्तत्राह - सर्वेति | यत्तदद्रेश्यमग्राह्यमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मम् | तदव्ययं यद्भूतयोनिं परिपश्यन्ति इत्यादिश्रुतिभिरसङ्गोदासीनत्वाज्जडपर्वताद्युपम आत्मा मेरुः सूर्यं परिवर्तयतीतिवत्कर्तेवोपचर्यते जगन्मिथ्यात्वव्युत्पादनायेति यदा सर्वासां सकर्तृकत्वप्रतिपादकश्रूतीनां हृदयं ज्ञातं तदेत्यर्थः || ७ || काकतालीययोगेन जातं यत्किंचिदेव तत् | तस्मिन्भावानुसंधानं बालो बध्नाति नेतरः || ८ || यत्किंचिदेव अनिर्वचनीयमेव | भावोऽहंताद्यभिमानस्तेन पुनःपुनरनुसंधानं स्मरणम् | बालो बालिशः || ८ || न कदाचिदिदं शान्तं जगद्राम न च क्षयि | अजस्रं दृश्यमानत्वाद्भावित्वाच्च पुनः पुनः || ९ || अनिर्वचनीयत्वमेव युक्त्या दर्शयति - नेत्यादिना | शान्तमत्यन्तांभावात्मकशून्यस्वभावम् | क्षयि प्रध्वंसप्रयुक्तशून्यस्वभावं च न | शून्यस्य दर्शनायोग्यत्वाज्जगतश्च सदा प्रवाहरूपेण दृश्यमानत्वाद्ध्वस्तस्योत्पत्तिविरोधाज्जगतश्च पुनःपुनरुत्पद्यमानत्वादित्यर्थः || ९ || न कदाचिदिदं चास्ति जगद्राम न च क्षयि | अजस्रं क्षीयमाणत्वानास्तित्वाच्चानुमानतः || १० || तर्ह्यात्मवत्सदा सत्स्वभावं क्षणिकसत्तास्वभावं वास्तु तत्राह - नेति | अस्ति नित्यसत्तास्वभावम् | क्षयि क्षणिकसत्तास्वभावम् | आद्ये अजस्रं प्रतिक्षणं परिणामभेदेन क्षीयमाणत्वानुभवविरोधात् | द्वितीये अनाद्यनन्तयोः पूर्वोत्तरकालयोरसतो वर्तमानत्वाभिमतक्षणेऽप्यसतः सत्त्वायोगेनासत्त्वानुमानादित्यर्थः || १० || सर्वेन्द्रियपदातीतो यदा कर्तेह विज्वरः | कुर्वाणः सर्वदा खेदं न कदाचन गच्छति || ११ || अस्तु वास्य नियतिप्रयुक्तसर्गादौ संनिधिमात्रेण कर्तृत्वं तथापि सृज्याभिमानेन तत्र खेदो न युक्त इत्याह - सर्वेन्द्रियेति द्वाभ्याम् || ११ || तेनेयं नियतिः प्रौढा भावाभावदशामयी | ईदृश्येव स्थिरा दीर्घा मिथ्योत्थापि च दृश्यते || १२ || अपर्यन्तस्य कालस्य कश्चिदंशः शरच्छतम् | तावन्मात्रमहाश्चर्यः किमर्थं सोऽनुधावति || १३ || शरच्छतं मानुषदेहजीवनपरमावधिः कालः | अनाद्यनन्तयोः पूर्वोत्तरकालयोः कदाप्यसत्त्वादत्यन्तासंभावितं तावत्कालमात्रं महदतिदृढं मनुष्यदेहात्मतालक्षणमाश्चर्यं यस्य तथाविधः सन् स सर्वेन्द्रियपदातीत आत्मा किमर्थमनुधावति | सर्वथेदमनुचितमित्यर्थः || १३ || स्थिराश्चेज्जगतां भावास्तत्त्वादास्था न शोभते | कथमन्योन्यसंश्लेषो जडचेतनयोः किल || १४ || इदानीमकर्तृकत्वपक्षे स्थिरत्वाभ्युपगमेऽप्यास्था नोचितेत्याह - स्थिरा इति | तत्त्वात् स्थिरत्वादेव हानोपादानायोग्यत्वादित्यर्थः | असङ्गचितो जडसंबन्धाघटनादपि तत्र सा अनुचितेत्याशयेनाह - कथमिति || १४ || अस्थिराश्चेज्जगद्भावास्तदप्यास्था न शोभते | पयःफेनास्थिरस्यान्ते दुःखमेषा ददाति ते || १५ || इदानीमकर्तृकास्थिरत्वपक्षेऽप्यास्था नोचितेत्याह - अस्थिरा इति | यतस्ते अस्थिरे आस्थां बध्नतः पयःफेनलक्षणस्याप्यस्थिरस्यान्ते नाशे एषा आस्था प्रसक्ता सती दुःखं ददाति दातुं प्रसज्जेतेति यावत् | तथाच पयःफेनास्थया तन्नाशे शोक उचितश्चेद्देहाद्यास्थया तन्नाशेऽपि स उचितः स्यादिति भावः || १५ || आस्थाबन्धो महाबाहो जगद्भावत्वमात्मनः | न स्थिरास्थिरयोः फेनशैलयोरिव राजते || १६ || आत्मनो जगद्भावत्वं जगत्स्वभावता | जन्मनाशादिस्वभावतेति यावत् | साच अन्योन्यतादात्म्यसंसर्गाध्यासलक्षण आस्थाबन्ध एव न तदन्यो निरूपयितुं शक्यः | सच तत्त्वविमर्शे स्थिरास्थिरपक्षयोर्द्वयोरपि न राजते | न शोभते इत्यर्थः | अथवा स्थिरास्थिरयोरात्मजगतोस्तादात्म्यलक्षण आस्थाबन्धो न राजते फेनशैलयोरिवेत्यर्थः || १६ || सर्वकर्ताप्यकर्तेव करोत्यात्मा न किंचन | तिष्ठत्येवमुदासीन आलोकं प्रति दीपवत् || १७ || ननु कर्तृत्वपक्षे कथमनास्थोपपत्तिस्तत्राह - सर्वेति | अकर्ता शैल इव | औदासीन्यांशेऽयं दृष्टान्तः | कार्यनिर्वाहात्तु कर्तेत्युच्यत इति सदृष्टान्तमाह - तिष्ठतीत्यादिना || १७ || कुर्वन्न किंचित्कुरुते दिवाकार्यमिवांशुमान् | गच्छन्न गच्छति स्वस्थः स्वास्पदस्थो रविर्यथा || १८ || दिवाकार्यं सर्वप्राणिदिनकृत्यनिर्वाहम् || १८ || यतः कुतश्चिदेवेदं संपन्नमिव लक्ष्यते | अरुणातीरवद्वारिपूरावर्तवदाततम् || १९ || नन्वादित्यो दिनकृत्यनिमित्तमात्रं कर्तारस्तु जनास्तद्भिन्ना दृश्यन्ते जगन्निर्माणे तु नान्ये कर्तारः सन्तीति वैषम्यमाशङ्क्याह - अरुणेति | अरुणाख्या नदी तस्यास्तीरं स्वभावत एव शिलाविषममुदासीनं च | वारिपूरोऽपि निम्नानुसारिस्वभावो न प्रवाहवैषम्यकर्ता | द्वयोस्तयोः सन्निधाने जायमान आवर्तो यतः कुतश्चिदेव आकस्मिकः संपन्नस्तद्वच्चिज्जडसन्निधौ जगदपीति नात्र कस्यचिच्छिरसि तत्कर्तृताभार आरोपयितुं शक्य इति भावः | आद्यो वतिरिवार्थे सप्तम्यन्तात् | द्वितीयस्तु तेन तुल्यमिति तृतीयान्तात् || १९ || इति चेद्भवता राम नैपुण्येनावधारितम् | प्रमाणपरिशुद्धेन चेतसा न विचारितम् || २० || एवं विमर्शे तु सुतरां जगत्यास्था नोचितेत्याह - इतीति त्रिभिः || २० || तथापि भावनां साधो पदार्थं प्रति नार्हसि | अलातचक्रे स्वप्ने च भ्रमे वा केव भावना || २१ || अकस्मादागतो जन्तुः सौहार्दस्य न भाजनम् | भ्रमोद्भूतं जगज्जालमास्थायास्तन्न भाजनम् || २२ || सौहार्दस्य मैत्र्याः || २२ || औष्ण्येन्दौ शीतले भानौ मृगतृष्णाजले तथा | यथा न भावयस्यास्थामेवं भावय मा स्थितौ || २३ || अनृतत्वाच्च तत्रास्था नोचितेत्याह - औष्ण्येति | यथा शीतार्त औष्ण्यभ्रान्तिगृहीते इन्दौ | तापार्तो भ्रान्तिकृतशीतले भानौ तृषार्तश्च त्वं मृगतृष्णाजले आस्थां न भावयसि एवं जगत्स्थितावपीत्यर्थः || २३ || संकल्पपुरुषस्वप्नजनद्वीन्दुत्वविभ्रमम् | यथा पश्यसि पश्य त्वं भावजातमिदं तथा || २४ || अन्तरास्थां परित्यज्य भावश्रीभावनामयीम् | योऽसि सोऽसि जगत्यस्मिंल्लीलया विहरानघ || २५ || भावश्रीः स्त्र्यादिवस्तुसौन्दर्यं तच्चिन्तनप्रचुराम् || २५ || अकर्तृत्वपदं पीत्वा पीत्वेच्छामपि कुर्वतः | सर्वभावान्तरस्थस्य सर्वातीतस्य चात्मनः || २६ || अकर्तृत्वपदं तदिच्छां अपिशब्दात्कर्तृत्वपदं तदिच्छां च पीत्वा निर्गीर्य योऽसि परिशिष्टः सोऽसीति पूर्वेणाप्यन्वयः | लीलया विहरेति यदुक्तं तद्विवृणोति - अकर्तृत्वपदमिति | कुर्वतो व्यवहारे औदासीन्येन कर्तृभूतस्य ते सन्निधिमात्रेण निरिच्छैव नियतिः परिजृम्भते | व्यवहाराकारेण प्रथते इति यावत् || २६ || इयं संनिधिमात्रेण नियतिः परिजृम्भते | दीपसंनिधिमात्रेण निरिच्छैव प्रकाशते || २७ || तत्र दृष्टान्तानाह - दीपेति | निरिच्छैव प्रभेति शेषः || २७ || अभ्रसंनिधिमात्रेण कुटजानि यथा स्वयम् | आत्मसंनिधिमात्रेण त्रिजगन्ति तथा स्वयम् || २८ || कुटजानि कुटजपुष्पाणि | उभयत्र जायन्त इति शेषः || २८ || सर्वेच्छारहिते भानौ यथा व्योमनि तिष्ठति | जायते व्यवहारश्च सति देवे तथा क्रिया || २९ || देवे परमात्मनि || २९ || निरिच्छे संस्थिते रत्ने यथालोकः प्रवर्तते | सत्तामात्रेण देवे तु तथैवायं जगद्गणः || ३० || अतः स्वात्मनि कर्तृत्वमकर्तृत्वं च संस्थितम् | निरिच्छत्वादकर्तासौ कर्ता संनिधिमात्रतः || ३१ || कर्तृत्वाकर्तृत्वोक्त्योर्बीजं दर्शयन्नुपसंहरति - अत इति || ३१ || सर्वेन्द्रियाद्यतीतत्वात्कर्ता भोक्ता न सन्मयः | इन्द्रियान्तर्गतत्वात्तु कर्ता भोक्ता स एव हि || ३२ || बीजान्तरे च दर्शयति - सर्वेति | कर्ता भोक्ता च न अकर्ता अभोक्ता चेत्युक्त इत्यर्थः || ३२ || द्वे एतामनि विद्येते कर्तृताकर्तृतानघ | ययैव पश्यसि श्रेयस्तामाश्रित्य स्थिरो भव || ३३ || कर्तृता अकर्तृता चेत्यध्याहार्यम् || ३३ || सर्वस्थोऽहमकर्तेति दृढभावनयानया | प्रवाहपतितं कार्यं कुर्वन्नपि न लिप्यते || ३४ || द्वयोरपि श्रेयस्त्वं प्रत्येकं दर्शयति - सर्वस्थ इत्यादिना || ३४ || याति नीरसतां जन्तुरप्रवृत्तेश्च चेतसः | यस्याहं किंचिदेवेह न करोमीति निश्चयः || ३५ || कथं न लिप्यते तदाह - यातीति | नीरसतां विरागम् || ३५ || भोगौघकामवांस्तत्र कः करोतु जहातु वा | तस्मान्नित्यमकर्ताहमिति भावनयेद्धया || ३६ || परमामृतनाम्नी सा समतैवावशिष्यते | अथ सर्वं करोमीति महाकर्तृतया तया || ३७ || द्वितीयकल्पस्यापि श्रेयस्त्वं दर्शयति - अथेत्यादिना || ३७ || यदीच्छसि स्थितिं राम तत्तामप्युत्तमां विदुः | अहो यन्न करोमीमं समग्रं जागतं भ्रमम् || ३८ || तत्तां तादृशीं स्थितिमपि | प्रथमकल्पे रागद्वेषाद्यप्रसक्तिं दर्शयति ##- रागद्वेषक्रमस्तत्र कुतोऽन्यस्यात्यसंभवात् | यदन्येन शरीरं तु दग्धमन्येन लालितम् || ३९ || क्रमः प्रसङ्गो मम कुतः | यतः स्यात्तस्य मदन्यस्य अत्यन्तमसंभवादित्यर्थः | अन्यसंभवात् इति पाठे तु अकर्तुरन्यस्य कर्तुरेवान्यस्य रागादेः संभवादित्यर्थः | द्वितीयकल्पेऽपि तदप्रसक्तिं दर्शयति - यदिति || ३९ || सोऽस्मदारम्भ एवातः कः खेदोल्लासयोः क्रमः | मत्सुखासुखविस्तारे जगज्जालक्षयोदये || ४० || अस्मदारम्भोऽस्मत्कृत एव अतः खेदोल्लासयोर्दुःखहर्षयोः | जगज्जालस्य क्षये उदये च अहं कर्ता || ४० || अहं कर्तेति मत्वान्तः कः खेदोल्लासयोः क्रमः | खेदोल्लासविलासेषु स्वात्मकर्तृतयैतया || ४१ || मत्वा स्थितस्येति शेषः | अस्त्वेवं तथापि कथं समतालाभस्तत्राह - स्वेदेति || ४१ || स्वयमेव लयं याते समतैवावशिष्यते | समता सर्वभूतेषु यासौ सत्या परा स्थितिः || ४२ || लयं याते यातेषु | व्यत्ययेनैकवचनं छान्दसम् || ४२ || तस्यामवस्थितं चित्तं न भूयो जन्मभाङ्मनाक् | अथवा सर्वकर्तृत्वमकर्तृत्वं च राघव || ४३ || अभ्यासदृशा दृष्टी द्वे व्युत्पाद्य परिनिष्ठितदृष्टिं दर्शयति - अथवेति || ४३ || सर्वं त्यक्त्वा मनः पीत्वा योऽसि सोसि स्थिरो भव | अहं सोऽहमयं नाहं करोमीदमिदं तु न || ४४ || एतद्दृष्टिदृशा पूर्वदृष्ट्योरल्पतां दर्शयति - अयमिति | अयं एतद्देहे प्रसिद्धो हंसः सर्वदेहात्मकसमष्टिरूप इति द्वितीयकल्पे समष्टिपरिच्छेदस्य कर्तृत्वाभिमानस्य चानपगमादपूर्णता आद्यकल्पे तु इदं देहेन्द्रियाद्यहं न अत इदं किंचिदपि न करोमीत्यध्यात्मपरिच्छेदस्य कर्तृत्वादेश्च निरासेन शोधितत्वंपदार्थमात्रनिष्ठत्वेऽपि तत्पदार्थशोधनस्य वाक्यार्थनिष्ठायाश्चालाभादपूर्णतेति दृष्टिद्वयमपि तुष्टये नेत्यर्थः || ४४ || इति भावानुसंधानमयी दृष्टिर्न तुष्टये | सा कालसूत्रपदवी सा महावीचिवागुरा || ४५ || यदि ते न तुष्टये तर्हि किमर्थमुपन्यस्ते इति चेत्सर्वानर्थमूलदेहाहंभावविमोचनोपायत्वेनोपन्यस्ते इत्याशयेन देहाहंभावस्यानर्थरूपतां सर्वथा त्याज्यतां च दर्शयति - सेत्यादिना | कालसूत्रादिच्यसिपत्रवनानि नरकभेदाः | कार्यकारणयोरायुर्घृतमितिवदमेदारोपात्सामानाधिकरण्यम् || ४५ || सासिपत्रवनश्रेणी या देहोऽहमिति स्थितिः | सा त्याज्या सर्वयत्नेन सर्वनाशेऽप्युपस्थिते || ४६ || स्प्रष्टव्या सा न भव्येन सश्वमांसेव पुष्कसी | तया सुदूरोज्झितया दृष्टौ पटललेखया || ४७ || श्वमांसेन सहिता सश्वमांसा | देहाहंमतेरपि श्वमांससदृशकामाद्यशुचिदूषितत्वादिति भावः | विशुद्धात्मदृष्टौ स्वाधिष्ठाने पटललेखावदावरणविक्षेपहेतुभूतयेति यावत् || ४७ || उदेति परमा दृष्टिर्ज्योत्स्नेव विगताम्बुदा | ययाभ्युदितया राम तीर्यते भवसागरः || ४८ || कर्ता नास्मि न चाहमस्मि स इति ज्ञात्वैवमन्तः स्फुटं | कर्ता चास्मि समग्रमस्मि तदिति ज्ञात्वाथवा निश्चयं || कोप्येवास्मि न किंचिदेवमिति वा निर्णीय सर्वोत्तमे | तिष्ठ त्वं स्वपदे स्थिताः पदविदो यत्रोत्तमाः साधवः || ४९ || इदानीं दृष्टित्रयं संगृह्य तासु स्वाधिकारानुरूपामैच्छिकीं स्थितिमुपदिशन्नुपसंहरति - कर्तेति | सः कर्तृताप्रयोजको देहादिश्चाहं नास्मि | समग्रमिति पदं तन्त्रेण द्वितीयाप्रथमान्तं देहलीदीपन्यायेन पूर्वोत्तरयोः संबध्यते | तथाच समग्रं सर्वं कर्ता अहमेवास्मि | समग्रं सर्वसमष्टिभूतं तद्ब्रह्माण्डमप्यहमेवास्मीत्यर्थः | एवं प्रसिद्धदृश्यरूपं न किंचिदस्मि किंतु कोऽप्येव लोकप्रसिद्धपरिच्छिन्नजडदुःखस्वभावात्मविलक्षणः पूर्णानन्दचिदात्मास्मीत्यर्थः | निर्णीयेत्यनेन पूर्वदृष्ट्योरप्येतत्पर्यवसानमावश्यकमिति ध्वनितम् | पदविदो ब्रह्मविदः || ४९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे कर्तृत्वविचारयोगोपदेशकरणं नाम षट्पञ्चाशः सर्गः || ५६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे कर्तृत्वयोगो नाम षट्पञ्चाशः सर्गः || ५६ || सप्तपञ्चाशः सर्गः ५७ श्रीराम उवाच | सत्यमेतत्त्वया ब्रह्मन्यदुक्तं सूक्तिसुन्दरम् | अकर्तैव हि कर्तात्मा भोक्ताभोक्तैव भूतकृत् || १ || रामप्रश्नानवसरो वासनावर्जनक्रमः | तदेकोपायसिद्धानां प्रशंसा चात्र विस्तरात् || १ || वक्ष्यमाणप्रश्नकामो रामः प्रागुक्तार्थानामनुवादप्रशंसाभ्यां स्वस्य तदवबोधं दर्शयति - सत्यमित्यादिना | तुल्यन्यायेनानुक्तमस्याभोक्तृत्वं सर्वभोक्तृत्वं चेत्येतदपि मयावयतमिति सूचयति - भोक्तेति || १ || सर्वेश्वरः सर्वगश्च चिन्मात्रममलं पदम् | स्थानं भुवि वपुर्देवः सर्वभूतान्तरस्थितः || २ || तिष्ठन्ति सर्वभूतान्यस्मिन्निति स्थानम् | यथा भुवि वपुश्चतुर्विधभूतग्रामशरीरं तिष्ठति तद्वदित्यध्याहृत्य कथंचिद्योज्यम् | स्वयं च सर्वभूतान्तरस्थितः || २ || हृदयंगमतां प्राप्तमिदानीं ब्रह्म मे विभो | त्वदुक्तिभिर्यथाम्भोदधाराभिर्भूभृदव्यथः || ३ || तथाच सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि | संपश्यन्ब्रह्म परमं याति नान्येन हेतुना | इति श्रुत्युक्तार्थस्यापि तुल्ययुक्त्यैव मयावगतत्वाद्ब्रह्म मे अनुभवपदमारूढमित्याह - हृदयंगमतामिति | यथा अम्भोदधाराभिर्भूमृत्पर्वतोऽव्यथो निरस्तग्रीष्मताप आस्ते तथा त्वदुक्तिभिरिदानीमहमासे इति शेषः || ३ || औदासीन्यादनिच्छत्वान्न भुङ्क्ते न करोति च | समग्रालोककारित्वाद्भुङ्क्ते देवः करोति च || ४ || भोक्तृत्वाभोक्तृत्वयोरविरोधेऽपि त्वदुक्तोपपत्तिस्तुल्येति मयावगतमिति दर्शयति - औदासीन्यादिति || ४ || किंत्वयं भगवन्स्फारः संशयो मे हृदि स्थितः | तं त्वं छिन्धि गिरा ब्रह्मन्दीधित्येन्दुर्यथा तमः || ५ || अयं वक्ष्यमाणप्रकारः || ५ || इदं सत्तदिदं वाऽसदयं सोऽहमिदं नतु | अयमेको द्वितीयोऽयमित्यादिकलनामयम् || ६ || प्रश्नोपयोगितया पूर्वसर्गोक्तं जगतः सत्त्वासत्त्वदृष्टिपक्षं व्यष्ट्यहंतापरित्यागेन समष्ट्यहंभावपक्षं चानूद्य पृच्छति - इदमिति | इदं जगत्सत्तदिदमसद्वा त्वदुक्तदिशा | सोऽयं प्रसिद्धः समष्टिरेवाहमिदं व्यष्टिदेहमात्रं तु न इत्येतद्वा | अयं प्रपञ्चः समष्टिदृशा एको व्यष्टिदृशा तु द्वितीयो नाना वा | इत्याद्यनियतबहुरूपकल्पनामयमेकस्मिन्नियतैकस्वभावे अध्वान्ते स्वप्रकाशत्वादेव स्वतः परिहृतमोहान्धकारे अच्छे निर्मले आत्मनि भास्करे नीहार इव विरुद्धं कथं सांप्रतं विद्यते | यदि ब्रूयाः प्रथमं मायाशबलब्रह्मोदरे स्थितमिदं सांप्रतमभिव्यक्तं विद्यत इति तत्रापि पृच्छामि - इदं प्रथममेव वा कथं स्थितम् | विरोधस्य तदानीमपि तुल्यत्वादित्यर्थः || ६ || एकस्मिन्विद्यतेऽध्वान्ते नीहार इव भास्करे | इदं प्रथममेवाच्छे कथमात्मनि संस्थितम् || ७ || श्रीवसिष्ठ उवाच | सिद्धान्तकाल एवास्य संप्रश्नस्योत्तरं स्थिरम् | कथयिष्यामि ते राम येन ज्ञास्यसि तत्त्वतः || ८ || रामवाक्यबलादेव रामस्य स्वप्रकाशप्रत्यगात्मदर्शनं तस्य सर्वशरीरेष्वेकताज्ञानं जगतोऽनिर्वचनीयताबोधश्च वृत्तो वासनाक्षयाभावात्तु सर्वसंशयमूलाविद्योच्छेदी प्रत्यगात्मब्रह्मैक्यलक्षणाखण्डाकारानुभवो न वृत्त इति निश्चित्य वसिष्ठस्तदुपायतया वासनोच्छेदोपायान्विवक्षुरस्योत्तरं वक्तुं नायमवसर इत्याह - सिद्धान्त इत्यादिना | सिद्धान्ते निर्वाणप्रकरणस्योत्तरार्धे पाषाणाख्यायिकादौ || ८ || मोक्षोपायस्य सिद्धान्तमसंप्राप्य न राघव | श्रोतुं प्रश्नोत्तराण्येतान्यलं योग्यो भविष्यसि || ९ || मोक्षोपायस्योपदेशस्य सिद्धान्तं परिनिष्ठारूपमखण्डाकारबोधम् || ९ || कान्तागीतगिरां राम तरुणो भाजनं यथा | प्रश्नानामुत्तमोक्तीनां पुण्यकृद्भाजनं तथा || १० || सांप्रतमुच्यमानमपि न ते चित्तमधिरोक्ष्यतीत्याशयेनाह - कान्तेति | पुण्यक्र्त्सर्वकर्मफलपरिनिष्ठात्मज्ञानवान् || १० || वृथा भवति बालेषु यथा रागमयी कथा | निरर्थकाल्पबोधेषु तथोदारोदया कथा || ११ || उदार उदयो निःश्रेयसं यस्याः सकाशात्सा || ११ || कस्मिंश्चिदेव समये किंचित्पुंसो विराजते | फलमाभाति वृक्षस्य शरद्येव न माधवे || १२ || तथा प्रश्नोऽप्ययं तदैव राजते इत्याशयेनाह - कस्मिंश्चिदिति | वृक्षस्य नारङ्गपूगजम्बीरादेः || १२ || उपदेशगिरो वृद्धे रञ्जना निर्मले पटे | लगन्त्युदारविज्ञानकथा चाधिगतात्मनि || १३ || उपदेशगिरो वैराग्योपदेशाः वृद्धे ज्ञानवृद्धे विवेकिनि नतु रागिणि लगन्तीत्यर्थः || १३ || प्रश्नस्यास्योत्तरं पूर्वं लेशतः कथितं मया | न विस्तरेण तेनैतन्न ज्ञातं भवता स्फुटम् || १४ || भार्गवोपाख्यानान्ते प्रागारब्धमप्यस्योत्तरमनधिकारमालोक्यैवोपेक्षितमित्याह - प्रश्नस्येति || १४ || यदि त्वमात्मनात्मानमधिगच्छसि तं स्वयम् | एतत्प्रश्नोत्तरं साधु जानास्यत्र न संशयः || १५ || अखण्डार्थबोधे जाते मदुक्तिं विनाप्यस्योत्तरं स्वयमेव ज्ञास्यसीत्याह ##- मया सिद्धान्तकाले तु प्राप्तबोधे त्वयि स्थिते | वक्तव्यो विस्तरेणैव साधो प्रश्नोत्तरक्रमः || १६ || तर्हि त्वं किमुपेक्षिष्यसे नेत्याह - मयेति || १६ || जानात्यात्मानमात्मैव कृत आत्मात्मनैव हि | आत्मैव संप्रसन्नः सन्नात्मानं प्रतिपद्यते || १७ || मदुपदेशो द्वारप्रदर्शनमात्रं त्वया त्वात्मनैवात्मा प्रणिधानेन द्रष्टव्य इत्याशयेनाह - जानातीति | संसारिणमप्यात्मानमात्मैव जानाति | हि यस्मादात्मनैवात्मा अप्रसादात्तथा कृतः स आत्मैवात्मबोधात्संप्रसन्नः सन् वास्तवं पूर्णमात्मानं प्रतिपद्यत इत्यर्थः || १७ || तदेतत्कथितं राम कर्त्रकर्तृविचारणम् | अज्ञातत्वात्तु तामेतामक्षीणवासनो भवेत् || १८ || कर्त्रकर्त्रात्मविचारणमपि मया तदेतदखण्डब्रह्मबोधमुद्दिश्यैव कथितम् | कथितेऽपि तामेतामखण्डात्मतामज्ञातत्वान्न ज्ञातवानित्यतस्तु नूनं भवानक्षीणवासनो भवेत् | संभावनायां लिङ् | वासनाक्षयस्तव न जात इति संभावयामीत्यर्थः || १८ || बद्धो हि वासनाबद्धो मोक्षः स्याद्वासनाक्षयः | वासनास्त्वं परित्यज्य मोक्षार्थित्वमपि त्यज || १९ || इदानीं बन्धमोक्षरहस्ये दर्शयन्वासनोच्छेदोपायक्रममाह - बद्ध इत्यादिना || १९ || तामसीर्वासनाः पूर्वं त्यक्त्वा विषयवासिताः | मैत्र्यादिभावनानाम्नीं गृहाणामलवासनाम् || २० || तत्र वासनाक्षये प्रथमपीठिका वैराग्यदार्ढ्यमित्याह - तामसीरिति | तामसीः तमःप्रधानतिर्यग्योन्यादिगतिप्रदाः | राजसमनुष्यादिजन्मप्रदानामप्युपलक्षणमेतत् | विषयैर्वासिता आहिताः | मैत्रीकरुणामुदितोपेक्षा मैत्र्यादयस्तद्भावनानाम्नीम् | तथाच पातञ्जलसूत्रम् मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यफलानां भावनातश्चित्तप्रसादनम् इति || २० || तामप्यन्तः परित्यज्य ताभिर्व्यवहरन्नपि | अन्तःशान्तसमस्तेहो भव चिन्मात्रवासनः || २१ || अन्तश्चिन्मात्रव्यतिरेकेण मैत्र्यादयोऽपि न सन्तीति दर्शनेन बहिस्ताभिर्मैत्र्यादिभिर्व्यवहरन्नपि चिन्मात्रमेवाहमिति संप्रज्ञातसमाध्यभ्यासदृढीकृतवासनो भव || २१ || तामप्यथ परित्यज्य मनोबुद्धिसमन्विताम् | शेषे स्थिरसमाधानो येन त्यजसि तत्त्यज || २२ || मनोबुद्धिग्रहणं चित्ततद्वृत्तीनामप्युपलक्षणम् | शेषे आत्मत्वादेव त्यक्तुमशक्यत्वादवश्यं परिशिष्यमाणे प्रत्यक्तत्वे स्थिरं समाधानं विश्रान्तिर्यस्य तथाविधः | असंप्रज्ञातसमाधौ विश्रान्त इति यावत् | येन कलनाख्येन द्वैतकल्पनामूलस्तम्भभूतेनाहंकारेण प्रागुक्तं सर्वं त्यजसि तदपि त्यज | सर्वस्यापि हि त्यागस्तत्र तत्राहं ममेत्यभिमानवर्जनमेव | तच्चाहंकारेऽपि शुद्धचिन्मात्ररूपानहंभूतपूर्णात्मदर्शनेन मूलाज्ञानोच्छेदात्स्वयमेव भवतीति न तत्र कारणान्तरापेक्षेति नानवस्थेति भावः || २२ || चिन्मयः कलनाकालप्रकाशतिमिरादिकम् | वासनां वासितारं च प्राणस्पन्दनपूर्वकम् || २३ || प्राणस्पन्दनपूर्वकं कलनाकालप्रकाशतिमिरादिकं वासनां वासितारं विषयं चकारात्तद्द्वाराणीन्द्रियाणि च समूलमहंकारमपि चोन्मूल्य व्योमेव सौम्या निर्मला प्रशान्तविक्षेपा च ब्रह्मात्माखण्डैकाकारा धीर्यस्य तथाविधः सन् यश्चिन्मयस्त्वं भवसि संपद्यसे स एव परमार्थरूपो भ्वानस्त्विति परेन सहान्वयः | सत्कृतः सर्वपूजितः || २३ || समूलमपि संत्यक्त्वा व्योमसौम्यप्रशान्तधीः | यस्त्वं भवसि सद्बुद्धे स भवानस्तु सत्कृतः || २४ || हृदयात्संपरित्यज्य सर्वमेव महामतिः | यस्तिष्ठति गतव्यग्रः स मुक्तः परमेश्वरः || २५ || ईदृशीं स्थितिं प्राप्तस्य पूज्यतामेव प्रशंसाभिर्दर्शयति - हृदयादित्यादिना | गतो व्यग्रः सर्वविक्षेपहेतुरभिमानो यस्य || २५ || समाधिमथ कर्माणि मा करोतु करोतु वा | हृदयेनास्तसर्वास्थो मुक्त एवोत्तमाशयः || २६ || एवमभ्यासपरिपाकेन सप्तमीं भूमिकामारूढस्य सिद्धस्य कृतकृत्यतैव न कर्तव्यान्तरपरिशेषोऽस्तीत्याह - समाधिमिति | अस्ता निरस्ताः सर्वा आस्थाः प्रागुक्ताभिमानाध्यासा येन सः || २६ || नैष्कर्म्येण न तस्यार्थो न तस्यार्थोऽस्ति कर्मभिः | न समाधानजाप्याभ्यां यस्य निर्वासनं मनः || २७ || विचारितमलं शास्त्रं चिरमुद्ग्राहितं मिथः | संत्यक्तवासनान्मौनादृते नास्त्युत्तमं पदम || २८ || कतिपयकालानुष्ठितश्रवणमननध्यानैर्वासनाक्षयात्प्रागेव कृतकृत्यताभ्रमात्परावृत्तिं वारयन्नाह - विचारितमिति | मिथः परस्परं विद्वद्भिः सह संवादेनोद्वाहितं दृढमुपन्यासक्षमं कृतम् | महता परिश्रमेण सर्वविद्वत्संमत्या चेदमेव मोक्षशास्त्ररहस्यमिति निर्णीतमित्यर्थह् | मौनाद्बाल्यपाण्डित्यशब्दवाच्यश्रवणमननपरिपाकजन्यप्रागुक्तनिर्विकल्प् आसंप्रज्ञातसमाधिपरिपाकान्तान्मुनिभावादृते परं पदं ब्राह्मणाख्यं परिनिष्ठिततत्त्वज्ञानं नास्तीति निर्णीतमित्यर्थः | तथाच श्रुतिः तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं निर्विद्याथ मुनिरमौनं मौनं च निर्विद्याथ ब्राह्मणः इति | एष नित्यो महिमा ब्राह्मणस्य इति च || २८ || दृष्टं द्रष्टव्यमखिलं भ्रान्त्वा भ्रान्त्वा दिशो दश | जनाः कतिपया एव यथावस्त्ववलोकिनः || २९ || अत एव तत्त्वज्ञा विरला दुर्लभाश्चेत्याह - दृष्टमिति || २९ || यद्यदालोक्यते किंचित्कश्चिद्यत्तन्न विद्यते | ईप्सितानीप्सितादन्यन्न तत्र यतते जनः || ३० || सर्वजनानां बहिर्मुखत्वाद्बहिश्चेप्सितानीप्सितयोरेव दर्शनात्तत्प्राप्तिपरिहारोपायप्रवणतैव दृष्टा नात्मप्रवणतेत्याह - यद्यदिति | यद्यत्किंचिदालोक्यते तत् ईप्सितानीप्सितादन्यन्न विद्यते तदन्यद्यदविषयमात्मतत्त्वं तत्र तु कश्चिदपि जनो न यतते किंत्वीप्सितानीप्सितयोरेवेत्यर्थः || ३० || ये केचन समारम्भा ये जनस्य क्रियाक्रमाः | ते सर्वे देहमात्रार्थमात्मार्थं नतु किंचन || ३१ || स चानात्मविषये यत्नोऽनात्मदेहमात्रार्थत्वात्पुनःपुनर्देहारम्भानर्थहेतुरेवेत्याशयेनाह - ये केचनेति | समारम्भा लौकिकगृहप्रासादादि विषयाः | क्रियाक्रमा वैदिकयज्ञादयः || ३१ || पाताले ब्रह्मलोके च स्वर्गे च वसुधातले | व्योम्नि कतिपया एव दृश्यन्ते दृष्टदृष्टयः || ३२ || व्योम्नि अन्तरिक्षलोके | दृष्टा दृष्टिश्चिदेकरसं ब्रह्म यैस्ते पुरुषाः || ३२ || इदं हेयमुपादेयमिदमित्यसदुत्थितौ | निश्चयौ गलितौ यस्य ज्ञस्यासावतिदुर्लभः || ३३ || असदुत्थितौ स्वात्माज्ञानादुद्भूतौ || ३३ || करोतु भुवने राज्यं विशत्वम्भोदमम्बु वा | नात्मलाभादृते जन्तुर्विश्रान्तिमधिगच्छति || ३४ || ननु संसारेऽप्युत्तमराज्यादिपदलाभे विश्रान्तिर्दृश्यते किमात्मदर्शनेन नेत्याह - करोत्विति | इन्द्रपदलाभेन वृष्ट्यधिकारे अम्भोदं विशतु | वरुणपदलाभेनाम्बु वा योगसिद्धिभिर्वा भूतजयात्सर्वत्र विशतु || ३४ || ये महामतयः सन्तः शूराश्चेन्द्रियशत्रुषु | जन्मज्वरविनाशाय त उपास्या महाधियः || ३५ || तर्हि विश्रान्त्यर्थिना के उपास्यास्तानाह - ये इति || ३५ || सर्वत्र पञ्चभूतानि षष्ठं किंचिन्न विद्यते | पाताले भूतले स्वर्गे रतिमेतु क्व धीरधीः || ३६ || तदुपासनेन तत्त्वबोधेऽपि पुनर्भोगभूमिषु रतिः केन वार्यते तत्राह - सर्वत्रेति | अपागादग्नेरग्नित्वं त्रीणि रूपाणीत्येव सत्यम् इति श्रुत्युक्तदिशासर्वभौतिकानां भूतमात्रतालक्षणमिथ्यात्वबोधे तेषु रत्यनुदयादिति भावः || ३६ || युक्त्या वै चरतो ज्ञस्य संसारो गोष्पदाकृतिः | दूरसंत्यक्तयुक्तेस्तु महामत्तार्णवोपमः || ३७ || तर्हि भूतानामेव परिशिष्टानामानन्त्यात्तदुत्तरणासंभव इति चेत्सत्यमिदमज्ञानामेवमेव | तत्त्वविदां तु अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छ इति श्रुतिदर्शितयुक्त्या सर्वाधिष्ठानब्रह्मदर्शनेन भूतानामप्यनृतत्वनिश्चयात्तदुत्तरणं सुलभमेवेत्याशयेनाह - युक्त्येति | मत्तार्णवः प्रलयार्णवः || ३७ || कदम्बगोलकैस्तुल्यं ब्रह्माण्डं स्फारचेतसः | किं प्रयच्छति किं भुङ्क्ते प्राप्तेऽस्मिन्सकलेपि सः || ३८ || किंचापरिच्छिन्नात्मानन्ददृष्ट्या ब्रह्माण्डस्याल्पतरत्वदर्शनादपि कदम्बगोलकमशकभोग्येष्विव तुच्छेषु धनदारादिषु न दानभोगादिवाञ्छाप्रसक्तिरित्याह - कदम्बेति || ३८ || एतदर्थमबुद्धीनां यन्महासमरक्रियाः | तन्मन्ये राम धिक्कार्यं द्वन्द्वलक्स्ऽक्षयावहम् || ३९ || राज्यादिसुखं समराद्यनर्थैर्योधद्वन्द्वलक्षाणां क्षयावहत्वात्तत्त्वविदा दयालुना धिक्कार्यमेव न सत्कार्यमित्याह - एतदर्थमिति | यच्छब्दार्थे एतच्छब्दः | अबुद्धीनां मूढानाम् | तद्राज्यसुखमिति शेषः || ३९ || कल्पमात्रेण कालेन सुमहापेलवोदरे | तस्मिन्नपि हि यो नाशः सर्वाधिरमहाधियाम् || ४० || ननु महाकल्पावसानचिरकालभोग्ये ब्राह्मे पदे तस्य रतिः स्यान्नेत्याह - कल्पेति | द्विपरार्धावधिना महाकल्पान्तमात्रेण कालेनापि शीर्यमाणत्वात्सुमहापेलवोदरे तस्मिन्नपि पदे सर्वप्राणिनां प्रलयनिमित्तत्वादाधिर्मानसव्यथानिमित्तभूतो नाशः सोऽमहाधियां मूढानामेव | स्पृहणीयो न तत्त्वविदामित्यर्थः || ४० || आत्मनो ज्ञस्य सर्गादेर्यन्मनागपि नोद्गतम् | तस्मिञ्जगत्त्रये प्राप्ते किं चिदात्मा बली भवेत् || ४१ || किंच ज्ञस्य तत्त्वविदो दृशा यज्जगत्त्रयं सर्गादेरुपायान्मनागीषदपि नोद्गतं नोत्पन्नमेव | न निरोधो न चोत्पत्तिः इत्यादिश्रुतेः | तस्मिंस्तुच्छे वन्ध्यापुत्रप्राये जगत्त्रये प्राप्ते चिदात्मा किं बली बलवान् भवेत् | येन तत्र रागः स्यादित्यर्थः || ४१ || इतः शैलशतैर्व्याप्ता तथेतो जलराशिभिः | कियानस्य भुवो देहो येनोदारं प्रपूरयेत् || ४२ || असारबहुलत्वादुपयुक्तांशाल्पत्वादपि सार्वभौमादिपदस्य न स्पृहणीयतेत्याशयेनाह - इत इति | उदारं सर्वत्यागरिक्तविपुलाशयम् || ४२ || न तदस्ति जगत्यस्मिन्सपातालसुरालये | यन्नामात्मवतो ज्ञस्य किंचित्कार्यतरं भवेत् || ४३ || कार्यतरं अवश्यकर्तव्यम् | सर्वकामावाप्त्या कृतकृत्यत्वादित्यर्थः || ४३ || एकतामनुयातस्य व्योमवद्विततस्य च | स्वस्थस्यात्मवतो ज्ञस्य स्थितस्यात्मन्यचेतसः || ४४ || यथा मृगतृष्णा सवितुः प्रकाशमपेक्ष्य सिद्ध्यन्ती सवितारमपेक्षते नतु सविता मृगतृष्णानिमित्तभूतोऽपि तामपेक्षते तथा तत्त्वविदश्चित्प्रकाशमपेक्ष्य प्रसिद्ध्यज्जगदेव प्रत्युत तत्त्वविदमपेक्षतां तत्त्ववित्त पूर्णानन्दारामः कटाक्षेणापि जगन्न पश्यति दूरे तस्य तदपेक्षेत्याशयेनाह - एकतामित्यादिना | अचेतसो निर्मनस्कस्यात्मवतस्त्रिलोकीलक्षणा विपुला मृगतृष्णानदीतटी शान्तसर्वसंसारसुभगा सती शून्यकोटरा आकाशोदरनिभैव न मूर्तरूपास्तीत्यर्थः | असतामपि बाधितानुवृत्त्या यावत्प्रारब्धक्षयं प्रतिभासनिर्वाहाय विशिनष्टि - शरीरजालनीहारेति || ४४ || शरीरजालनीहारधूसरा शून्यकोटरा | शान्तसंसारसुभगा त्रिलोकीविपुलातटी || ४५ || स्फारब्रह्मामलाम्भोधिफेनाः सर्वे कुलाचलाः | चिदादित्यमहाभासमृगतृष्णाजलश्रियः || ४६ || जगतस्तत्त्वविदात्मप्रकाशापेक्षां प्रपञ्चयति - स्फारेत्यादिना | जलश्रियो नदीसमुद्रादयः || ४६ || आत्मतत्त्वमहाम्भोधिवीचयः सर्गराजयः | अनुत्तमपदाम्भोदवृष्टयः शास्त्रदृष्टयः || ४७ || शास्त्रदृष्टयः श्रौतस्मार्तधर्मब्रह्मादितत्त्वप्रतिभासाः | यद्यपि लौकिकचाक्षुषादिदृष्टयोऽपि प्रकाशात्मकत्वाद्ब्रह्माम्भोदवृष्टिकल्पा एव तथापि सुक्षेत्रे वृष्टिवच्छास्त्रदृष्टीनामेव पुरुषार्थोपयोगात्ता एवोपात्ताः || ४७ || चन्द्राग्नितपनालोका घटकाष्ठादिसन्निभाः | प्रकाशनीयाश्चिद्रूपत्विषो मलकणास्तथा || ४८ || अधिष्ठानत्वेन तदपेक्षामुक्त्वा जडानां प्रकाशार्थमपि तदपेक्षामाह - चन्द्रेति | यदा निर्मला आदित्यादयोऽपि तत्प्रकाशापेक्षास्तदा अत्यन्तमलिनत्वान्मलकण प्रायाः पार्थिवादिधातवस्तमपेक्षन्त इति किं वाच्यमित्याशयेन मलकणास्तथेत्युक्तम् || ४८ || विहरन्ति स्वमात्मानः संसारवनचारिणः | कामभोगोलपग्रासमृगा नरसुरासुराः || ४९ || एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति श्रुतेः सर्वप्राणिनां जीवनहेतुविषयानन्दार्थमपि तदपेक्षामाह - विहरन्तीति | स्वो देहस्तदात्मना मीयते परिच्छिद्यते अनुभूयते हिंस्यते वा यः स स्वप्नस्तथाविध आत्मा येषां कामभोगलक्षणानां उलपानां तृणराजीनां ग्रासे मृगा इव मृगाः भवन्तीति शेषः || ४९ || अस्थिखण्डार्गलामूर्धपिधानाः स्नायुशृङ्खलाः | जगद्देहा जरज्जीवरक्तमांससमुद्गकाः || ५० || मृगाणां वने विहारे स्वातन्त्र्यमस्ति | नरसुरासुरजीवानां तु देहपञ्जरे बद्धत्वादत्यन्तपारतन्त्र्यदुःखमेवेत्याशयेनाह - अस्थीति | जगतां सर्वेषां नरसुरासुरादिदेहा जरतामनादिसंसारकान्तारे जीर्णानां जीवानां पर्यायेण बन्धनार्थाः रक्तमांसनिर्मिताः समुद्गकाः संपुटकाः | पञ्जराणीति यावत् | कृता धात्रेति शेषः | पञ्जरसामग्रीमेवाह - अस्थीति | अस्थिखण्डा एव अर्गला विष्कम्भदारूणि येषाम् | मूर्धैव पिधानमूर्ध्वफलकं येषाम् | स्नायवः शिराः शृङ्खला लोहबन्धनानि येषाम् || ५० || वनमालामृगा मुग्धाः पुरसंचारसंस्थितौ [संचापितास्थितौ इति पाठः] | बालबुद्धिविनोदाय योजिताश्चर्मपुत्रिकाः || ५१ || एवं जीवाविष्टाश्चर्म पुत्रिका एव संसारवनमालामृगास्त एव मुग्धा देहविवेकशून्या बालानां स्वस्वबुद्धीनां भोगपल्लवग्रासैर्विनोदाय तत्तद्भोगभूमिलक्षणपुरसंचारसंस्थितौ धात्रा योजिता इत्यर्थः || ५१ || नैवंविधोदारमना मनागपि महामतिः | न ज्ञश्चलति भोगौघैर्मन्दवातैरिवाचलः || ५२ || तत्त्वविदोऽपि देहदर्शनात्सोऽपि किं तथा नेत्याह - नैवंविधेति | उदारमनाः सर्वत्यागी प्रागुक्तमहामतिस्तु एवंविधो मनागपि न | यलोपस्यासिद्धत्वात्संधिरार्षः | दारेषु दारोपलक्षितभोगेषु मनो यस्य एवंविधो नेति वा || ५२ || तस्मिन्किल पदे राम ज्ञस्तिष्ठति महोत्तमे | यस्मिंश्चन्द्रार्कदेशोऽपि न पातालमिव स्थितः || ५३ || चन्द्रार्कमण्डलप्रदेशः पातालमिव परिहृतप्रकाशोऽपि न स्थितः किं वाच्यं प्रकाशमानो न स्थित इति | अथवा चन्द्रार्कसंचारदेशो विपुल आकाशोऽपि पातालं भूच्छिद्रमिवाल्पभावेनापि न स्थित इति | तादृशमहापदे स्थितस्याकाशोदरैकदेशपरिच्छिन्नेषु पदेषु का तृष्णेत्यर्थः || ५३ || यस्यालोकाल्लोकपालाः समालोकाः सुवेदिनः | शरीरं पान्त्ययमिव पश्यन्मूढाः क्षपार्णवे || ५४ || यस्य तत्त्वविद आलोकाच्चित्प्रकाशाल्लोकपाला ब्रह्मादयः समालोकाः सर्वजगत्साधारणप्रकाशाः सन्तश्चक्षुरादिद्वारा बहिरन्तर्बुद्ध्या च सुवेदिनः सम्यग्व्यवहारोचितबोधशालिनः सन्तः क्षपार्णवे अज्ञानसमुद्रे मग्नाः पश्यन्मूढा अशरीरं स्वात्मानं विविच्य पश्यन्तोऽपि मूढाः सन्तः अयमज्ञजन इव शरीरात्मभावेन शरीरं पान्ति रक्षन्ति | दृढाभ्यस्तभोगवासनासहकृताधिकारिकप्रारब्धप्राबल्यादित्यर्थः || ५४ || न केचन जगद्भावास्तत्त्वज्ञं रञ्जयन्त्यमी | अप्यभ्यासगताः स्फारहृदयं खमिवाम्बुदाः || ५५ || तत्त्वज्ञं तु वैराग्यदार्ढ्येन भोगवासनाक्षयात्स्फारहृदयं निर्वासनशुद्धान्तःकरणं केचन लोकपालभोग्या अप्यमी त्रैलोक्यराज्यादिजगद्भावा अभ्यासगताः पुनःपुनः परिशील्यमाना अपि न रञ्जयन्तीत्यर्थः || ५५ || न केचन जगद्भावास्तत्त्वज्ञं रञ्जयन्त्यमी | मर्कटा इव नृत्यन्तो गौरीलास्यार्थिनं हरम् || ५६ || न केचन जगद्भावास्तत्त्वज्ञं रजयन्त्यमी | प्राक्तनप्रतिबिम्बश्री रत्नं कुम्भगतं यथा || ५७ || प्राक्तनी कुम्भाद्बहिः स्थितिदशायां रत्नान्तर्दृश्यमाना स्तम्भकुड्यादिप्रतिबिम्बश्रीः || ५७ || वज्रार्पितोपममसन्मयमम्बुभङ्ग- तुङ्गं तरङ्गकृतबिम्बमिवावलोक्य | लोलां तदीहितसुखेषु रतिं न याति तज्ज्ञः कुशैवललवेष्विव राजहंसः || ५८ || उक्तमेवार्थं संक्षिप्योपसंहरति - वज्रेति | तज्ज्ञस्तत्त्ववित् | ब्रह्मलोकान्तं सर्वं जगद्वैभवमज्ञदृशा अतिदुर्भेदत्वाद्वज्रार्पितोपमम् | विवेकदृशाम्बुभङ्गेषु जलविलासेषु तुङ्गमुच्छ्रितं तरङ्गेण स्वाग्रे कृतं चन्द्रादिप्रतिबिम्बमिवानिर्वचनीयमस्थिरम् | तत्त्वदृशा त्वसन्मयं तुच्छमवलोक्य अज्ञ इव तदीहितसुखेषु लोलां लौल्यवतीं रतिं न याति यथा मद्गुभोग्येषु कुत्सितशैवलखण्डेषु राजहंसो रतिं न बध्नाति तद्वदित्यर्थः || ५८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु स्थितिप्रकरणे पूर्णाशयस्वरूपवर्णनं नाम सप्तपञ्चाशः सर्गः || ५७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे पूर्णाशयस्वरूपवर्णनं नाम सप्तपञ्चाशः सर्गः || ५७ || अष्टपञ्चाशः सर्गः ५८ श्रीवसिष्ठ उवाच | अत्रैव वस्तुन्युदिता शृणु राघव पूर्वजाः | कचेन गाथा या गीता बार्हस्पत्येन पावनाः || १ || आरूढस्य पदं पूर्णं सार्वात्म्यस्थितिबोधिनी | रामायात्र वसिष्ठेन कचगाथोपदिश्यते || १ || अत्रैव प्रागुक्ते वस्तुनि विषये पूर्वजाः पूर्वकालवृत्ताः | बार्हस्पत्येन बृहस्पतिपुत्रेण | अनन्तरापत्ये पत्युत्तरपदलक्षणो ण्यः || १ || कस्मिंश्चिन्मेरुगहनेऽतिष्ठन्सुरगुरोः सुतः | कदाचिदभ्यासवशाद्विश्रान्तिं प्राप चात्मनि || २ || अभ्यासवशात् श्रुताया ब्रह्मविद्याया मननमिदिध्यासनपरिपाकादिति यावत् || २ || सम्यग्ज्ञानामृतापूर्णा मतिर्नारमतास्य सा | पञ्चभूतमयेऽमान्ये दृश्येऽस्मिन्पेलवात्मनि [दृश्यः इति पाठः] || ३ || अमान्ये अनादरार्हे || ३ || स तेन निर्विण्ण इव सदात्मत्वादृते पदम् | अपश्यन्समुवाचेदमेको गद्गदया गिरा || ४ || तेन दृश्यारमणेन सदात्मत्वात् ऋते विना सदैकात्म्यातिरिक्तं पदं वस्तु अपश्यन् एकमात्रपरिशेषान्निर्विण्ण इवेत्युत्प्रेक्षा | हर्षगद्गदया गिरा इदं वक्ष्यमाणं समुवाच || ४ || किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् | आत्मना पूरितं विश्वं महाकल्पाम्बुना यथा || ५ || यदुवाच तदाह - किं करोमीत्यादिना || ५ || दुःखमात्मा सुखं चैव खमाशासुमहत्तया | सर्वमात्ममयं ज्ञातं नष्टकष्टोऽहमात्मना || ६ || ननु जीवात्मनो यानि सुखसाधनानि तानि कुरु | यत्र तानि प्राप्यन्ते तत्र गच्छ | सुखं तत्साधनानि च गृहाण दुःखसाधनानि दुःखं च त्यजेति चेत्तत्राह - दुःखमिति | दुःखं तदुपभोक्तात्मा जीवस्तदभिलषणीयं सुखं चेत्यादि सर्वं जगन्मूलान्वेषणे खमाकाशमात्रं सदाशाभ्यो दिग्भ्यो मनोरथेभ्यश्च सुमहत्तया आत्ममयम् | स्वार्थे मयट् | आत्मैवेति ज्ञातमतस्तेनैवानन्दैकरसेनात्मन नष्टसर्वदुःओऽस्मीति न हानोपादानप्रयोजनमस्तीत्यर्थः || ६ || सबाह्याभ्यन्तरे देहे अधश्चोर्ध्वं च दिक्षु च | इत आत्मा ततश्चात्मा नास्त्यनात्ममयं क्वचित् || ७ || बाह्यैराधिभीतिकादिभिराभ्यन्तरैराध्यात्मिकैश्च सहिते उभयविभागनिमित्तभूते देहे अधः ऊर्ध्वं प्राच्यादिदिक्षु तत्त्वतो दृश्यमानेष्वात्मैव सर्वमित्यर्थः | तथाच श्रुतिः आत्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदं सर्वम् इति || ७ || सर्वत्रैव स्थितो ह्यात्मा सर्वमात्ममयं स्थितम् | सर्वमेवेदमात्मैवमात्मन्येव भवाम्यहम् || ८ || सर्वत्रैवाधिष्ठानभावेन स्थितो विवर्तात्मककल्पितविकारदर्शने सर्वमात्ममयं तत्त्वदर्शने तु सर्वमात्मैव | एवमनया दृशा अहं परमार्थात्मनि भवामि वर्ते सर्वदैवेत्यर्थः || ८ || यन्नाम नाम तत्किंचित्सर्वमेवाहमान्तरः | आपूरितापारनभाः सर्वत्र सन्मयः स्थितः || ९ || यन्नाम चेतनं प्रसिद्धं यत्किंचिदचेतनं च नाम प्रसिद्धं तत्सर्वमित्यर्थः | सन्मय इति सदंशस्य सर्वानुगतत्वेन सर्वाधिष्ठानत्वादित्यर्थः || ९ || पूर्णस्तिष्ठामि मोदात्मा सुखमेकार्णवोपमः | इत्येवं भावयंस्तत्र कनकाचलकुञ्जके || १० || मोदात्मेत्यस्य विवरणं सुखमित्यादि || १० || उच्चारयन्नोङ्कारं च घण्टास्वनमिव क्रमात् | ओंकारस्य कलामात्रं पाश्चात्यं वालकोमलम् | नान्तरस्थो न बाह्यस्थो भावयन्परमे हृदि || ११ || इदं तेन केन प्रमाणेन दृष्टं तदाह - उच्चारयन्निति | तथाच श्रुतिः प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते | अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् इति | ओंकारेऽकारादिमात्राणां विराडादिवाचकत्वात्तुरीयं केनांशेन दृष्टं तमाह - ओंकारस्येति | पूर्वपूर्वमात्राविराडादिस्वार्थैः सहोत्तरोत्तरत्र प्रबिलाप्य बालः केश इवोङ्कारस्य शिरसि लक्ष्यमाणं सूक्ष्मं कोमलं च पाश्चात्यमर्धमात्राख्यं कलामात्रं सर्वप्रविलयावधिभूततुरीयलक्षणं [लक्षकं इति पाठः] तुरीयात्मनैव भावयंस्तद्भावापन्नः सन्नान्तरकारणस्थो न बाह्यकार्यस्थश्च वक्ष्यमाणरीत्या स्थित इत्यर्थः || ११ || व्यपगतकलनाकलङ्कशुद्धो हृदयनिरन्तरलीनवातवृत्तिः | गतघनशरदाशयोपमानः स्थित इति राम कचः स गायमानः || १२ || तामेव स्थितिं दर्शयन्नुपसंहरति - व्यपगतेति | वातवृत्तिः प्राणस्पन्दः | सा च कलना निरोधे स्वत एव निलीनेति भावः | गता घना मेघा यस्मात्तथाविधो यः शरदाशयः शरदाकाशस्तदुपमानः स्थित इत्यर्थः || १२ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे कचगाथानामाष्टपञ्चाशः सर्गः || ५८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे कचगाथानामाष्टपञ्चाशः सर्गः || ५८ || एकोनषष्टितमः सर्गः ५९ अन्नपानाङ्गनासङ्गादृते नास्तीह किंचन | शुभमस्त्विति संवादि महान्किमिव वाञ्छतु || १ || विषयासारता ब्राह्मात्संकल्पाद्विश्वकल्पना | धातुर्निर्वेदविश्रान्तिः शास्त्रस्र्गश्च कीर्त्यते || १ || प्रासङ्गिकीं कचगाथां समाप्य प्रकृतं भोगजातस्य तत्त्वविद्वाञ्छाद्ययोग्यत्वोपपादनमेवानुवर्तमानो वसिष्ठो वैराग्योपदेशाय विषयासारतां प्रपञ्चयति - अन्नपानेत्यादिना | इह संसारे अन्नपानाङ्गनालक्षणैर्विषयैर्जिह्वोपस्थादीन्द्रियाणां यः सङ्गस्तस्मादृते शुभं पुरुषार्थरूपमन्यन्नास्ति इति श्र्तुस्मृत्याप्तोपदेशानुभवसंवादि यथा स्यात्तथा निश्चित्य महान्परमपदारूढ एतेषु भोगेषु किमिव वाञ्छतु | न किंचित्तद्वाञ्छायोग्यमत्रास्तीत्यर्थः || १ || तिर्यञ्चः पशवो मूढा ये न तुष्यन्त्यसाधवः | भोगैः कृपणसर्वस्वैरादिमध्यान्तपेलवैः || २ || ननु मोक्ष इव कामोऽपि पुरुषार्थ एवेति सर्वैर्वाञ्छनीय एवेति ये प्राहुस्तान्प्रत्याह - तिर्यञ्च इत्यादि || २ || विश्वासं यान्ति ये लोके तैरलं नरगर्दभैः | इतः केशा इतो रक्तमितीयं प्रमदातनुः || ३ || एतया तोषमायान्ति सारमेया न मानवाः | मृन्महीदारुतरवो देहा मांसमया अपि || ४ || सरमा देवशुनी तत्संततिजाः सारमेयाः शुनकाः | सर्वा मही मृदेव | सर्वेऽपि तरवो दारुकाष्ठमेव | सर्वेऽपि देहा मांसमया एव || ४ || अधो भूरम्बरं पृष्ठे किमपूर्वं सुखाय तु | मात्रास्पर्शानुसारिण्यो विवेकपदभङ्गुराः || ५ || पृष्ठे ऊर्ध्वभागे अम्बरमाकाशमेव | अपूर्वं सारभूतं किमस्ति यत्सुखायेत्यर्थः | मिन्वन्ति विषयानिति मात्रा इन्द्रियाणि तत्स्पर्शानुसारिण्यः | विवेकस्य पदे स्थाने तत्त्वे भङ्गुरा बाध्यमानाः || ५ || मोहायैवापरामृष्टाः सकला लोकसंविदः | सर्वस्या एव पर्यन्ते सुखाशायाश्च संस्थितम् || ६ || अपरामृष्टा अविचाररमणीयाः | लोकसंविदो जनव्यवहाराः | सर्वस्याः सुखाशाया विषयलाभेनालाभेन वा पर्यन्ते | चस्त्वर्थे | मालिन्यं पापविषयादिकालुष्यं वियोगविषादादिप्रयुक्त्ऽम् दुःखमपि एवं सांप्रतिकसुखान्तवदेव संस्थितमिति परेण सहान्वयः || ६ || मालिन्यं दुःखमप्येवं ज्वालाया इव कज्जलम् | आगमापायिनोऽनित्या मनःषष्ठेन्द्रियक्रियाः || ७ || इन्द्रियशक्तिक्षयाद्विषयसंपत्क्षयाद्वा भोगक्षयोऽवश्यमापततीत्याशयेनाह - आगमेति || ७ || लता नागेन्द्रमृदिता धारयन्ति न संपदः | पुत्रिका रक्तमांसस्य कान्तेयमिति सादरम् || ८ || संपदो विषयसंपदो नित्यमुपभुज्यमाना नागेन्द्रमृदितलताप्रायाः सत्यो न धारयन्ति क्षीयन्त इत्यर्थः | न केवलमनित्यत्वमेव कान्तादिभोग्यस्याशुचिनरकरूपत्वमपीत्याह - पुत्रिकेति | अस्थिचये स्वदेहनाम्ना पुरुषेण रक्तमांसस्य पुत्रिका इयं कान्ता इति बुद्ध्या सादरं श्लिष्यते | मोहकस्य कामस्यायं क्रम इत्यर्थः || ८ || स्वदेहनाम्नाऽस्थिचये [नाम्ना स्थितये इत्यपि क्वचित्पठ्यते तत्तु सङ्गतिविकलमिति प्रतीयते] श्लिष्यते मोहकक्रमः | सर्वं सत्यमिदं राम स्थिरमज्ञस्य तुष्टये || ९ || अत एवाज्ञस्यैव भोगस्तुष्टये न ज्ञस्येत्याह - सर्वमिति || ९ || ज्ञस्यास्थैर्यमसत्यं च जगद्राम न तुष्टये | अभुक्तेऽपि विषा यैषा विषमूर्च्छां प्रयच्छति || १० || अस्थिरमेवास्थैर्यम् | अभुक्ते अभोगेऽप्येषा भोगतृष्णा विषा [विशब्दादर्शभाद्यपि(?) विषयतीत्यर्थः] या विषवन्मूर्च्छा प्रयच्छति किं पुनर्भुक्ते सतीत्यर्थः || १० || तां परित्यज्य भोगास्थां स्वात्मैकत्वगतिं भज | अनात्ममयभावेन चित्तं स्थितिमुपागतम् | यदा तदैतदाजातं जगज्जालमसन्मयम् || ११ || भोगवासनयैवात्मनः अनात्मदेहादिमयात्मभावनया यदा चित्तं स्थितिमुपागतं तदेत्यर्थः || ११ || वासनावशतो ब्रह्ममनसा कल्पितं वपुः | तेजसा श्रितकुड्येन हेमाभत्वमिवात्मनः || १२ || ननु अस्मच्चित्तस्थित्यनुसारिदेहादिजगज्जातमिति कथमुच्यते विरिञ्चिसंकल्पजातस्य तन्मनोनुसारित्वस्यैवौचित्यादित्याशङ्क्याह - वासनेति | ब्रह्मणो विरिञ्चेर्मनसा अस्मद्वासनाकर्मादिवशतस्तदनुसारेणैव संकल्पाज्जगद्वपुः कल्पितमित्यर्थः || १२ || श्रीराम उवाच | वैरिञ्चपदमासाद्य मनो ब्रह्मन्महामते | इदं जगत्सुघनतां कथमानयति क्रमात् || १३ || अन्यस्यान्यानुसारिरूपकल्पने दृष्टान्तमाह - तेजसेति | यथा आश्रितहेमरजतेन्द्रनीलादिकुड्येन तेजसा सूर्याद्यालोकेन तत्तदनुसारिस्वरूपं कल्पितं तद्वदित्यर्थः | प्रसङ्गाद्रामो विरिञ्चिमनसो जगत्कल्पनाक्रमं पृच्छति - वैरिञ्चेति | पूर्वोपासकस्य मनः प्राक्तनं व्यष्ट्यभिमानं समष्ट्यात्मताभावनाप्रचयजन्यसंस्कारपरिपाकेन निरस्य समष्ट्यात्मनाभिनिष्पत्तिलक्षणं वैरिञ्चपदमासाद्य कार्यब्रह्मभूतं सत् इदं जगत्कथं क्रमात्सुघनतां चतुर्विधभूतग्रामनिबिडताम् | अवान्तरसर्गविषयोऽयं प्रश्नः | आद्यसर्गक्रमस्य प्राग्बहुश उक्तत्वात् || १३ || श्रीवसिष्ठ उवाच | गर्भतल्पात्समुत्थाय पद्मजः प्रथमः शिशुः | ब्रह्मेति शब्दमकरोद्ब्रह्मा तेन स उच्यते || १४ || गर्भः पद्मकोशस्तल्लक्षणात्तत्ल्पात् | संकल्पजालं संकल्पात्मकमनःसमष्टिस्तद्रूपस्य मनसा स्वेनैव कल्पितचतुर्मुखाकृतेः || १४ || संकल्पजालरूपस्य मनसा कल्पिताकृतेः | अकरोत्तस्य संकल्पलक्ष्मीः पदमथोत्तरे || १५ || अथ उत्थानलक्षणजागरणकल्पनानन्तरं उत्तरे सर्गे पदं व्यवसायमकरोत् || १५ || ततः संकल्पयामास पूर्वं तेजो महाप्रभम् | शरदन्ते लताचक्रचक्रीकृतदिगन्तरम् || १६ || सर्वव्यवहाराणामादित्याद्यालोकाधीनत्वात्प्रथममादित्यसर्ग विवक्षुस्तदुपादानसर्वनभोव्यापितेजःसर्गमुक्त्वा तदेव तेजो वर्णयति - तत इत्यादिना | शरत्कालान्ते हिमपाण्डुरैर्लताचक्रैरिव चक्रीकृतं दिगन्तरालं येन || १६ || पक्षप्रतिमनिस्यूतकर्मणातिगुणाक्षरम् | पुञ्जपिञ्जरपर्यन्तं हेमज्ञाननिभाम्बरम् || १७ || पक्षप्रतिमनि प्रसारितपक्षिपक्षसदृशे पार्श्वद्वये स्यूतकर्मणा तन्तुसंतानकरणेन अतिगुणं बहुतन्तुकमिव अक्षरं क्षयधर्मवर्जितं शून्यात्मकमाकाशं येन | प्रसृतैस्तेजःपुञ्जैर्दिगन्तगतचक्रवालगिरिशिखरचित्रधातुसंभेदात्पिञ्जर् आ दिक्पर्यन्ता येन | हेमेव भास्वरमनावृतापरिच्छिन्नप्रकाशैकरसत्वाद्ब्रह्मज्ञाननिभं चाम्बरमाकाशं येन || १७ || जालहेमलताजालजटालनिजमन्दिरम् | कचत्प्रसरदुद्यानाकारकुण्डलमण्डितम् || १८ || विकासाय दलकोटरेषु प्रविष्टैः किरणैर्जालेषु वातायनेषु कल्पितैर्हेमलताजालैरिव भास्वरैः केसरैर्जटालं निजमन्दिरं वैरिञ्चपद्मं येन | एकार्णवतरङ्गेषु प्रतिफलनेन कचद्भिर्दीप्यमानैः प्रसरदुद्यानवनाकारैश्च कुण्डलैः किरणावर्तिर्मण्डितम् || १८ || तं शरीरं मनस्तस्मिंस्ततस्तेजसि भास्वरे | आत्माकारसमाकारं भास्वरं समकल्पयत् || १९ || तस्मिंस्तेजसि हिरण्यगर्भस्य स्वसदृशमूर्त्यन्तरकल्पनेन प्रवेशमाह ##- प्रागुक्तं मनस्तस्मिंस्तेजसि भास्वरं तेजोमयं तं पुराणादिप्रसिद्धमात्माकारसमाकारं समकल्पयत् || १९ || स ततस्तेजसस्तस्मादभ्युदेति दिवाकरः | जालमण्डलमध्यस्थो ज्वलत्कनककुण्डलः || २० || स देवस्ततस्तस्मात्तेजसः पिण्डीभूताद्दिवाकरः सन्नद्यापि प्रत्यक्षमभ्युदेति | प्रभाजालात्मकस्य मण्डलस्य मध्यस्थः | ज्वलती कनककुण्डले यस्य | अथवा दिग्जाललक्षणस्य वधूमण्डलस्य मध्यस्थः साधारणः | ज्वलन् प्रकाशमानः कनककुण्डलभूत इत्यर्थः || २० || ज्वलज्जटाभारधरोपान्तविस्फारपावकः | ज्वालाविशालावयवः पूरिताकाशमण्डलः || २१ || ज्वलन्तो जटाभारधरा ज्वा * *? लीधारिण उपान्तेषु विस्फारा पावका यस्य || २१ || अथ ब्रह्मा महाबुद्धिरन्यास्तास्तेजसः कलाः | अपाल्य यदसद्ब्रह्मा तरङ्गानिव सागरः || २२ || तदनन्तरं मरीच्यादिप्रजापतिसर्गमाह - अथेति | ब्रह्मा विश्वबृंहणकर्ता महाबुद्धिः सर्वज्ञः समष्टिबुद्ध्यात्मा वा ब्रह्मा स चतुर्मुखः अन्या आदित्यनिर्माणावशिष्टास्तेजसस्ताः कलाः | अपाल्य अपवार्य | विभज्येति यावत् | यन्नवधा असत् क्षिप्तवान् | तेऽपि तेजःखण्डास्तत्संकल्पवशादेव संप्राप्तसर्वसिद्धयस्तत्समानशक्तयः प्रजापतयः सन्तो यथा संकल्पितं वस्तु क्षणादेवाग्रतो दृष्ट्वा आपुः प्रापुरिति परेणान्वयः | अपपूर्वादलं भूषणपर्याप्तिशक्तिवारणनिषेधेष्वितिधातोर्ल्यप् | असु क्षेपणे इति धातोः ऊदितो वा इत्यङि आट्थुकोरभावश्छान्दसः || २२ || तेऽपि संकल्पसंप्राप्तसिद्धयः समशक्तयः | यथासंकल्पितं वस्तु क्षणाद्दृष्ट्वापुरग्रतः || २३ || संकल्पयन्तो यान्यांस्ते नानाभूतगणान्बहून् | भूतेष्वन्यांस्तु तेष्वन्यांस्तेष्वन्यान्विविधानपि || २४ || तेभ्यो देवदानवयक्षराक्षसमानवादिसर्गप्रवृत्तिरित्याह - संकल्पयन्त इति | ते प्रजापतयो यान् यान् पुत्रपौत्रपरम्परया देवदानवादिजातिभेदैर्नानाविधान् व्यक्तिभेदाच्च बहून्भूतगणान् संकल्पयन्तो बभूवुस्तांस्तानापुरित्यनुवज्जते | तेष्वग्रे मैथुनसृष्टिप्रवृत्तिं दर्शयति - भूतेष्विति || २४ || संस्मृत्य वेदांस्तदनु यज्ञक्रमगुणान्बहून् | जगद्गृहादयं ब्रह्मा मर्यादां समकल्पयत् || २५ || संकल्पयन्त आपुरित्यत्राप्यनुवर्तते | ततो यज्ञाविकर्मप्रवृत्तिं दर्शयति ##- ब्राह्मं रूपमुपादाय मनोनाम महद्वपुः | तनोतीत्थमिमां दृष्टिं भूतसंततिसंकुलाम् || २६ || समुद्राचलवृक्षाढ्यां कृतलोकोत्तरक्रमाम् | मेरुभूपीठदिक्कुञ्जजटालोदरमण्डलाम् || २७ || सुखदुःखजराजन्ममरणस्वाध्बोधिताम् | रागद्वेषमयोद्विग्नां गुणत्रयमयात्मिकाम् || २८ || शारिरैः सुखदुःखजराजन्ममरणैः स्वैर्मानसैश्चाधिभिः सर्वथा हेयोऽयं संसार इति बोधिताम् || २८ || मनोहस्तैर्विरिंचोत्थैर्यद्यथा कल्पितं पुरा | तत्तथैवाखिलं द्रष्टुं दृश्यतेऽद्यापि मायया || २९ || ननु सर्वस्य व्यवहारस्य विरिंचिमनःवृतत्वे यज्ञादीनां शारीरत्वमुपासनादीनां मानसत्वमिति व्यवस्थायां को हेतुस्तमाह - मनोहस्तैरिति | विरिञ्चोत्थैर्मनोवृत्तिभिर्हस्तैर्वा यैद्वस्तु यथा द्रष्टुं प्राप्तुं च योग्यं पुराकल्पितं तत्तथैवाद्यापि व्यवस्थितं दृश्यते प्राप्यते च | तत्कल्पनानुसारेणैवान्येषामपि कल्पनानियतेरित्यर्थः || २९ || इत्थं सर्वेषु भूतेषु केषुचित्त्वथवा पुनः | संकल्पयति संसारं परं पश्यति चित्स्थितम् || ३० || समष्टिदृष्ट्या सर्वेषु भूतेषु व्यष्टिदृष्ट्या एकजीवपक्षेण वा केषुचित्स्थितं मनः संकल्पयति चित्पश्यति | अथवा मन एव चित्स्थितं संकल्पयति परं पश्यति च || ३० || मोह एवंमयो मिथ्या जागतः स्थिरतां गतः | संकल्पनेन मनसा कल्पितोऽचिरतः स्वयम् || ३१ || एवंमय उक्तप्रकारः | अचिरतः शीघ्रमेव संकल्पितः || ३१ || संकल्पवशतः सर्वाः प्रसवन्ति जगत्क्रियाः | संकल्पवशतो देवा निर्यान्ति नियतिस्थिताः || ३२ || कोपितायाः प्रजानाथर्जगत्सृष्टेः कुलोद्भवः | ब्रह्मा संचिन्तयत्येष पद्मासनगतः प्रभुः || ३३ || इत्थं सर्गविस्तारं प्रपञ्च्य तदुपरमे शास्त्रनिर्माणे च कारणं वक्तुं पीठिकां रचयति - कोपिताया इति | इन्द्रविरोचनादिभिर्देवासुरप्रजानाथैः स्वस्वोत्कर्षाय मनुष्यादिप्रजासु धर्माधर्माभिवृद्धये यतमानैर्बलात्सात्त्विकराजसतामसवृत्तिषु प्रवर्तनाद्बधबन्धजन्मजरामयादिक्लेशसहस्रैः कोपिताया अतिपीडिताया जगत्सृष्टेः सकाशान्निर्विण्णः सर्वप्रजाकुलान्युद्भवन्त्यस्मादिति कुलोद्भव एष प्रागुक्तो ब्रह्मा वक्ष्यमाणप्रकारेण संचिन्तयतीत्यर्थः || ३३ || मनःस्पन्दनमात्रेण चित्रं चित्तं यदुत्थितम् | सृष्टिर्वा भोगिनी स्फारा व्यवहारविकारिणी || ३४ || मनःस्पन्दनमात्रेण यच्चित्तं व्यष्टिजीवोपाधिभूतम् | तदुपभोगार्था भोगिनी स्फारा विस्तीर्णा भुवनादिसृष्टिर्वेति यदुत्थितं इदं सर्वं मया स्वसंकल्पजालमेवामितस्ततमिति परेणान्वयः || ३४ || रुद्रोपेन्द्रमहेन्द्राद्या [महेन्द्राढ्या इति पाठः] शैलसागरसंकुला | पातालरोदोदिक्स्वर्गमार्गसंकटकोटरा || ३५ || संकल्पजालमत्यन्तं मयेदमभितस्ततम् | अधुना विरतोऽस्म्यस्माद्विकल्पोल्लासनक्रमात् || ३६ || इति निश्चित्य विरतः कल्पनानर्थसंकटात् | अनादिमत्परं ब्रह्म स्मरत्यात्मानमात्मना || ३७ || विरत इति शमं प्राप्तः सन् || ३७ || तमासाद्य तदाभासे पदे गलितमानसे | सुखं तिष्ठति शान्तात्मा तल्पेऽधः श्रमवानिव || ३८ || तं परमात्मानं स्मृतिमात्रेण आसाद्य प्राप्य तदेव आसमन्ताद्भासते यस्मिंस्तथाविधे गलितमानसे सप्तमभूमिकालक्षणे पदे सुखं तिष्ठतीत्यर्थः | अधःसंवृत्तापवरके कॢप्ते तल्पे | रहसीति यावत् || ३८ || निर्ममो निरहंकारः परां शान्तिमुपागतः | अविक्षुब्ध इवाम्भोधिरात्मनात्मनि तिष्ठति || ३९ || ध्यानात्कदाचिद्भगवान्स्वयं विरमति प्रभुः | बन्धनात्सलिलस्यन्दात्सौम्यत्वादिव वारिधिः || ४० || बन्धनात् एकाकारवृत्तिधारणानिर्बन्धलक्षणाद्ध्यानात् || ४० || विचारयति संसारं सुखदुःखसमन्वितम् | आशापाशशतैर्बद्धं रागद्वेषभयातुरम् || ४१ || ततः स करुणाक्रान्तमना भूतविभूतये | करोतीह महार्थानि शास्त्राणि विविधानि च || ४२ || अध्यात्मज्ञानगर्भाणि वेदवेदाङ्गसंग्रहम् | पुराणादीनि चान्यानि मुक्तये सर्वदेहिनाम् || ४३ || पुनस्त्त्पदमालम्ब्य परमापद्विनिर्गतः | स्वस्थस्तिष्ठति शान्तात्मा निर्मन्दर इवार्णवः || ४४ || तत्प्रागुक्तं सप्तमभूमिकालक्षणं परं पदम् | सृष्टिविक्षेपलक्षणाभ्य आपद्भ्यो विनिर्गतः || ४४ || अवलोक्य जगच्चेष्टां मर्यादां विनियोज्य च | ब्रह्मा कमलपीठस्थः पुनः स्वात्मनि तिष्ठति || ४५ || कदाचित्केवलं सर्वसंकल्पपरिहीनया | यदृच्छयानुग्रहार्थं लोकक्रमवदास्थितः || ४६ || केवलमनुग्रहार्थमेवेत्यर्थः || ४६ || नार्जवं नास्य संत्यागो वपुषो नच संग्रहः | नाना न चेतनं नेह न स्थितिर्नास्थितिः स्थिता || ४७ || तर्हि तस्य समाधिकाले आर्जवं सर्गसंहारादिकाले तु तस्य संत्यागो देहादिसंग्रहः सर्गरूपेण नानात्वं व्युत्थानकाले चेतनं पद्मे स्थितिरन्यत्र चास्थितिरिति नानाभावसमारम्भेषु चित्तवृत्तिषु चाज्ञवदेव वैषम्यं प्राप्तमित्याशङ्क्य क्रमात्परिहरति - नार्जवमित्यादिना || ४७ || सर्वभावसमारम्भः समः सर्वासु वृत्तिषु | परिपूर्णार्णवाकारो मुक्तशेषोऽवतिष्ठते || ४८ || कदाचित्केवलं सर्वसंकल्पपरिहीनया | यदृच्छयानुग्रहार्थं लोकानां प्रतिबुध्यते || ४९ || एषा ब्राह्मी स्थितिः पुण्या या मयोक्ता महामते | यातां विधिसुरानीकौ तामेतां सात्विकीमपि || ५० || उपसंहरति - एषेति | इदानीं मानसः प्रजापतीनां सर्गस्ते हि संकल्पसंप्राप्तसिद्धयः स्वयं प्रज्ञातज्ञानयोगैश्वर्याः प्रथमो विध्यनीकः | मैथुनसर्गेऽपि देवगन्धर्वयक्षादीनां सात्त्विकत्वात्सकृदुपदेशप्राप्तज्ञानैश्वर्यः सुरानीको मध्यमः | मनुष्यादिस्तु रजस्तमोग्रस्तः प्रयत्नसहस्रसाध्यज्ञानैश्वर्यो नरानीकोऽधम इत्यनीकत्रयविभागं मनसि निधाय तेषां स्वकारणासादितचित्तशुद्ध्यनुरूपज्ञानोदयेन ब्रह्मप्राप्तिं विभज्य दर्शयति - यातामित्यादिना | तां वर्णितप्रकारां एतां सात्त्विकीं सत्त्वोत्कर्षप्राप्यां ब्राह्मीं स्थितिं विधिसुरानीकावपि यातां प्राप्नुयाताम् || ५० || चित्सर्गोपरमाकाशे ब्रह्मणो यन्मनःफलम् | उदेति प्रथमः सैव ब्रह्मत्वं समवाश्नुते || ५१ || तत्र प्रथमानीकस्य मानसोपासनाफलत्वान्मनोमात्रजन्यत्वेन सौक्ष्म्यात्तत्प्राप्तौ विशेषमाह - चित्सर्गेति | यद्यस्मात् प्रथमोऽनीकश्चिद्रूपे सर्वसर्गोपरमरूपे सर्वब्रह्माकाशे ब्रह्मणो विरिञ्चेर्मनःकल्पितं फलमिव मनःफलं सत्प्रथममदेति अतः सैव स एव | सोचि लोपे चेत्पादपूरणम् इति सुलोपः | स्वतः सिद्धज्ञानैश्वर्येण प्रथमं सम्यगवगम्याश्रुते इत्यर्थः || ५१ || सर्गे स्थितिं गते त्वन्या योदेति कल्पनापरा | सा व्योमानिलमाश्रित्य प्रविश्यौषधिपल्लवान् || ५२ || द्वितीयानीकस्यौषधिपल्लवविकारभूतसोमाज्यपयःसाध्यकर्मफलत्वेन तत्परिणामतया प्राकृतापेक्षया स्थौल्यादुपदेशमात्रमपेक्ष्य ब्रह्मप्राप्तिरिति विशेषं दर्शयति - सर्गे इत्यादिना | प्रजापतीनामोषध्यादीनां च सर्गे स्थितिं गते सति या सुरानीकलक्षणान्या अपरा प्रथमा पेक्षया न्यूना कल्पनोदेति सा प्रथमं चन्द्रकलात्मना व्योमानिलं चाश्रित्यौषधिपल्लवान्प्रविश्य सोमाज्यपयोभावेनाग्नौ हूयमाना सूर्यमण्डले अमृताकारपरिणता प्रजापतिप्रभृतिभिरुपभुक्ता तद्रेतोरूपपरिणता मैथुनद्वारेणेन्द्रादिसुरत्वं कुबेरादियक्षादिदेवयोनितां चायातीति परेणान्वयः || ५२ || काचित्सुरत्वमायाति काचिदायाति यक्षताम् | उदेति प्रथमं सैषा ब्रह्मत्वं समवाश्नुते || ५३ || सैषा सात्त्विकत्वान्मनुष्याद्यपेक्षया प्रथमं प्रजापतीनामनुग्रहोपदेशादिना ज्ञानैश्वर्यसंपदा उदेति | अतः प्रथममेव ब्रह्मत्वं समवाश्नुत इत्यर्थः || ५३ || या यत्सत्त्वं समन्वेति सा तदेवाशु जायते | जाता संसर्गवशतस्तस्मिन्नेव च जन्मनि | बध्यते मुच्यते वासौ स्वयमन्वारभेदतः || ५४ || तर्हि किं सर्वेषां देवानां मुक्तिर्नेत्याह - येति | देवेषु मानवेषु वा जाता या व्यक्तिर्यत्सत्त्वं ज्ञानवैराग्यसंपन्नं भोगलम्पटं वा मैत्र्यादिना समन्वेति सा तत्संगत्या आशु तदेव जायते तादृशगुणवती भवतीत्यर्थः | भोगलम्पटसंसर्गवशतः स्वयमपि तथाभूता सती बध्यते तद्विपरीतसंगत्या स्वयमपि ज्ञानवैराग्यसंपन्ना मुच्यत इत्यर्थः | तर्हि तृतीयानीकैः किं कार्यं तदाह - स्वयमिति | अतो बन्धमोक्षयोः सङ्गानुरूपत्वात्स्वयमेव पौरुषप्रयत्नेन साधुसंगमसच्छास्त्रश्रवणादीनिन्द्रियमनोजयोपायांशान्वारभेत् | यावत्फलोदयमभ्यस्येदित्यर्थः || ५४ || इत्थं गतास्थितिरियं किल रामभद्र सृष्टिः स्फुटप्रकटसंकटकर्मलब्धा | आविर्भवेद्विविधवेगविहारभार- संरम्भगर्भविधृता कलनापदे सा || ५५ || उक्तं सर्वं संक्षिप्योपसंहरति - इत्थमिति | स्फुटानि प्रकाशबहुलानि उपासनानि प्रकटानि सर्वजनप्रसिद्धानि यज्ञादीनि संकटान्यनर्थफलानि कर्माणि निषिद्धमिश्राणि तैर्निमित्तैः क्रमाल्लब्धा विविधैः प्रारब्धवेगैर्विहारभारैः क्रीडाकौतुकैः संरम्भगर्भैः क्रोधलोभसंभृतैश्च व्यवहारैः क्रमाद्विधृता अवष्टब्धा सती कलनापदे सर्गोन्मुखे ब्रह्मणि इत्थं प्रागुक्तसंकल्पकल्पनयैव गता प्राप्ता आस्थितिः सत्ता यया तथाविधा सेयं त्र्यनीकात्मिका सृष्टिराविर्भवेदित्यर्थः || ५५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे कमलजव्यवहारवर्णनं नामैकोनषष्टितमः सर्गः || ५९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे कमलजव्यवहारवर्णनं नामैकोनषष्टितमः सर्गः || ५९ || षष्टितमः सर्गः ६० श्रीवसिष्ठ उवाच | अस्मिन्भगवति ब्रह्मंश्चपलं पदमाश्रिते | पितामहे महाबाहो कृतसर्गव्यवस्थितौ || १ || ब्रह्मोत्थितानां जीवानामिह देहग्रहक्रमः | वर्ण्यते सात्त्विकानां च प्राधान्याद्बोधभागिनाम् || १ || प्रागुक्तत्र्यनीकसृष्टिं सा व्योमानिलमाश्रित्येति संक्षेपोक्तक्रमप्रपञ्चनेन वर्णयितुं भूमिकां रचयति - अस्मिन्नित्यादिना | ब्रह्मन् ब्रह्मणि पितामहे | सुपां सुलुक् इति सप्तम्या लुकिन ङिसंबुद्ध्योः इति नलोपनिषेधः | चपलं पदं समाधिव्युत्थानम् || १ || जगज्जीर्णारघट्टेऽस्मिन्वहति स्वव्यवस्थया | विप्रेतभूतघटया रज्ज्वा जीविततृष्णया || २ || आरघट्टे घटीयन्त्रे विप्रेतानां मृतानां भूतानां घटया समूहलक्षणया विप्रेतानि भूतान्येव घटा यस्यां तथाविधया वा घटीमालारज्ज्वा जीवितं पुनर्देहग्रहणेन जीवनं जलं च तद्विषयतृष्णया आरोहावरोहाभ्यां वहति परिवर्तमाने || २ || ब्रह्मोत्थेषु च भूतेषु विशत्सु भवपञ्जरम् | आवर्तेष्वीश्वरव्योमबालमध्यविवर्तिषु || ३ || अन्येषु मनःसु ईश्वरस्य मायाशबलब्रह्मणो बालः पुत्रभूतं प्रथमजं यद्व्योम तन्मध्ये विवर्तिषु भ्रमणशीलेषु सत्सु || ३ || मनःस्वन्येषु वातान्तलोलाहतकणेष्विव | अनारतं विनिर्यान्ति विशन्त्यन्ये तथाभितः || ४ || हे राम ब्रह्मणि जीवौघा अनारतं सततं केचन उपाधिविनिर्गमादग्निविस्फुलिङ्गवद्विनिर्यान्ति | केचित्त्वन्ये उपाधिविलयात्सुप्ताविव विश्रान्तये प्रविशन्तीत्यर्थः || ४ || राम ब्रह्मणि जीवौघास्तरङ्गा इव वारिधौ | अनाद्यन्तपदोत्पन्नाः कलनापदमागताः || ५ || उत्पन्ना इत्यस्य व्याख्या कलनापदमागता इति || ५ || भूताकाशं विशन्त्येते धूमश्रीरिव चाम्बुदम् | एकतां यान्ति जीवौघा ब्रह्मण्याकाशमारुतैः || ६ || तत्र पूर्वसर्गेऽनुक्तं तृतीयानीकोत्पत्तिक्रमं प्रथमं प्रपञ्चयति - भूताकाशमित्यादिना | ब्रह्मणि अध्यस्तैराकाशमारुतैः सह क्षीरोदकवदेकतां यान्ति || ६ || दिनं तन्मात्रवातेन तत्प्राणात्मतया यथा | आक्रम्यन्ते प्रचण्डेन दैत्यौघेनामरा इव || ७ || ततस्तेजोम्बुभुवामुत्पत्तौ सत्यां दिनं प्रकाशं प्राप्य शब्दस्पर्शरूपरसगन्धलक्षणतन्मात्रसहितेन प्रागुक्तवायुना तथा तदुपभोगहेत्वमुख्यमुख्योभयविधप्राणात्मतया च आक्रम्यन्ते वशीक्रियन्ते || ७ || भूतप्राणानिलं तेन गन्धवाहेन तेन च | निविशन्ति शरीरेषु जीवा गच्छन्ति वीर्यताम् || ८ || एवं लिङ्गदेहतां प्राप्तास्तेन प्राणात्मभावेन तेन गन्धवाहेन भूततन्मात्रसहितवायुना च सहान्नोदकादिद्वारा चतुर्विधभूतग्रामाणां प्राणानिलमन्नग्रासकमपानवृत्तिभेदं प्राप्य शरीरेषु निविशन्ति | नेर्विशः इति तङभावश्छान्दसः | वीर्यतां रेतोभावम् || ८ || ततो जगति जायन्ते भवन्ति प्राणिनोऽस्फुटाः | अन्या धूमादिमाजाता राम जीवपरम्परा || ९ || अस्फुटा अनभिव्यक्तज्ञानैश्वर्याः | तृतीयानीकस्य सर्गक्रममुक्त्वा द्वितीयानीकस्य तमाह - अन्या इति | अस्या अपि लिङ्गदेहप्राप्तिपर्यन्तं प्रागुक्त एव क्रमः | ओषधिवनस्पतिप्रवेशेन क्षीराज्यादिपरिणत्याग्नौ हुता आहुतिर्धूमद्वारा सूर्यमण्डलं प्राप्य सूर्यकिरणद्वारा चन्द्रानुप्रवेशेन वा रंहत्यधिकरणन्यायेनाहुत्यप्परिवेष्टितयजमानप्राणानां धूमादिमार्गेण चन्द्रमण्डलानुप्रवेशाद्वा धूमादिं मार्गं आजाता अनुप्रविष्टाअ || ९ || तन्मात्रवति तावद्भिरशून्येऽम्बरकोटरे | उदेति यावद्भगवानिन्दुरुद्दाममण्डलः || १० || सापि चन्द्रकलात्मतां प्राप्ता कल्पवृक्षफलेषु रसभावेनानुप्रवेशात्तदुपभोक्तृवीर्यभावपरिणामेन देवगर्भे जायते इति क्रममभिप्रेत्याह - तन्मात्रवतीत्यादिना | प्रागुक्ततन्मात्रात्मकलिङ्गदेहवति | उद्दाममण्डलः पूर्णो भगवानिन्दुर्यावत् यावद्भी रश्मिभिर्जगद्भासयन्नुदेति तावद्भिर्लोलैः पाण्डुरूपवद्रश्मिभिरशून्ये पूर्णे अत एव क्षीराम्बुधेर्निधौ आश्रयभूते प्रतिनिधिभूते वा अम्बरकोटरे सा तिष्ठतीति शेषः || १० || क्षीराम्बुधिनिधौ लोलैः पाण्डुवद्रश्मिभिर्जगत् | ततस्तेष्वतिरम्येषु चन्द्ररश्मिषु संपतत् || ११ || ततस्तदनन्तरं तेषु चन्द्ररश्मिषु नन्दनादिवने संपतत् संपतत्सु | छान्दसः सुपो लुक् | रश्म्यनुसारेण संपतन्ती तस्मिन्वने प्रेष्या दासी आन्तरेषु गृहाभ्यन्तरकृत्येष्विव लोला व्यग्रा विहगी पक्षिणीप्राया करोति प्रवेशमिति शेषः || ११ || करोति विहगी लोला वने प्रेष्यान्तरेष्विव | तेभ्योऽपि स्वरसेनैव यान्ति पीवरतामपि || १२ || ततस्मिन्वने फलानि तेभ्यश्चन्द्ररश्मिभ्योऽपिशब्दाद्रविरश्मिभ्यश्च निमित्तेभ्यः स्वरसेनैव पीवरतां क्रमादुपचयं माधुर्यमपि यान्ति || १२ || फलेषु तेषु बध्नाति पदमिन्दुकरात्क्षता | जीवाली क्षीरपूर्णेषु मातुः स्तनभरेष्विव || १३ || एवं रसपूर्णेषु प्रागुक्ता जीवाली इन्दुकरात् क्षता विभक्ता सती तेषु फलेषु पदं स्थितिं बध्नाति | यथा शिशुर्मातुः स्तनभरेषु पदं बध्नाति तद्वत् || १३ || ताः फलावलयः पक्वा भविष्यन्ति मरीचिभिः | तेष्वेव वीर्यमागत्य तिष्ठन्त्यप्राप्तबोधिताः || १४ || मरीचिभिः रविरश्मिभिः | तेष्वेव फलेषु कश्यपादिभिरुपभुक्तेषु वीर्य वीर्यतामागत्य प्राप्य | अप्राप्तबोधिताः मूर्च्छितप्रायाः || १४ || प्रसुप्तवासनाजालजीवतागर्भपञ्जरम् | अधितिष्ठति बीजश्रीः सुप्तपत्रा यथा वटम् || १५ || मूर्च्छितजीवानां प्रबुद्धपितृमातृगर्भस्थितौ दृष्टान्तमाह - बीजश्रीरिति | यथा सुप्तपत्रा अनाविर्भूताङ्कुरविटपपत्रा वटबीजश्रीराविर्भूतविटपाङ्कुरपत्रफलं वटमधिष्ठाय तिष्ठति तद्वदित्यर्थः || १५ || यथा काष्ठे स्थितश्चाग्निर्यथा मृदि घटा स्थिताः | अनेकक्रमयोगेन परागत्य महेश्वरात् || १६ || न केवलं गर्भ एव मूर्च्छितानामन्यमाश्रित्य तिरोहितस्थितिः किंतु महेश्वरात् प्रलये उपाधिप्रविलयेन प्राप्तादव्यक्तात्परागत्य निर्गम्याकाशादिभावे लिङ्गारम्भकाले चन्द्ररश्म्याद्यनुप्रवेशकाले च अनेकक्रमयोगेन प्रवृत्तेस्तथैव स्थितिरित्यर्थः || १६ || अदृष्टान्यशरीरश्रीः क्रमतेयो न चोदति | स हि सत्ये जातिः स्यादुदारव्यवहारवान् || १७ || एवं गर्भे प्राप्तानां जन्मनि निमित्तभेदाद्विशेषं दर्शयति - अदृष्टेत्यादिना | प्राग्जन्मनि न दृष्टा अन्यस्य स्त्रीपुत्रादिशरीरस्य श्रीर्येन तथाविधः सर्वतो विरक्तः सन् यो मरणान्तं कालं क्रमते यश्च रागादिभिर्बहुभिः कर्मकाण्डादिशास्त्रैश्चैहिकपारलौकिकभोगसाधनलौकिकवैदिककर्मसु चोद्यमानोऽपि न चोदति न प्रवर्तते स हि धीरः पुरुषधौरेयः प्रागुक्तक्रमाद्देवगर्भे जायमानः सती अत्यन्तसात्त्विक्येव जातिः संस्तत्र ज्ञानं प्राप्य उदारजीवन्मुक्तोचितव्यवहारवान्स्यादित्यर्थः || १७ || तेनैव मोक्षभागी चेज्जन्मना स तु सात्त्विकः | अथैतां योनिमासाद्य कृत्यां जन्मपरम्पराम् || १८ || देवपदाधिकारप्राप्त्यनुकूलकर्मोपासनानुष्ठायिनां त्वाह - अथेति | एतां देवयोनिमासाद्य कृत्यां छेत्तुं शक्यामपि जन्मपरम्परां भोगलाम्पट्यादकृन्तन्स्वाधिकारभोगरक्षार्थमेव प्राप्तजन्मा चेत्स तमोयुक्तो राजससात्त्विक इत्यर्थः || १८ || रक्षार्थं प्राप्तजन्मा चेत्तमोराजससात्त्विकः | पाश्चात्यजन्मना पुंसो राम वक्ष्यामि चाधुना || १९ || इदानीं प्रथमानीकजानां केवलसात्त्विकत्वमपुनर्जन्मतां चाह - पाश्चात्येति | पाश्चात्येन चरमेण जन्मना नरसुरानीकापेक्षया प्राधान्येन प्राजापत्याधिकारेण संसारमायातः केवलसात्त्विको विध्यनीको यथा मुच्यते इति तथा वक्ष्यामीत्यन्वयः || १९ || प्राधान्येन यथाऽयातः संसारमिति सात्त्विकः | स कदाचिन्न कश्चिच्च संभवत्यनघाकृते || २० || स प्रथमानीकजः पुमान् कश्चिदपि कदाचिदपि न पुनः संभवति मुच्यत एवेत्यर्थः || २० || संभवन्तीह पुरुषा राम राजससात्त्विकाः | प्रविचार्य समायात मन्तव्यं चेह तद्धिया || २१ || के तर्हि संभवन्ति तानाह - संभवन्तीति | केवलसात्त्वकस्य पुनर्जन्माभावे को हेतुस्तमाह - प्रविचार्येति | यतस्ते प्राग्जन्मन्यप्यात्म तत्त्वं श्रवणाद्युपायैः प्रविचार्य प्रतिबन्धमात्रक्षयाय तद्योग्यं सात्त्विकं जन्म समायाता इह जन्मन्यपि तेषां धिया सदैवात्मतत्त्वमेव मन्तव्यं मननेन परिशीलनीयं तस्मादित्यर्थः || २१ || प्राधान्येन समायाता ये यदा परमात्मनः | दुर्लभाः पुरुषा राम ते महागुणशालिनः || २२ || अत एव ते दुर्लभा इत्याह - प्राधान्येनेति || २२ || ये चान्ये विविधा मूढा मूकास्तामसजातयः | तेषां स्थावरतुल्यानां किंच राम विचार्यते || २३ || ये विधिसुरनरानीकेभ्योऽन्ये रक्षःपिशाचादयस्तिर्यञ्चश्च तेषां स्थावरादितुल्यत्वाज्ज्ञानाधिकारकथायां विचारयोग्यतैव नास्तीति तेनोपन्यस्ता इत्याह - ये चान्ये इति || २३ || कतिपया न गता भवभावनां नरसुराः प्रकृतक्रमजन्मनि | अहमिव प्रविचारणयोग्यता- मनुगतो ननु राजससात्त्विकः || २४ || तत्त्वदौर्लभ्यमेवोपपादयन्नुपसंहरति - कतिपया इति | प्रकृते क्रमेण प्राप्तेऽपि उत्तमजन्मनि कतिपया एव नराः सुराश्च भवभावनां सांसारिकभोगरुचिं न गताः | तथाच वैराग्यमेवातिदुर्लभमित्यर्थः | किंबहुना | अप्यर्थे ननुशब्दः | तेष्वहमिव जन्मप्रभृत्येव शमदमादिसर्वगुणसंपत्त्या प्रकर्षेणात्मविचारणयोग्यतामनुगतोऽपि निरन्तरसमाधिसुखविघ्नभूतराजकुलपौरोहित्याद्यधिकारप्रारब्धयोगाद्राज् असात्त्विक ईषद्रजोयुक्तसात्त्विक एव न शुद्धसात्त्विक इत्यतिदौर्लभ्यद्योतनाय निरभिमानादतिशयोक्तिः || २४ || स्थितस्य ते महापदाविचार्ययैवमायता | विचारय त्वमञ्जसा तदद्य चेह न द्वयम् || २५ || ममेव तवापि वैराग्यशमदमादिसंपत्तिपूर्णत्वमस्त्येव किंतु महतः परमात्मपदस्य अविचार्यया अविचारणया स्थितस्यैवमुक्तप्रकारा संसारभ्रान्तिरायता विस्तीर्णा | तत्पदं इह मत्पुरतः अद्यैव अञ्जसा शीघ्रं विचारय | विचारयमात्रेण त्वमेव च इह प्रत्यक्षं न द्वयमद्वयं तत्परमपदमसीत्यर्थः | अविचार्य या महती आपदा आपत् ते आयता आयाता इति वा योज्यम् || २५ || इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थिति० विचारपुरुषनिर्णयप्रसङ्गोपदेशजीवावतारो नाम षष्टितमः सर्गः || ६० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे विचारपुरुषनिर्णयप्रसङ्गोपदेशजीवावतारो नाम षष्टितमः सर्गः || ६० || एकषष्टितमः सर्गः ६१ श्रीवसिष्ठ उवाच | ये हि राजससात्त्विक्या जाता भुवि महागुणाः | ते नित्यमेव मुदिताः प्रकाशाः स्व इवेन्दवः || १ || मुक्तियोग्याः प्रशस्यन्ते जना राजससात्त्विकाः | तेषां विवेकवैराग्यक्रमश्चात्रोपदिश्यते || १ || ये प्रविचारणयोग्यतामनुगताः पुरुषा राजससात्त्विक्या प्राक्तनकर्मोपासनया भुवि जाताः || १ || न खेदमभिगच्छन्ति व्योमभागो मलं यथा | नापदा म्लानिमायान्ति निशि हेमाम्बुजं यथा || २ || खेदं मानसं दुःखम् | म्लानिं शारीरं दुःखम् || २ || नेहन्ते प्रकृतादन्यत्ते नान्यत्स्थावरो यथा | रमन्ते स्वसदाचारैः स्वार्थेभ्यः पादपा यथा || ३ || यथा स्थावरो वृक्षादिः प्रारब्धभोगादन्यन्नेहते तद्वते प्रकृतात् ज्ञानतत्साधनसंपदोऽन्यन्नेहन्ते | स्वार्थेभ्यः स्वीयपुष्पफलादिभ्यो हेतुभ्यः || ३ || नित्यमापूर्यतां याति सुधायामिन्दुसुन्दरी | राम राजससत्त्वस्य मोक्षमायात्यसौ यथा || ४ || राजससत्त्वस्योक्तपुरुषस्य धीः शान्त्यादिसुधायामुपचितायामापूर्यतामुपचेयतां याति | अत एव शुक्लपक्षेन्दुरिव सुन्दरी || ४ || आपद्यपि न मुञ्चन्ति शशिवच्छीततामिव | प्रकृत्यैव विराजन्ते मैत्र्यादिगुणकान्तया || ५ || शीततामिव स्थितां सौम्यतां शशिवन्न मुञ्चन्ति || ५ || नवस्तबकभाविन्या लतयेव वनद्रुमाः | समाः समरसाः सौम्याः सततं साधुसाधवः || ६ || नवैः स्तनकल्पैः स्तबकैर्भावः प्रेमा तद्वत्या लतयेव नित्याश्लिष्टया गुणकान्तयेति पूर्वेणान्वयः | साधुभ्योऽपि साधवः || ६ || अब्धिवद्धृतमर्यादा भवन्ति भवता समाः | अतस्तेषां महाबाहो पदमापदवासनम् || ७ || यत एवंगुणसंपन्ना अतस्तेषामापदामवासनमनधिकरणं यत्पदं तत्तु तदेव यथा गन्तव्यं तथेह जगति अखेदिना मनसा विहर्तव्यमिति परेणान्वयः || ७ || सततं तत्तु गन्तव्यं गन्तव्यं नापदर्णवे | तथा तथेह जगति विहर्तव्यमखेदिना || ८ || आत्मोदयाश्च वर्धन्ते यथाऽराजससात्त्विकाः | अचिन्त्यगत्या सच्छास्त्रं विचार्यं च पुनःपुनः || ९ || अराजसा रजःक्षयोपेताः सात्त्विका आत्मोदयाः स्वानन्दलाभा यथा वर्धन्ते तथा अचिन्त्यगत्या मूढचिन्तनार्हविषयगतिपरित्यागेन पुनःपुनः सच्छास्त्रं विचार्यं भवतीत्यर्थः || ९ || अनित्यता स्वमनसा विविधैवाशु भावतः | आदावन्ते च यां नित्यं क्रियां त्रैलोक्यवर्तिनीम् || १० || एवं भावतः अत्यादरेण सर्ववस्तूनां विविधा नानानिमित्तोपपाद्या अनित्यतापि आशु विचार्या भवतीति विपरिणम्यते | एतावन्तं कालमुदारप्रशंसामुखेन रामाय सद्गुणानुपदिश्येदानीं साक्षादेवोपदिशति - आदावित्यादिना | एवमनित्यतां विचारयन् सुधीर्विशुद्धबुद्धिः आदौ ऐहिकोपभोगायोपयुक्तां लौकिकीमन्ते मरणोत्तरकाले उपयुक्तां पारलौकिकीं च त्रैलोक्यवर्तिनीं क्रियां तत्फलभूतान्पशुपुत्रधनस्वर्गविमानाप्सरःप्रभृतिपदार्थांश्च आपदेवेति भावयेत् न इतरत् संपदियमिति भावयेदिति परेणान्वयः || १० || पदार्थानापदेवाशु भावयेन्नेतरत्सुधीः | असम्यग्दर्शनं त्यक्त्वा व्यर्थमज्ञानसंततिम् || ११ || स्मर्तव्यं सम्यगेवेदं ज्ञानमर्थमनन्तकम् | कोऽहं कथमिदं जातं संसाराडम्बरं विभो || १२ || इदं वक्ष्यमाणप्रकारं विचारात्मकं ज्ञानमनन्तकमर्थं प्राप्तुमिति शेषः | विधिवदुपगतेन साधुभिः सतीर्थ्यैः सह प्रयत्नेन सेवादिना प्रसादितेन प्राज्ञेन गुरुणा हे प्रभो कोऽहमित्यादिसविनयप्रश्नपूर्वकं विचार्य स्मर्तव्यमिति संबन्धः || १२ || प्रविचार्य प्रयत्नेन प्राज्ञेन सह साधुभिः | नच कर्मसु मङ्क्तव्यं नानर्थेन सहावसेत् || १३ || श्रवणाङ्गतया कर्मसंन्यासमाह - नचेति | मङ्क्तव्यं मज्जनीयम् | मस्जेर्भावे तव्यः मस्जिनशोर्झलि इति नुम् || १३ || द्रष्टव्यः सर्वविच्छेदः संसारानुगतः सदा | साधुरेवानुगन्तव्यो मयूरेणाम्बुदो यथा || १४ || सर्वस्य प्रियस्य विच्छेदोऽवश्यंभावीति द्रष्टव्यः || १४ || अहंकारस्य देहस्य संसारस्याप्लवस्य च | स्वविचारमलंकृत्य सत्यमेवावलोकयेत् || १५ || आन्तरस्याहंकारस्य ततो बाह्यस्य देहस्य ततोऽपि बाह्यस्य पुत्रमितादिसंसारस्य चाप्लवार्णवत्रयकल्पस्य प्लवभूतं स्वविचारं अलं पूर्णभावावसानं कृत्वा || १५ || शरीरमस्थिरमपि संत्यक्त्वा घनशोभनम् | वीतमुक्तावलीतन्तुं चिन्मात्रमवलोकयेत् || १६ || सत्यमेवावलोकयेदिति यदुक्तं तत्रोपायमाह - शरीरमिति | अपिशब्दादहंकारमपि संत्यक्त्वा | ल्यबकरणं छान्दसम् | घनशोभनं अत्यन्तं शुभम् | वीता व्याप्ता मुक्तावली येन तथाविधम् | छान्दसत्वादुपसर्जनह्रस्वाभावः | भूतेति पाठे स्पष्टम् | तदन्तर्गततन्तुमिव सर्वदेहाहंकारसाधारणमन्तर्गतं साक्षिचिन्मात्रमित्यर्थः || १६ || तस्मिन्पदे नित्यतते सर्वगे सर्वभाविते | शिवे सर्वमिदं प्रोतं सूत्रे मणिगणा यथा || १७ || दृष्टान्तसाम्यं दर्शयति - तस्मिन्नित्यादिना || १७ || यैव चिद्भुवनाभोगे भूषणे व्योम्नि भास्करे | धराविवरकोशस्थे सैव चित्कीटकोदरे || १८ || कुम्भव्योम्नां न भेदोऽस्ति यथेह परमार्थतः | चितौ शरीरसंस्थानां न भेदोऽस्ति तथानघ || १९ || चिद्भेदाशङ्कां निरस्यति - कुम्भेति | शरीरसंस्थानां जीवानाम् | चितौ चिति || १९ || सर्वेषामेव भूतानां तिक्तकट्वादिमेदिनाम् [कट्वादिवेदिनां इति पाठः] | एकत्वादनुभूतेर्हि कुतश्चिन्मात्रभिन्नता || २० || यथा एकपुरुषास्वादमीयतिक्तकट्वादिरसभेदेऽपि नानुभवभेदस्तद्वद्देहादिभेदेष्वपीत्याशयेनाह - सर्वेषामिति || २० || एकसिन्नेव सततं स्थिते सन्मात्रवस्तुनि | जातोऽयमयमुन्नष्ट इति तेषां तवेह धीः || २१ || चेतनेषु चिद्भेद इव सर्ववस्तुषु सत्स्वरूपभेदोऽपि नास्तीत्याशयेनाह - एकस्मिन्निति | तेषां जातादिवस्तूनाम् | तव इह मूढजनेषु प्रसिद्धा धीर्य शास्त्रीयेत्यर्थः || २१ || नच तन्नाम वस्त्वस्ति यद्भूत्वा संप्रलीयते | आभासमात्रमेवेदं न सन्नासच्च राघव || २२ || कीदृशी तर्हि शास्त्रीयधीस्तामाह - नचेति || २२ || उद्भूतेनाप्रशान्तेन चेतसा सपदि स्थितम् | नेह मोहान्त आमोक्षान्नेदं यत्तदवस्तु च || २३ || न सन्नासच्चेत्युक्तिमुपपादयति - उद्भूतेनेति | यत आमोक्षात् उद्भूतेनाभिव्यक्तेन अप्रशान्तेन च चेतसा स्फुटं गृह्यमाणं सपदि स्वकाले स्थितं अतो नासत् | मोहस्यान्ते निवृत्तौ तु आमोक्षात्प्रसिद्धे इह पूर्वकाले इदं नास्ति मोक्षकाले त्विदं सुतरां नास्तीत्यवस्तु चेति न सदपीत्यर्थः || २३ || किं किलासति रामेह मोहजाले समुज्झति | यत्किंचित्सङ्गसङ्गत्या विमोहे कारणं हि तत् || २४ || ज्ञानसाफल्यपर्यालोचनेऽपि मोहादेः सत्त्वमत्यन्तासत्त्वं वा दुर्वचमित्यनिर्वचनीयतैव फलितेत्याह - किं किलेति | मोहजाले अत्यन्तासति ज्ञानेन किं किल समुज्झति निरस्यति | निरस्याभावे निरासकसाफल्यायोगात् | एवमत्यन्तसत्त्वे वा ज्ञानेन किं समुज्झति | सत्यस्य ज्ञाननिरस्यत्वादर्शनात् | तस्माद्यः कश्चिच्चासौ सङ्गश्च यत्किंचित्सङ्गोऽनिर्वचनीयाध्यासस्तल्लक्षणया संगत्या रज्जुसर्पादीव तत् दृश्यजातं विमोहे कारणमिति परिशेषात्सिद्धमित्यर्थः || २४ || (असति [इदमन्तिमं पद्मं क्वचिद्दृश्यते] जगति किं किलेह मोहः सति च किमङ्ग विमोहकारणं तत् | जननमरणसंस्थितिष्वतस्त्वं भव खमिवातिसमः सदोपशान्तः ||) इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे जननमरणसंस्थितिर्नामैकषष्टितमः सर्गः || ६१ || इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे स्थितिप्रकरणे जननमरणसंस्थितिर्नामैकषष्टितमः सर्गः || ६१ || द्विषष्टितमः सर्गः ६२ श्रीवसिष्ठ उवाच | धीरो विचारवान्साक्षादादावेव महाधिया | शास्त्रेण विदुषा शास्त्रं सुजनेन विचारयेत् || १ || रामस्य सर्वशास्त्रोक्तगुणसंपत्तिरुच्यते | अवरस्यापि सत्सङ्गपौरुषाभ्यां वरस्थितिः || १ || अचिन्त्यगत्या सच्छास्त्रं विचार्यं च पुनःपुनरिति प्रागुक्तं तत्कथं विचार्य तदाह - धीर इति | धीरो बाह्याभ्यन्तरद्वन्द्वसहिष्णुः | विचारवान् ऊहापोहकुशलः | साक्षात्स्वयमेव तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत्समित्पाणिः इत्यादिशास्त्रेणोपगतेन विदुषा सुजनेन शिष्यापराधसहिष्णुना गुरुणा सह शास्त्रमादौ विचारयेदित्यर्थः || १ || सुजनेन वितृष्णेन विदुषा महता सह | प्रविचार्य महायोगात्पदमासाद्यते परम् || २ || सुजनेन शोभनाभिजनेन | महायोगान्मनोनाशान्तात्समाधेः || २ || शास्त्रार्थसुजनासङ्गवैराग्याभ्याससत्कृतः | पुरुषस्त्वमिवाभाति निजविज्ञानभाजनम् || ३ || शास्त्राणां वेदान्तोपयोगिशास्त्रान्तराणामर्थानां सत्कर्मसदाचारादीनां सुजनासङ्गवैराग्यादीनां च निरन्तराभ्यासैः सत्कृतः संस्कृतो यः पुरुषस्त्वमिवाभाति स प्रकृतशास्त्रश्रवणे निजस्य प्रत्यक्तत्त्वविषयस्वविज्ञानस्य भाजनमित्यर्थः | अथवा अध्यात्मशास्त्रादिभिः सत्कृतो निजविज्ञानभाजनं भूत्वा त्वमिवाभातीति योजना || ३ || त्वमुदारनिजाचारो धीरो गुणगणाकरः | अधितिष्ठसि निर्दुःखं वीतसर्गमनोमलः || ४ || उक्तगुणास्त्वयि सन्त्येवेत्याह - त्वमिति || ४ || नूनमुत्सर्जिताभ्रेण शरद्व्योम्ना समो भवान् | भव भावनया मुक्तो युक्त उत्तमसंविदा || ५ || इदानीं रामस्य प्रबोधाज्जीवन्मुक्ततां संभावयन्नाह - नूनमित्यादिना || ५ || चिन्तामुक्तकलावत्या मुक्तकल्पनया स्थितम् | मनो मुक्तविभागं च मुक्तमेव न संशयः || ६ || तत्संभावनाबीजं मुक्तमनसो लक्षणमाह - चिन्तेति | सर्वबाह्यार्थचिन्ताभिर्मुक्तया अन्तश्च परमात्मना क्षीरोदकवदेकीभावात् कलावत्या ब्रह्माकारपरिणतिलक्षणकौशलवत्या मुक्तानामनुभवसिद्धया कल्पनया स्थितं मनो मुक्तमेव नात्र संशय इत्यर्थः || ६ || तवोत्तमानुभावस्य त इदानीं नरा भुवि | चेष्टामनुसरिष्यन्ति रागद्वेषविहीनया || ७ || एवं मुक्तमनसस्तव चेष्टान्ते प्रागुक्ता जीवन्मुक्ता इदानीं रागद्वेषविहीनया प्रागुक्तकल्पनया अनुसरिष्यन्ति || ७ || वहिर्लोकोचिताचारा विहरिष्यन्ति ये जनाः | भवार्णवं तरिष्यन्ति धीमन्तः पोतकान्विताः || ८ || पोतका ज्ञानप्लवास्तैरन्विताः || ८ || तव तुल्यमतिर्यः स्यात्सुजनः समदर्शनः | योग्योऽसौ ज्ञानदृष्टीनां मयोक्तानां सुदृष्टिमान् || ९ || यावद्देहं धिया तिष्ठ रागद्वेषविहीनया | बहिर्लोकोचिताचारस्त्वन्तस्त्यक्ताखिलैषणः || १० || किं तर्हि जीवन्मुक्तस्य मम शरीरत्यागो यथेष्टाचरणं वास्तु नेत्याह - यावद्देहमिति | लोकोचितोधर्मशास्त्रसद्दुत्तानुसारी आचारो यस्य || १० || परां शान्तिमुपागच्छ यथान्ये गुणशालिनः | अविचार्यास्त एवेह गोमायुशिशुधर्मकाः || ११ || गोमायुधर्मकाः स्वार्थकौशलेन परवञ्चकाः | शिशुधर्मका यथेष्टाचारिणो मूढाः || ११ || ये स्वभावा महासत्या नृणा सात्त्विकजन्मनाम् | तान्भजन्पुरुषो याति पाश्चात्योदारजन्मताम् || १२ || शुद्धसात्त्विकजन्मनां जीवन्मुक्तानां ये स्वभावाः स्वाभाविकाः शमदमादिगुणास्तान्भजन् अर्जयन्साधारणोऽपि पुरुषः क्रमात् ज्ञानं प्राप्य पाश्चात्योदारजन्मतां चरमजीवन्मुक्तशरीरं प्राप्नोतीत्यर्थः || १२ || यानेव सेवते तन्तुरिह जातिगुणान्सदा | अथान्यजातिजातोऽपि [१] जातिं भजति तां क्षणात् || १३ || तत्कुतस्तत्राह - यानेवेति | उत्कृष्टजातिगुणसेवने उत्कृष्टजातौ जन्म लभते निकृष्टजातिगुणसेवने निकृष्टमिति नियमादित्यर्थः || १३ || प्राक्तनानखिलान्भावान्यान्ति कर्मवशं गताः | पौरुषेणावजीयन्ते धराधरमहाकुलाः || १४ || प्राक्तनानिति | यं यं वापि स्मरन्भावम् इति न्यायादित्यर्थः | अवश्यं निकृष्टतमेनापि मोक्षायैव यत्नः कार्यः पौरुषादनुपरतस्य फलसिद्धेरवश्यंभावादित्याशयेनाह - पौरुषेणेति | धराधरा राजानः पर्वताश्च तेषां महाकुलाः सेनावनानि च नीतिशास्त्रानुसारिपौरुषेण च्छेदनादिना चावजीयन्ते लोके || १४ || धैर्येणाभ्युद्धरेद्बुद्धिं पङ्कान्मुग्धगवीमिव | तामसीं राजसीं चैव जातिमन्यामपि श्रितः || १५ || अभ्युद्धरेद्विषयेभ्यो निवर्तयेत् | तामसीं रक्षःपिशाचशूद्रादिरूपां जातिं योनिं राजसीं क्षत्रियवैश्यादिरूपामन्यां सत्त्वतमोमिश्रसर्पादिजातिमपि श्रितः प्राप्तः पुरुषः || १५ || स्वविवेकवशाद्यान्ति सन्तः सात्त्विकजातिताम् | अतश्चित्तमणौ स्वच्छे यद्राघव नियोज्यते || १६ || उक्तमेव प्रपञ्चयति - स्वविवेकेत्यादिना | चित्तमणौ चित्तस्फटिके | नियोज्यते आसज्ज्यते || १६ || तन्मयो विभवत्येवं तस्माद्भवति पौरुषम् | पौरुषेण प्रयत्नेन महार्हगुणशालिनः || १७ || मुमुक्षवो भवन्तीह पाश्चात्यशुभजातयः | न तदस्ति पृथिव्यां वा दिवि देवेषु वा क्वचित् || १८ || पौरुषेण प्रयत्नेन यन्नाप्नोति गुणान्वितः | ब्रह्मचर्येण धैर्येण वीर्यवैराग्यरंहसा | युक्त्या युक्तेन हि विना न प्राप्नोषि तदीहितम् || १९ || हितं महासत्त्वतयात्मतत्त्वं विधाय बुद्ध्या भव वीतशोकः | तव क्रमेणैव ततो जनोऽयं मुक्तो भविष्यत्यथ वीतशोकः || २० || उक्तं संक्षिप्योपसंहरति - हितमिति | सर्वप्राणिनामात्यन्तिकदुःखोपशमोपलक्षितनिरतिशयानन्दरूप##- विशुद्धसत्त्वगुणोपचयोपाये प्रणिधानवत्या बुद्ध्या विधाय आत्मभावेन स्थिरीकृत्य वीतशोको भवेत्युपदेश आशीश्च | तवोपदिष्टेन क्रमेणान्योऽप्ययमधिकारिजनो मुक्तो भविष्यतीत्यर्थः || २० || पाश्चात्यजन्मनि विवेकमहामहिम्ना युक्ते त्वयि प्रसृतसर्वगुणाभिरामे | सत्त्वस्थकर्मणि पदं कुरु रामभद्र मैषा करोतु भवसङ्गविमोहचिन्ता || २१ || हे रामभद्र त्वं विवेकमहामहिम्ना युक्ते प्रसृतैः पल्लवितैः सर्वैः शान्तिदान्त्यादिगुणैरभिरामेऽस्मिन्पाश्चात्यजन्मनि प्राप्ते सति सत्त्वस्थानां जीवन्मुक्तानां कर्मणि सप्तमभूमिकालक्षणे पदं स्थानं कुरु | एषा वैराग्यप्रकरणोपवर्णिता सर्वजनप्रसिद्धा च भवसङ्गविमोहचिन्ता त्वयि पदं स्थानं मा करोत्वित्यर्थः || २१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते द्वात्रिंशत्साहस्त्र्यां संहितायां मोक्षोपायेषु स्थितिप्रकरणे द्विषष्टितमः सर्गः || ६२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे द्विषष्टितमः सर्गः || ६२ || इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्सर्वज्ञसरस्वती##- श्रीमद्गङ्गाधरेन्द्रसरस्वतीपूज्यपादशिष्येण श्रीमदानन्दबोधेन्द्रसरस्वत्याख्यभिक्षुणा विरचिते श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणं समाप्तम् || समाप्तमिदं स्थितिप्रकरणम् ########### END OF FILE #######